TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ३०

पूर्वार्धम् - अध्यायः ३०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ३०
॥सूत उवाच॥
ब्रह्मणः सृजतः पुत्रान् पूर्वे स्वायम्भुवेऽन्तरे।
अम्भांसि जज्ञिरे तानि मनुष्यासुरदेवताः ॥१॥

पितृवन्मन्यमानस्य जज्ञिरे पितरोऽस्य वै।
तेषान्निसर्गः प्रागुक्तो विस्तरस्तस्य वक्ष्यते ॥२॥

देवासुरमनुष्याणां दृष्ट्वा देवोऽभ्यभाषत।
पितृवन्मन्यमानस्य जज्ञिरे वोपयक्षिताः ॥३॥

मध्वादयः षडृतवस्तान् पितॄन् परिचक्षते।
ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ॥४॥

मन्वन्तरेषु सर्वेषु ह्यतीतानागतेष्वपि।
एते स्वायम्भुवे पूर्वमुत्पन्ना ह्यन्तरे शुभे ॥५॥

अग्निष्वात्ताः स्मृता नाम्ना तथा बर्हिषदश्च वै।
अयज्वानस्तथा तेषामासन् वै गृहमेधिनः।
अग्निष्वात्ताः स्मृतास्ते वै पितरोऽनाहिताग्नयः ॥६॥

यज्वानस्तेषु ये ह्यासन् पितरः सोमपीथिनः।
स्मृता बर्हिषदस्ते वै पितरस्त्वग्निहोत्रिणः।
ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयो मतः ॥७॥

मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ तु शुष्मिणौ।
नभश्चैव नभस्तश्च जीवावेतावुदाहृतौ ॥८॥

इषश्चैव तथोर्जश्च सुधावन्तावुदाहृतौ।
सहश्चैव सहस्यश्च मन्यु मन्तौ तु तौ स्मृतौ।
तपश् वैव तपस्यश्च घोरावेतौ तु शैशिरौ ॥९॥

कालावस्थास्तु षट् तेषाम्मासाख्या वै व्यवस्थिताः।
त इमे ऋतवः प्रोक्ताश्चेतनाचेतनास्तु वै ॥१०॥

ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः।
मासार्द्धमासस्थानेषु स्थानञ्च ऋतवोर्त्तवाः ॥११॥

स्थानानां व्यतिरेकेण ज्ञेयाः स्थानाभिमानिनः।
अहोरात्रञ्च मासाश्च ऋतवश्चायनानि च ॥१२॥

संवत्सराश्च स्थानानि कालावस्थाभिमानिनः।
निमेषाश्च कलाः काष्ठा मुहूर्त्ता वै दिनक्षपाः ॥१३॥

एतेषु स्थानिनो ये तु कालावस्थास्ववस्थिताः।
तन्मयत्वात्तदात्मानस्तान् वक्ष्यामि निबोधत ॥१४॥

पर्व्वण्यास्तिथयः सन्ध्याः पक्षा मासार्द्धसंज्ञिताः।
द्वावर्द्धमासौ मासस्तु द्वौ मासावृतुरुच्यते ॥१५॥

ऋतुत्रयं चायनं द्वे अयने दक्षिणोत्तरे ।
संवत्सरः सुमेकस्तु स्थानान्येतानि स्थानिनाम् ॥१६॥

ऋतवः सुमेकपुत्रा विज्ञेया ह्यष्टधा तु षट्।
ऋतुपुत्राः स्मृताः पञ्च प्रजास्त्वार्त्तवलक्षणाः ॥१७॥

यस्माच्चैवार्त्तवेयास्तु जायन्ते स्थाणुजङ्गमाः।
आर्त्तवाः पितरश्चैव ऋतवश्च पितामहाः ॥१८॥

सुमेकात्तु प्रसूयन्ते म्रियन्ते च प्रजातयः।
तस्मात् स्मृतः प्रजानां वै सुमेकः प्रपितामहः ॥१९॥

स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्तिताः।
तदाख्यास्तन्मयत्वाच्च तदात्मनश्च ते स्मृताः ॥२०॥

प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः।
संवत्सरः स्मृतो ह्यग्निः ऋतमित्युच्यते द्वजैः ॥२१॥

ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः।
मासाः षडृतवो ज्ञेयास्तेषां पञ्चार्त्तवाः सुताः ॥२२॥

द्विपदाञ्चतुष्पदाञ्चैव पक्षिसंसर्पतामपि।
स्थावराणां च पञ्चानां पुष्पं कालार्त्तवं स्मृतम् ॥२३॥

ऋतुत्वमार्त्तवत्वञ्च पितृत्वञ्च प्रकीर्तितम्।
इत्येते पितरो ज्ञेया ऋतवश्चार्त्तवाश्च ये ॥२४॥

सर्वभूतानि तेभ्योऽथ ऋतुकालाद्विजज्ञिरे।
तस्मादेतेऽपि पितर आर्त्तवा इति नः श्रुतम् ॥२५॥

मन्वन्तरेषु सर्वेषु स्थिताः कालाभिमानिनः।
स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंयमात् ॥२६॥

अग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः।
जज्ञाते च पितृभ्यस्तु द्वे कन्ये लोकविश्रुते ॥२७॥

मेना च धारिणी चैव याभ्यां विश्वमिदं धृतम्।
पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे।
त उभे व्रह्मवादिन्यौ योगिन्यौ चैव ते उभे ॥२८॥

अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी।
धारणी मानसी चैव कन्या बर्हिषदां स्मृता ॥२९॥

मेरोस्तु धारणीं नाम पत्न्यर्थं व्यसृजन् शुभाम्।
पितरस्ते बर्हिषदः स्मृता ये सोमपीथिनः ॥३०॥

अग्निष्वात्तास्तु तां मेनां पत्नीं हिमवते ददुः।
स्मृतास्ते वै तु दौहित्रास्तद्दौहित्रान् निबोधत ॥३१॥

मेना हिमवतः पत्नी मैनाकं सान्वसूयत।
गङ्गा सरिद्वरा चैव पत्नी या लवणो दधेः।
मैनाकस्यानुजः क्रौञ्चः क्रौञ्चद्वीपो यतः स्मृतः ॥३२॥

मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम्।
मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः ॥३३॥

वेला च नियतिश्चैव तृतीया चायतिः पुनः।
धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता ॥३४॥

स्वायम्भुवेऽन्तरे पूर्वन्तयोर्वै कीर्तिताः प्रजाः।
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ॥३५॥

सावर्णिना च सामुद्री पत्नी प्राचीनबर्हिषः।
सवर्णा साथ सामुद्री दशप्राचीनबर्हिषः।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥३६॥

तेषां स्वायम्भुवौ दक्षः पुत्रत्वे जज्ञिवान् प्रभुः।
त्र्यम्बकस्याभिशापेन चाक्षुषस्यान्तरे मनोः ॥३७॥

एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनः।
उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु।
चाक्षुषस्यान्वये पूर्वं तन्नः प्रब्रूहि पृच्छताम् ॥३८॥

इत्युक्तः कथयामास सूतो दक्षाश्रितां कथाम्।
शांशपायनमामन्त्र्य त्र्यम्बकाच्छापकारणम् ॥३९॥

दक्षस्यासन् सुता ह्यष्टौ कन्या याः कीर्तिता मया।
स्वेब्यो गृहेभ्यो ह्यानाय्य ताः पिताभ्यर्च्चयद्गृहे।
ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे ॥४०॥

तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै।
नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ॥४१॥

अकरोत्स नतिं दक्षे न कदाचिन्महेश्वरः।
जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः ॥४२॥

ततो ज्ञात्वा सती सर्वाः स्वस्रः प्राप्ताः पितृर्गृहम्।
जगाम साप्यनाहूता सती तत् स्वं पितुर्गृहम् ॥४३॥

ततोऽब्रवीत् सा पितरं देवी क्रोधादमर्षिता।
यवीयसीब्यो ज्यायसीं किन्तु पूजामिमां प्रभो।
असम्मतामवज्ञाय कृतवानसि गर्हिताम् ॥४४॥

अहं ज्येष्ठा वरिष्ठा हि न त्वसत् कर्त्तुमर्हसि।
एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः ॥४५॥

त्वन्तु श्रेष्ठ वरिष्ठा च पूज्या बाला सदा मम।
तासां ये चैव भर्त्तारस्ते मे बहुमताः सदा ॥४६॥

ब्रह्नमष्ठाश्च तपिष्ठाश्च महायोगाः सुधार्मिकाः।
गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ॥४७॥

वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः।
भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥४८॥

तस्यात्मा स च ते शर्वो भक्ता चासि हि तं सदा।
तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥४९॥

इत्युवाच तदा दक्षः संप्रमूढेन चेतसा।
शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ॥५०॥

तथोक्ता पितरं सा वै क्रुद्धा देवीदमब्रवीत् ।
वाङ्मनःकर्मभिर्यस्माददुष्ठां मां विगर्हसे।
तस्मात्त्यजाम्यहन्देहमिदन्तात तवात्मजम् ॥५१॥

ततस्तेनावमानेन सती दुःखादमर्षिता।
अब्रवीद्वचनं तेवी नमस्कृत्य महेश्वरम् ॥५२॥

यत्राहमुपपत्स्येहं पुनर्देहेन भास्वता।
तत्राप्यहमसंमूढा सम्भूता धार्मिकी पुनः।
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धर्मतः ॥५३॥

तत्रैवाथ समासीना युक्तात्मानं समादधे।
धारयामास चाग्नेयीं धारणां मनसात्मनः ॥५४॥

तत आग्नेयीसमुत्थेन वायुना समुदीरितः।
सर्वाङ्गेभ्यो विनिः सृत्य वह्निर्भस्म चकार ताम् ॥५५॥

तदुपश्रुत्य निधनं सत्या देवोऽथ शूलधृक्।
संवादञ्च तयोर्बुद्ध्वा याथातथ्येन शङ्करः।
दक्षस्याथ ऋषीणाञ्च चुकोप भगवान् प्रभुः ॥५६॥

यस्मादवमता दक्ष मत्कृते मान सा सती।
प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥५७॥

तस्माद्वैवस्वतं प्राप्य पुनरेव महर्षयः।
उत्पत्स्यन्ते द्वितीये वै मम यज्ञे ह्ययोनिजाः ॥५८॥

हुते वै ब्रह्मणा शुक्ते चाक्षुषस्यान्तरे मनोः।
अभिव्याहृत्य च ऋषीन् दक्षमभ्यगमत् पुनः ॥५९॥

भविता चाक्षुषो राजा चाश्रुषस्य समन्वये।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ॥६०॥

दक्ष इत्येव नाम्ना त्वं मार्षायां जनयिष्यसि।
कन्यायां शाखिनाञ्चैव प्राप्ते वै चाक्षुषेऽन्तरे ॥६१॥

॥दक्ष उवाच॥
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते।
धर्मार्थकामयुक्तेषु कर्मस्विह पुनः पुनः ॥६२॥

यस्मात् त्वं मत्कृते क्रूरमृषीन् व्याहृतवानसि।
तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥६३॥

हुत्वाहुतिं ततः क्रूरः अपस्त्यक्ष्यन्ति कर्मसु।
इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात् ॥६४॥

॥रुद्र उवाच॥
सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते।
तमहं धारयिष्यामि निदेशात् परमेष्ठिनः ॥६५॥

अस्यां क्षितौ वृता लोकाः सर्वे तिष्ठन्ति भास्कराः।
तानहं धारयामीह सततं न तवाज्ञया ॥६६॥

चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते।
नाहं तैः सह भोक्ष्यामि ततो दास्यन्ति ते पृथक्।
ततो देवैः स तैः सार्द्धं नेज्यते पृथगिज्यते ॥६७॥

ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा।
स्वायम्भुवेऽन्तरे त्यक्त्वा उत्पन्नो मानुषेष्विह ॥६८॥

ज्ञात्वा गृहपतिं दक्षं ज्ञानानामीश्वरं प्रभुम्।
दक्षो नाम महायज्ञैः सोऽयजद्दैवतैः सह ॥६९॥

अथ देवी सती या तु प्राप्ते वैवस्वतेऽन्तरे।
मैनायां तामुमां देवीं जनयामास शैलराट् ॥७०॥

सा तु देवी सती पूर्वं ततः पश्चादुमाऽभवत्।
सह व्रता भवस्यैषा न तया मुच्यते भवः।
यावदिच्छति संस्थातुं प्रभुर्मन्वन्तरेष्विह ॥७१॥

मारीचं कश्यपं देवी यथाहितिरनुव्रता।
साध्यं नारायणं श्रीस्तु मघवन्तं शची यथा ॥७२॥

विष्णुं कीर्ती रुचिः सूर्यं वसिष्ठञ्चाप्यरून्धती।
नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कथंचन।
आवर्त्तमानकल्पेषु पुनर्जायन्ति तैः सह ॥७३॥

एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ॥७४॥

दशभ्यस्तु प्रचेतोभ्यो मार्षायाञ्च पुनर्नृपः।
जज्ञे रुद्राभिशापेन द्वितीयेऽस्मिन्निति श्रुतिः ॥७५॥

भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः।
आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह।
देवस्य महतो यज्ञे रुद्राभिशापेन द्वितीयेऽस्मिन्निति श्रुतिः ॥७६॥

इति सानुशयोऽह्यासीत्तयोर्जात्यन्तरागतः।
प्रजापतेस्तु दक्षस्य त्र्यम्बकस्य च धीमतः ॥७७॥

तस्मान्नानुशयः कार्यो वैरिष्विह कदाचन।
जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः।
जन्तुं न मुञ्चति ख्यातिस्तत्र कार्यं विजानता ॥७८॥

॥ऋषय ऊचुः॥
प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे।
विनाशामगमत् सूत हयमेधः प्रजापतेः ॥७९॥

देव्या मृत्युं कृतं मत्वा क्रुद्धं सर्वात्मकं प्रभुम्।
कथं प्रसादयद्दक्षः स यज्ञः साधितः कथम्।
एतद्वेदितुमिच्छामस्तन्नो ब्रूहि यथातथम् ॥८०॥

॥सूत उवाच॥
पूरा मेरोर्द्विजश्रेष्ठाः श्रृङ्गं त्रैलोक्यविश्रुतम्।
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ॥८१॥

अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम्।
तस्मिन् देवो गिरिश्रेष्ठे सर्वधातु विभूषिते।
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ॥८२॥

शैलराजसुता चास्य नित्यं पार्श्वस्थिताऽभवत्।
आधित्याश्च महात्मानो वसवश्चामितौजसः ॥८३॥

तथैव च महात्मानावश्विनौ भिषजां वरौ।
तथा वैश्रवणो राजा गुह्यकैः परिवारितः ॥८४॥

यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः।
उपासते महात्मानं उशना च महामुनिः.
सनत्कुमारप्रमुखास्ते चैव परमर्षयः ॥८५॥

अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे।
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥८६॥

अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः।
ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः ॥८७॥

सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमा स्तथा।
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ॥८८॥

महादेवं पशुपतिं पर्युपासन्ति तत्र वै।
भूतानि च तथान्यानि नानारूपधराण्यथ ॥८९॥

राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः।
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ॥९०॥

देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः।
नन्दीश्वरश्च भगवान् देवस्यानुम ते स्थितः ॥९१॥

प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा।
गङ्गा च सरितां श्वेष्ठा सर्वतीर्थजलोद्भवा।
पर्युपासत तन्देवरूपिणी द्विजसत्तमाः ॥९२॥

एवं स भगवांस्तत्र दीप्यमानः सुरर्षिभिः।
देवैश्च सुमहाबागैर्महादेवो व्यवस्थितः ॥९३॥

पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमारभत्।
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥९४॥

ततस्तस्य मखे देवाः शतक्रतुपुरोगमाः।
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥९५॥

स्वैर्विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः।
देवस्यानुमनेऽगच्छन् गङ्गाद्वार इति श्रुतिः ॥९६॥

गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम्।
ऋषिसङ्घैः परिवृतं दक्षं धर्मभृतां वरम् ॥९७॥

पृथिव्यामन्तरिक्षे वा ये च स्वर्लोकवासिनः।
सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥९८॥

आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः।
जिष्णुना सहिताः सर्वे आगता यज्ञभागिनः ॥९९॥

ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा।
अश्विनौ पितरश्चैव आगता ब्रह्मणा सह ॥१००॥

एते चान्ये च बहवो भूतग्रामास्तथैव च।
जरायुजाण्डजाश्चैव स्वेदजोद्भिज्जकास्तथा ॥१०१॥

आहूता मन्त्रतः सर्वे देवाश्च सह पत्निभिः।
विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ॥१०२॥

तान् दष्ट्वा मन्युमाविष्टो दधीचो वाक्यमब्रवीत्।
अपूज्यपूजने चैव पूज्यानां चाप्यपूजने।
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥१०३॥

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत।
पूज्यन्तु पशुभर्त्तारं कस्मान्नाह्वयसे प्रभुम् ॥१०४॥

॥दक्ष उवाच॥
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्द्दिनः।
एकादशावस्थगता नान्यं वेझि महेश्वरम् ॥१०५॥

॥दधीच उवाच॥
सर्वे निमन्त्रिता देवा येन ईशो निमन्त्रितः।
यथाहं शङ्करादूर्द्ध्वं नान्यं पश्यामि दैवतम्।
तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ॥१०६॥

॥दक्ष उवाच॥
एतन्मखे शूर सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम्।
विष्णोर्नयाम्यप्रतिमस्य सर्वं प्रभोर्विभो ह्याहवनीयनित्यम् ॥१०७॥
गतास्तु देवता ज्ञात्वा शैलराजसुता तदा।
उवाच वचनं साध्वी देवं पशुपतिं तदा ॥१०८॥

॥उमोवाच॥
भगवन् व्क गता ह्येते देवा- शक्रपुरोगमाः ।
बूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥१०९॥

॥महेश्वर उवाच॥
दक्षो नाम महाभागो प्रजानां पतिरूत्तमः।
हयमेधेन यजते तत्र यान्ति दिवौकसः ॥११०॥

॥देव्युवाच॥
यज्ञमेतं महाभाग किमर्थं न गतोऽसि वै।
केन वा प्रतिषेधेन गमनं प्रतिषिध्यते ॥१११॥

॥महेश्वर उवाच॥
सुरैरेव महाभागे सर्वमेतदनुष्ठितम्।
यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥११२॥

पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धीमतः ॥११३॥

॥देव्युवाच॥
भगवन् सर्वदेवेषु प्रभावानधिको गुणैः ।
अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥११४॥

अनेन तु महाभाग प्रतिषेधेन नामतः ।
अतीव दुःखमापन्ना वेपथुश्च ममानघ ॥११५॥

किं नाम दानं नियमन्तपो वा कुर्य्यामहं येन पतिर्ममाद्य।
लभेत भागं भगवानचिन्त्यो यज्ञस्य चार्द्धं त्वथ वा तृतीयम् ॥११६॥

एवं ब्रुवाणां भगवानचिन्त्यः पत्नीं प्रहृष्टः क्षुभितामुवाच।
न वेत्सि देवेशि कृशोदराङ्गि किं नाम युक्तं वचनन्तवेदम् ॥११७॥

अहं हि जानामि विशालनेत्रे ध्यानेन सर्वं हि वदन्ति सन्तः।
न वाद्य मोहेन महेन्द्रदेवो लोकत्रयं सर्वथा संप्रमूढम् ॥११८॥

मामध्वरे शंसितारः स्तुवन्ति रथन्तरे साम गायन्ति गेयम्।
मां ब्राह्मणा ब्रह्मसत्रे यजन्ते माध्वर्य्यवः कल्पयन्ते च भागम् ॥११९॥

॥देव्युवाच॥
अप्राकृतोऽपि भगवान् सर्वस्त्रीजनसंसदि।
स्तौति गोपा यते वापि स्वमात्मानं न संशयः ॥१२०॥

॥भगवानुवाच॥
नात्मानं स्तौमि देवेशि पश्य त्वमुपगच्छ च।
यं स्रक्ष्यामि वरारोहे भागार्थं वरवर्णिनि ॥१२१॥

एवमुक्त्वा तु भगवान् पत्नीं प्राणैरपि प्रियाम्।
सोऽसृजद्भगवान्वक्राद्भूतं क्रोधाग्निसन्निभम् ॥१२२॥
सहस्रशीर्षं देवञ्च सहस्रचरणे क्षणम्।
सहस्रमुद्गरधरं सहस्रशरपाणिनम् ॥१२३॥

शङ्खचक्रगदापाणिं दीप्तकार्मुकधारिणम्।
परश्वसिधरं देवं महारौद्रं भयावहम् ॥१२४॥

घोर रूपेण दीप्यन्तं चन्द्रार्धकृतभूषणम्।
वसानं चर्म वैयाघ्रं महारुधिरनिःस्रवम् ॥१२५॥

दंष्ट्राकरालं विभ्रान्तं महावक्त्रं महोदरम्।
विद्युज्जिह्वं प्रलम्बोष्ठं लम्बकर्णं दुरासदम् ॥१२६॥

कुलिशोद्योतितकरम्भाभिर्ज्वलितमूर्द्धजम्।
ज्वालामालापरिक्षिप्तं मुक्तादामविभूषितम् ॥१२७॥

तेजसा चैव दीप्यन्तं युगान्तमिव पावकम्।
आकर्णदारितास्यान्तञ्चतुर्दिक्षु भयानकम् ॥१२८॥

महाबलं महातेजं महापुरुषमीश्वरम्।
विश्वहर्तृमहा कायं महान्यग्रोधमण्डलम्।
युगपच्चन्द्रशतवद्दीप्यन्तं मन्मथाग्निवत् ॥१२९॥

चतुर्महास्यं सिततीक्ष्णदंष्ट्रं महोग्रतेजोबलकौतुकाढयम्।
युगान्तसूर्य्याग्निसहस्रभासं सहस्रचन्द्रामलकान्तिकान्तम्।
प्रदीप्तसर्वौषधिमन्दराभं सुमेरुकैलासहिमाद्रितुल्यम् ॥१३०॥

युगार्काभं महावीर्य्यं चारुनासं महाननम्।
प्रचण्डगण्डं दीप्ताक्षमग्निज्वालाविलाननम् ॥१३१॥

मृगेन्द्रकृत्तिवसनं महाभुजगवेष्टितम्।
उष्णीषिणं चन्द्रधरं व्कचिदुग्रं व्कचित्समम् ॥१३२॥

नानाकुसुममूर्द्धानं नानागन्दानुलेपनम् ।
नानारत्नविचित्राङ्गं नानाभरणभूषितम् ॥१३३॥

कर्णिकारस्रजं दीप्तं क्रोधादुद्भ्रान्तलोचनम्।
व्कचिन्नृत्यति चित्राङ्गं व्कचिद्वदति सुस्वरम् ॥१३४॥

व्कचिद्ध्यायति युक्तात्मा व्कचित्स्तूलं प्रमार्जति।
व्कचिद्गायति विश्वात्मा व्कचिद्रौति मुहुर्मुहुः ॥१३५॥

ज्ञानं वैराग्यमैश्वर्य्यं तपः सत्यं क्षमा धृतिः।
प्रभुत्वमात्मसंबोधो ह्यधिष्ठानगुणैर्युतः ॥१३६॥

जानुभ्यामवनिं गत्वा प्रणतः प्राञ्जलिः स्थितः।
आज्ञापय त्वं देवेश किं कार्य्यं करवाणि ते ॥१३७॥

तमुवाचाक्षिप मखं दक्षस्येह महेश्वरः।
देवस्यानुमतिं श्रुत्वा वीरभद्रो महाबलः।
प्रणम्य शिरसा पादौ देवेशस्य उमापतेः ॥१३८॥

ततो बन्धात् प्रमुक्तेन सिंहेनेवेह लीलया।
देव्या मन्युकृतं मत्वा हतो दक्षस्य स क्रतुः ॥१३९॥

मन्युना च महाभीमा भद्रकाली महेश्वरी।
आत्मनः सर्वसाक्षित्वे तेन सार्द्ध सहानुगा ॥१४०॥

स एष भगवान् क्रुद्धः प्रेतावासकृतालयः।
वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ॥१४१॥

सोऽसृजद्रोमकूपेभ्यो रौद्रान्नाम गणेश्वरान्।
रुद्रानुगा महावीर्य्या रुद्रवीर्यपराक्रमाः ॥१४२॥

रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः।
ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्रशः ॥१४३॥

ततः किलकिलाशब्द आकाशं पूरयन्निव।
तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः॥ ३०.१४४॥

पर्वताश्च व्यशीर्यन्त कम्पते च वसुन्धरा।
मेरुश्च धूर्णते विप्राः क्षुभ्यन्ते वरूणालयाः ॥१४५॥

अग्नयो नैव दीप्यन्ते न च दीप्यन्ति भस्कराः।
ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ॥१४६॥

ऋषयो नाभ्यभाषन्त न देवा न च दानवाः।
एवं हि तिमिरीभूतं निर्द्दहन्ति विमानिताः ॥१४७॥

सिंहनादं प्रमुञ्चन्ते घोररूपा महाबलाः।
प्रभञ्जन्ते परे घोरा यूपानुत्पाटयन्ति च ॥१४८॥

प्रमर्द्दन्ति तथा चान्ये विनृत्यन्ति तताऽपरे।
आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ॥१४९॥

चूर्णन्ते यज्ञपात्राणि यागस्यायतनानि च।
शीर्यमाणानि दृश्यन्ते तारा इव नभस्तलात् ॥१५०॥

दिव्यान्नपानभक्षाणां राशयः पर्वतोपमाः।
क्षीर नद्यस्तथा चान्या घृतपायसकर्दमाः.
मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः ॥१५१॥

षड्रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः।
उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥१५२॥

यानि कानि च दिव्यानि लेह्यञ्चोष्यं तथापरे।
भुञ्जते विविधैर्वक्त्रैर्विलुण्ठन्ति च सर्वसः।
क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥१५३॥

रुद्रकोपप्रयुक्तास्तु सर्वदेवैः सुरक्षितम्।
तं यज्ञमहनन् शीघ्रं रुद्रकल्पाः समीपतः ॥१५४॥

चक्रुरन्ये तथा नादान् सर्वभूतभयंकरान्।
छित्त्वा शिरोऽन्ये यज्ञस्य विनदन्ति भयङ्कराः ॥१५५॥

दक्षो दक्षपतिश्चैव देवो यज्ञपतिस्तथा।
मृगरूपेण चाकाशे प्रपलायितुमारभत् ॥१५६॥

वीरभद्रोऽप्रमेयात्मा ज्ञात्वा तस्य बलन्तदा।
अन्तरिक्षगतस्याशु चिच्छेदास्य शिरो महान् ॥१५७॥

दक्षः प्रजापतिश्चैव विनष्ट भ्रान्तचेतनः।
क्रुद्धेन वीरभद्रेण शिरः पादेन पीडितः।
जराभिभूततीव्रात्मा निपपात महीतले ॥१५८॥

त्रयस्त्रिंशद्देवतानां ताः कोटयो विमलात्मकाः।
पाशेनाग्निबलेनाशु बद्धाः सिंहबलेन च ॥१५९॥

ततो जग्मुर्महात्मानं सर्वे देवा महाबलम्।
प्रसीद भगवन् रुद्र बृत्यानां मा कुधः प्रभो ॥१६०॥
ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः।
ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥१६१॥

॥वीरभद्र उवाच॥
न च देवो न चादित्यो न च भोक्तुमिहागतः।
नैवद्रष्टुं हि देवेन्द्रान्न च कौतूहलान्वितः ॥१६२॥

दक्षयज्ञविनाशार्थं सम्प्राप्तं विद्धि मामिह।
वीरभद्र इति ख्यातं रुद्रकोपाद्विनिर्गतम् ॥१६३॥

भद्रकाली च विज्ञेया देव्याः क्रोधाद्विनिर्गता।
प्रेषिता देवदेवेन यज्ञान्तिकमिहागता ॥१६४॥

शारणं गच्छ राजेन्द्र देवं ते त्वमुमापतिम्।
वरं क्रोधोऽपि रुद्रस्य वरदानं न देवतः ॥१६५॥

वीरभद्रवचः श्रुत्वा दक्षो धर्म्मभृतां वरः।
तोषयामास देवेशं शूलपाणिं महेश्वरम् ॥१६६॥

प्रदुष्टे यज्ञवादे तु विद्रुतेषु द्विजातिषु।
तारामृगमये दीप्ते रौद्रे भीममहानले ॥१६७॥

शूलनिर्भिन्नवदनैः कूजद्भिः परिचारकैः।
निखातोत्पाटितैर्यूपैरपविद्धै र्य्यतस्ततः ॥१६८॥

उत्पत्द्भिः पतद्भिश्च गृध्रैरामिषगृध्रुभिः।
पक्षपातविनिर्धूतैः शिवाशतनिनादितैः ॥१६९॥

प्राणापानौ सन्निरुध्य ततः स्थानेन यत्नतः।
विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् ॥१७०॥

सहसा देवदेवेशः अग्निकुण्डादुपागतः।
चन्द्रसूर्य्यसहस्रस्य तेजः संवर्त्तकोपमम् ॥१७१॥

प्रहस्य चैनं भगवानिदं वचनमब्रवीत्।
नष्टस्ते ज्ञानतो दक्ष प्रीतिस्ते मयि सांप्रतम् ॥१७२॥

स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते।
श्रावितञ्च समाख्याय देवानां गुरुभिः सह ॥१७३॥

तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः।
भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः ॥१७४॥

यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः।
यदि वाहमनुग्राह्यो यदि देयो वरो मम ॥१७५॥

यज्जग्धं भक्षितं पीतमशितं यच्च नाशितम्।
चूर्णीकृतञ्जापविद्धं यज्ञसम्भारमीदृशम् ॥१७६॥

दीर्घकालेन महता प्रयत्नेन च सञ्चितम्।
तन्न मिथ्या भवेन्मह्यं वरमेतं वृणोम्यहम् ॥१७७॥

तथास्त्वित्याह भगवान् भगनेत्रहयो हरः।
धर्माध्यक्षं महादेवं त्र्यक्षन्तं वै प्रजापतिः ॥१७८॥

जानुभ्यामवनिं गत्वा दक्षो लब्ध्वा भवाद्वरम्।
नाम्नामष्टसहस्रेण स्तुतवान् वृषभध्वजम् ॥१७९॥

॥दक्ष उवाच॥
नमस्ते देवदेवेश देवारिबलसूदन।
देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ॥१८०॥

सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय।
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः।
सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ॥१८१॥

शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय।
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ॥१८२॥

शतोदर शतावर्त्त शतजिह्व शतानन।
गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ॥१८३॥

देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः।
मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ॥१८४॥

सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते।
शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ॥१८५॥

आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम्।
क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च ॥१८६॥

असच्च सदसच्चैव तथैव प्रभवाव्ययम्।
नमो भवाय शर्वाय रुद्राय वरदाय च ॥१८७॥

पशूनां पतये चैव नमस्त्वन्धकघातिने।
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ॥१८८॥

त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः।
नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ॥१८९॥

दण्डि(?) मासक्तकर्णाय दण्डिमुण्डाय वै नमः।
नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ॥१९०॥

विलोहिताय धूम्राय नालग्रीवाय ते नमः।
नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ॥१९१॥

सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने।
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ॥१९२॥

नमो हिरण्यगर्भाय हिरण्यकवचाय च।
हिरण्यकृतचूडाय हिरण्यपतये नमः ॥१९३॥

सत्रघाताय दण्डाय वर्णपानपुटाय च।
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥१९४॥

सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने।
नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ॥१९५॥

नमो नमाय नम्याय नमः किलिकिलाय च।
नमस्ते शयमानाय शयितायोत्थिताय च ॥१९६॥

स्थिताय चलमानाय मुद्राय कुटिलाय च।
नप्नो नर्त्तनशीलाय मुखवादित्रकारिणे ॥१९७॥

नाट्योपहारलुब्धाय गीतवाद्यरताय च।
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ॥१९८॥

कलनाय च कल्पाय क्षयायोपक्षयाय च।
भीमदुन्दुभिहासाय भीमसेनप्रियाय च ॥१९९॥

उग्राय च नमो नित्यं नमस्ते दशबाहवे।
नमः कपालहस्ताय चिताभस्मप्रियाय च ॥२००॥

विभीषणाय भीष्माय भीष्मव्रतधराय च।
नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे ॥२०१॥

पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च।
नमो वृषाय वृष्याय वृष्णये वृषणाय च ॥२०२॥

कटङ्कटाय चण्डाय नमः सावयवाय च।
नमस्ते वरकृष्णाय वराय वरदाय च ॥२०३॥

वरगन्धमाल्यवस्त्राय वरातिवरये नमः ।
नमो वर्षाय वाताय छायायै आतपाय च ॥२०४॥

नमो रक्तविरक्ताय शोभनायाक्षमालिने।
सम्भिन्नाय विभान्नाय विविक्तविकटाय च ॥२०५॥

अघोररूपरूपाय घोरघोरतराय च ।
नमः शिवाय शान्ताय नमः शान्ततराय च ॥२०६॥

एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते।
नमो वृद्धाय लुब्धाय संविभागप्रियाय च ॥२०७॥

पञ्चमालार्चिताङ्गाय नमः पाशुपताय च।
नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ॥२०८॥

सहसशतघण्टाय घण्टामालाप्रियाय च।
प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ॥२०९॥

हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च।
नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ॥२१०॥

गर्भमांसश्रृगालाय तारकाय तराय च ।
नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥२११॥

यज्ञवाहाय दानाय तप्याय तपनाय च।
नमस्तटाय भव्याय तडितां पतये नमः ॥२१२॥

अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च।
नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ॥२१३॥

सहस्रोद्यतशूलाय सहस्रनयनाय च।
नमोऽस्तु बालरूपाय बालरूपधराय च ॥२१४॥

बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च।
नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ॥२१५॥

तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः।
नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥२१६॥

वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने।
मनो घोषाय घोष्याय नमः कलकलाय च ॥२१७॥

श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च ।
धर्मार्थ काममोक्षाय क्रथाय कथनाय च ॥२१८॥

साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः।
नमोरथ्यविरथ्याय चतुष्पथरताय च ॥२१९॥

कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने।
ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते।
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥२२०॥

काम कामद कामध्न धृष्टोदृप्तनिषूदन।
सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ॥२२१॥

महाबाल महाबाहो महासत्त्व महाद्युते।
महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥२२२॥

स्थूलजीर्णणाङ्गजटिने वल्कलाजिनधारिणे।
दीप्तशूर्याग्निजटिने वल्कलाजिनवाससे।
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥२२३॥

उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज।
चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ॥२२४॥

त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि।
अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ॥२२५॥

जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च।
त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ॥२२६ .
चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च।
त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥२२७॥

सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः।
ऋक्सामनि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥२२८॥

हविर्हावी हवो हावी हुवां वाचाहुतिः सदा।
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥२२९॥

यजुर्मयो ऋङ्मयस्व सामाथर्वमयस्तथा।
पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ॥२३०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये।
त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ॥२३१॥

संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च।
कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ॥२३२॥

वृषाणां ककुदं त्वं हिगिरीणां शिखराणि च।
सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥२३३॥

क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च।
वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ॥२३४॥

इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥२३५॥

त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा ।
छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ॥२३६॥

दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव ।
इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥२३७॥

लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः।
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥२३८॥

आदिश्वान्तश्च मध्यश्च गायत्र्योङ्कार एव च।
हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ॥२३९॥

कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा।
सुवर्णरेता विख्यातः सुवर्ण श्चाप्यतो मतः ॥२४०॥

सुवर्णनामा च तथा सुवर्णप्रिय एव च।
त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥२४१॥

उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च।
होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ॥२४२॥

सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम्।
पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ॥२४३॥

गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च।
सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ॥२४४॥

प्राणोऽपानः सामानश्च उदानो व्यान एव च।
उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥२४५॥

लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः।
सुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः ॥२४६॥

गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः।
मत्स्यो जली जलो जल्य जवः कालः कली कलः ॥२४७॥

विकालश्च सुकालश्च दुष्कालः कलनाशनः।
मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥२४८॥

संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ।
घटो घटीको घण्टीको चूडालोलबलो बलम् ॥२४९॥

ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक्।
चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥२५०॥

चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह।
क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥२५१॥

रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः।
शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥२५२॥

भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः।
गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ॥२५३॥

तरणस्ता रकश्चैव सर्वभूतसुतारणः।
धाता विधाता सत्वानां निधाता धारणो धरः ॥२५४॥

तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् ।
भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥२५५॥

भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः।
ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥२५६॥

ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते।
कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ॥२५७॥

मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः।
चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥२५८॥

हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् ।
अधर्महा महादण्डो दण्डधारो रणप्रियः ॥२५९॥

गोतमोगोप्रतारश्च गोवृषेश्चरवाहनः।
धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ॥२६०॥

त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च।
तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥२६१॥

दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः।
दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ॥२६२॥

शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट्।
आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ॥२६३॥

सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥२६४॥

दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः।
विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ॥२६५॥

मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः।
वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ॥२६६॥

वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः।
चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः।
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥२६७॥

न ब्रह्मा न च गोविन्दः पुराणऋषयो न च।
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥२६८॥

या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम्।
ताभिर्णां सततं रक्ष पिता पुत्रमिवौरसम् ॥२६९॥

रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते॥

भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥२७०॥

यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः।
तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥२७१॥

यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥२७२॥

सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते।
यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ॥२७३॥

प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि ।
ग्रसत्यर्कञ्च स्वर्भानुर्भुत्वा सोमाग्निरेव च ॥२७४॥

येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्।
रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ॥२७५॥

ये चाप्युत्पतिता गर्भादधोभागगताश्च ये।
तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ॥२७६॥

ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च।
हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥२७७॥

ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ॥२७८॥

चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च।
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥२७९॥

रसातलगता ये च ये च तस्मात्परङ्गताः।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः।
सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥२८०॥

सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान्।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥२८१॥

त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः।
त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥२८२॥

अथ वा मायया देव मोहितः सूक्ष्मया त्वया।
एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ॥२८३॥

प्रसीद मम देवेश त्वमेव शरणं मम।
त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ॥२८४॥

स्तुत्वैवं स महादेवं विरराम प्रजापातिः।
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥२८५॥

परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत।
बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ॥२८६॥

अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः।
कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ॥२८७॥

दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति।
अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ॥२८८॥

भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत।
प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः श्रृणु ॥२८९॥

अश्वमेधसहस्रस्य वाजपेयशतस्य च।
प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥२९०॥

वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः।
तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥२९१॥

अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम्।
वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ॥२९२॥

श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम्।
सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम्।
उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥२९३॥

अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम्।
तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥२९४॥

एवमुक्त्वा महादेवः सपत्नीकः सहानुगः।
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥२९५॥

अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः।
ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा।
शान्त्यर्थं सर्वभूतानां श्रृणुध्वं तत्र वै द्विजाः ॥२९६॥

शीर्षाभितापो नागानां पर्वतानां शिलारुजः।
अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ॥२९७॥

शौरकः सौरभेयाणामूषरः पृथिवीतले ।
इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥२९८॥

रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम्।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ॥२९९॥

अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम्।
शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः।
शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ॥३००॥

मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः।
मरणे जन्मनि तथा मध्ये च विशते सदा ॥३०१॥

एतन्माहेश्वरं तेजौ ज्वरो नाम सुदारुणः।
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥३०२॥

इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः ।
विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ॥३०३॥

दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः श्रृणोति वा।
नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ॥३०४॥

यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः।
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥३०५॥

यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः।
स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥३०६॥

व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः।
राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥३०७॥

अनेन चैव देहेन गणानां स गणाधिपः।
इह लोके सुखं प्राप्य गण एवोपपद्यते ॥३०८॥

न च यक्षाः पिशाचा वा न नागा न विनायकाः।
कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥३०९॥

श्रृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी।
पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥३१०॥

श्रृणुयाद्वा इदं सर्व कीर्त्तयेद्वाप्यभीक्ष्णशः।
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥३११॥

मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम्।
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ॥३१२॥

देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु।
बलिं विभवतः कृत्वा दमेन नियमेन च ॥३१३॥

ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम्।
ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः।
मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ॥३१४॥

सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः।
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते।
मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥३१५॥

वृषेव विधियुक्तेन विमानेन विराजते।
आभूतसंप्लवस्थायी रुद्रस्यानुचरो भवेत् ॥३१६॥

इत्याह भगवान् व्यासः पराशरसुतः प्रभुः ।
नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ॥३१७॥

श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः।
वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥३१८॥

श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु।
रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥३१९॥

इति श्रीमहापुराणे वायुप्रोक्ते दक्षशापवर्णनं नाम त्रिंशोऽध्यायः ॥३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:59.8170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सोन्याची मेख आणि तमाशा देख

  • तमाशा पहा. पैशानें सर्व कार्यें होतात. 
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.