TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः २०

पूर्वार्धम् - अध्यायः २०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः २०
॥ वायुरुवाच॥
अत ऊर्द्ध्वं प्रवक्ष्यामि ओङ्कारप्राप्तिलक्षणम् ।
एष त्रिमात्रो विज्ञेयो व्यञ्जनञ्चात्र सस्वरम् ॥१॥

प्रथमा वैद्युती मात्रा द्वितीया तामसी स्मृता ।
तृतीया निर्गुणी विद्यान्मात्रामक्षरगामिनीम् ॥२॥

गन्धर्वीति च विज्ञेयो गान्धारस्वरसम्भवा ।
पिपीलिकासमस्पर्शा प्रयुक्ता मूर्द्नि लक्ष्यते ॥३॥

तथा प्रयुक्तमोङ्कारं प्रतिनिर्वाति मूर्द्धनि  ।
तथोङ्कारमयो योगी ह्यक्षरे त्वक्षरी भवेत् ॥४॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन चेद्वध्यं शरवत्तन्मयो भवेत् ॥५॥

ओमित्येकाक्षरं ब्रह्म गुहायां निहितं पदम् ।
ओमित्येतत्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः ।
विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च ॥६॥

मात्राश्चात्र चतस्रस्तु विज्ञेयाः परमार्थतः ।
तत्र युक्तश्च यो योगी तस्य सालोक्यतां व्रजेत् ॥७॥

अकारस्त्वक्षरो ज्ञेय उकारः स्वरितः स्मृतः ।
मकारस्तु प्लुतो ज्ञेयस्त्रिमात्र इति संज्ञितः ॥८॥

अकारस्त्वथ भूर्लोक उकारो भुवरुच्यते ।
सव्यञ्जनो मकारश्च स्वर्ल्लोकश्च विधीयते ॥९॥

ओङ्कारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम् ।
भुवनान्तञ्च तत्सर्वं ब्राह्मं तत्पदमुच्यते ॥१०॥

मात्रापदं रुद्रलोको ह्यमात्रस्तु शिवं पदम् ।
एवन्ध्यानविशेषेण तत्पदं समुपासते ॥११॥

तस्माद्धयानरतिर्नित्यममात्रं हि तदक्षरम् ।
उपास्यं हि प्रयत्नेन शाश्वतं पदमिच्छता ॥१२॥

हृस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम् ।
ततः प्लुतवती चैव तृतीया उपदिश्यते ॥१३॥

एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः  ।
यावच्चैव तु शक्यन्ते धार्यन्ते तावदेव हि ॥१४॥

इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा  ।
अत्राष्टमात्रमपिचेच्छृणुयात्फलमाप्नुयात् ॥१५॥

मासे मासेऽश्वमेधेन यो यजेत शतं समाः  ।
न स तत् प्राप्नुयात् पुण्यं मात्रया यदवाप्नुयात् ॥१६॥

अब्बिन्दुं यः कुशाग्रेण मासे मासे पिबेन्नरः ।
संवत्सरशतं पूर्णं मात्रया तदवाप्नुयात् ॥१७॥

इष्टापूर्त्तस्य यज्ञस्य सत्यवाक्ये च यत् फलम् ।
अभक्षणे च मांसस्य मात्रया तदवाप्नुयात् ॥१८॥

स्वाम्यर्थे युध्यमानानां शूराणामनिवर्त्तिनाम् ।
यद्भवेत्तत् फलं दृष्टं मात्रया तदवाप्नुयात् ॥१९॥

न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः ।
यत् फलं प्राप्नुयात् सम्यग् मात्रया तदवाप्नुयात् ॥२०॥

तत्र वै योऽर्द्धमात्रो यः प्लुतो नामोपदिश्यते ।
एषा एव भवेत् कार्या गृहस्थानान्तु योगिनाम् ॥२१॥

एषा चैव विशेषेण ऐश्वर्यसमलक्षणा ।
योगिनान्तु विशेषेण ऐश्वर्ये ह्यष्टलक्षणे ।
अणिमाद्येति विज्ञेया तस्माद्युञ्जीत तां द्विजः ॥२२॥

एवं हि योगी संयुक्तः शुचिर्द्दान्तो जितेन्द्रियः ।
आत्मानं विन्दते यस्तु स सर्वं विन्दते द्विजः ॥२३॥

ऋचो यजूंषि सामानि वेदोपनिषदस्तथा ।
योगज्ञानादवाप्नोति ब्राह्मणो ध्यानचिन्तकः ॥२४॥

सर्वभूतलयो भूत्वा अभूतः स तु जायते ।
योगी सङ्क्रमणं कृत्वा याति वै शाश्वतं पदम् ॥२५॥

अपि चात्र चतुर्हस्तां ध्यायमानश्चतुर्मुखीम् ।
प्रकृतिं विश्वरूपाख्यां दृष्ट्वा दिव्येन चक्षुषा ॥२६॥

अजामेतां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां स्वरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामाजोऽन्यः ।
अष्टाक्षरां षोडशपाणिपादां चतुर्मुखीं त्रिशिखामेकश्रृङ्गाम् ।
आद्यामजां विश्वसृजां स्वरूपां ज्ञात्वा बुधास्त्वमृतत्वं व्रजन्ति ।
ये ब्राह्मणाः प्रणवं वेदयन्ति न ते पुनः संसरन्तीह भूयः ॥२७॥

इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ।
यस्तु वेदयते सम्यक् तथा ध्यायति वा पुनः ॥२८॥

संसारचक्रमुत्सृज्य मुक्तबन्धनबन्धनः ।
अचलं निर्गुणं स्थानं शिवं प्राप्नोत्यसंशयः ।
इत्येतद्वै मया प्रोक्तमोङ्कारप्राप्तिलक्षणम् ॥२९॥

नमो लोकेश्वराय सङ्कल्पकल्पग्रहणाय महान्तमुपतिष्ठते तद्वो हितं यद्ब्रह्मणे नमः ।
सर्वत्र स्थानिने निर्गुणाय सम्भक्तयोगीश्वराय च॥

पुष्करपर्णमिवाद्भिर्विशुद्धमिव ब्रह्ममुपतिष्ठेत्पवित्रं पवित्राणां पवित्रं पवित्रेण परिपूरितेन पवित्रेण ह्रस्वन्दीर्घप्लुतमिति तदेतमोङ्कारमशब्दमस्पर्शमरूपमरसमगन्धं पर्युपासीत अविद्येशानाय विश्वरूपो न तस्य अविद्येशानाय नमो योगीश्वरायेति च येन द्यौरुग्रा पृथिवी च दृढा येन स्वस्तनितं येन नाकस्तयोरन्तरिक्षमिमे वरीयसो देवानां हृदयं विश्वरूपो न तस्य प्राणापानौपम्यं चास्ति ओङ्कारोविश्वविश्वा वै यज्ञः यज्ञो वै वेदः वेदो वै नमस्कारः नमस्कारो रुद्रः नमो रुद्राय योगेश्वराधिपतये नमः ।
इति सिद्धिप्रत्युपस्थानं सायंप्रातर्मध्याह्ने नमः इति ॥

सर्वकामफलोरुद्रः ।
यथा वृन्तात् फलं पक्वं पवनेन समीरितम् ।
नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति ॥३०॥

यथा रुद्रनमस्कारः सर्वधर्मफलो ध्रुवः ।
अन्यदेवनमस्कारो न तत् फलमवाप्नुयात् ॥३१॥

तस्मात् त्रिषवणं योगी उपासीत महेश्वरम् ।
दशाविस्तारकं ब्रह्म तथा च ब्रह्म विस्तरम् ॥३२॥

ओङ्कारं सर्वतः काले सर्वं विहितवान् प्रभुः ।
तेन तेन तु विष्णुत्वं नमस्कारं महायशाः ॥३३॥

नमस्कारस्तथा चैव प्रणवस्तुवते प्रभुम्  ।
प्रणवं स्तुवते यज्ञो यज्ञं संस्तुवते नमः ।
नमस्तुवति वै रुद्रस्तस्माद्रुद्रपदं शिवम् ॥३४॥

इत्येतानि रहस्यानि यतीनां वै यथाक्रमम्  ।
यस्तु वेदयते ध्यानं स परं प्राप्नुयात्पदम् ॥३५॥

इति श्रीमहापुराणे वायुप्रोक्ते ओङ्कारप्राप्तिलक्षणं नाम विंशोऽध्यायः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:59.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

water scum

  • पल्लव तरंग 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.