TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ४१

पूर्वार्धम् - अध्यायः ४१

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ४१
॥सूत उवाच॥
विविक्तचारुशिखरं पत्रितं शङ्खवर्चसम्।
कैलासं देवभक्तानामालयं सुकृतात्मनाम् ॥१॥

तस्य कूटतटे रम्ये मध्यमे कुन्दसन्निभे।
योजनानां शतायामे पञ्चाशच्च तथायतम् ॥२॥

सुवर्णमणिचित्राभि अनेकाभिरलंकृतम्।
महाभवनमालाभिर्भूषितं नैकविस्तरम् ॥३॥

धनाध्यक्षस्य देवस्य कुबेरस्य महात्मनः।
नगरन्तदनाधृष्यमृद्धियुक्तं मुदायुतम् ॥४॥

तस्य मध्ये सभा रम्या नानाकनकमण्डिता।
विपुला नाम विख्याता विपुलस्तम्भतोरणा ॥५॥

तत्र तत्पुष्पकं नाम नानारत्नविभूषितम्।
महाविमानं रुचिरं सर्वकामगुणैर्युतम् ॥६॥

मनोजवं कामगमं हेमजालविभूषितम्।
वाहनं यक्षराजस्य कुबेरस्य महात्मनः ॥७॥

तत्रैकपिङ्गलो देवो महादेवसखः स्वयम्।
वसति स्म स यक्षेन्द्रः सर्वभूतनमस्कृतः ॥८॥

तत्राप्सरोगणैर्य्यक्षैर्गन्धर्वैः सिद्धचारणैः।
वसति स्म महात्माऽसौ कुबेरो देवसत्तमः ॥९॥

तत्र पझमहापझौ तथा मकरकच्छपौ।
कुमुदः शङ्ख नीलौ च नन्दनो निधिसत्तमः ॥१०॥

अष्टावेतेऽक्षया दिव्या धनेशस्य महात्मनः।
महानिधानास्तिष्ठन्ति सभायां रत्नसञ्चिताः ॥११॥

तथेन्द्राग्नियमादीनां देवानामप्सरोगणैः।
तेषां कैलास आवासो यत्र यक्षेश्वरः प्रभुः ॥१२॥

कृत्वा पूर्वमुपस्थानं यक्षेन्द्रस्य महात्मनः।
पश्चाद्गच्छन्ति ये यस्य विहिताः परिचारकाः ॥१३॥

तत्र मन्दाकिनी नाम सुरम्या विपुलोदका।
सुवर्णमणिसोपाना नानापुष्पोत्कटोत्कटा ॥१४॥

जाम्भूनदमयैः पझैर्गन्धस्पर्शगुणान्वितैः।
नीलवैढूर्य्यपत्रैश्च गन्धोपैतैर्महोत्पलैः ॥१५॥

तथा कुमुदखण्डैश्च महापझैरलङ्कृता ।
यक्षगन्धर्वनारीभिरप्सरोभिश्च शोभिता ॥१६॥

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
उपस्पृष्टजला रम्या वापी मन्दाकिनी तथा ॥१७॥

तथा अलकनन्दा च नन्दा च सरितां वरा ।
एतैरेव गुणैर्युक्ता नद्यो देवर्षिसेविताः ॥१८॥

तस्यैव शैलराजस्य पूर्वे कूटे परिश्रुताः।
सहस्रयोजनायामास्त्रिंशद्योजन विस्तराः ॥१९॥

दश गन्धर्वनगराः समृद्ध्या परया युताः।
महाभवनमालाभिरनेकाभिर्विभूषिताः ॥२०॥

सुबाहुहरिकेशाद्या श्चित्रसेनजरादयः।
दश गन्धर्वराजानो दीप्तवह्निपराक्रमाः ॥२१॥

तस्यैव पश्चिमे कूटे कुन्देन्दुसदृशप्रभे।
नानाधातुशतैश्चित्रैः सिद्ध देवर्षिसेविते ॥२२॥

अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम्।
एकैकयक्षभवनं महाभवनमालिनम् ॥२३॥

महायक्षालयान्यत्र त्रिंशदाढ्यानि मे श्रृणु।
मुदाऽथ परमद्धर्या च संयुक्तानि समन्ततः ॥२४॥

महामालिसुनेत्राद्यास्तथा मणिवरादयः।
उदीर्णा यक्षराजानस्तत्र त्रिंशत्सदा बभुः ॥२५॥

इत्येते कथिता यक्षा वाय्वग्निसमतेजसः।
येषामधिपतिर्देवः श्रीमान् वैश्रवणः प्रभुः ॥२६॥

तस्यैव दक्षिणे पार्श्वे हिमवत्यचलोत्तमे।
निकुञ्जनिर्झरगुहानैकसानुदरीतटे ॥२७॥

अर्णवादर्णवं यावत् पूर्वपश्चायतेऽचले।
किन्नराणां पुरशतं निविष्टं वै व्कचित् व्कचित् ॥२८॥

नैकश्रृङ्गकलापस्य शैलराजस्य कुक्षिषु।
नरनारीप्रमुदितं हृष्टपुष्टजनाकुलम् ॥२९॥

द्रुमसुग्रीवसैन्याद्या भगदत्तपुरःसराः ।
यत्र राजशतं तेषां दीप्तानां बलशालिनाम् ॥३०॥

विवाहो यत्र रुद्रस्य महादेव्योमया सह।
तपस्तप्तवती चैव यत्र देवी वराङ्गना ॥३१॥

किरातरूपिणा चैव यत्र रुद्रेण क्रीडितम्।
यत्र चैव कृतं ताभ्यां जम्बूद्वीपावलोकनम् ॥३२॥

यत्र ताः सम्मुदा युक्ता नानाभूतगणैर्युताः।
चित्रपुष्पफलोपेता रुद्रस्याक्रीडभूमयः ॥३३॥

हृष्टा गिरिदरीवासाः कृशोदर्य्यो मनोरमाः।
कुन्दर्यो यत्र किन्नर्य्यो रमन्ते स्म सुलोचनाः ॥३४॥

विशालाक्षास्तथा यक्षा अन्याश्चाप्सरसाङ्गणाः।
गन्धर्वाश्चाङ्गशालिन्यो यत्र तत्र मुदा युताः ॥३५॥

तत्रैवोमावनं नाम सर्वलोकेषु विश्रुतम्।
अर्धनारीनरं रुपं धृतवान् यत्र शंकरः ॥३६॥

तथा शरवणं नाम यत्र जातः षडाननः ।
यत्र चैव कृतोत्साहः क्रौञ्चशैलवनं प्रति ॥३७॥

ध्वजापताकिनञ्चैव किङ्किणीजालमालिनम्।
यत्र सिंहरथं युक्तं कार्तिकेयस्य धीमतः ॥३८॥

चित्रपुष्पनिकुञ्जस्य क्रौञ्चस्य च गिरेस्तटे।
देवारिस्कन्दनः स्कन्दो यत्र शक्तिं विमुक्तवान् ॥३९॥

यत्राभिषिक्तश्च गुहः सेन्द्रोपेन्द्रैः सुरोत्तमैः।
सेनापत्ये च दैत्यारिर्द्वादशार्कप्रतापवान् ॥४०॥

भूतसङ्घावकीर्णानि एतान्यन्यानि च द्विजाः।
तत्र तत्र कुमारस्य स्थानान्यायतनानि च ॥४१॥

तथा पाण्डुशिला नाम ह्याक्रीडा क्रौञ्चघातिनः।
नानाभूतगणाकीर्णे पृष्ठे हिमवतः शुभे ॥४२॥

तस्य पूर्वे तटे रम्ये सिद्धावासमुदाहृतम्।
कलापग्राममित्येवं नाम्ना ख्यातं मनीषिभिः ॥४३॥

मृकण्डस्य वसिष्ठस्य भरतस्य नलस्य च।
विश्वामित्रस्य विप्रर्षेस्तथैवोद्दालकस्य च ॥४४॥

अन्येषाञ्चोग्रतपसामृषीणां भावितात्मनाम्।
हिमवत्याश्रमाणाञ्च सहस्राणि शतानि च ॥४५॥

नैकसिध्दगणावासं स्थानायतनमण्डितम्।
यक्षगन्धर्वचरितं नानाम्लेच्छगणैर्युतम् ॥४६॥

नानारत्नाकरापूर्णं नानासत्त्वनिषेवितम्।
नानानदीसहस्राणां सम्भवं वरपर्वतम् ॥४७॥

पश्चिमस्याचलेन्द्रस्य निषधस्य यथार्थवत्।
कीर्त्त्यमानमशेषेण विशेषं श्रृणुत द्विजाः ॥४८॥

विस्तीर्णे मध्यमे कूटे हेमधा तुविबूषिते।
दीप्तमायतनं विष्णोः सिद्धर्षिगणसेवितम्।
यक्षाप्सरःसमाकीर्णं गन्धर्वगणसेवितम् ॥४९॥

तत्र साक्षान्महादेवः पीताम्बरधरो हरिः।
वरदः सेव्यते सिर्द्धैर्लोककर्त्ता सनातनः ॥५०॥

तस्यैवाब्यन्तरे कूटे नानाधातुविभूषिते।
तटे निषधकूटस्य श्लक्ष्णचारुशिलातले ॥५१॥

रुक्मकाञ्चननिर्यूहं तप्तकाञ्चनतोरणम्।
अनेकवलभीकूटप्रलोलीशतसङ्कटम् ॥५२॥

हर्म्यप्रासादमतुलं तप्तकाञ्चनभूषितम्।
हर्म्यप्रासादबद्धञ्च मुदितञ्चातिविस्तरम् ॥५३॥

उद्यानमालाकलितं त्रिंशद्योजनमायतम्।
दुःप्रसह्यममित्रैस्तत् पूर्णमाशीविषोपमैः।
उलङ्घीनां प्रमुदितं रक्षसां राक्षसं पुरम् ॥५४॥

तस्यैव दक्षिणे पार्श्वे नैकदैत्यगणालये।
गुहाप्रवेशं नगरं शैलकुक्षौ दुरासदम् ॥५५॥

तथैव पश्चिमे कूटे पारिजातशिलोच्चये।
देवदानवभागानां समृद्धानि पुराणि तु ॥५६॥

तत्र सोमशिला नाम गिरेस्तस्य महातटे।
सोमो यत्रावतरति सदा पर्वसु पर्वसु ॥५७॥

उपासतेऽत्र श्रीमन्तं तारा पतिमनिन्दितम्।
ऋषिकिन्नरगन्धर्वाः साक्षाद्देवं तमोनुदम् ॥५८॥

तत्रैव चोत्तरे कूटे ब्रह्मपार्श्वमिति स्मृतम्।
स्थानं तत्र सुरेशस्य ब्रह्मणः प्रथितं दिवि ॥५९॥

इज्यापूजानमस्कारैस्तत्र सिद्धाः स्वयम्भुवम्।
उपासते महात्मानं यक्षगन्धर्वदानवाः ॥६०॥

तथैवायतनं वह्नेः सर्वलोकेषु विश्रुतम्।
तत्र विग्रहवान् वाह्निः सेव्यते सिद्धचारणैः ॥६१॥

तथैव चोत्तरे रम्ये त्रिश्रृङ्गे वरपर्वते।
ऋषिसिद्धानुचरिते नानाभूतगणालये।
पुरं तत् त्रिषु लोकेषु हेमचित्रन्तु विश्रुतम् ॥६२॥

त्रयाणां देवमुख्यानां त्रीण्येवायतनानि च।
नारायणस्यायतनं पूर्वकूटे द्विजोत्तमाः ।
मध्यमे ब्रह्मणः स्थानं शङ्करस्य तु पश्चिमे ॥६३॥

दैत्यदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
इजाना अभिपूज्यन्ते देवदेवा महाबलाः ॥६४॥

तथा पुराणि रम्याणि देशे चैव व्कचित् व्कचित्।
यक्षगन्धर्वनागानां त्रिश्रृङ्गे वरपर्वते ॥६५॥

तथैव चोत्तरे देशे चारुधौ देवपर्वते।
अनेकश्रृङ्गकलिते सिद्धसाधु निषेविते ॥६६॥

यक्षाणां किन्नराणाञ्च गन्धर्वाणां सहस्रशः।
नागानां राक्षसानाञ्च दैत्यानाञ्च महाबले ॥६७॥

कूटे तु मध्यमे तस्य सिद्धसङ्घ निषेविते।
रम्ये देवर्षिचरिते रत्नधातुविभूषिते ॥६८॥

पझोत्पलवनैः फुल्लैः सौगन्धिकवनैस्तथा।
तथा कुमुदखण्डैश्च विकचैरुपशोभिते ॥६९॥

विहङ्गसङ्घसंघुष्टं नानासत्वनिषेवितम्।
हंसकारण्डवाकीर्णं मत्तषट्‌पदसेवितम् ॥७०॥

नानासत्वगणाकीर्णं विहङ्गैरुपशोभितम्।
चारुतीर्थसुसम्बाधं त्रिंशद्योजनमण्डलम् ॥७१॥

सिद्धैरुपस्पृष्टजलं जलदोषविवर्जितम्।
तत्रानन्दजलन्नाम महापुण्यजलं सरः ॥७२॥

तत्र नागपति श्चण्ड श्चण्डो नाम दुरासदः।
शतशीर्षा महाभागो विष्णुचक्राङ्कचिह्नितः।
इत्येवमष्टौ विज्ञेया विचित्रा देवपर्वताः ॥७३॥।

पुरैरायतनैः पुण्यैः पुण्योदैश्च सरोवरैः।
सुवर्णपर्वतैर्नैकैस्तथा रजतपर्वतैः ॥७४॥

नानारत्नप्रभासैश्च नैकैश्च मणिपर्वतैः।
हरितालपर्वतैर्नैकैस्तथा हिङ्गुलकाञ्चनैः ॥७५॥

शुद्धैर्मनः शिलाजालैर्भास्वरैररुणप्रभैः ।
नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः ॥७६॥

पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः।
नदीकन्दरशैलाद्यै रनेकैश्चित्रसानुभिः ॥७७॥

इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः।
किन्नरोरगगन्धर्वैर्विचित्रैः सिद्धचारणैः ॥७८॥

गन्धर्वैरप्सरोभिश्च सेविता नैक विस्तराः।
पुण्यकृद्भिः समाकीर्णा केसराकृतयो नगाः ॥७९॥

गिरिजालन्तु तन्मेरोः सिद्धलोकमिति स्मृतम्।
चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम् ॥८०॥

नात्युग्रकर्मसिद्धानां प्रतिमा मध्यमाः स्मृताः।
स हि स्वर्ग इति ख्यातः क्रमस्त्वेष प्रकीर्तितः ॥८१॥

चतुर्महाद्वीपवती सेयमुर्वी प्रकीर्तिता॥

नानावर्णप्रमाणैर्हि नानावर्णबलैस्तथा ॥८२॥

नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः।
प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह॥ ४१.८३॥

चत्वारो नैकवर्णाद्या महाद्वीपाः परिश्रुताः।
भद्राश्च भरताश्चैव केतुमालाश्च पश्चिमाः।
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥८४॥

सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला।
पृथिवी कीर्तिता कृत्स्ना पझाकारा मया द्विजाः ॥८५॥

तदेषा सान्तरद्वीपा सशैलवनकानना।
पझेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा ॥८६॥

सब्रह्मसदनं लोकं सदेवासुरमानुषम्।
त्रिलोकमिति विख्यातं यत्सत्त्वैर्व्यवहार्यते ॥८७॥

चन्द्रादित्यावतप्तं यत्तज्जगत् परिगीयते।
गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम् ॥८८॥

तं लोकपझं श्रुतिभिः पझमित्यभिधीयते।
एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः ॥८९॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकचत्वारिंशोऽध्यायः ॥४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:00.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

unconsolidated material

  • अदृढित पदार्थ 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.