TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ६०

पूर्वार्धम् - अध्यायः ६०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ६०
॥ऋषय ऊचुः॥
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम्।
कथं वेदा पुरा व्यस्तास्तन्नो ब्रूहि महामते ॥१॥

॥सूत उवाच॥
द्वापरे तु परावृत्ते मनोः स्वायम्भुवेऽन्तरे ।
ब्रह्मा मनुमुवाचेदं तद्वदिष्ये महामते ॥२॥

परिवृत्ते युगे तात स्वल्पवीर्या द्विजातयः।
संवृत्तां युग दोषेण सर्वे चैव यथाक्रमम् ॥३॥
भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते।
दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ॥४॥

वीर्यं तेजो बलं वाक्यं सर्वञ्चैव प्रणश्यति।
वेदवेदा हि कार्याः स्युर्माभूद्वेदविनाशनम् ॥५॥

वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति।
यत्रे नष्टे देवनाशस्ततः सर्वं प्रणश्यति ॥६॥

आद्यो वेदश्चतुष्पादः शतसाहस्रसंज्ञितः।
पुनर्दशगुणः कृत्स्नो यज्ञो वै सर्वकामधुक् ॥७॥

एवमुक्तस्तथेत्युक्त्वा मनुर्लोकहिते रतः।
वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥८॥

ब्रह्मणो वचनात्तात लोकानां हितकाम्यया।
तदिदं वर्त्तमानेन युष्माकं वेदकल्पनम् ॥९॥

मन्वन्तरेण वक्ष्यामि व्यतीतानां प्रकल्पनम्।
प्रत्यक्षेण परोक्षं वै तन्निबोधत सत्तमाः ॥१०॥

अस्मिन् युगे कृतो व्यासः पाराशर्यः परन्तपः।
द्वैपायन इति ख्यातो विष्णोरंशः प्रकीर्तितः ॥११॥

ब्रह्मणा चोदितः सोऽस्मिन् वेदं व्यस्तुं प्रचक्रमे।
अथ शिष्यान् स जग्राह चतुरो वेदकारणात् ॥१२॥

जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च।
पैलन्तेषां चतुर्थन्तु पञ्चमं लोमहर्षणम् ॥१३॥

ऋग्वेदश्रावकं पैलञ्जग्राह विधिवद् द्विजम् ।
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥१४॥

जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत।
तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ॥१५॥

इतिहासपुराणस्य वक्तारं सम्यगेव हि।
माञ्चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥१६॥

एक आसीद्यजुर्वेदस्तञ्चतुर्द्धा व्यकल्पयत्।
चतुर्होत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ॥१७॥

आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च।
उद्गात्रं सामभिश्वक्रे ब्रह्मत्वञ्चाप्यथर्वभिः।
ब्रह्मत्वमकरोद्यज्ञे वेदेनाथर्वणेन तु ॥१८॥

ततः सऋचमुद्धृत्य ऋग्वेदं समकल्प यत्।
होतृकं कल्प्यते तेन यज्ञवाहं जगद्धितम् ॥१९॥

सामभिः सामवेदञ्च तेनोद्गात्रमरोचयत् ।
राज्ञस्त्वथर्ववेदेन सर्वकर्माण्यकारयत् ॥२०॥

आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कुलकर्मभिः।
पुराणसंहिताश्चक्रे पुराणार्थविशारदः ॥२१॥

यच्छिष्टन्तु यजुर्वेदे तेन यज्ञमथायुजत्।
युञ्जानः स यजुर्वेदे इति शास्त्रविनिश्चयः ॥२२॥

पदानामुद्धृतत्वाच्च यजूंषि विषमाणि वै ।
स तेनोद्धृतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः।
प्रयुज्यते ह्यश्वमेधस्तेन वा युज्यते तु सः ॥२३॥

ऋचो गृहीत्वा पैलस्तु व्यभजत्तद् विधा पुनः ।
द्विष्कृत्वा संयुगे चैव शिष्याभ्यामददत्प्रभुः ॥२४॥

इन्द्रप्रमतये चैकां द्वितीयां बाष्कलाय च।
चतस्रः संहिताः कृत्वा बाष्कलिर्द्विजसत्तमः।
शिष्यानध्यापयामास शुश्रूषाभिरतान् हितान् ॥२५॥

बोधन्तु प्रथमां शाखां द्वितीयामग्निमाठरम्।
पाराशरं तृतीयान्तु याज्ञवल्क्यामथापराम् ॥२६॥

इन्द्रप्रमतिरेकान्तु संहितां द्विजसत्तमः।
अध्यापयन्महाभागं मार्कण्डेयं यशस्विनम् ॥२७॥

सत्यश्रवसमग्र्यन्तु पुत्रं स तु महायशाः।
सत्यश्रवाः सत्यहितं पुनरध्यापयद् द्विजः ॥२८॥

सोऽपि सत्यतरं पुत्रं पुनरध्यापयद्विभुः।
सत्यश्रियं महात्मानं सत्यधर्मपरायणम् ॥२९॥

अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः ।
सत्यश्रियस्तु विद्वासः शास्त्रग्रहणतत्पराः ॥३०॥

शाकल्यः प्रथमस्तेषां तस्मादन्यो रथ(ा)न्तरः ।
बाष्कलिश्च भरद्वाज इति शाखाप्रवर्तकाः ॥३१॥

देवमित्रस्तु शाकल्यो ज्ञानाहङ्कारगर्वितः।
जनकस्यस यज्ञे वै विनाशमगमद् द्विजः ॥३२॥

॥शांशपायन उवाच॥
कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः।
जनकस्याश्वमेधेन कथं वादो बभूव ह ॥३३॥

किमर्थञ्चाभवद्वादः केन सार्द्धमथापि वा।
सर्वमेतद्यथावृत्तमाचक्ष्व विदितन्तव।
ऋषीणान्तु वचः श्रुत्वा तदुत्तरमथाब्रवीत् ॥३४॥

॥सूत उवाच॥
जनकस्याश्वमेधे तु महानासीत्समागमः।
ऋषीणान्तु सहस्राणि तत्राजग्मुरनेकशः।
राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षवः ॥३५॥

आगतान् ब्राह्मणान् दृष्ट्वा जिज्ञासास्याभवत्ततः।
कोन्वेषां ब्राह्मणः श्रेष्ठः कथं मे निश्चयो भवेत्।
इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥३६॥

गवां सहस्रमादाय सुवर्णमधिकं ततः।
ग्रामान् रत्नानि दासांश्च मुनीन् प्राह नराधिपः।
सर्वानहं प्रपन्ननोऽस्मि शिरसा श्रेष्ठभागिनः ॥३७॥

यदेतदाहृतं वित्तं ये वः श्रेष्ठतमो भवेत्।
तस्मै तदुपनीतं हि विद्यावित्तं द्विजोत्तमाः ॥३८॥

जनकस्य वचः श्रुत्वा मुनयस्ते श्रुतिक्षमाः।
दृष्ट्वा धनं महासारं धनवृद्ध्या जिघृक्षवः ।
श्रद्धयाञ्चक्रुरन्योन्यं वेदज्ञानमदोल्बणाः ॥३९॥

मनसा गतवित्तास्ते ममेदं धनमित्युत।
ममैवैतन्न वेत्यन्यो ब्रूहि किं वा विकल्ष्यते।
इत्येवं धनदोषेण वादांश्चक्रुरनेकशः ॥४०॥

तथान्यस्तत्र वै विद्वान् ब्रह्मवाहसुतः कविः।
याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ॥४१॥

ब्रह्मणोऽङ्गात् समुत्पन्नो वाक्यं प्रोवाच सुस्वरम्।
शिष्यं ब्रह्मविदां श्रेष्ठो धनमेतद् गृहाण भो ॥४२॥

नयस्व च गृहं वत्स ममैतन्नात्र संशयः।
सर्ववेदेष्वहं वक्ता नान्यः कश्चित्तु मत्समः।
योवा न प्रीयते विप्रः स मे ह्यवतु माऽचिरम् ॥४३॥

ततो ब्रह्मार्णवः क्षुब्धः समुद्र इव सम्प्लवे ।
तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥४४॥

क्रोध माकार्षुविद्वांसो भवन्तः सत्यवादिनः।
वदामहे यथायुक्तं जिज्ञासन्तः परस्परम् ॥४५॥

ततोऽभ्युपागमंस्तेषां वादा जग्मुरनेकशः।
सहस्रधा शुभैरर्थैः सूक्ष्मदर्शनसम्भवैः ॥४६॥

लोके वेदे तथाध्यात्मे विद्यास्थानैरलंकृताः।
शापोत्तमगुणैर्युक्ता नृपौघपरिवर्जनाः ।
वादाः समभवंस्तत्र धनहेतोर्महात्मनाम् ॥४७॥

ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः।
सर्वे ते मुनयस्तेन याज्ञवल्क्येन धीमता ।
एकैकशस्ततः पृष्टा नैवोत्तरमथाव्रुवन् ॥४८॥

तान्विजित्य मुनीन् सर्वान् ब्रह्मराशिर्महाद्युतिः।
शाकल्यमिति होवाच वादकर्त्तारमञ्जसा ॥४९॥

शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्टसे।
पूर्णस्त्वं जडमानेन वाताध्मातो यथा दृतिः ॥५०॥

एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः।
प्रोवाच याज्ञवल्क्यं तं पुरुषं मुनिसन्निधौ ॥५१॥

त्वमस्मांस्तृणवत्त्यक्त्वा तथैवेमान् द्विजोत्तमान्।
विद्याधनं महासारं स्वयंग्राहं जिघृक्षसि ॥५२॥

शाकल्येनैवनुक्तः स्याद्याज्ञवल्क्यः समब्रवीत्।
ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥५३॥

कामश्चार्थेन सम्बद्धस्तेनार्थं कामयामहे ।
कामप्रश्रधना विप्राः कामप्रश्रान्वदामहे ॥५४॥

पणश्चैषोऽस्य राजर्षेस्तस्मान्नीतं धनं मया।
एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः।
याज्ञवल्क्यमथोवाच कामप्रश्रार्थमद्वचः ॥५५॥

ब्रूहीदानीं मयोद्दिष्टान् कामप्रश्रान् यथार्थतः।
ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ॥५६॥

साग्रं प्रश्नसहस्रन्तु शाकल्यस्तमुचूचुदत्।
याज्ञवल्क्योऽब्रवीत्सर्वान् ऋषीणां श्रृण्वतां तदा ॥५७॥

शाकल्ये चापि निर्वादे याज्ञवल्क्यस्तमब्रवीत् ।
प्रश्रमेकं ममापि त्वं वद शाकल्य कामिकम्।
शापः पणोऽस्य वादस्य अब्रुवन् मृत्युमाव्रजेत् ॥५८॥

अथ सन्नोदितं प्रश्रं याज्ञवल्क्येन धीमता ।
शाकल्यस्तमविज्ञाय सद्यो मृत्युमवाप्नुयात् ॥५९॥

एवं मृतः स शाकल्यः प्रश्रव्याख्यानपीडितः।
एवं वादश्च सुमहानासीत्तेषां धनार्थिभिः।
ऋषीणां मुनिभिः सार्द्धं याज्ञवल्क्यस्य चैव हि ॥६०॥

सर्वैः पृष्टांस्तु सम्प्रश्रान् शतशोऽथ सहस्रशः।
व्याख्याय वै मुने तेषां प्रश्रसारं महागतिः ॥६१॥

याज्ञवल्क्यो धनं गृह्य यशो विख्याप्य चात्मनः।
जगाम वै गृहं स्वस्थः शिष्यैः परिवृतो वशी ॥६२॥

देवमित्रस्तु शाकल्यो महात्मा द्विजसत्तमः।
चकार संहिताः पञ्चबुद्धिमान् पदवित्तमः ॥६३॥

तच्छिष्या अभवन् पञ्च मुद्घलो गोलकस्तथा।
खालीयश्च तथा मत्स्वः शैशिरेयस्तु पञ्चमः ॥६४॥

प्रोवाच संहितास्तिस्रः शाकपूर्णरथीतरः।
निरुक्तञ्च पुनश्चक्रे चतुर्थं द्विजसत्तमः ॥६५॥

तस्य शिष्यास्तु चत्वारः केतवो दालकिस्तथा।
धर्मशर्मा देवशर्मा सर्वे व्रतधरा द्विजाः ॥६६॥

शाकल्ये तु मृते सर्वे ब्रह्मघ्नास्ते बभूविरे।
तदा चिन्तां परां प्राप्य गतास्ते ब्रह्मणोऽन्तिकम् ॥६७॥

तान् ज्ञात्वा चेतसा ब्रह्मा प्रेषितः पवनःपुरे।
तत्र गच्छत यूयं वःसद्यः पापं प्रणश्यति ॥६८॥

द्वादशार्कं नमस्कृत्या तथा वै वालुकेश्वरम् ।
एकादश तथा रुद्रान् वायुपुत्रं विशेषतः।
कुण्डे चतुष्टये स्नात्वा ब्रह्महत्यां तरिष्यथ ॥६९॥

सर्वे शीघ्रतरा भूत्वा तत्पुरं समुपागताः।
स्नानं कृतं विधानेन देवानां दर्शनं कृतम् ॥७०॥

उत्तरेश्वरं नमस्कृत्य वाडवानां प्रसादतः।
सर्वे पापविनिर्मुक्ता गतास्ते सूर्यमण्डलम् ॥७१॥

तदा प्रभृति तत्तीर्थं जातं पातकनाशनम्।
वायोः पुरं पवित्रञ्च वायुना निर्मितं पुरा ॥७२॥

अञ्जनागर्भसम्भूतहनुमान्पवनात्मजः।
यदा जातो महादेवोहनुमान्सत्यविक्रमः।
तदेवं निर्मितं तीर्थं वायुना ब्रह्मयोनिना ॥७३॥

ऊर्व्यां जातास्तु ये शूद्रा ब्राह्मणानां निवेदिताः।
वृत्त्यर्थं ब्रह्मयज्ञार्थं करस्तेषु कृतो महान् ॥७४॥

अनेन विधिना जातं विप्राणां शासनं महत् ।
गोघ्नो वापि कृतघ्नो वा सुरापी गुरूतल्पगः।
वाडादित्यं नमस्कृत्य सर्वपापैः प्रमुच्यते ॥७५॥

इति श्रीमहापुराणे वायुप्रोक्ते महास्थानतीर्थवर्णनं नाम षष्टितमोऽद्यायः ॥६०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:01.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

creep strength

  • शीण सामर्थ्य 
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.