TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ३४

पूर्वार्धम् - अध्यायः ३४

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ३४
॥ऋषय ऊचुः॥
एवं प्रजासन्निवेशं श्रुत्वा च ऋषिपुङ्गवः।
पप्रच्छ निपुणः सूतं पृथिव्यायाम विस्तरौ ॥१॥

कति द्वीपाः समुद्रा वा पर्वताश्च कति प्रभोः।
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥२॥

महाभूतप्रमाणञ्च लोका लोकौ तथैव च।
पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा।
एतत् प्रब्रूहि नः सर्वं विस्तरेण यथा तथा ॥३॥

॥सूत उवाच॥
अत ऊर्द्ध्वं प्रवक्ष्यामि पृथिव्यायामविस्तरम्।
सङ्ख्याश्चैव समुद्राणां द्वीपानाञ्चैव विस्तरम् ॥४॥

यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः।
महाभूतप्रमाणञ्च लोकालोकौ तथैव च।
पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा ॥५॥

द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि वै।
न शक्यन्ते प्रमाणेन वक्तुं वर्षशतैरपि ॥६॥

सप्तद्वीपन्तु वक्ष्यामि चन्द्रादित्यग्रहैः सह।
येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥७॥

अचिन्त्याः खलु ये भावा न तांस्तर्केण भावयेत्।
प्रकृतिभ्यः परं यच्च तन्नित्यञ्च प्रजक्ष्यते ॥८॥

नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथा ।
विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ॥९॥

शतमेकं सहस्राणां योजनानां प्रमाणतः।
नानाजनपदाकीर्णैः पुरैश्च विविधैः शुभैः ॥१०॥

सिद्धचारणगन्धर्वपर्वतैरुपशोभितम्।
सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः ।
पर्वतप्रभवाभिश्च नदीभिः पर्वतैस्तथा ॥११॥

जम्बूद्वीपः पृथुः श्रीमान् सर्व्वतः परिवारितः।
नवभिश्चावृतः सर्व्वैर्भुवनैर्भूतभावनैः।
लावणेन समुद्रेण सर्व्वतः परिवारितः ॥१२॥

जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः।
जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः।
प्रागायताः सुपर्वाणः षडिमे वर्षपर्व्वताः।
अवगाढा उभयतः समुद्रौ पूर्वपश्विमौ ॥१३॥

हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान्।
तरुणादित्यवर्णाभो हैरण्यो निषधः स्मृतः ॥१४॥

चातुर्वर्णस्तु सौवर्णो मेरुश्चोच्यतमः स्मृतः।
प्लुताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ॥१५॥

नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः।
नाभिवन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः ॥१६॥

पूर्व्वतः श्वेतवर्णोऽसौ ब्रह्मण्यस्तस्य तेन तत्।
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥१७॥

भृङ्गपत्रनिभश्वासौ पक्ष्विमेन महाबलः।
तेनास्य शूद्रता दृष्टा मेरोर्नानार्थकारणात् ॥१८॥

पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः।
तेनास्य क्षत्रता चस्यादिति वर्णाः प्रकीर्तिताः।
व्यक्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥१९॥

नीलश्च वैढूर्य्यमयः श्वेतश्रृङ्गो हिरण्मयः।
मयूरबर्हवर्णस्तु शातकौम्भस्तु श्रृङ्गवान् ॥२०॥

एते पर्व्वतराजानः सिद्धचारणसेविताः।
तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥२१॥

मध्ये त्विलावृतं यस्तु महामेरोः समन्ततः।
नवैव तु सहस्राणि विस्तीर्णः पर्व्वतस्तु सः।
मध्ये तस्य महामेरोर्निर्धूम इव पावकः ॥२२॥

वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्।
वर्षाणि यानि सप्तात्र तेषां ये वर्षपर्व्वताः।
द्वे द्वे सहस्रे विस्तीर्णा योजनानि समुच्छ्रयात् ॥२३॥

जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते।
योजनानां सहस्राणि शते द्वे मध्यमौ गिरी ॥२४॥

नीलश्च निषधश्चैव ताभ्यां हीनास्तु येऽपरे।
श्वेतश्च हेमकूटश्च हिमवान् श्रृङ्गवांश्च यः ॥२५॥

नवतिर्द्वीवशीतिर्द्वौ सहस्राण्यायतास्तु ये ।
तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥२६॥

सम्पातविषमैस्तैस्तु पर्व्वतैरावृतानि च।
सन्ततानि नदीभेदैरगम्यानि परस्परम्।
वसन्ति तेषु सत्वानि नाना जातीनि भागशः ॥२७॥

इदं हैमवतं वर्षं भारतं नाम विश्रुतम्।
हेमकूटं परं तस्मान्नाम्ना किम्पुरुषं स्मृतम् ॥२८॥

नैषधं हेमकूटन्तु हरिवर्षं तदुच्यते।
हरिवर्षात्परञ्चैव मेरोश्च तदिलावृतम् ॥२९॥

इलावृतपरं नीलं रम्यकं नाम विश्रुतम्।
रम्यात्परतरं श्वेतं विश्रुतन्तद्धिरण्मयम्।
हिरण्मयात्परञ्चापि श्रृङ्गवांस्तु कुरुस्मृतम् ॥३०॥

धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे।
दीर्घाणि तत्र चत्वारि मध्यमन्तदिलावृतम् ॥३१॥

अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम्।
परं नीलवतो यच्च वेद्यर्द्धन्तु तदुत्तरम्।
वेद्यर्द्धं दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥३२॥

तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम्।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥३३॥

उदगायतो महाशैलो माल्यवान् नाम पर्व्वतः।
योजनानां सहस्रोरुरानीलनिषधायतः।
आयामतश्वतुस्त्रिशत्सहस्राणि प्रकीर्तितः ॥३४॥

तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः।
आयामादथ विस्तारान् माल्यवानिति विश्रुतः ॥३५॥

परिमण्डलयोर्मध्ये मेरुरुत्तमपर्वतः ।
चतुर्वर्णः सुसौवर्णश्चतुरस्रः समुच्छ्रितः।
अव्यक्ता धातवः सर्व्वे समुत्पन्ना जलादयः ॥३६॥

अव्यक्तात् पृथिवी पझं मेरुपर्वतकर्णिकम्।
चतुष्पथं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ॥३७॥

ततः सर्व्वाः समुत्पन्ना वृत्तयो द्विजसत्तमाः।
नैककल्पार्जितैः पुण्यौर्वे विधैः प्रागुपार्जितैः ॥३८॥

कृतात्मभिर्विनीतात्मा महात्मा पुरुषोत्तमः।
महादेवो महायोगी जगज्ज्येष्ठो महेश्वरः ।
सर्वलोकगतोऽनन्तो ह्यमूर्तित्वादजायत ॥३९॥

न तस्य प्राकृती मूर्त्तिर्मांसमेदोऽस्थिसम्भवा ।
योगाच्चैवेश्वरत्वाच्च सर्व्वात्मागत एव सः ॥४०॥

तन्निमित्तं समुत्पन्नं लोकपझं सनातनम्।
कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी ॥४१॥

तस्मिन् पझे समुत्पन्नो देवदेवश्चतुर्मुखः।
प्रजापतिपतिर्ब्रह्मा ईशानो जगतः प्रभुः ॥४२॥

तस्य बीजानि सर्गो हि पुष्करस्य यथार्थवत्।
कृत्स्नः प्रजानिसर्गेण विस्तरेणेह कथ्यते ॥४३॥

यदब्जं वैष्णवं कार्य्यं ततस्तन्नाभितोऽभवत्।
पझाकारा समुत्पन्ना पृथिवी सवनद्रुमा ॥४४॥

तदस्य लोकपझस्य विस्तरेण प्रकाशितम्।
वर्णमानं विभागेन क्रमशः श्रृणुत द्विजाः ॥४५॥

महाद्वीपास्तु विख्याताश्चत्वारः पत्रसंस्थिताः।
ततः कर्णिकसंस्थानो मेरुर्नाम महाबलः ॥४६॥

नानावर्णेषु पार्श्वेषु पूर्वतः श्वेत उच्यते।
पीतन्तु दक्षिणं तस्य शृङ्गं कृष्णं तथापरम् ॥४७॥

उत्तरं तस्य रक्तं वै शोभिवर्णसमन्वितम्।
मेरुस्तु शोभते शुभ्रो राजवत्स तु धिष्ठितः ॥४८॥

तरुणादित्यवर्णाभो विधूम इव पावकः।
चतुरशीतिसाहस्र उत्सेधेन प्रकीर्त्तितः ॥४९॥

प्रविष्टः षोडशाधस्ताद्विस्तृतस्तावदेव तु ।
स शरावस्थितः पूर्वं द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥५०॥

विस्तारात् त्रिगुणश्चास्य परिणाहः समन्ततः।
मण्डलेन प्रमाणेन त्र्यस्रेऽर्द्धन्तु तदिष्यते ॥५१॥

चत्वारिंशत्सहस्राणि योजनानां समन्ततः।
अष्टाभिरधिकानि स्युस्त्र्यस्रे माने प्रकीर्त्तितम् ॥५२॥

चतुरस्रेण मानेन परिणाहः समन्ततः।
चतुःषष्टिसहस्राणि योजनानां विधीयते ॥५३॥

स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः।
भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ॥५४॥

तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ।
शैलराजैः प्रदृश्यन्ते शुभाश्चाप्सरसाङ्गणाः ॥५५॥

स तुमेरुः परिवृतो भुवनैर्भूतभावनः।
चत्वारो यस्य देशा वै नानापार्श्वेष्वधिष्ठिताः ॥५६॥

भद्राश्वो भरतश्चैव केतुमालश्च पश्चिमः।
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥५७॥

कर्णिका तस्य पझस्य समन्तात्परिमण्डला।
योजनानां सहस्राणि नवतिः षट् प्रकीर्त्तिताः।
चत्वारश्चाप्यशीतिश्च अन्तरान्तर धिष्ठिताः ॥५८॥

त्रिशतञ्च सहस्राणि योजनानां प्रमाणतः।
तस्य केशरजालानि विस्तीर्णानि समन्ततः ॥५९॥

शतसाहस्रिकायामा साशीतिपृथुलायता।
चत्वारि तस्य पत्राणि योजनानां चतुर्द्दिशम् ॥६०॥

तत्र यासौ मया पूर्वं कर्णिकेत्यभिशब्दिता।
तां वर्ण्यमानामेकाग्राः समासेन निबोधत ॥६१॥

शताश्रिमेनं मेनेऽत्रिः सहस्राश्रिमृषिर्भृगुः।
अष्टाश्रिमेनं सावर्णिश्चतुरस्रन्तु भागुरिः ॥६२॥

वार्षायणिस्तु सामुद्रं शरावञ्चैव गालवः।
ऊर्द्ध्ववेणीकृतं गार्ग्यः क्रोष्टकिः परिमण्डलम् ॥६३॥

यद्यद्यस्य हि यत्पार्श्च पर्वताधिपतेर्ऋषिः।
तत्तदेवास्य वेदासौ ब्रह्मैनं वेद कृत्स्नशः ॥६४॥

मणिरत्नमयं चित्रं नानावर्णप्रभायुतम्।
अनेकवर्णनिचयं सौवर्णमरुणप्रभम् ॥६५॥

कान्तं सहस्रपर्वाणं सहस्रोदककन्दरम्।
सहस्र शतपत्रन्तं विद्धि मेरुं नगोत्तमम् ॥६६॥

मणिरत्नार्पितस्तम्भैर्मणिचित्रितवेदिकैः।
सुवर्णमणिचित्राङ्गं तथा विद्रुमतोरणैः ॥६७॥

विमानयानैः श्रीमद्भिः शतसङ्ख्यैर्दिवौकसाम्।
प्रभादीपितपर्यन्तं मेरुं पर्वणि पर्वणि ॥६८॥

तस्य पर्वसहस्रेऽस्मिन् नानाश्रयविभूषिते।
सर्वदेव निकायानि सन्निविष्टान्यनेकशः ॥६९॥

तमावसच्चोर्द्ध्वतले देवदेवश्चतुर्मुखः।
ब्रह्मा ब्रह्मविदां श्रेष्ठो वरिष्ठस्त्रिदिवौकसाम् ॥७०॥

महाभुवनसम्पूर्णैः सर्व्वैः कामफलप्रदैः ।
महासुरसहस्रैस्तं दिक्ष्वनेकसमाकुलम् ॥७१॥
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिगणसेविता ।
नाम्ना मनोवती नाम सर्वलोकेषु विश्रुता ॥७२॥

तत्रेशानस्य देवस्य सहस्रादित्यवर्चसम्।
महाविमानं संस्थाप्य महिम्ना वर्तते सदा ॥७३॥

तत्र सर्षिगणा देवाश्चतुर्वक्त्रस्य ते तदा।
तदेव तेजसां राशिर्देवानां तत्र कीर्त्त्यते ॥७४॥

तत्रास्ते श्रीपतिः श्रीमान् सहस्राक्षः पुरन्दरः।
उपास्यमानस्त्रिदशैर्महायोगैः सुरर्षिभिः ॥७५॥

तत्र लोकपतेः स्थानमादित्यसमवर्चसः।
महेन्द्रस्य महाराज्ञः सर्व्वसिद्धैर्नमस्कृतम् ॥७६॥

तमिन्द्रलोकं लोकस्य ऋद्ध्या परमया युतम्।
दीप्यते त्वमरश्रेष्ठैस्त्रिदशैर्नित्यसेवितम् ॥७७॥

द्वितीयेऽप्यन्तरतटे वैदिश्ये पूर्व्वदक्षिणे।
नानाधातुशतश्चित्रैः सुरम्यमतितेजसम् ॥७८॥

नैकरत्नार्थिततलमनेकस्तम्भसंयुतम्।
जाम्बूनदकृतोद्यानं नानारत्नसुवेदिकम् ॥७९॥

कूटागारैर्विनिक्षिप्तमनेकैर्भवनोत्तमैः ।
महाविमानं प्रथितं भास्करं जातवेदसम् ॥८०॥

सा हि तेजोवती नाम हुताशस्य महासभा।
साक्षात्तत्र सुरश्रेष्ठः सर्वदेवमुखोऽनलः ॥८१॥

शिखाशतसहस्राढ्यो ज्वालामाली विभा वसुः।
स्तूयते हूयते चैव तत्र सर्षिगणैः सुरैः ॥८२॥

अधिदैवकृतं विप्रैर्विशेषः स तु उच्यते।
स विभागञ्च तेजश्च सर्व एव न संशयः ॥८३॥

भोगान्तरमनुप्राप्त एकतेजो विभुः स्मृतः।
पृथक्‌त्वञ्च हि युक्त्या तु कार्यकारणमिश्रितम् ॥८४॥

तमग्निं लोकलोकज्ञैस्तद्वीर्यैंस्तत्परा क्रमैः ।
महात्मभिर्महासिद्धैर्महाभागैर्नमस्कृतम् ॥८५॥

तृतीयेऽप्यन्तरतटे एवमेव महासभा।
वैवस्वतस्य विज्ञेया लोके ख्याता सुसंयमा ॥८६॥

तथा चतुर्थदिग्देशे नैर्ऋत्याधिपतेः सभा।
नाम्ना कृष्णाङ्गना नाम विरूपाक्षस्य धीमतः ॥८७॥

पञ्चमेऽप्यन्तरतटे एवमेव महासभा।
वैवस्वतस्य विज्ञेया नाम्ना शुभवती सती।
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥८८॥

परोत्तरे तथा देशे षष्ठेऽन्तरतटे शिवे।
वायोर्गन्धवती नाम सभा सर्वगुणोत्तरा ॥८९॥
सप्त मेऽप्यन्तरतटे नक्षत्राधिपतेः सभा।
नाम्ना महोदया नाम शुद्धवैढूर्य्यवेदिका ॥९०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:00.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कर्माकार

  • पु. कर्म ; नाना प्रकारचा क्रिया , व्यापार , हालचाली . ' पैं प्राचीनसंस्कारशेषें । पांचही कराणें सहेतुकें । कामवीजती गा अनेकें । कर्मांकारें । ' - ज्ञा १८ . ४३१ . ' आणि पंचकारणदळावाडें । जिहीं कर्माकारु माडे । ' - ज्ञा १८ . ३०५ . ( सं . कर्म + आकार ) 
RANDOM WORD

Did you know?

I need something, but I cant find it or is it not there?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.