TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः १२

पूर्वार्धम् - अध्यायः १२

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः १२
॥ सूत उवाच॥
अत ऊर्द्ध्वं प्रवक्ष्यामि उपसर्गा यथा तथा ।
प्रादुर्भवन्ति ये दोषा दृष्टतत्त्वस्य देहिनः ॥१॥

मानुष्यान् विविधान् कामान् कामयेत ऋतुं स्त्रियः।
विद्यादानफलञ्चैव उपसृष्टस्तु योगवित् ॥२॥

अग्निहोत्रं हविर्यज्ञमेतत् प्रायतनं तथा।
मायाकर्म धनं स्वर्गमुपसृष्टस्तु कांक्षति ॥३॥

एष कर्मसु युक्तस्तु सोऽविद्यावशमागतः।
उपसृष्टन्तु जानीयाद्वुद्ध्या चैव विसर्ज्जयेत्।
नित्यं ब्रह्मपरो युक्त उपसर्गात् प्रमुच्यते ॥४॥

जितप्रत्युपसर्गस्य जितश्वासस्य देहिनः।
उपसर्गाः प्रवर्त्तन्ते सात्त्वराजसतामसाः ॥५॥

प्रतिभाश्रवणे चैव न देवानाञ्चैव दर्शनम्।
भ्रमावर्तश्च इत्येते सिद्धिलक्षणसंज्ञिताः ॥६॥

विद्या काव्यं तथा शिल्पं सर्वं वाचावृतानि तु।
विद्यार्थाश्चोपतिष्ठन्ति प्रभावस्यैव लक्षणम् ॥७॥

श्रृणोति शब्दान् श्रोतव्यान् योजनानां शतादपि।
सर्वज्ञश्च विधिज्ञश्च योगी चोन्मत्तवद्भवेत् ॥८॥

यक्षराक्षसगन्धर्व्वान् वीक्षते दिव्यमानुषान्।
वेत्ति तांश्च महायोगी उपसर्गस्य लक्षणम् ॥९॥

देवदानवगन्धर्वान् ऋषींश्चापि तथा पितॄन्।
प्रेक्षते सर्वतश्चैव उन्मत्तं तं विनिर्द्दिशेत् ॥१०॥

भ्रमेण भ्राम्यते योगी चोद्यमानोऽन्तरात्मना।
भ्रमेण भ्रान्तबुद्धेस्तु ज्ञानं सर्वं प्रणश्यति ॥११॥

वार्त्ता नाशयते चित्तं चोद्यमानोऽन्तरात्मना।
वर्त्तनाक्रान्तबुद्धेस्तु सर्वं ज्ञानं प्रणश्यति ॥१२॥

आवृत्य मनसा शुक्लं पटं वा कम्बलं तथा।
ततस्तु परमं ब्रह्म क्षिप्रमेवानुचिन्तयेत् ॥१३॥

तस्माच्चैवात्मनो दोषांस्तूपसर्गानुपस्थितान् ।
परित त्यजेत मेधावी यदीच्छेत् सिद्धिमात्मनः ॥१४॥

ऋषयो देवगन्धर्वा यक्षोरगमहासुराः।
उपसर्गेषु संयुक्ता आवर्त्तन्ते पुनः पुनः ॥१५॥

तस्माद्युक्तः सदा योगी लघ्वाहारी जितेन्द्रियः।
तथा सुप्तः सुसूक्ष्मेषु धारणां मूर्ध्नि धारयेत् ॥१६॥

ततस्तु योगयुक्तस्य जितनिद्रस्य योगिनः।
उपसर्गाः पुनश्चान्ते जायन्ते प्राणसंज्ञकाः ॥१७॥

पृथिवीं धारयेत्सर्वां ततश्चापो ह्यनन्तरम्।
ततोऽग्निञ्चैव सर्वेषामाकाशं मन एव च ॥१८॥

ततः परां पुनर्बुद्धिं धारयेद्यत्नतो यती।
किद्धीनाञ्चैव लिङ्गानि दृष्ट्वा दृष्ट्वा परित्यजेत् ॥१९॥

पृथ्वीं धारयमाणस्य मही सूक्ष्मा प्रवर्तते।
अपो धारयमाणस्य आपः सूक्ष्मा भवन्ति हि।
शीता रसाः प्रवर्त्तन्ते सूक्ष्मा ह्यमृतसन्निभाः ॥२०॥

तेजो धारयमाणस्य तेजः सूक्ष्मा प्रवर्त्तते।
आत्मानं मन्यते तेजस्तद्भावमनुपश्यति ॥२१॥

आत्मानं मन्यते वायुं वायुवन्मण्डलं प्रभो ।
आकाशं धारयाणस्य व्योम सूक्ष्मं प्रवर्त्तते ॥२२॥

पश्यते मण्डलं सूक्ष्मं घोषश्चास्य प्रवर्त्तते ।
आत्मानं मन्यते नित्यं वायुः सूक्ष्मः प्रवर्त्तते ॥२३॥

तथा मनो धारयतो मनः सूक्ष्मं प्रवर्त्तते ।
मनसा सर्वभूतानां मनस्तु विशते हि सः।
बुद्ध्या बुद्धिं यदा युञ्जेत्तदा विज्ञाय बुद्धयते ॥२४॥

एतानि सप्त सूक्ष्माणि विदित्वा यस्तु योगवित्।
परित्यजति मेधावी स बुद्ध्या परमं व्रजेत् ॥२५॥

यस्मिन् यस्मिंश्च संयुक्तो भूत ऐश्वर्यलक्षणे।
तत्रैव सङ्गं भजते तेनैव प्रविनश्यति ॥२६॥

तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम्।
परित्यजति योबुद्ध्या स परं प्रप्नुयाद्द्विजः ॥२७॥

दृश्यन्ते हि महात्मान ऋषयो दिव्यचक्षुषः।
संसक्ताः सूक्ष्मभावेषु ते दोषास्तेषु संज्ञिताः॥१२.२८
तस्मान्न निश्चयः कार्यः सूक्ष्मेष्विह कदाचन।
ऐश्वर्याज्जायते रागो विरागं ब्रह्म चोच्यते ॥२९॥

विदित्वा सप्त सूक्ष्माणि षडङ्गञ्च महेश्वरम्।
प्रधानं विनियोगज्ञः परं ब्रह्माधिगच्छति ॥३०॥

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥३१॥

नित्यं ब्रह्मधनो युक्त उपसर्गैः प्रमुच्यते।
जितश्वासोपसर्गस्य जितरामस्य योगिनः।
एका बहिःशरीरेऽस्मिन् धारणा सर्वकामिकी ॥३२॥

विशेद्यदा द्विजो युक्तो यत्र यत्रार्प्पयेन्मनः ।
भूतान्याविशते वापि त्रैलोक्यञ्चापि कम्पयेत् ॥३३॥

एतया प्रविशेद्देहं हित्वा देहं पुनस्त्विह।
मनोद्वारं हि योगानामादित्यञ्च विनिर्द्दिशेत् ॥३४॥

आदानादिक्रियाणान्तु आदित्य इति चोच्यते।
एतेन विधिना योगी विरक्तः सूक्ष्मवर्ज्जितः।
प्रकृतिं समतिक्रम्य रुद्रलोके महीयते ॥३५॥

ऐश्वर्यगुणसम्प्राप्तं ब्रह्मभूतन्तु तं प्रभुम्।
देवस्थानेषु सर्वेषु सर्वतस्तु निवर्त्तते ॥३६॥

पैशाचांशचव पिशाचांश्च राक्षसेन च राक्षसान् ।
गान्धर्वेण च गन्धर्वान् कौबेरेण कुबेरजान् ॥३७॥

इन्द्रमैन्द्रेण स्थानेन सौम्यं सौम्येन चैव हि।
प्रजापतिं तथा चैव प्राजापत्येन साधयेत् ॥३८॥

ब्राह्मं ब्राह्येन चाप्येवमुपामन्त्रयते प्रभुम्।
तत्र सक्तस्तु उन्मत्तस्तस्मात्सर्वं प्रवर्त्तते ॥३९॥

नित्यं ब्रह्मपरो युक्तः स्थानान्येतानि वै त्यजेत् ।
असज्यमानः स्थानेषु द्विजः सर्वगतो भवेत् ॥४०॥

इति श्रीमहापुराणे वायुप्रोक्ते योगोपसर्गनिरूपणं नाम द्वादशोऽध्यायः ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:58.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

psychosine

  • न. सायकोसिन 
  • (glycoside) 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.