TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः १०

पूर्वार्धम् - अध्यायः १०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः १०
॥सूत उवाच॥
एवंभूतेषु लोकेषु ब्रह्मणा लोककर्तृणा।
यदा ता न प्रवर्त्तन्ते प्रजाः केनापि हेतुना ॥१॥

तमोमात्रावृतो ब्रह्मा तदाप्रभृति दुःखितः।
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥२॥

अथात्मनि समस्राक्षीत्तमोमात्रां नियामिकाम् ।
राजसत्वं पराजित्य वर्त्तमानं स धर्मतः ॥३॥

तप्यते तेन दुःखेन शोकञ्चक्रे जगत्पतिः।
तमश्च व्यनुदत्तस्माद्रजस्तमसमावृणोत् ॥४॥

तत्तमः प्रतिनुत्तं वै मिथुनं स व्यजायत।
अधर्माच्चरणाज्जज्ञे हिंसा शोकादजायत ॥५॥

ततस्तस्मिन् समुद्भूते मिथुने चरणात्मनि।
ततश्च भगवानासीत् प्रीतश्चैवमशिश्रियत् ॥६॥

स्वां तनुं स ततो ब्रह्मा तामपोहदभास्वराम्।
द्विधाकरोत्स तं देहमर्द्धेन पुरुषोऽभवत् ॥७॥

अर्द्धेन नारी सा तस्य शतरूपा व्यजायत।
प्राकृतां भूतधात्रीं तां कामान्वै सृष्टवान् विभुः ॥८॥

सा दिवं वृथिवीञ्चैव महिम्ना व्याप्य धिष्ठिता।
ब्रह्मणः सा तनुः पूर्वा दिवमावृत्त्य तिष्ठति ॥९॥

या त्वर्द्धात् सृजते नारी शतरूपा व्यजायत।
सा देवी नियुतन्तप्त्वा तपः परमदुश्चरम् ॥१०॥

भर्तारन्दीप्तयशसं पुरुषं प्रत्यपद्यत।
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ॥११॥

तस्यैवसप्ततियुगं मन्वन्तरमिहोच्यते ।
लब्धा तु पुरुषः पत्नीं शतरूपामयोनिजाम् ॥१२॥

तया स रमते सार्द्धं तस्मात्सा रतिरुच्यते।
प्रथमः संप्रयोगः स कल्पादौ समवर्त्तत ॥१३॥

विराजमसृजत् ब्रह्मा सोऽभवत् पुरुषो विराट् ।
सम्राण्मानसरूपात्तु वै राजस्तु मनुः स्मृतः ॥१४॥

स वैराजः प्रजासर्गः स सर्गे पुरुषो मनुः।
वैराजात्पुरुषाद्वीराच्छतरूपा व्यजायत ॥१५॥

प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ।
कन्ये द्वे च महाभागे याभ्यां जाताः प्रजास्त्विमाः ॥१६॥

देवी नाम्ना तथाकूतिः प्रसूतिश्चैव ते शुभे।
स्वायम्भुवः प्रसूतिन्तु दक्षाय व्यसृजत् प्रभुः ॥१७॥

प्राणो दक्षस्तु विज्ञेयः सङ्कल्पो मनुरुच्यते।
रूचेः प्रजापतेश्चैव आकूतिं प्रत्यपादयत् ॥१८॥

आकूत्यां मिथुनं यज्ञे मानसस्य रुचेः शुभम्।
यज्ञश्च दक्षिणा चैव यमकौ सम्बभूवतुः ॥१९॥

यज्ञस्य दक्षिणायाञ्च पुत्रा द्वादश जज्ञिरे।
यामा इति समाखयाता देवाः स्वायम्भुवेऽन्तरे ॥२०॥

यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः।
अजिताश्चैव शूकाश्च गणौ द्वौ ब्रह्मणः स्मृतौ ॥२१॥

यामाः पूर्वं परिक्रान्ता यतः संज्ञा दिवौकसः।
स्वायम्भूवसुतायान्तु प्रसूत्यां लोकमातरः ॥२२॥

तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत् प्रभुः।
सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः ॥२३॥

योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः।
श्रद्धा लक्ष्मी धॄतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा।
बुद्धिर्ल्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदशी ॥२४॥

पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः।
द्वाराण्येतानि चैवास्य विहितानि स्वयम्भुवा ॥२५॥

ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः।
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥२६॥

सन्नतिशचवानसूया च ऊर्ज्जा स्वाहा स्वधा तथा।
तास्ततः प्रत्यपद्यन्त पुनरन्ये महर्षयः ॥२७॥

रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः ।
पुलस्त्योऽत्रिर्वसिष्ठश्च पितरोऽग्रिस्तथैव च ॥२८॥

सतीं भवाय प्रायच्छत् ख्यातिञ्च भृगवे तथा।
मरीचये च सम्भूतिं स्मृतिमाङ्गिरसे ददौ ॥२९॥

प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च।
क्रतवे सन्नतिं नाम अनसूयान्तथात्रये ॥३०॥

ऊर्ज्जं ददौ वसिष्ठाय स्वाहां वै ह्यग्नये ददौ ।
स्वधां चैव पितृभ्यस्तु तास्वपत्यानि वक्ष्यते ॥३१॥

एते सर्वे महाभागाः प्रज्ञाः स्वानुष्ठिताः स्थिताः।
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥३२॥

श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः।
धृत्यास्तु नियमः पुत्रस्तुष्टयाः सन्तोष उच्यते ॥३३॥

पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा।
क्रियायास्तु नयः प्रोक्तो दण्डः समय एव च ॥३४॥

बुद्धेर्वौधसुतश्चापि अप्रमादश्च तावुभौ ।
लज्जाया विनयः पुत्रो व्यवसायो वपुःसुतः ॥३५॥

क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत।
यशः कीर्त्तेः सुतश्चापि इत्येते धर्मसूनवः ॥३६॥

कामस्य हर्षः पुत्रो वै देव्या रत्या व्यजायत।
इत्येष वै सुखोदर्क्कः सर्गो धर्मस्य कीर्त्तितः ॥३७॥

जज्ञे हिंसा त्वधर्माद्धै निकृतिश्चानृतावुभौ ।
निकृत्यानृतयोर्जज्ञे भयं नरक एव च ॥३८॥

माया च वेदना चापि मिथुनद्वयमेतयोः।
भयाज्जज्ञेऽथ सा माया मृत्युं भूतापहारिणम् ॥३९॥

वेदनायास्ततश्चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्ययोर्व्याधिज्वरा शोकाः क्रोधोऽसूया च जज्ञिरे ।
दुःखान्तरा स्मृता ह्येते सर्वे चाधर्मलक्षणाः ॥४०॥

तेषां भार्याऽस्ति पुत्रो वा ते सर्वे निधनाः स्मृताः ।
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ॥४१॥

प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः ।
सोऽभिध्याय सतीं भार्यान्निर्ममे ह्यात्मसम्भवाम् ॥४२॥

नाधिकान्न च हीनांस्तान्मानसानात्मनः समान्।
सहस्रं हि सहस्राणामसृजत् कृमिवाससा।
तुल्या श्चैवात्मनः सर्वे रूपतेजोबलश्रुतैः ॥४३॥

पिङ्गलान्सन्निषङ्गांश्च सकपर्द्दान् विलोहितान् ।
विवासान् हरि केशांश्च दृष्टिघ्नांश्च कपालिनः ॥४४॥

बहुरूपान् विरूपांश्च विश्वरूपांश्चरूपिणः।
रथिनो वर्मिणश्चैव धर्मिणश्च वरूथिनः ॥४५॥

सहस्रशत बाहूंश्च दिव्यान् भौमान्तरिक्षगान्।
स्थूलशीर्षानष्टदंष्ट्रानुद्विजिह्वांस्त्रिलोचनान् ॥४६॥

अन्नादान् पिशितादांश चव आज्यपान् सोमपांस्तथा।
मेदपां स्वातिकायांश्च शितिकण्ठोग्रमन्यवः ॥४७॥

सोपासङ्गतलत्रांश्च धन्विनो ह्युपवर्मिणः।
आसीनान् धावतश्चैव जृम्भिनश्चैव धिष्ठितान् ॥४८॥

अध्या पिनोऽथ जपतो युञ्जतोऽध्यायतस्तथा।
ज्वलतो वर्षतश्चैव द्योतमानान् प्रधूपितान् ॥४९॥

बुद्धान् बुद्धतमांश्चैव ब्रह्मिष्ठान् शुभदर्शनान् ।
नीलग्री वान् सहस्राक्षान् संर्वाश्चाथ क्षपाचरान् ॥५०॥

अदृश्यान् सर्वभूतानां महायोगान् महौजसः।
रूदतोद्रवतश्चैव एवंयुक्तान् सहस्रशः।
अपातयामानसृजत् रुद्ररूपान् सुरोत्तमान् ॥५१॥

ब्रह्मा दृष्ट्वाऽब्रवीदेतान्मास्राक्षीरीदृशीः प्रजाः।
स्रष्टव्या नात्मनस्तुल्याः प्रजा नैवाधिकास्त्वया।
अन्याः सृजत्वं भद्रन्ते स्थितोहन्त्वं सृज प्रजाः ॥५२॥

एते ये वै मया मृष्टा विरूपा नीललेहिताः ।
सहस्राणां सहस्रन्तु आत्मनोपमनिश्चिताः ॥५३॥

एते देवा भविष्यन्ति रूद्रा नाम महाबलाः।
पृथिव्यामन्तारीक्षे च रुद्रनाम्ना प्रतिश्रुताः ॥५४॥

शतरुद्रसमाम्नाता भविष्यन्तीह यज्ञियाः।
यज्ञभाजो भविष्यन्ति सर्वे देवयुगैः सह ॥५५॥

मन्वन्तरेषु ये देवा भविष्यन्तीह च्छन्दजाः।
तैः सार्द्धमीज्यमानास्ते स्थास्यन्तीह युगक्षयात् ॥५६॥

एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता।
प्रत्युवाच तदा भीमं हृष्यमाणः प्रजापतिः ॥ ५७॥

एवं भवतु भद्रं ते यथा ते व्याहृतं प्रभो।
ब्रह्मणा समनुज्ञा ते सदा सर्वमभूत् किल ॥५८॥

ततःप्रभृति देवेशो न प्रासूयत वै प्रजाः।
ऊर्द्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्।
यस्माच्चोक्तं स्थितोऽस्मीति ततः स्थाणुरिति स्मृतः ॥५९॥

ज्ञानं वैराग्यमैश्वर्यं तपः सचत्यं क्षमा धृतिः।
स्रष्टृत्वमात्मसम्बोधस्त्वधिष्ठातृत्वमेव च।
अथ यानि दशैतानि नित्यन्तिष्ठन्ति शङ्करे ॥६०॥
सर्वान् देवान् ऋषींश्चैव समेतानसुरैः सह।
अत्येति तेजसा देवो महादेवस्ततः स्मृतः ॥६१॥

अत्येति देवानैश्चर्याद्बलेन च महासुरान्।
ज्ञानेन च मुनीन् सर्वान् योगाद्भूतानि सर्वशः ॥६२॥

॥ऋषय ऊचुः॥
योगं तपश्च सत्यञ्च धर्मञ्चापि महामुने।
माहेश्वरस्य ज्ञानस्य साधनञ्च प्रजक्ष्व नः ॥६३॥

येन येन च धर्मेण गतिं प्राप्स्यन्ति वै द्विजाः।
तत्सर्वं श्रोतुमिच्छामि योगं माहेश्वरं प्रभो ॥६४॥

॥ वायुरुवाच॥
पञ्च धर्माः पुराणे तु रुद्रेण समुदाहृताः।
माहेश्वर्यं यथा प्रोक्तं रुद्रैरक्लिष्टकर्मभिः ॥६५॥

आदित्यैर्वसुभिः साध्यैरश्विभ्याञ्चैव सर्वशः।
मरुद्भिर्भृगुभिश्चैव ये चान्ये विबुधालयाः ॥६६॥

यमशुक्रपुरोगैश्च पितृकालान्तकैस्तथा।
एतैश्वान्यैशचव बहुभिस्ते धर्माः पर्युपासिताः ॥६७॥

ते वै प्रक्षीणकर्माणः शारदाम्बरनिर्मलाः।
उपासते मुनिगणाः सन्धायात्मानमात्मनि ॥६८॥

गुरुप्रियहिते युक्ता गुरूणां वै प्रियेप्सवः।
विमुच्य मानुषं जन्म विहरन्ति च देववत् ॥६९॥

महेश्वरेण ये प्रोक्ताः पञ्च धर्माः सनातनाः।
तान् सर्वान् क्रमयोगेन उच्यमानान्निबोधत ॥७०॥

प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा।
स्मरणञ्चैव योगेऽस्मिन् पञ्च धर्माः प्रकीर्त्तिताः ॥७१॥

तेषां क्रमविशेषेण लक्षणं कारणं तथा।
प्रवक्ष्यामि तथा तत्त्वं यथा रुद्रेण भाषितम् ॥७२॥

प्राणायामगतिश्वापि प्राणस्यायाम उच्यते ।
स चापि त्रिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा ॥७३॥

प्राणानाञ्च निरोधस्तु स प्राणायामसंज्ञितः ।
प्राणायामप्रमाणन्तु मात्रा वै द्वादश स्मृताः ॥७४॥

मन्दो द्वादशमात्रस्तु उद्वाता द्वादश स्मृताः ।
मध्यमश्च द्विरुद्वातश्चतुर्विंशतिमात्रिकः ॥७५॥

उत्तमस्तत्र्त्रिरुद्वातो मात्राः षट्‌त्रिंशदुच्यते।
स्वेदकम्पविषादानां जननो ह्युत्तमः स्मृतः ॥७६॥

इत्येतत् त्रिविधं प्रोक्तं प्राणायामस्य लक्षणम्।
प्रमाणञ्च समासेन लक्षणञ्च निबोधत ॥७७॥

सिंहो वा कुञ्जरो वापि तथाऽन्यो वा मृगो वने।
गृहीतः सेव्यमानस्तु मृदुः समुपजायते ॥७८॥

तथा प्राणो दुराधर्षः सर्वेषामकृतात्मनाम् ।
योगतः सेव्यमानस्तु स एवाभ्यासतो व्रजेत् ॥७९॥

स चैव हि यथा सिंहः कुञ्जरो वापि दुर्बलः।
कालान्तरवशाद्योगाद्गम्यते परिमर्द्दनात् ॥८०॥

परिधाय मनो मन्दं वश्यत्वं चाधिगच्छति ।
परिधाय मनोदेवं तथा जीवति मारुतः ॥८१॥

वश्यत्वं हि यथा वायुर्गच्छते योगमास्थितः।
तदा स्वच्छन्दतः प्राणं नयते यत्र चेच्छति ॥८२॥

यथा सिंहो गजो वापि वश्यत्वादवतिष्ठते।
अभयाय मनुष्याणां मृगेभ्यः संप्रवर्त्तते ॥८३॥

यथा परिचितश्चायं वायुर्वै विश्वतोमुखः।
परिध्यायमानः संरुद्धः शरीरे किल्बिषं दहत् ॥८४॥

प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः।
सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ॥८५॥

तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये।
सर्वयज्ञफलञ्चैव प्राणायामश्च तत्समः ॥८६॥

अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्रुते।
संवत्सरशतं साग्रं प्राणायामञ्च तत्समम् ॥८७॥

प्राणायामैर्दहेर्दोषान् धारणाभिश्च किल्बिषम्।
प्रत्याहारेण विषयान् ध्यानेनानाश्वरान् गुणान् ॥८८॥

तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।
सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ॥८९॥

इति श्रीम हापुराणे वायुप्रोक्ते मन्वन्तरादिवर्णनं नाम दशमोऽध्याः ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:58.8170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आपल्या हातचें धुणें नि आईच्या हातचें खाणें

  • मनुष्यानें स्वतः कपडा धुतल्याशिवाय मनासारखा स्वच्छ निघत नाही व आईच्या हातचे खाण्याने जे समाधान प्राप्त होते ते इतरांकडून मिळाले असतां होत नाही. 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.