TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः १

पूर्वार्धम् - अध्यायः १

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः १
श्रीगणेशाय नमः ॥

नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥

जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥

प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम्।
महादेवं महात्मानं सर्वस्य जगतः पतिम् ॥१॥

ब्रह्माणं लोककर्त्तारं सर्वज्ञमपराजितम्।
प्रभुं भूतभविष्यस्य साम्प्रतस्य च सत्पतिम् ॥२॥

ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः।
ऐश्वर्यञ्चैव धर्मश्च सहसिद्धिचतुष्टयः ॥३॥

य इमान् पश्यते भावान्नित्यं सदसदात्मकान्।
आविशन्ति पुनस्तं वै क्रियाभावार्थमीश्वरम् ॥४॥

लोककृल्लोकतत्त्वज्ञो योगमास्थाय तत्त्ववित्।
असृजत् सर्वभूतानि स्थावराणि चराणि च ॥५॥

तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्।
पुराणाख्यानजिज्ञासुर्व्रजामि शरणं प्रभुम् ॥६॥

ब्रह्मवायुमहेन्द्रेभ्यो नमस्कृत्य समाहितः।
ऋषीणाञ्च वरिष्ठाय वसिष्ठाय महात्मने ॥७॥

तन्नप्त्त्रे चातियशसे जातूकर्णाय चर्षये।
वसिष्ठाय च शुचये कृष्णद्वैपायनाय च ॥८॥

पुराणं सम्प्रवक्ष्यामि ब्रह्मोक्तं वेदसम्मितम्।
धर्मार्थन्यायसंयुक्तैरागमैः सुविभूषितम् ॥९॥

असीमकृष्णे विक्रान्ते राजन्येऽनुपमत्विषि।
प्रशासतीमां धर्मेण भूमिं भूमिपसत्तमे ॥१०॥

ऋषयः संशितात्मानः सत्यव्रतपरायणाः।
ऋजवो नष्टरजसः शान्ता दान्ता जितेन्द्रियाः ॥११॥

धर्मक्षेत्रे कुरुक्षेत्रे दीर्घसत्रन्तु ईजिरे।
नद्यास्तीरे दृषद्वत्याः पुण्यायाः शुचिरोधसः।
दीक्षितास्ते यथाशास्त्रं नैमिषारण्यगोचराः ॥१२॥

द्रष्टुं तान् स महाबुद्धिः सूतः पौराणिकोत्तमः।
लोमानि हर्षयाञ्चक्रे श्रोत्रूणां यत् सुभाषितैः।
कर्मणा प्रथितस्तेन लोकेऽस्मिँल्लोमहर्षणः ॥१३॥

तपःश्रुताचारनिधेर्वेदव्यासस्य धीमतः।
शिष्यो बभूव मेधावी त्रिषु लोकेषु विश्रुतः ॥१४॥

पुराण वेदो ह्यखिलो यस्मिन् सम्यक् प्रतिष्ठितः।
भारती चैव विपुला महाभारतवर्द्धिनी ॥१५॥

धर्मार्थकाममोक्षार्थाः कथा यस्मिन् प्रतिष्ठिताः।
सूक्ताः सुपरिभाषाश्च भूमावोषधयो यथा ॥१६॥

स तान् न्यायेन सुधियो न्यायविन्मुनिपुङ्गवान्।
अभिगम्योपसंसृत्य नमस्कृत्य कृताञ्जलिः।
तोषयामास मेधावी प्रणिपातेन तानृषीन् ॥१७॥

ते चापि सर्त्रिणः प्रीताः ससदस्या महौजसः।
तस्मै साम च पूजाञ्च यथावत् प्रतिपेदिरे ॥१८॥

अथ तेषां पुराणस्य शुश्रूषा समपद्यत।
दृष्ट्वा तमातिविश्वस्तं विद्वांसं लोमहर्षणम् ॥१९॥

तस्मिन् सत्रे गृहपतिः सर्वशास्त्रविशारदः।
इङ्गितैर्भावमालक्ष्य तेषां सूतमनोदयत् ॥२०॥

त्वया सूत महाबुद्धिर्भगवान् ब्रह्मवित्तमः।
इतिहासपुराणार्थं व्यासः सम्यगुपासितः।
दुदोह वै मतिं तस्य त्वं पुराणाश्रयां कथाम् ॥२१॥

एषाञ्च ऋषिमुख्यानां पुराणं प्रति धीमताम्।
शुश्रूषास्ति महाबुद्धे तच्छ्रावयितुमर्हसि ॥२२॥

सर्वे हीमे महात्मानो नाना गोत्राः समागताः।
स्वान् स्वान् वंशान् पुराणैस्तु श्रृणुयुर्ब्रह्मवादिनः ॥२३॥

सपुत्रान् दीर्घसत्रेऽस्मिञ्छ्रवयेथा मुनीनथ।
दीक्षिष्यमाणैरस्माभि स्तेन प्रागसि संस्मृतः ॥२४॥

इति सन्नोदितः सूतस्तैरेव मुनिभिः पुरा।
पुराणार्थं पुराणज्ञैः सत्यव्रतपरायणैः ॥२५॥

स्वधर्म एष सूतस्य सद्भिर्दृष्टः पुरातनैः।
देवतानामृषीणाञ्च राज्ञाञ्चामिततेजसाम् ॥२६॥

वंशानां धारणं कार्यं श्रुतानाञ्च महात्मनाम्।
इतिहासपुराणेषु दिष्टा ये ब्रह्मवादिभिः ॥२७॥

न हि वेदेष्वधिकारः कश्वित् सूतस्य दृश्यते।
वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः।
सुत्यायामभवत् सूतः प्रथमं वर्णवैकृतः ॥२८॥

ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः।
जुहावेन्द्राय देवाय ततः सूतो व्यजायत।
प्रमादात्तत्र सञ्जज्ञे प्रायश्चित्तञ्च कर्मसु ॥२९॥

शिष्यहव्येन यत् पृक्तमभिभूतं गुरोर्हविः।
अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतः ॥३०॥

यच्च क्षत्रात् समभवद्ब्राह्मणाऽवरयोनितः।
ततः पूर्वेण साधर्म्यात्तुल्यधर्मा प्रकीर्त्तितः ॥३१॥

मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम्।
रथनागाश्वचरितं जघन्यञ्च चिकित्सितम् ॥३२॥

तत् स्वधर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः।
कस्मात् सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥३३॥

पितॄणां मानसी कन्या वासवी समपद्यत।
अपध्याता च पितृभिर्मत्स्ययोनौ बभूव सा ॥३४॥

अरणीव हुताशस्य निमित्तं यस्य जन्मनः।
तस्यां जातो महायोगी व्यासो वेदविदां वरः ॥३५॥

तस्मै भगवते कृत्वा नमो व्यासाय वेधसे॥

पुरुषाय पुराणाय भृगुवाक्यप्रवर्त्तिने।
मानुषच्छद्मरूपाय विष्णवे प्रभविष्णवे ॥३६॥

जातमात्रञ्च यं वेद उपतस्थे ससङ्ग्रहः।
धर्ममेव पुरस्कृत्य जातूकर्णादवाप तम् ॥३७॥

मतिं मन्थानमाविध्य येनासौ श्रुतिसागरात्।
प्रकाशं जनितो लोके महाभारतचन्द्रमाः ॥३८॥

वेदद्रुमश्च यं प्राप्य सशाखः समपद्यत।
भूमिकालगुणान् प्राप्य बहुशाखो यथा द्रुमः ॥३९॥

तस्मादहमुपश्रुत्य पुराणं ब्रह्मवादिनः।
सर्वज्ञात्सर्ववेदेषु पूजिताद्दीप्ततेजसः ॥४०॥

पुराणं सम्प्रवक्ष्यामि यदुक्तं मातरिश्वना।
पृष्टेन मुनिभिः पूर्वं नैमिषीयैर्महात्मभिः ॥४१॥

महेश्वरः परोऽव्यक्तश्चतुर्बाहुश्चतुर्मुखः।
अचिन्त्यश्चाप्रमेयश्च स्वयम्भूर्हेतुरीश्वरः ॥४२॥

अव्यक्तं कारणं यद्यन्नित्यं सदसदात्मकम्।
महदादिविशेषान्तं सृजतीति विनिश्चयः ॥४३॥

अण्डं हिरण्मयञ्चैव बभूवाप्रतिमं ततः।
अण्डस्यावरणञ्चाद्भिरपामपि च तेजसा ॥४४॥

वायुना तस्य नभसा नभो भूतादिना वृतम्।
भूतादिर्महता चैव अव्यक्तेनावृतो महान् ॥४५॥

अतोऽत्र विश्वदेवानामृषीणाञ्चोपवर्णितम्।
नदीनां पर्वतानाञ्च प्रादुर्भावोऽत्र शस्यते ॥४६॥

मन्वन्तराणां सर्वेषां कल्पानाञ्चोपवर्णनम्।
कीर्त्तनं ब्रह्मक्षत्रस्य ब्रह्म जन्म च कीर्त्त्यते ॥४७॥

अतो ब्रह्मणि स्रष्टृत्वं प्रजासर्गोपवर्णनम्।
अवस्थाश्चात्र कीर्त्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः ॥४८॥

कल्पानां वत्सराश्चैव जगतः स्थापनन्तथा।
शयनञ्च हरेरत्र पृथिव्युद्धरणन्तथा ॥४९॥

सन्निवेशः पुरादीनां वर्णाश्रमविभागशः।
वृक्षाणां गृहसंस्थानां सिद्धानाञ्चविनाशनम् ॥५०॥

योजनानां पथाञ्चैव सञ्चरो बहुविस्तरः।
स्वर्गे स्थानविभागश्च मर्त्त्यानां भुविचारिणाम् ॥५१॥

वृक्षाणामोषधीनाञ्च वीरुधाञ्च प्रकीर्त्तनम्।
वृक्षनारकिकीटत्वं मर्त्त्यानां परिकीर्त्तितम् ॥५२॥

देवतानामृषीणाञ्च द्वे सृती परिकीर्त्तिते।
अन्नादीनां तनूनाञ्च सर्जनन्त्यजनन्तथा ॥५३॥

प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्।
अनन्तरञ्च वक्रेभ्यो वेदास्तस्य विनिःसृताः ॥५४॥

अङ्गानि धर्मशास्त्रञ्च व्रतानि नियमास्तथा।
पशूनां पुरुषाणाञ्च सम्भवः परिकीर्तितः ॥५५॥

तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः।
नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः ॥५६॥

त्रयोऽन्ये बुद्धिपूर्वास्तु ततो लोकानकल्पयत्।
ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः ॥५७॥

ये द्वादश प्रसूयन्ते प्रजाः कल्पे पुनः पुनः।
कल्पयोरन्तरं प्रोक्तं प्रतिसन्धिश्च यस्तयोः ॥५८॥

तमोमात्रावृतत्वाच्च ब्रह्मणोऽधर्मसम्भवः।
तथैव शतरूपायाः सम्भवश्च ततः परम् ॥५९॥

प्रियव्रतोत्तानपादौ प्रसूत्याकूतयश्च ताः।
कीर्त्त्यन्ते धूतपाप्मानो येषु लोकाः प्रतिष्ठिताः ॥६०॥

रुचेः प्रजापतेश्चोर्द्वमाकूत्यां मितुनोद्भवः।
प्रसूत्यामपि दक्षस्य कन्यानां प्रभवस्ततः ॥६१॥

दाक्षायणीषु चाप्यूर्द्ध्वं श्रद्धाद्यासु महात्मनाम्।
धर्मस्य कीर्त्त्यते सर्गः सात्त्विकस्य सुखोदयः ॥६२॥

तथाऽधर्म्मस्य हिंसायां तामसोऽशुभलक्षणः।
महेश्वरस्य सत्याञ्च प्रजासर्गः प्रकीर्तितः ॥६३॥

निरामयञ्च ब्रह्माणं तादृशं कीर्त्तितं पुनः।
योगं योगनिधिः प्राह द्विजानां मुक्तिकांक्षिणाम् ॥६४॥

अवतारश्च रुद्रस्य महाभाग्यं तथैव च।
त्रैवेदिकां कथाञ्चापि संवादः परमो महान् ॥६५॥

ब्रह्मनारायणाभ्याञ्च यत्र स्तोत्रं प्रकीर्त्तितम्।
स्तुतस्ताभ्यां स देवेशस्तुतोष भगवान् शिवः ॥६६॥

प्रादुर्भावोऽथ रुद्रस्य ब्रह्मणोऽङ्गे महात्मनः।
कीर्त्त्यते नाम हेतुश्च यथाऽरोदीन्महामनाः ॥६७॥

रुद्रादीनि यथा ह्यष्टौ नामान्याप्नोत् स्वयम्भुवः।
यथा च तैर्व्याप्रतमिदं त्रैलोक्यं सचराचरम् ॥६८॥

भृग्वादीनामृषीणाञ्च प्रजासर्गोपवर्णनम्।
वसिष्ठस्य च ब्रह्मर्षेर्यत्र गोत्रानुकीर्त्तनम् ॥६९॥

अग्नेः प्रजायाः सम्भूतिः स्वाहायां यत्र कीर्त्तिता।
पितॄणां द्विप्रकाराणां स्वधायास्तदनन्तरम् ॥७०॥

पितृवंशप्रसङ्गेन कीर्त्यते च महेश्वरात्।
दक्षस्य शापः सत्यर्थे भृग्वादीनाञ्च धीमताम् ॥७१॥

प्रतिशापश्च रुद्रस्य दक्षादद्भुतकर्मणः।
प्रतिषेधश्च वैरस्य कीर्त्यते यत्र विस्तरात् ॥७२॥

तेषां नियोगो द्वीपेषु देशेषु च पृथक् पृथक्।
स्वायम्भुवस्य सर्गस्य ततश्चाप्यनुकीर्त्तनम् ॥७३॥

उक्तो नाभेर्निसर्गश्च रजसश्च महात्मनः।
द्वीपानां ससमुद्राणां पर्वतानाञ्च कीर्त्तनम् ॥७४॥

वर्षाणाञ्च नदीनाञ्च तद्भेदानाञ्च सर्वशः।
द्वीपभेदसहस्राणामन्तर्भेदश्च सप्तसु ॥७५॥

विस्तरान् मण्डलाच्चैव जम्बूद्‌वीपसमुद्रयोः।
प्रमाणं योजनाग्रेण कीर्त्त्यते पर्वतैः सह ॥७६॥

हिमवान् हेमकूटस्तु निषधो मेरुरेव च।
नीलः श्वेतः शृङ्गवांश्च कीर्त्त्यन्ते वर्षपर्वताः ॥७७॥

तेषामन्तरविष्कम्भा उच्छ्रायायामविस्तराः।
कीर्त्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः ॥७८॥

भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा।
भूतैश्चोपनिविष्टानि गतिमद्भिर्ध्रुवैस्तथा ॥७९॥

जम्बूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः।
ततश्चाप्यम्मयी भूमिर्लोकालोकश्च कीर्त्त्यते ॥८०॥

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी।
भूरादयश्च कीर्त्त्यन्ते वरणैः प्राकृतैः सह ॥८१॥

सर्वञ्च तत्‌प्रधानस्य परिमाणैकदेशिकम्।
सव्यासपरिमाणञ्च संक्षेपेणैव कीर्त्त्यते ॥८२॥

सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः।
प्रमाणं योजनाग्रेण साम्प्रतैरभिमानिभिः।
महेन्द्राद्याः सभाः पुण्या मानसोत्तरमूर्द्धनि ॥८३॥

अत ऊर्द्ध्वं गतिश्चोक्ता स्वर्गस्यालातचक्रवत्।
नागवीथ्यजवीथ्योश्च लक्षणं परिकीर्त्त्यते ॥८४॥

काष्ठयोर्लेखयोश्चैव मण्डलानाञ्च योजनैः।
लोकालोकस्य सन्ध्याया अह्नो विषुवतस्तथा ॥८५॥

लोकपालाः स्थिताश्चोर्द्ध्वं कीर्त्त्यन्ते ये चतुर्दिशम्।
पित्रूणां देवतानां च पन्थानौ दक्षिणोत्तरौ ॥८६॥

गृहिणां न्यासिनाञ्चोक्तौ रजःसत्त्वसमाश्रयात्।
कीर्त्त्यते च पदं विष्णोर्धर्माद्या यत्र धिष्ठिताः ॥८७॥

सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा।
कीर्त्त्यते ध्रुवसामर्थ्यात् प्रजानां च शुभाशुभम् ॥८८॥

ब्रह्मणा निर्मितः सौरः स्यन्दनोऽर्थवशात् स्वयम्।
कीर्त्त्यते भगवान् येन प्रसर्पति दिवि स्वयम् ॥८९॥

स रथोऽधिष्ठितो देवैरादित्यैः ऋषिभिस्तथा।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥९०॥

अपां सारमयस्येन्दोः कीर्त्यते च रथस्तथा।
वृद्धिक्षयौ च सौमस्य कीर्त्त्येते सूर्यकारितौ ॥९१॥

सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रकीर्त्तनम्।
कीर्त्त्यते शिशुमारश्च यस्य पुच्छे ध्रुवः स्थितः ॥९२॥

तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह।
निवासा यत्र कीर्त्त्यन्ते देवानां पुण्यकारिणाम् ॥९३॥

सूर्यरश्मिसहस्रे च वर्षशीतोष्णनिःस्रवः।
प्रविभागश्च रश्मीनां नामतः कर्मतोऽर्थतः ॥९४॥

परिमाणगती चोक्ते ग्रहाणां सूर्यसंश्रयात्।
यथा चाशु विषात् प्राप्ता शम्भोः कण्ठस्य नीलता ॥९५॥

ब्रह्मप्रसादितस्याशु विषादः शूलपाणिनः।
स्तूयमानः सुरैर्विष्णुः स्तौति देवं महेश्वरम् ॥९६॥

लिङ्गोद्भवकथा पुण्या सर्वपापप्रणाशिनी।
विश्वरूपात् प्रधानस्य परिणामोऽयमद्भुतः ॥९७॥

पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्त्तनम्।
पितॄणां द्विप्रकाराणां तर्पणं चामृतस्य वै ॥९८॥

ततः पर्वाणि कीर्त्त्यन्ते पर्वणाञ्चैव सन्धयः।
स्वर्ग लोकगतानां च प्राप्तानाञ्चाप्यधोगतिम्।
पितॄणां द्विप्रकाराणां श्राद्धेनानुग्रहो महान् ॥९९॥

युगसंख्याप्रमाणं च कीर्त्यते च कृते युगे।
त्रेतायुगे चापकर्षाद्वार्तायाः संप्रवर्त्तनम् ॥१००॥

वर्णानामाश्रमाणाञ्च संख्यानञ्च प्रवर्त्तनम्।
वर्णानामाश्रमाणाञ्च संस्थितिर्धर्मतस्तथा ॥१०१॥

यज्ञप्रवर्त्तनञ्चैव संवादो यत्र कीर्त्यते।
ऋषीणां वसुना सार्द्धं वसोश्चाधः पुनर्गतिः ॥१०२॥

प्रश्नानां दुर्वचत्वं च स्वायम्भुवमृते मनुम्।
प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः।
द्वापरस्य कलेश्चात्र सङ्क्षेपेण प्रकीर्तनम् ॥१०३॥

देवतिर्यङ्मनुष्याणां प्रमाणानि युगेयुगे।
कीर्त्यन्ते युगसामर्थ्यात् परिणाहोच्छ्रयायुषः ॥१०४॥

शिष्टादीनां च निर्देशः प्रादुर्भावश्च कीर्त्यते।
वेदस्य तद्विजातानां मंत्राणां च प्रकीर्तनम् ॥१०५॥

शाखानां परिमाणं च वेदव्यासादिशब्दनम्।
मन्वन्तराणां संहारः संहारान्ते च सम्भवः ॥१०६॥

देवतानामृषीणां च मनोः पितृगणस्य च।
न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः ॥१०७॥

मन्वन्तरस्य संख्या च मानुषेण प्रकीर्तिता।
मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् ॥१०८॥

अतीतानागतानां च वर्त्तमानेन कीर्त्त्यते।
तथा मन्वन्तराणां च प्रतिसन्धानलक्षणम् ॥१०९॥

अतीतानागतानां च प्रोक्तं स्वायम्भुवेऽन्तरे।
मन्वन्तरत्रयं चैव कालज्ञानं च कीर्त्त्यते ॥११०॥

मन्वन्तरेषु देवानां प्रजेशानां च कीर्त्तनम्।
दक्षस्य चापि दौहित्राः प्रियाया दुहितुः सुताः ॥

ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥१११॥

सावर्णाद्याश्च कीर्त्त्यन्ते मनवो मेरुमाश्रिताः।
ध्रुवस्योत्तानपादस्य प्रजासर्गोपवर्णनम् ॥११२॥

पृथुनापि च वैन्येन भूमेर्द्दोहप्रवर्त्तनम्।
पात्राणां पयसां चैव वंशानां च विशेषणम्।
ब्रह्मादिभिः पूर्वमेव दुग्धा चेयं वसुन्धरा ॥११३॥

दशभ्यस्तु प्रचेतेभ्यो मारिषायां प्रजापतेः।
दक्षस्य कीर्त्त्यते जन्म सोमस्यांशेन धीमतः ॥११४॥

भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्त्यते।
मन्वादिका भविष्यन्ति आख्यानैर्बहुभिर्वृताः ॥११५॥

वैवस्वतस्य च मनोः कीर्त्त्यते सर्गविस्तरः।
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम्।
ब्रह्मशुक्रात् समुत्पत्तिर्भृग्वादीनां च कीर्त्यते ॥११६॥

विनिवृत्ते प्रजासर्गे चाक्षुषस्य मनोः शुभे।
दक्षस्य कीर्त्त्यते सर्गो ध्यानाद्वैवस्वतैऽन्तरे ॥११७॥

नारदः प्रियसंवादी दक्षपुत्रान्महाबलान् ॥११७॥

नाशयामास शापाय आत्मनो ब्रह्मणः सुतः ॥११८॥

ततो दक्षोऽसृजत् कन्या वीरिण्यामेव विश्रुताः।
कीर्त्त्यते धर्मसर्गश्च काश्यपस्य च धीमतः ॥११९॥

अत ऊर्ध्वं ब्रह्मणश्च विष्णोश्चैव भवस्य च।
एकत्वं च पृथक्त्वं च विशेषत्वं च कीर्त्यते ॥१२०॥

ईशत्वाच्च यथा शप्ता जाता देवाः स्वयम्भुवा।
मरुत्प्रसादो मरुतां दित्या देवांशसम्भवाः ॥१२१॥

कीर्त्त्यन्ते मरुताञ्चाथ गणास्ते सप्तसप्तकाः।
देवत्वं पितृवाक्येन वायुस्कन्धेन चाश्रयः ॥१२२॥

दैत्यानां दानवानाञ्च गन्धर्वोरगरक्षसाम्।
सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम्।
उत्पत्तयश्चाप्सरसां कीर्त्त्यन्ते बहुविस्तरात् ॥१२३॥

समुद्रसंयोगकृतं जन्मैरावतहस्तिनः।
वैनतेयसमुत्पत्तिस्तथा चास्याभिषेचनम् ॥१२४॥

भृगूणां विस्तरश्चोक्तस्तथा चाङ्गिरसामपि।
कश्यपस्य पुलस्त्यस्य तथैवात्रेर्म्महात्मनः ॥१२५॥

पराशरस्य च मुनेः प्रजानां यत्र विस्तरः।
देवतानामृषीणाञ्च प्रजोत्पत्तिस्ततः परम् ॥१२६॥

तिस्रः कन्याः प्रकीर्त्त्यन्ते यासु लोकाः प्रतिष्ठिताः।
पितृदौहित्रनिर्द्देशो देवानां जन्म चोच्यते ॥१२७॥

विस्तरस्ते भगवतः पञ्चानां सुमहात्मनाम्।
इलाया विस्तरश्चोक्त आदित्यस्य ततः परम् ॥१२८॥

विकुक्षिचरितञ्चोक्तं धुन्धोश्चैव निबर्हणम्।
बृहद्बलान्तसंक्षेपादिक्ष्वाक्वाद्याः प्रकीर्त्तिताः ॥१२९॥

निम्यादीनां क्षितीशानां यावज्जहुगणादिति।
कीर्त्त्यते विस्तरो यश्च ययातेरपि भूपतेः ॥१३०॥

यदुवंशसमुद्देशो हैहयस्य च विस्तरः।
क्रोष्टोरनन्तरं चोक्तस्तथा वंशस्य विस्तरः ॥१३१॥

ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्त्यते।
देवावृधस्य त्वर्कस्य वृष्टेश्चैव महात्मनः ॥१३२॥

अत्रिमित्रान्वयश्चैव विष्णोर्द्दिव्याभिशंसनम्।
विवस्वतोऽथ संप्राप्तिर्मणिरत्नस्य धीमतः ॥१३३॥

युधा जितः प्रजासर्गः कीर्त्त्यते च महात्मनः।
कीर्त्त्यते चान्वयः श्रीमान् राजर्षेर्देवमीढुषः ॥१३४॥

पुनश्च जन्म चाप्युक्तं चरितञ्च महात्मनः।
कंसस्यचापि दौरात्म्यमेकान्तेन समुद्भवः ॥१३५॥

वासुदेवस्य देवक्यां विष्णोर्ज्जन्म प्रजापतेः।
विष्णोरनन्तरञ्चापि प्रजासर्गोपवर्णनम् ॥१३६॥

दैवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते।
संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः।
भृगुश्चोत्थापयामास दिव्यां शुक्रस्य मातरम् ॥१३७॥

देवानामसुराणां च संग्रामा द्वादशायुताः।
नारसिंहप्रभृतयः कीर्त्त्यन्ते प्राणनाशनाः ॥१३८॥

शुक्रेणाराधनं स्थाणोर्धीरेण तपसा कृतम्।
वरदानप्रलुब्धेन यत्र शर्वस्तवः कृतः।
अनन्तरं विनिर्दिष्टं देवासुरविचेष्टितम् ॥१३९॥

जयन्त्या सह सक्ते तु यत्र शुक्रे महात्मनि।
असुरान्मोहयामास शुक्ररूपेण बुद्धिमान्।
बृहस्पतिस्तु तान् शुक्रः शशाप सुमहाद्युतिः ॥१४०॥

उक्तं च विष्णुमाहात्म्यं विष्णोर्जन्मादिशब्दनम्।
तुर्वसुः शुक्रदौहित्रो देवयान्यां यदोरभूत्।
अनुर्द्रुह्युस्तथा पूरुर्ययातितनया नृपाः ॥१४१॥

अत्र वंश्या महात्मानस्तेषां पार्थिवसत्तमाः।
कीर्त्यन्ते दीर्घयशसो भूरिद्रविणतेजसः ॥१४२॥

कुशिकस्य च विप्रर्षेः सम्यग्यो धर्मसंश्रयः।
बार्हस्पत्यन्तु सुरभिर्यत्र शापमिहानुदत् ॥१४३॥

कीर्त्तनं जह्नुवंशस्य शन्तनोर्वीर्यशब्दनम्।
भविष्यतां तथा राज्ञामुपसंहारशब्दनम् ॥१४४॥

अनागतानां सप्तानां मनूनां चोपवर्णनम्।
भौमस्यान्ते कलियुगे क्षीणे संहारवर्णनम् ॥१४५॥

परार्द्धपरयोश्चैव लक्षणं परिकीर्त्त्यते।
ब्रह्मणो योजनाग्रेण परिमाणविनिर्णयः ॥१४६॥

नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकः स्मृतः।
त्रिविधः सर्व भूतानां कीर्त्त्यते प्रतिसञ्चरः ॥१४७॥

अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकोऽनलः।
मेघो ह्येकार्णवं वायुस्तथा रात्रिर्महात्मनः ॥१४८॥

संख्यालक्षणमुद्दिष्टं ततो ब्राह्मं विशेषतः।
भूरादीनां च लोकानां सप्तानामुपवर्णनम्।
कीर्त्त्यन्ते चात्र निरयाः पापानां रौरवादयः ॥१४९॥

ब्रह्मलोकोपरिष्टात्तु शिवस्य स्थानमुत्तमम्।
यत्र संहारमायान्ति सर्वभूतानि संक्षये ॥१५०॥

सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः।
ब्रह्मणः प्रतिसंसर्गे सर्वसंहारवर्णनम् ॥१५१॥

अष्टरूप्यमतः प्रोक्तं प्राणस्याष्टकमेव च।
गतिश्चोर्ध्वमधश्चोक्ता धर्माधर्मसमाश्रयात् ॥१५२॥

कल्पे कल्पे च भूतानां महतामपि संक्षयः।
प्रसंख्याय च दुःखानि ब्रह्मणश्चाप्यनित्यता ॥१५३॥

दौरात्म्यं चैव भोगानां परिणामविनिर्णंयः।
दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम् ॥१५४॥

व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम्।
नानात्वदर्शनाच्छुद्धं ततस्तदभिवर्त्तते ॥१५५॥

ततस्तापत्रयातीतो नीरूपाख्यो निरञ्जनः।
आनन्दो ब्रह्मणः प्रोक्तो न बिभेति कुतश्चन ॥१५६॥

कीर्त्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत्।
कीर्त्त्यते ऋषिवंशश्च सर्वपापप्रणाशनः ॥१५७॥

इति कृत्यसमुद्देशः पुराणस्योपवर्णितः।
कीर्त्त्यन्ते जगतो ह्यत्र सर्वप्रलयविक्रियाः।
प्रवृत्तयश्च भूतानां निवृत्तीनां फलानि च ॥१५८॥

प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च।
सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च ॥१५९॥

पराशरस्य चोत्पत्तिरदृश्यत्वं यथा विभोः।
जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः ॥१६०॥

शुकस्य च तथा जन्म सह पुत्रस्य धीमतः।
पराशरस्य प्रद्वेषो विश्वामित्रकृतो यथा ॥१६१॥

वसिष्ठसम्भृतश्चाग्निर्विश्वामित्रजिघांसया।
सन्तानहेतोर्विभुना चीर्णः स्कन्देन धीमता।
दैवेन विधिना विप्र विश्वामित्रहितैषिणा ॥१६२॥

एकं वेदञ्चतुष्पादञ्चतुर्द्धा पुनरीश्वरः।
यथा बिभेद भगवान् व्यासः सर्वान् स्वबुद्धितः।
तस्य शिष्यैः प्रशिष्यैश्च शाखा भेदाः पुनः कृताः ॥१६३॥

प्रयोगैः षड्‌गुणीयैश्च यथा पृष्टः स्वयम्भुवा।
पृष्टेन चानुपृष्टास्ते मुनयो धर्मकाङ्क्षिणः॥
देशं पुण्यमभीप्सन्तौ विभुना तद्धितैषिणा ॥१६४॥

सुनाभं दिव्यरूपाख्यं सत्याङ्गं शुभविक्रमम्।
अनौपम्यमिदञ्चक्रं वर्त्तमानमतन्द्रिताः।
पृष्ठतो यात नियतास्ततः प्राप्स्यथ यद्धितम् ॥१६५॥

गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते।
पुण्यः स देशो मन्तव्य इत्युवाच तदा प्रभुः।
उक्त्वा चैवमृषीन् ब्रह्मा ह्यदृश्यत्वमगात्पुनः ॥१६६॥

गङ्गागर्भसमाहारं नैमिषेयत्वमेव च।
ईजिरे चैव सत्रेण मुनयो नैमिषे तदा।
मृते शरद्वति तथा तस्य चोत्थापनं कृतम् ॥१६७॥

ऋषयो नैमिषेयास्तु श्रद्धया परया पुनः।
निःसीमां गामिमां कृत्स्नां कृत्वा राजानमाहरन्।
यथाविधि यथाशास्त्रं तमातिथ्यैरपूजयन् ॥१६८॥

प्रीतं तथा कृतातिथ्यं राजानं विधिवत्तदा।
अन्तर्द्धानगतः क्रूरः स्वर्भानुरसुरोऽहरत् ॥१६९॥

अनुसस्रुर्हतं चापि नृपमैडं यथा पुरा।
गन्धर्व सहितं दृष्ट्वा कलापग्रामवासिनम् ॥१७०॥

सन्निपातः पुनस्तस्य यथा यज्ञे महर्षिभिः।
दृष्ट्वा हिरण्मयं सर्वं यज्ञे वस्तु महात्मनाम् ॥१७१॥

तदा वै नैमिषेयाणां सत्रे द्वादशवार्षिके।
यथा विवदमानस्तु ऐडः संस्थापितस्तु तैः ॥१७२॥

जनयित्वा त्वरण्यान्ते ऐडपुत्रं यथायुषम्।
समापयित्वा तत्सत्रमायुषं पर्युपासते ॥१७३॥

एतत्सर्वं यथावृत्तं व्याख्यातं द्विजसत्तमाः।
ऋषीणां परमं चात्र लोकतन्त्रमनुत्तमम् ॥१७४॥

ब्रह्मणा यत्पुरा प्रोक्तं पुराणं ज्ञानमुत्तमम्।
अवतारश्च रुद्रस्य द्विजानुग्रहकारणात् ॥१७५॥

तथा पाशुपता योगाः स्थानानाञ्चैव कीर्त्तनम्।
लिङ्गोद्भवस्य देवस्य नीलकण्ठत्वमेव च ॥१७६॥

कथ्यते यत्र विप्राणां वायुना ब्रह्मवादिना।
धन्यं यशस्यमायुष्यं पुण्यं पापप्रणाशनम्।
कीर्त्तनं श्रवणं चास्य धारणञ्च विशेषतः ॥१७७॥

अनेन हि क्रमेणेदं पुराणं संप्रचक्ष्यते।
सुखमर्थः समासेन महानप्युपलभ्यते।
तस्मात् किञ्चित्सुमुद्दिश्य पश्चाद्वक्ष्यामि विस्तरम् ॥१७८॥

पादमाद्यमिदं सम्यक् योऽधीयीत जितेन्द्रियः।
तेनाधीतं पुराणं तत् सर्वं नास्त्यत्र संशयः ॥१७९॥

यो विद्याच्चतुरो वेदान् साङ्‌गोपनिषदो द्विजः।
न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥१८०॥

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥१८१॥

अभ्यसन्निममध्यायं साक्षात् प्रोक्तं स्वयम्भुवा।
आपदं प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्घतिम् ॥१८२॥

यस्मात् पुरा ह्यनतीदं पुराणं तेन तत् स्मृतम्।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥१८३॥

नारायणः सर्वमिदं विश्वं व्याप्य प्रवर्त्तते।
तस्यापि जगतः स्रष्टुः स्रष्टा देवो महेश्वरः ॥१८४॥

अतश्च संक्षेपमिमं श्रृणुध्वं महेश्वरः सर्वमिदं पुराणम्।
स सर्गकाले च करोति सर्गान् संहारकाले पुनराददीत ॥१८५॥

इति श्रीमहापुराणे वायुप्रोक्ते अनुक्रमणिका नाम प्रथमोऽध्यायः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:58.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वीर XIII.

  • n. २. सोंवंश में उत्पन्न एक राजा, जिसके पुत्र का नाम तोण्डमान था । 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.