TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ९

पूर्वार्धम् - अध्यायः ९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ९
॥ सूत उवाच ॥
ततोऽभिध्यायतस्तस्य जज्ञिरे मानसीप्रजाः।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह।
क्षेत्रज्ञाः समवर्त्तन्त गात्रेभ्यस्तस्य धीमतः ॥१॥

ततो देवासुरपितॄन् मानवञ्च चतुष्टयम्।
सिसृक्षुम्भांस्येतांश्च स्वात्मना समयूयुजत् ॥२॥

युक्तात्मनस्ततस्तस्य ततो मात्रा स्वयम्भुवः।
तमभिध्यायतः सर्गं प्रयत्नोऽभुत् प्रजापतेः ॥३॥

ततोऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः।
असुः प्राणः स्मृतो विप्रा स्तज्जन्मानस्ततोऽसुराः ॥४॥

यया सृष्टाः सुरास्तन्वा तां तनुं स व्यपोहत।
सापविद्धा तनुस्तेन सद्यो रात्रिरजायत ॥५॥

सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका।
आवृतास्तमसा रात्रौ प्रजास्तस्मात् स्वयम्भुवः ॥६॥

दृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत।
अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत्।
ततस्तां युञ्जतस्तस्य प्रियमासीत् प्रभोः किल ॥७॥

ततो मुखे समुत्पन्ना दीव्यतस्तस्य देवताः।
यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः ॥८॥

धातुर्द्दिवीति यः प्रोक्तः क्रीडायां स विभाव्यते।
तस्यान्तन्वान्तु दिव्यायां जज्ञिरे तेन देवताः ॥९॥

देवान् सृष्ठ्वाथ देवेशस्तनुमन्यामपद्यत।
सत्त्वमात्रात्मिकां देवस्ततोऽन्यां सोऽभ्यपद्यत ॥१०॥

पितृवन्मन्यमानस्तान् पुत्रान् प्राध्यायत प्रभुः।
पितरो ह्युपपक्षाभ्यां रात्र्यह्नोरन्तरासृजत्।
तस्मात्ते पितरो देवाः पुत्रत्वन्तेन तेषु तत् ॥११॥

यया सृष्टास्तु पितरस्तान्तनुं स व्यपोहत।
सापविद्धा तनुस्तेन सद्यः सन्ध्या प्रजायत ॥१२॥

तस्मादहस्तु देवानां रात्रिर्या साऽसुरी स्मृता।
तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी ॥१३॥

तस्माद्देवासुराः सर्वे ऋषयो मनवस्तथा।
ते युक्तास्तामुपासन्ते ब्रह्मणो मध्यमान्तनुम् ॥१४॥

ततोऽन्यां स पुनर्ब्रह्मा तनुं वै प्रत्यपद्यत।
रजोमात्रात्मिकायान्तु मनसा सोऽसृजत् प्रभुः ॥१५॥

रजःप्रायात् ततः सोऽथ मानसानसृजत् सुतान्।
मनसस्तु ततस्तस्य मानसा जज्ञिरे प्रजाः ॥१६॥

दृष्ट्वा पुनः प्रजाश्चापि स्वान्तनुन्ता मपौहत।
सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत ॥१७॥

तस्माद्भवन्ति संदृष्टा ज्योत्स्नाया उद्भवे प्रजाः।
इत्येतास्तनवस्तेन व्यपविद्धा महात्मना ॥१८॥

सद्यो रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च जज्ञिरे।
जयोत्स्ना सन्ध्या तथाहश्च सत्त्वमात्रात्मकं स्वयम्।
तमोमात्रात्मिका रात्रिः सा वै तस्मात्र्त्रियामि का ॥१९॥

तस्माद्देवा दिव्यतत्त्वात् दृष्‌टा सृष्टा मुखात्तु वै।
यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा ॥२०॥

तन्वा यदसुरान् रात्रौ जघनादसृ जत् प्रभुः ॥

प्राणेभ्यो रात्रिजन्मानो ह्यसह्या निशि तेन ते ॥२१॥

एतान्येव भविष्याणां देवानामसुरैः सह।
पितॄणां मानवानाञ्च अतीतानागतेषु वै।
मन्वन्तरेषु सर्वेषां निमित्तानि भवन्ति हि ॥२२॥

ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्याभासितानि वै।
भान्ति यस्मात्ततो भासि भाशब्दोऽयं मनीषिभिः।
व्याप्तिदीप्त्यां निगदितः पुनश्चाह प्रजापतिः ॥२३॥

सोऽम्भांस्येतानि दृष्ट्वा तु देवदानवमानवान्।
पितॄंश्च वासृजत्सोऽन्यानात्मनो विबुधान् पुनः ॥२४॥

तामुत्कृत्य तनुं कृत्स्नान्ततोऽन्यामसृजत् प्रभुः।
मूर्तिं रजस्तमःप्रायां पुनरेवाभ्ययूयुजत् ॥२५॥

अन्धकारे क्षुधाविष्ट स्ततोऽन्यां सृजते पुनः।
तेन सृष्टाः क्षुधात्मानस्तेऽम्भांस्यादातुमुद्यताः ॥२६॥

अम्भांस्येतानि रक्षाम उक्तवन्तश्च तेषु च।
राक्षसास्ते स्मृता लोके क्रोधात्मानो निशाचराः ॥२७॥

येऽब्रुवन् क्षिणुमोऽम्भांसि तेषां दृष्टाः परस्परम्।
तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः ॥२८॥

रक्षणे पालने चापि धातुरेष विभाव्यते।
य एष क्षितिधातुर्वै क्षयणे सन्निरुच्यते ॥२९॥

तान्दृष्ट्वा ह्यप्रियेणास्य केशा अशीर्यंत धीमतः।
शीतोष्णाच्चोच्छ्रिता ह्यूर्द्ध्वं तदारोहन्त तं प्रभुम् ॥३०॥

हीना मच्छिरसो व्याला यस्माच्चैवापसर्पिताः।
व्यालात्मानः स्मृता व्यालाद्धीनत्वादहयः स्मृताः ॥३१॥

पन्नत्वात्पन्नगाश्चैव सर्पाश्चैवापसर्पिणः।
तेषां वृथिव्यां निलयाः सूर्याचन्द्रमसोरधः ॥३२॥

तस्य क्रोधोद्भवो योऽसावग्निगर्भस्सुदारूणः।
स तु सर्पसहोत्पन्नानाविवेश विषात्मिकान् ॥३३॥

सर्पान् दृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्ममे।
वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः ॥३४॥

भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात्।
वयतो गास्ततस्तस्य गन्धर्वो जज्ञिरे तदा ॥३५॥

ध्यायतीत्येष धातुर्वै यात्रार्थे परिपठ्यते।
पिबतो जज्ञिरे गास्तु गंधर्वास्तेन ते स्मृताः ।.३६॥

अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः।
ततः स्वच्छन्दतोऽन्यानि वयांसि वय सोऽसृजत् ॥३७॥

छाद्यतस्तानि छन्दांसि वयसोऽपि वयांस्यपि।
शून्यान् दृष्ट्वा तु देवो वैऽसृजत्पक्षिगणानपि ॥३८॥

मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत्।
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ॥३९॥

पद्भ्याञ्चाश्चान् समातङ्गान् शरभान् गवयान् मृगान्।
उष्ट्रानश्चतरांश्चैव ताश्वान्याश्चैव जातयः ॥४०॥

ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे।
एवं पश्वोषधीः सृष्ट्वा न्ययुञ्जत्सोऽध्वरे प्रभुः ॥४१॥

तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा।
गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्द्दभौ।
एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोधत ॥४२॥

श्वापदा द्विखुरो हस्ती वानरः पक्षिपञ्चमाः।
उन्दकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः ॥४३॥

गायत्रं वरुणञ्चैव त्रिवृत्सौम्यं रथन्तरम्।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥४४॥

छन्दांसि त्रैष्टुभङ्कर्म स्तोमं पञ्चदशन्तथा।
बृहत्साममथोक्थञ्च दक्षिणात्सोऽसृजन्मुखात् ॥४५॥

सामानि जगती च्छन्दस्तोमं पञ्चदशन्तथा।
वैरूप्यमतिरात्रञ्च पश्चिमादसृजन्मुखात् ॥४६॥

एकविंशमथर्वाणमाप्तोर्यामाणमेव च।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥४७॥

विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च।
वयांसि च ससर्ज्जादौ कल्पस्य भगवान् प्रभुः ॥४८॥

उच्चावचानि भूतानि गात्रेब्यस्तस्य जज्ञिरे।
ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः ॥४९॥

सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः।
ततः सृजति भूतानि स्थावराणि चराणि च ॥५०॥

यक्षान् पिशाचान् गन्धर्वान् तथैवाप्सरसाङ्गणान्।
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ॥५१॥

अव्ययञ्च व्ययं चैव यदिदं स्थाणु जङ्गमम्।
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥५२॥

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥५३॥

महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु।
विनियोगञ्च भूतानां धातैव व्यदधात् स्वयम् ॥५४॥

केचित् पुरुषकारन्तु प्राहुः कर्म च मानवाः।
दैवमित्यपरे विप्राः स्वभावं दैवचिन्तकाः ॥५५॥

पौरुषं कर्म दैवञ्च फलवृत्तिस्वभावतः।
न चैकं न पृथग्भावमधिकं न तयोर्विदुः।
एतदेवञ्च नैकञ्च न चोभे न च वाप्युभे ॥५६॥

कर्मस्थान् विषयान् ब्रूयुः सत्त्वस्थाः समदर्शिनः।
नामरूपञ्च भूतानां कृतानाञ्च प्रपञ्चनम्।
वेदशब्धेभ्य एवादौ निर्ममे स महेश्वरः ॥५७॥

ऋषीणां नामधेयानि याश्च देवेषु दृष्टयः।
शर्वर्यन्ते प्रसूतानां तान्येवास्य दधाति सः ॥५८॥

यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥५९॥

एवंविधासु सृष्टासु ब्रह्मणाऽव्यक्तजन्मना।
शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम् ॥६०॥

एवंभूतानि सृष्टानि चराणि स्थावराणि च।
यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त धीमतः ॥६१॥

अथान्यान्मानसान् पुत्रान् सदृशानात्मनोऽसृजत्।
भृगुं पुलस्त्यं पुलहं क्रतुमाङ्गिरसन्तथा ॥६२॥

मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसम्।
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ।
तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम् ॥६३॥

ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसंभवम्।
संकल्पं चैव धर्मं च पूर्वेषामपि पूर्वजः ॥६४॥

अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्।
सनन्दनं ससनकं विद्वांसं च सनातनम् ॥६५॥

सनत्कुमारं च विभुं सनकं च सनन्दनम्।
न ते लोकेषु सर्ज्जन्ते निरपेक्षाः सनातनाः ॥६६॥

सर्वे ते ह्यागतज्ञाना वीतरागा विमत्सराः।
तेष्वेवं निरपेक्ष्येषु लोकवृत्तानुकारणात् ॥६७॥

हिरण्यगर्भो भगवान् परमेष्ठी ह्यचिन्तयत्।
तस्य रोषात्समुत्पन्नः पुरुषोऽर्क्कसमद्युतिः।
अर्द्धनारीनरवपुस्तेजसा ज्वलनोपमः ॥६८॥

सर्वं तेजोमयं जातमादित्यसमतेजसम्।
विभजात्मानमित्युक्त्वा तत्रैवान्तरधीयत ॥६९॥

एवमुक्त्वा द्विधाभूतः पृथक् स्त्री पुरुषः पृथक्।
स चैकादशधा जज्ञे अर्द्धमात्मानमीश्वरः ॥७०॥

तेनोक्तास्ते महात्मानः सर्व एव महात्मना।
जगतो बहुलीभावमधिकृत्य हितैषिणः ॥७१॥

लोकवृत्तान्तहेतोर्हि प्रयतध्वमतन्द्रिताः।
विश्वं विश्वस्य लोकस्य स्थापनाय हिताय च ॥७२॥

एवमुक्तास्तु रुरुदुर्दुद्रुवुश्च समन्ततः।
रोदनाद्द्रावणाच्चैव रुद्रा नाम्नेतिविश्रुताः ॥७३॥

यैर्हि व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्।
तेषामनुचरा लोके सर्वलोकपरायणाः ॥७४॥

नैकनागा युतबला विक्रान्ताशचव गणेश्वराः।
तत्र या सा महाभागा शंकरस्यार्द्धकायिनी ॥७५॥

प्रागुक्ता तु मया तुभ्यं स्त्री स्वयंभोर्मुखोद्गता।
कायार्द्धं दक्षिणन्तस्याः शुक्लं वामं तथाऽसितम् ॥७६॥

आत्मानं विभजस्वेति सोक्ता देवी स्वयंभुवा।
सा तु प्रोक्ता द्विधाभूता शूक्ला कृष्णा च वै द्विजाः।
तस्या नामानि वक्ष्यामि श्रृणुध्वं सुसमाहिताः ॥७७॥

स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती।
अपर्णा चैकपर्णा च तथा स्यादेव पाटला ॥७८॥

उमा हैमवती षष्ठी कल्याणी चैव नामतः।
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता ॥७९॥

विश्वरूपमथार्यायाः पृथग्देहविभावनात्।
श्रृणु संक्षेपतस्तस्या यथावदनुपूर्वशः ॥८०॥

प्रकृतिर्नियता रौद्री दुर्गा भद्रा प्रमाथिनी।
कालरात्रिर्महामाया रेवती भुतनायिका ॥८१॥

द्वापरान्तविकारेषु देव्या नामानि मे श्रृणु।
गौतमी कौशिकी आर्या चण्डी कात्यायनी सती ॥८२॥

कुमारी यादवी देवी वरदा कृष्णपिङ्गला।
बर्हिर्ध्वजा शूलधरा परमब्रह्मचारिणी ॥८३॥

माहेन्द्री चेन्द्रभगिनी वृषकन्यैकवाससी।
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी ॥८४॥

एकानसा दैत्यहनी माया महिषमर्द्दिनी।
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका ॥८५॥

देवीनामविकाराणि इत्येतानि यथाक्रमम्।
भद्रकाल्यास्तवोक्तानि देव्या नामानि तत्त्वतः ॥८६॥

ये पठन्ति नरास्तेषां विद्यते न पराभवः।
अरण्ये प्रान्तरे वापि पुरे वापि गृहेऽपि वा ॥८७॥

रक्षामेतां प्रयुञ्जीत जले वापि स्थलेऽपि वा।
व्याध्रकुम्भीरचौरेभ्यो भूतस्थाने विशेषतः।
आधिष्वपि च सर्वासु देव्या नामानि कीर्त्तयेत् ॥८८॥

अर्भकग्रहभूतैश्च पूतनामातृभिः सदा।
अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत् ॥८९॥

महादेवी कुले द्वे तु प्रज्ञा श्रीश्च प्रकीर्त्त्यते।
आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत् ॥९०॥

साऽसृजद् व्यवसायन्तु धर्मं भूतसुखावहम्।
सङ्कल्पञ्चैव कल्पादौ जज्ञिरेऽव्यक्तयोनितः ॥९१॥

मानसश्च रुचिर्न्नाम विज्ञेयो ब्रह्मणः सुतः।
प्राणात् स्वादसृजद्दक्षञ्चक्षुर्भ्याञ्च मरीचिकम् ॥९२॥

भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः।
शिरसोऽङ्गिरसञ्चैव श्रोत्रादत्रिन्तथैव च ॥९३।
पुलस्त्यञ्च तथोदानाद्य्वानाच्च पुलहं पुनः।
समानजं वसिष्ठन्तु अपानान्निर्ममे क्रतुम् ॥९४॥

अभिमानात्मकं भद्रं निर्ममे नीललोहितम्।
इत्येते ब्रह्मणः पुत्राः प्राणजा द्वादश स्मृताः ॥९५॥

इत्येते मानसाः पुत्रा विज्ञेया ब्रह्मणः सुताः।
भृग्वादयस्तु ये सृष्टा ना चैते ब्रह्मवादिनः ॥९६॥

गृहमेधिनः पुराणास्ते धर्मस्तैः प्राक् प्रवार्त्तितः।
द्वादशैते प्रवर्त्तन्ते सह रुद्रेण वैप्रजाः ॥९७॥

ऋभुः सनत्कुमारस्तु द्वावेतावूर्द्ध्वरेतसौ।
पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ ॥९८॥

व्यतीते प्रथमे कल्पे पुराणे लोकसाधकौ।
वैराजे तावुभौ लोके तेजः संक्षिप्य चास्थितौ ॥९९॥

तावुभौ योगधर्माणावारोप्यात्मानमात्मनि।
प्रजाधर्मञ्च कामञ्च वर्त्तयेतां महौजसा ॥१००॥

यथोत्पन्नस्तथैवेह कुमार इति चोच्यते।
तस्मात्सनत्कुमारोयमिति नामास्य कीर्तितम् ॥१०१॥

तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः।
क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ॥१०२॥

इत्येष करणोद्भूतो लोकान् स्रष्टुं स्वयंभुवः।
महदादिविशेषान्तो विकारः प्रकृतेः स्वयम् ॥१०३॥

चन्द्रसूर्यप्रभालोको ग्रहनक्षत्रमण्डितः।
नदीभिश्च समुद्रैश्च पर्वतैश्च समावृतः ॥१०४॥

पुरैश्च विविधाकारैः प्रीतैर्ज्जनपदैस्तथा।
तस्मिन् ब्रह्मवनेऽव्यक्ते ब्रह्मा चरति शर्वरीम् ॥१०५॥

अव्यक्तबीजप्रभवस्तस्यैवानुग्रहोत्थितः।
बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः ॥१०६॥

महाभूतप्रशाखश्च विशेषैः पत्रवांस्तथा।
धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः ॥१०७॥

आजीवः सर्वभूतानामयं वृक्षः सनातनः।
एतद्ब्रह्मबलं चैव ब्रह्मवृक्षस्य तस्य ह ॥१०८॥

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्।
इत्येषोऽनुग्रहः सर्गो ब्रह्मणः प्राकृतस्तु यः ॥१०९॥

मुख्यादयस्तु षट्‌सर्गा वैकृता बुद्धिपूर्वकाः।
त्रैकाले समवर्तन्त ब्रह्मणस्तेऽभिमानिनः ॥११०॥

सर्गाः परस्परस्याथ कारणं ते बुधैः स्मृताः।
दिव्यौ सुपर्णौ सयुजौ सशाखौ पटविद्रुमौ ॥

एकस्तु योद्रुमं वेत्ति नान्यः सर्वात्मनस्ततः ॥१११॥

द्यौर्मूर्द्धानं यस्य विप्रास्तुवन्ति खन्नाभिं वै चन्द्रसूर्यौ च नेत्रे।
दिशः श्रोत्रे चरणौ चास्य भूमिः सोऽचिन्त्यात्मा सर्वभूत प्रसूतिः ॥११२॥

वक्राद्यस्य ब्राह्मणाः संप्रसूता यद्वक्षस्तः क्षत्रियाः पूर्वभागे।
वैश्याश्वोरोर्यस्य पद्भयां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥११३॥

महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम्।
अण्डाज्जज्ञे पुनर्ब्रह्मा येन लोकाः कृतास्त्विमे ॥११४॥

इति श्रीमहापुरणे वायुप्रोक्ते देवादिसृष्टिवर्णनं नाम नवमोऽध्यायः ॥९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:58.7700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stupid

  • मठ्ठ, मूर्ख 
  • मूर्खपणाचा, बिनडोक 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.