संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ७

पूर्वार्धम् - अध्यायः ७

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः।
श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः ॥१॥

सम्बोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्।
अतःप्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः ॥२॥

समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः।
कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः।
एतद्वेदितुमिच्छामः अत्यन्तकुशलो ह्यसि ॥३॥

॥लोमहर्षण उवाच॥
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिञ्च यस्तयोः।
समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः ॥४॥

मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः।
यश्चायं वर्त्तते कल्पो वाराहः साम्प्रतः शुभः ॥५॥

अस्मात् कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः।
तस्य चास्य च कल्पस्य मध्यावस्थान्निबोधत ॥६॥

प्रत्याहृते पूर्वकल्पे प्रतिसंधिं च तत्र वै।
अन्यः प्रवर्त्तते कल्पो जनाल्लोकात् पुनः पुनः ॥७॥

व्युच्छिन्नात् प्रतिसंधेस्तु कल्पात् कल्पः परस्परम्।
व्युच्छिद्यन्ते क्रियाःसर्वाः कल्पान्ते सर्वशस्तदा।
तस्मात् कल्पात्तु कल्पस्य प्रतिसंधिर्निगद्यते ॥८॥

मन्वन्तरयुगाख्यानामप्युच्छिन्नाश्च सन्धयः।
परस्पराः प्रवर्त्तन्ते मन्वन्तरयुगैः सह ॥९॥

उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः।
तेषां परार्द्धकल्पानां पूर्वो ह्यस्मात्तु यः परः।
आसीत् कल्पो व्यतीतो वै परार्द्धेन परस्तु सः ॥१०॥

अन्ये भविष्या ये कल्पा अपरार्द्धाद्गुणीकृताः।
प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्त्तते द्विजाः ॥११॥

यस्मिन् पूर्वः परार्द्धे तु द्वितीये पर उच्यते।
एतावान् स्थितिकालश्च प्रत्याहारस्ततः स्मृतः ॥१२॥

अस्मात् कल्पात्तु यः पूर्वं कल्पोऽतीतः सनातनः।
चतुर्युगसहस्रान्ते अहो मन्वन्तरैः पुरा ॥१३॥

क्षीणे कल्पे तदा तस्मिन् दाहकाले ह्युपस्थिते।
तस्मिन् कल्पे तदा देवा आसन्वैमानिकास्तु ये ॥१४॥

नक्षत्रग्रहतारास्तु चन्द्रसूर्यग्रहाश्च ये।
अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्मनाम् ॥१५॥

मन्वन्तरे तथैकस्मिन् चतुर्दशसु वै तथा।
त्रीणि कोटिशतान्यासन् कोट्याद्विनवतिस्तथा।
अष्टाधिकाः सप्तशताः सहस्राणां स्मृताः पुरा ॥१६॥

वैमानिकानां देवानां कल्पेऽतीते तु येऽभवन्।
एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः ॥१७॥

अथ मन्वन्तरेष्वासंश्चतुर्दशसु वै दिवि।
देवाश्च पितरश्चैव मुनयो मनवस्तथा ॥१८॥

तेषामनुचरा ये च मनुपुत्रास्तथैव च।
वर्णाश्रमिभिरीड्याश्च तस्मिन् काले तु ये सुराः।
मन्वन्तरेषु येह्यासन् देवलोके दिवौकसः ॥१९॥

ते तैः संयोजकैः सार्द्धं प्राप्ते सङ्कलने तथा।
तुल्यनिष्ठास्तु ते सर्वे प्राप्ते ह्याभूतसंप्लवे ॥२०॥

ततस्तेऽवश्यभावित्वाद् बुद्ध्वा पर्यायमात्मनः।
त्रैलोक्यवासिनो देवास्तस्मिन् प्राप्ते ह्युपप्लवे ॥२१॥

तेऽनौत्सुक्यविषादेन त्यक्त्वा स्थानानि भावतः।
महर्ल्लोकाय संविग्नास्ततस्ते दधिरे मतिम् ॥२२॥

ते युक्ता उपपद्यन्ते महसिस्थैः शरीरकैः।
विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥२३॥

तैः कल्प वासिभिः सार्द्धं महानासादितस्तु यैः।
ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भक्तैश्चापरैर्ज्जनैः ॥२४॥

मत्वा तु ते महर्ल्लोकं देवसङ्घाश्चतुर्द्दश।
ततस्ते जनलोकाय सो द्वेगा दधिरे मतिम् ॥२५॥

विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः।
तैः कल्पवासिभिः सांर्द्ध महानासादितस्तु यैः ॥२६॥

दशकृत्व इवावृत्त्या तस्माद्गच्छन्ति स्वस्तपः।
तत्र कल्पान् दशस्थित्वा सत्यं गच्छन्ति वै पुनः।
एतेन क्रमयोगेन यान्ति कल्पनिवासिनः ॥२७॥

एवं देवयुगानान्तु सहस्राणि परस्परात्।
गतानि ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम् ॥२८॥

आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः।
भवन्ति ब्रह्मणस्तुल्या रूपेण विषयेण च ॥२९॥

तत्र ते ह्यवतिष्ठन्ति प्रीतियुक्ताः प्रसङ्गमात्।
आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह ॥३०॥

अवश्यम्भाविनाऽर्थेन प्राकृतेनैव ते स्वयम्।
नाना त्वेनाभिसम्बद्धास्तदा तत्कालभाविनः ॥३१॥

स्वरूपतो बुद्धिपूर्वं यथा भवति जाग्रतः।
तत्कालभावि तेषां तु तथा ज्ञानं प्रवर्त्तते ॥३२॥

प्रत्याहारे तु भेदानां येषां भिन्नाभिसूष्मणाम्।
तैः सार्द्धं प्रतिसृज्यन्ते कार्याणि करणानि च ॥३३॥

नानात्वदर्शनात्तेषां ब्रह्मलोकनिवासिनाम्।
विनष्टस्वाधिकाराणां स्वेन धर्मेण तिष्ठताम् ॥३४॥

ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः।
प्रकृतौ कारणातीताः स्वात्मन्येव व्यवस्थिताः ॥३५॥

प्रख्यापयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः।
पुरुषाव्यवहृतत्वेन प्रतीता न प्रवर्त्तते ॥३६॥

प्रवर्तिते पुनः सर्गे तेषां वा कारणं पुनः।
संयोगे प्राकृते तेषां युक्तानां तत्त्वदर्शिनाम् ॥३७॥

अत्रापवर्गिणां तेषामपुनर्मार्गगामिनाम्।
अभावः पुनरुत्पत्तौ शान्तानामर्च्चिषामिव ॥३८॥

ततस्तेषु गतेषूर्द्ध्वं त्रैलोक्यात्सुमहात्मसु।
तैः सार्द्धं ये महर्ल्लोकात्तदा नासादिता जनाः।
तच्छिष्टाश्चेह तिष्ठन्ति कल्पाद्देहमुपासते ॥३९॥

गन्धर्वाद्याः पिशाचान्ता मानुषा ब्राह्मणादयः।
पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः ॥४०॥

तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु।
सहस्रं यत्तु रश्मीनां सूर्यस्येह विभासते।
ते सप्तरश्मयो भूत्वा ह्येकैको जायते रविः ॥४१॥

क्रमेणोत्तिष्ठमानास्ते त्रीन् लोकान् प्रदहन्त्युत।
जङ्गमाः स्थावराः चैव नदीः संर्वाश्च पर्वतान्।
पूर्वे शुष्का ह्यनावृष्ट्या सूर्यैस्तैश्च प्रधूपिताः ॥४२॥

तदा ते विविशुः सर्वे निर्द्दग्धाः सूर्यरश्मिभिः।
जङ्गमाः स्थावराः सर्वे धर्माधर्मात्मकास्तु वै ॥४३॥

दग्धदेहास्ततस्ते वै गताः पापयुगात्यये।
योन्या तया ह्यनिर्मुक्ताः शुभपापानुबन्धया ॥४४॥

ततस्ते ह्युपपद्यन्ते तुल्यरूपा जने जनाः।
विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥४५॥

उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः।
पुनः सर्गे भवन्तीह ब्रह्मणो मानसीप्रजाः ॥४६॥

ततस्तेषु प्रवृत्तेषु जने त्रैलोक्यवासिषु।
निर्दग्धेषु च लोकेषु तेषु सूर्यैस्तु सप्तभिः।
वृष्ट्या क्षितौ प्लावितायां विशीर्णेष्वालयेषु च ॥४७॥

समुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः।
व्रजन्त्येकार्णवत्वं हि सलिलाख्यास्तदाश्रिताः ॥४८॥

आगतागतिकं तद्वै यदा तु सलिलं बहु।
संछाद्येमां स्थितां भूमिमर्णवाख्या तदा च सा ॥४९॥

आभाति यस्मान्नाभान्ति भासन्तो व्याप्तिदीप्तिषु।
सर्वतः समनुप्लाव्य तासाञ्चाम्भो विभाव्यते ॥५०॥

तदम्भस्तनुते यस्मात् सर्वां पृथ्वीं समन्ततः।
धातुस्तनोतिर्विस्तारे तेनाम्भस्तनवः स्मृताः ॥५१॥

अरमित्येष शीघ्रन्तु निपातः कविभिः स्मृतः।
एकार्णवे भवन्त्यापो न शीघ्रास्तेन ते नराः ॥५२॥

तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि।
राजन्यां वर्त्तमानायान्तावत्तत् सलिलात्मना ॥५३॥

ततस्तु सलिले तस्मिन्नष्टेऽग्नौ पृथिवीतले।
प्रशान्तवातेऽन्धकारे निरालोके समन्ततः ॥५४॥

येनैवाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः।
विभागमस्य लोकस्य पुनर्वै कर्तुमिच्छति ॥५५॥

एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे।
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ॥५६॥

सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः।
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥५७॥

सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमवेक्ष्य च।
इमञ्चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥५८॥

आपो नाराख्यास्तनव इत्यपान्नाम शुश्रुमः।
आपूर्य नाभिं तत्रास्ते तेन नारायणः स्मृतः ॥५९॥

सहस्रशीर्षा सुमनाः सहस्रपात् सहस्रचक्षुर्वदनः सहस्रभुक्।
सहस्रबाहुः प्रथमः प्रजा पतिस्त्रयीपथे यः पुरुषो निरुच्यते ॥६०॥

आदित्यवर्णो भुवनस्य गोप्ता एको ह्यपूर्वः प्रथमं तुराषाट्।
हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसःपरस्तात् ॥६१॥

कल्पादौ रजसोद्रिक्तो ब्रह्मा भूत्वाऽसृजत् प्रजाः।
कल्पान्ते तमसोद्रिक्तो कालो भूत्वाऽग्रसत् पुनः ॥६२॥

स वै नारायणा ख्यस्तु सत्त्वोद्रिक्तोऽर्णवे स्वपन्।
त्रिधा विभज्य चात्मानं त्रैलोक्ये समवर्त्तत ॥६३॥

सृजते ग्रसते चैव वीक्षन्ते च त्रिभिस्तु तान्।
एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे ॥६४॥

चतुर्युगसहस्रान्ते सर्वतः सलिलावृते।
ब्रह्मा नारायणाख्यस्तु अप्रकाशार्णवे स्वपन् ॥६५॥

चतुर्विधाः प्रजा ग्रस्त्वा ब्राह्म्यां रात्र्यां महार्णवे।
पश्यन्ति तं महर्ल्लोकात् सुप्तं कालं महर्षयः ॥६६॥

भृग्वादयो यथा सप्त कल्पे ह्यस्मिन् महर्षयः।
ततो विवर्त्तमानैस्तैर्महान् परिगतः परः ॥६७॥

गत्यर्थाद् ऋषयो धातोर्न्नामनिर्वृत्तिरादितः।
तस्मादृषिपरत्वेन महांस्तस्मान्महर्षयः ॥६८॥

महर्ल्लोकस्थितैर्दृष्टः कालः सुप्तस्तदा च तैः।
सत्याद्याः सप्त येह्यासन् कल्पेऽतीते महर्षयः ॥६९॥

एवं ब्राह्मीषु रात्रीषु ह्यती तासु सहस्रशः।
दृष्टवन्तस्तथा ह्यन्ये सुप्तं कालं महर्षयः ॥७०॥

कल्पयामास वै ब्रह्मा तस्मात् कालो निरुच्यते ॥७१॥

स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः।
व्यक्ताव्यक्तो महादेवस्तस्य सर्वमिदं जगत् ॥७२॥

इत्येष प्रतिसन्धिर्वः कीर्त्तितः कल्पयोर्द्वयोः।
साम्प्रतातीतयोर्मध्ये प्रागवस्था बभूव या ॥७३॥

कीर्त्तिता तु समासेन कल्पे कल्पे यथा तथा।
साम्प्रतं ते प्रवक्ष्यामि कल्पमेतं निबोधत ॥७४॥

इति श्रीमहापुराणे वायुप्रोक्ते प्रतिसन्धिकीर्त्तनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP