TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ५९

पूर्वार्धम् - अध्यायः ५९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ५९
॥सूत उवाच॥
युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत।
आशुरी सर्पगोपक्षिपैशाची यक्षराक्षसी।
यस्मिन् युगे च सम्भूतिस्तासां यावत्तु जीवितम् ॥१॥

पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः।
युगमात्रन्तु जीवन्ति ऋते मृत्युवधेन ते ॥२॥

मानुषाणां पशूनाञ्च पक्षिणां स्थावरैःसह।
तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ॥३॥

अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु वै।
परमायुः शतन्त्वेतन्मनुष्याणां कलौ स्मृतम् ॥४॥

देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं ह्रसत्।
अह्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ॥५॥

देवासुरप्रमाणन्तदुच्छ्रायं कलिजैः स्मृतम्।
चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ॥६॥

स्वेनाङ्गुलप्रमाणेन ऊर्द्ध्वमापादमस्तकम्।
इत्येष मानुषोत्सेधो ह्रसतीह युगान्तिके ॥७॥

सर्वेषु युगकालेषु अतीतानागतेष्विह।
स्वेनाङ्गुलप्रमाणेन अष्टतालः स्मृतो नरः ॥८॥

आपादतो मस्तकन्तु नवतालो भवेत्तु यः।
संहताजानुबाहुस्तु स सुरैरपि पूज्यते ॥९॥

गवाश्वहस्तिनाञ्चैव महिष स्थावरात्मनाम्।
क्रमेणैतेन योगेन ह्रासवृद्धी युगे युगे ॥१०॥

षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै।
अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ॥११॥

अङ्गुलानां सहस्रन्तु चत्वारिंशाङ्गुलं विना ।
पञ्चाशतं हयानाञ्च उत्सेधः शाखिनां स्मृतः ॥१२॥

मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः।
तल्लक्षणस्तु देवानां दृश्यते तत्त्वर्शनात् ॥१३॥

बुद्ध्यातिशययुक्तञ्च देवानां कायमुच्यते ।
देवानतिशयञ्चैव मानुषं कायमुच्यते ॥१४॥

इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः।
पशूनां पक्षिणाञ्चैव स्थावराणां निबोधत ॥१५॥

गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः।
उपयूक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ॥१६॥

देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः ।
यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः ॥१७॥

तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः।
मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ॥१८॥

अतः शिष्टान् प्रवक्ष्यामि सतः साधूंस्तथैव च।
सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत।
सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रजक्ष्यते ॥१९॥

दशात्मके ये विषये कारणे चाष्टलक्षणे ।
न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ॥२०॥

सामान्येषु च धर्मेषु तथा वैशेषिकेषु च।
ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ॥२१॥

वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः।
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ॥२२॥

विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः।
क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥२३॥

साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः।
यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥२४॥

एवमाश्रमधर्माणां साधनात् साधवः स्मृताः।
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ॥२५॥

न च देवा न पितरो मुनयो न च मानवाः।
अयं धर्मो ह्ययं नेति ब्रुवन्तोऽभिन्नदर्शनाः ॥२६॥

धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ।
कुशलाकुशलं कर्म धर्मा धर्माविति स्मृतौ ॥२७॥

धारणा धृतिरित्यर्थाद्धातोर्धर्मः प्रकीर्त्तितः ।
अधारणेऽमहत्त्वे च अधर्म इति चोच्यते ॥२८॥

अत्रेष्टप्रापका धर्मा आचार्यैरुपदिश्यते।
वृद्धा ह्यलोलुपाश्चैव आत्मवन्तो ह्यदम्भकाः।
सम्यग्विनीता ऋजवस्तानाचार्यान् प्रचक्षते ॥२९॥

स्वयमाचरते यस्मादाचारं स्थापयत्यपि।
आचिनोति च शास्त्रार्थान्यमैः सन्नियमैर्युतः ॥३०॥

पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयोऽब्रुवन्।
ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥३१॥

मन्वन्तरस्यातीतस्य स्मृत्वाचारं पुनर्जगौ।
तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥३२॥

स एष द्विविधो धर्मः शिष्टाचार इहोच्यते।
शेषशब्दात् शिष्ट इति शिष्टाचारः प्रचक्ष्यते ॥३३॥

मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः।
मनुः सप्तर्षयश्चैव लोकसन्तानकारणात्।
धर्मार्थं ये च शिष्ट वै याथातथ्यं प्रचक्ष्यते ॥३४॥

मन्वादयश्च ये शिष्टा ये मया प्रागुदीरिताः।
तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥३५॥

त्रयी वार्ता दण्डनीतिरिज्या वर्णाश्रमास्तथा।
शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः।
पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स शाश्वतः ॥३६॥

दानं सत्यन्तपोऽलोभो विद्येज्याप्रजनी दया।
अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥३७॥

शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च वै।
मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥३८॥

विज्ञेयः श्रवणात् श्रौतः स्मरणात् स्मार्त्त उच्यते।
इज्या वेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः।
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥३९॥

दृष्ट्वा प्रभूतमर्थं यः पृष्टो वै न निगूहति।
यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥४०॥

ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च।
इत्येतत् तपसो मूलं सुघोरं तद्दुरासदम् ॥४१॥

पशूनां द्रव्यहविषामृक्सामयजुषां तथा।
ऋत्विजां दक्षिणानाञ्च संयोगो योग उच्यते ॥४२॥

आत्मवत्सर्वभूतेषु यो हितायाहिताय च।
समा प्रवर्त्तते दृष्टिः कृत्स्ना ह्येषा दया स्मृता ॥४३॥

आक्रुष्टोऽभिहतो वापि नाक्रोशेद्यो न हन्ति वा।
वाङ्‌मनःकर्मभिः क्षान्तिस्तितिक्षैषा क्षमा स्मृता ॥४४॥

स्वामिनारक्ष्यमाणानामुत्सृष्टानाञ्च मृत्सु च।
परस्वानामनादानमलोभ इह कीर्त्यते ॥४५॥

मैथुनस्यासमाचारो ह्यचिन्तनमकल्पनम्।
निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं दम उच्यते ॥४६॥

आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै।
न मिथ्या सम्प्रवर्तन्ते शमस्यै तत्तु लक्षणम् ॥४७॥

दशात्मके यो विषये कारणे चाष्टलक्षणे।
न क्रुध्येत्तु प्रतिहतः स जितात्मा विभाव्यते ॥४८॥

यद्यदिष्टतमं द्रव्यं न्यायेनोपागतञ्च यत्।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥४९॥

दानं त्रिविधमित्येतत् कनिष्ठज्येष्ठमधयमम् ।
तत्र नैःश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये।
कारुण्यात्सर्वभूतेभ्यः सुविभागस्तु बन्धुषु ॥५०॥

श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः।
शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसङ्गतः ॥५१॥

अप्रद्वेषो ह्यनिष्टेषु तथेष्टानभिनन्दनम्।
प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥५२॥

संन्यासः कर्मणो न्यासः कृतानामकृतैः सह।
कुशलाकुशलानाञ्च प्रहाणं त्याग उच्यते ॥५३॥

 अव्यक्ताद्योऽविशेषाच्च विकारोऽस्मिन्नचेतने।
चेतनाचेतान्यत्वविज्ञानं ज्ञानमुच्यते ॥५४॥

प्रत्यङ्गानां तु धर्मस्य इत्येतल्लक्षणं स्मृतम् ।
ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायम्भुवेऽन्तरे ॥५५॥

अत्र वो वर्त्तयिष्यामि विधिर्मन्वन्तरस्य यः ।
इतरेतरवर्णस्य चातुर्वर्णस्य चैव हि।
प्रतिमन्वन्तरञ्चैव श्रुतिरन्या विधीयते ॥५६॥

ऋचो यजूषिं सामानि यथावत् प्रतिदैवतम्।
आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम् ॥५७॥

विधिर्होत्रं तथा स्तोत्रं पूर्ववत्सम्प्रवर्तते।
द्रव्यस्तोत्रं गुणस्तोत्रं कर्म स्तोत्रं तथैव च।
चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् ॥५८॥

मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये।
प्रवर्त्तयति तेषां वै ब्रह्मस्तोत्रं चतुर्विधम्।
एवं मन्त्रगुणानाञ्च समुत्पत्तिश्चतुर्विधा ॥५९॥

अथर्वयजुषां साम्नां वेदेष्विह पृथक् पृथक् ।
ऋषीणान्तप्यतामुग्रन्तपः परमदुश्चरम् ॥६०॥

मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह।
परितोषाद्भयाद्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥६१॥

ऋषीणां तपःकार्त्स्न्येन दर्शनेन यदृच्छया।
ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः ॥६२॥

अतीतानागतानान्तु पञ्चधा ऋषिरुच्यते।
अतस्त्वृषीणां वक्ष्यामि ह्यार्षस्य च समुद्भवम् ॥ ६३॥

गुणसाम्ये वर्त्तमाने सर्वसम्प्रलये तदा।
अतिचारे तु देवानामतिदेशे तयोर्यथा ॥६४॥

अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्त्तते ।
तेन ह्यबुद्धिपूर्वं तच्चेतनेन ह्यधिष्ठितम् ॥६५॥

वर्त्तते च यथा तौ तु यथा मत्स्योदके उभे।
चेतनाधिष्ठितं तत्त्वं प्रवर्त्तति गुणात्मना ॥६६॥

करणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते।
विषये विषयित्वाच्च ह्यर्थेऽर्थित्वात्तथैव च ॥६७॥

कालेन प्रापणीयेन भेदास्तु कारणात्मकाः।
संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥६८॥

महतश्वाप्यहङ्कारस्तस्माद्भूतेन्द्रियाणि च।
भूतभेदास्तु भेदेभ्यो जज्ञिरे ते परस्परम्।
संसिद्धिकारणं कार्यं सद्य एव विवर्त्तते ॥६९॥

यथोल्मुकस्रुटन्नूर्द्ध्वमेककालं प्रवर्त्तते।
तथा विवृतः क्षेत्रज्ञः कालेनैकेन कर्मणा ॥७०॥

यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते।
तथा विवृत्तो ह्यव्यक्तात् खद्योत इव चेल्वणः ॥७१॥

स महान् सशरीरस्तु यत्रैवाग्रे व्यवस्थितः।
तत्रैव संस्थितो विद्वान् द्वारशालामुखे स्थितः ॥७२॥

महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते ।
तत्रैव संस्थितो विद्वांस्तमसोऽन्त इति श्रुतिः ॥७३॥

बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा ।
ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥७४॥

सांसिद्दिकान्यथैतानि सुप्रतीकानि तस्य वै ।
महतः सशरीरस्य वैवर्त्त्यात् सिद्धिरुच्यते ॥७५॥

अत्र शेते च यत्पुर्यां क्षेत्रज्ञानमथापि वा।
पुरीशयत्वात्पुरुषः क्षेत्रज्ञानात् सउच्यते ॥७६॥

क्षेत्रज्ञः क्षेत्रविज्ञानात् भगवान् मतिरुच्यते।
यस्माद्बुद्ध्या तु शेते ह तस्माद्बोधात्मकः स वै ।
संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ॥७७॥

एवं निवृत्तिः क्षेत्रज्ञा क्षेत्रज्ञेनाभिसंहिता।
क्षेत्रज्ञेन परिज्ञातो भोग्योऽयं विषयस्त्विति ॥७८॥

ऋषीत्येष गतौ धातुःश्रुतौ सत्ये तपस्यथ।
एतत्सन्नियते तस्मिन् ब्रह्मणा स ऋषिः स्मृतः ॥७९॥

निवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम्।
परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः ॥८०॥

गत्यर्थादृषतेर्द्धातोर्नामनिर्वृत्तिरादितः ।
यस्मादेष स्वयम्भूतस्तस्माच्चात्मर्षिता स्मृता।
ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ॥८१॥

यस्मान्न हन्यते मानैर्महान् परिगतः पुरः।
यस्मादृषन्ति ये धीरा महान्तं सर्वतो गुणैः।
तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः ॥८२॥

ईश्वराणां शुभास्तेषां मानसान्तरसाश्च ते।
अहङ्कारं तमश्चैव त्यक्त्वा च ऋषिताङ्गाताः ॥८३॥

तस्मात्तु ऋषयस्ते वै भूतादौ तत्त्वदर्शनाः।
ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः ॥८४॥

तन्मात्राणि च सत्यञ्च ऋषन्ते ते महौजसः।
सत्यर्षयस्ततस्ते वै परमाः सत्यदर्शनाः ॥८५॥

ऋषीणाञ्च सुतास्ते तु विज्ञेया ऋषिपुत्रकाः ।
ऋषन्ति वै श्रुतं यस्माद्विशेषांश्चैव तत्त्वतः।
तस्मात् श्रुतर्षयस्तेऽपि श्रुतस्य परिदर्शनाः ॥८६॥

अव्यक्तात्मा महात्मा चाहङ्कारात्मा तथैव च।
भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते ।
इत्येता ऋषिजातीस्तु नामभिः पञ्च वै श्रृणु ॥८७॥

भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहःक्रतुः।
मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चेति ते दश।
ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः ॥८८॥

प्रवर्त्तन्ते ऋषेर्यस्मान्महांस्तस्मान्महर्षयः।
ईश्वराणां सुतास्त्वेते ऋषयस्तान्निबोधत ॥८९॥

काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा।
उतथ्यो वामदेवश्च अपोज्यश्चैशिजस्तथा ॥९०॥

कर्द्दमो विश्रवाः शक्तिर्वालखिल्य स्तथा धराः।
इत्येते ऋषयः प्रोक्ता ज्ञानतो ऋषिताङ्गताः ॥९१॥

ऋषिपुत्रानृषिकांस्तु गर्भोत्पन्नान्निबोधत।
वत्सरो नग्रहूश्चैव भारद्वाजस्तथैव च ॥९२॥

बृहदुत्थः शरद्वांश्च अगस्त्यश्चौशिजस्तथा।
ऋषिर्दीर्घतमाश्चैव बृहदुक्थः शरद्वतः ॥९३॥

वाजश्रवाः सुवित्तश्च सुवाग्वेषपरायणः।
दधीचः शङ्खमांश्चैव राजा वैश्रवणस्तथा।
इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषिताङ्गताः ॥९४॥

ईश्वरा ऋषिकाश्चैव ये चान्ये वै तथा स्मृताः।
एते मन्त्रक्षकृतः सर्वे कृत्स्नशस्तान्निबोधत ॥९५॥

भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि ।
और्वोऽथ जमदग्निश्च दिवः सारस्वत स्तथा ॥९६॥

अद्विषेण ह्यरूपश्च वीतहव्य सुमेधसः।
वैन्यः पृथुर्दिवोदासः प्रश्वारो गृत्समान्नभः।
एकोनविंशदित्येते ऋषयो मन्त्रवादिनः ॥९७॥

अङ्गिरा वेधसश्चैव भारद्वाजोऽथ बाष्कलिः।
तथामृतस्तथा गार्ग्यः शेनी संहृतिरेव च ॥९८॥

पुरुकुत्सोऽथ मान्धाता अम्बरीषस्तथैव च।
आहार्योथाजमीढश्च ऋषभो वलिरेव च ॥९९॥

पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः।
युवनाश्वः पौरुकुत्सस्त्रसद्दस्युः सदस्युमान् ॥१००॥

उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि ।
आयाप्यश्च सुवित्तिश्च वामदेवस्तथैव च ॥१०१॥

औगजो बृहदुक्थश्च ऋषिर्दीर्घतपास्तथा।
कक्षीवांश्च त्रयस्त्रिंशत् स्मृता अङ्गिरसो वराः।
एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ॥१०२॥

काश्यपश्चैव वत्सारो विभ्रमो रैभ्य एव च।
असितो देवलश्चैव षडेते ब्रह्मवादिनः ॥१०३॥

अत्रिरर्च्चिसनश्चैव श्यामावांश्चाथ निष्ठुरः।
वल्गूतको मुनिर्द्धीमांस्तथा पूर्वातिथिश्च यः।
इत्येते चात्रयः प्रोक्ता मन्त्रकारा महर्षयः ॥१०४॥

वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः।
चतुर्थ इन्द्रप्रमतिः पञ्चमस्तु भरद्वसुः ॥१०५॥

षष्ठस्तु मैत्रावरुणाः कुण्डिनः सप्तमस्तथा।
सुद्युम्नश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः।
दशमस्तु भरद्वाजौ मन्त्रब्राह्मणकारकाः ॥१०६॥

एते चैव हि कर्तारो विधर्मध्वंसकारिणः।
लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाखिनाम् ॥१०७॥

हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितम्परैः।
अथ वार्थपरि प्राप्तेर्हिनोतेर्गतिकर्मणः ॥१०८॥

तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् ।
निन्दां तामाहुराचार्या यद्दोषन्निन्द्यते वचः ॥१०९॥

प्रषूर्वाच्छंसतेर्धातोः प्रशसां गुणवत्तया।
इदन्त्विदमिदं नेदमित्यनिश्चित्य संशयः ॥११०॥

इदमेव विधातव्यमित्ययं विधिरुच्यते ।
अन्यस्यान्यस्य चोक्तत्वाद्‌बुधैः परकृतिः स्मृता ॥१११॥

यो ह्यत्यन्ततरोक्तश्च पुराकल्पः स उच्यते।
पुराविक्रान्तवाचित्वात् पुराकल्पस्य कल्पना ॥११२॥

मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः ।
अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ॥११३॥

यथा हीदं तथा तद्वै इदं वापि तथैव तत्।
इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ॥११४॥

इत्येतद्ब्राह्मणस्यादौ विहितं लक्षणं बुधः ।
तस्य तद्वृत्तिरुद्दिष्टा व्याख्याप्यनुपदं द्विजैः ॥११५॥

मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु।
मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ॥११६॥

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥११७॥

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिलक्षणं नामोनषष्टितमोऽध्यायः ॥५९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:01.7700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

येवंक्रमण

  • क्रि.वि. याप्रमाणें ; अशा रीतीनें . ' येवंक्रमेण दोहोंकडूनहि संकटच प्राप्त जाहले .' - पेद ३ . ६३ . ( सं . एवम् कमेण ) 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.