TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ६१

पूर्वार्धम् - अध्यायः ६१

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ६१
॥ऋषय ऊचुः॥
भारद्वाजो याज्ञवल्क्यो गालकिः सालकिस्तथा।
धीमान् शतबलाकश्च नैगमश्च द्विजोत्तमः ॥१॥

बाष्कलिश्च भरद्वाजस्तिस्रः प्रोवाच संहिताः।
रथीतरो निरुक्तञ्च पुनश्चक्रे चतुर्थकम् ॥२॥

त्रयस्तस्याभवञ्छिष्या महात्मानो गुणान्विताः।
धीमान्नन्दायनीयश्च पन्नगारिश्च बुद्धिमान्।
तृतीयश्चार्यवस्ते च तपसा शंसितव्रताः ॥३॥

वीतरागा महातेजाः संहिताज्ञानपारगाः।
इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्त्तिताः ॥४॥

वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत्।
षडशीतिश्च तस्यापि संहितानां विकल्पकाः ॥५॥

शिष्येभ्यः प्रददौ ताश्च जगृहुस्ते विधानतः।
एकस्तत्र परित्यक्तो याज्ञवल्क्यो महातपाः।
षडशीतिश्च तस्यापि संहितानां विकल्पकाः ॥६॥

सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः।
त्रिधा भेदास्तु ते प्रोक्ता भेदेऽस्मिन्नवमे शुभे ॥७॥

उदीच्या मध्यदेशाश्च प्राच्याश्चैव पृथग्विधाः।
श्यामायनिरुदीच्यानां प्रधानः सम्बभूव ह ॥८॥

मध्य देशप्रतिष्ठानामारुणिः प्रथमः स्तुतः।
आलम्बिरादिः प्राच्यानान्त्रयोदश्यादयस्तु ते ॥९॥

इत्येते चरकाः प्रोक्ताः संहितावादिनो द्विजाः।
ऋषय स्तद्वचः श्रुत्वा सूतं जिज्ञासवोऽब्रुवन् ॥१०॥

चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः।
किञ्चीर्णं कस्य हेतोश्च वाचकत्वञ्च भेजिरे।
इत्युक्तः प्राह तेषां स चरकत्वमभूद्यथा ॥११॥

॥सूत उवाच॥
कार्यमासीदृषीणाञ्च किञ्चिद्ब्राह्मणसत्तमाः।
मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम् ॥१२॥

यो नोऽत्र सप्तरात्रेण नागच्छेद् द्विजसत्तमाः।
स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ॥१३॥

ततस्ते सगणाः सर्वे वैशम्पायन वर्जिताः।
प्रययुः सप्तरात्रेण यत्र सन्धिः कृतोऽभवत् ॥१४॥

ब्राह्मणानान्तु वचनाद्‌ब्रह्मवध्याञ्चकार सः ।
शिष्यानथ समानीय स वैशण्पायनोऽब्रवीत् ॥१५॥

ब्रह्मवद्याञ्चरध्वं वै मत्कृते द्विजसत्तमाः।
सर्वे यूयं समागम्य ब्रूत मे तद्धितं वचः ॥१६॥

॥याज्ञवल्क्य उवाच॥
अहमेव चरिष्यामि तिष्ठन्तु मुनयस्त्विमे।
बलञ्चोत्थापयिष्यामि तपसा स्वेन भावितः ॥१७॥

एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् ।
उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे ॥१८॥

एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः।
रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ॥१९॥

ततः स ध्यानमास्थाय सूर्यमाराधयद् द्विजाः ।
सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ॥२०॥

ततो यानि गतान्यूर्द्ध्वं यजूंष्यादित्यमण्डलम्।
तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरीतये।
अश्व रूपाय मार्तण्डो याज्ञवल्क्याय धीमते ॥२१॥

यजूंष्यधीयन्ते यानि ब्राह्मणा येन केन च।
अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन् ॥२२॥

ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः ।
वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ॥२३॥

इत्येते चरकाः प्रोक्ता वाजिनस्तान्निबोधत।
याज्ञवल्क्यस्य शिष्यास्ते कण्ववैधेयशालिनः ॥२४॥

मध्यन्दिनश्च शापेयी विदिग्धश्चाप्य उद्दलः।
ताम्रायणश्च वात्स्यश्च तथा गालवशैशिरी।
आटवी च तथा पर्णी वीरणी सपरायणः ॥२५॥

इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः।
शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥२६॥

पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः।
सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्प्रभुः।
सुकर्माणं सुतं सुत्वा पुत्रमध्यापयत्प्रभुः ॥२७॥

स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः।
प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ॥२८॥

अनध्यायेष्वधीयानांस्ताञ्जघान शतक्रतुः।
प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारणात् ॥२९॥

क्रुद्धं दृष्ट्वा ततः शक्रो वरमस्मै ददौ पुनः।
भाविनौ ते महावीर्यौ शिष्यावनलवर्चसौ ॥३०॥

अधीयानौ महाप्राज्ञौ सहस्रं सहितावुभौ।
एतौ सुरौ महाभागौ मा क्रुध्य द्विजसत्तम ॥३१॥

इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम्।
शान्तक्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत ॥३२॥

तस्य शिष्यो भवेद्धीमान्पौष्यञ्जी द्विजसत्तमाः।
हिरण्यनाभः कौशिक्यौ द्वितीयोऽभून्नराधिपः ॥३३॥

अध्यापयत्तु पौष्यञ्जी सहस्रार्द्धन्तु संहिताः।
तेनान्योदीच्यसामान्याः शिष्याः पौष्यञ्जिनः शुभाः ॥३४॥

शतानि पञ्च कौशिक्यः संहितानाञ्च वीर्यवान्।
शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगाः ॥३५॥

लोकाक्षी कुथुमिश्चैव कुशीती लाङ्गलिस्तथा।
पौष्यञ्जिशिष्याश्चत्वारस्तेषां भेदान्निबोधत ॥३६॥

राणायनीयः स हि तण्डिपुत्रस्तस्मादन्यो मूलचारी सुविद्वान्।
सकतिपुत्रः सहसात्यपुत्र एतान् भेदान् वित्त लोकाक्षिणस्तु ॥३७॥

त्रयस्तु कुथुमेः पुत्रा औरसो रसपासरः।
भागवित्तिश्च तेजस्वी त्रिविधाः कौथुमाः स्मृताः ॥३८॥

शौरिद्युः श्रृङ्गिपुत्रश्चद्वावेतौ चरितव्रतौ।
राणायनीयः सौमित्रिः सामवेदविशारदौ ॥३९॥

प्रोवाच संहितास्तिस्रः श्रृङ्गिपुत्रो महातपाः।
चैलः प्राचीनयोगश्च सुरालश्च द्विजोत्तमाः ॥४०॥

प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः।
आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ॥४१॥

प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः।
कौथुमस्य तु भेदास्ते पाराशर्यस्य षट् स्मृताः।
लाङ्गलिः शालिहोत्रश्च षट् षट् प्रोवाच संहिताः ॥४२॥

भालुकिः कामहानिश्च जैमिनिर्लोमगायिनः।
कण्डश्च कोलहश्चैव षडेते लाङ्गलाः स्मृताः।
एते लाङ्गलिनः शिष्याः संहिता यैः प्रसाधिताः ॥४३॥

ततो हिरण्यनाभस्य कृतशिष्यो नृपात्मजः ।
सोऽकरोच्च चतुर्विंशत्संहिता द्विपदां वरः ।
प्रोवाच चैव शिष्येभ्यो येभ्यस्तांश्च निबोधत ॥४४॥

राडश्च महवीर्यश्च पञ्चमो वाहनस्तथा।
तालकः पाण्डकश्चैष कालिको राजिकस्तथा।
गौतमश्चाजबस्तश्च सोमराजापतत्ततः ॥४५॥

पृष्ठग्नः परिकृष्टश्च उलूखलक एव च।
यवीयसश्च वैशालो अंगुलीयश्च कौशिकः ॥४६॥

सालिमञ्जरिसत्यश्च कापीयः कानिकश्च यः।
पराशरश्च धर्मात्मा इति क्रान्तास्तु सामगाः ॥४७॥

सामगानान्तु सर्वेषां श्रेष्ठौ द्वौ तु प्रकीर्त्तितौ।
पौष्यञ्जिश्च कृतिश्चैव संहितानां विकल्पकौ ॥४८॥

अथर्वाणं द्विधा कृत्वा सुमन्तुरददद् द्विजाः ।
कबन्धाय पुनः कृत्स्रं स च विद्याद्यथाक्रमम् ॥४९॥

कबन्धस्तु द्विदा कृत्वा पथ्यायैकं पुनर्ददौ।
द्वितीयं वेदस्पर्शाय स चतुर्द्धाकरोत् पुनः ॥५०॥

मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च।
शौकायनिश्च धर्मज्ञश्चतुर्थस्तपनः स्मृतः।?
वेदस्पर्शस्य चत्वारः शिष्यास्त्वेते दृढव्रताः ॥५१॥

पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम्।
जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ॥५२॥

शौनकस्तु द्विधा कृत्वा ददावेकन्तु बभ्रवे।
द्वितीयां संहितां धीमान्सैन्धवायनसंज्ञिते ॥५३॥

सैन्धवो मुञ्जकेशाय भिन्ना सा च द्विधा पुनः।
नक्षत्र कल्पो वैतानस्तृतीयः संहितानिधिः।
चतुर्थोऽङ्गिरसः कल्पः शान्तिकल्पश्च पञ्चमः ॥५४॥

श्रेष्ठस्त्वथर्वणो ह्येते संहितानां विकल्पनाः।
षट्शः कृत्वा मयाप्युक्तं पुराणमृषिसत्तमाः ॥५५॥

आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः।
भारद्वाजोऽग्निवर्चाश्च वसिष्ठो मित्रयुश्च यः ।
सावर्णिः सोमदत्तिस्तु सुशर्मा शांशपायनः ॥५६॥

एते शिष्या मम ब्रह्मन् पुराणेषु दृढव्रताः।
त्रिभिस्तिस्रः कृतास्तिस्रः संहिताः पुनरेव हि ॥५७॥

काश्यपः संहिताकर्त्ता सावर्णिः शांशपायनः।
सामिका च चतुर्थीस्यात्सा चैषा पूर्वसंहिता ॥५८॥

सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः।
पाठान्तरे पृथग्भूता वेदशाखा यथा तथा।
चतुःसाहस्रिकाः सर्वाः शांशपायनिकामृते ॥५९॥

लोमहर्षणिका मूलास्ततः काश्यपिकाः पराः।
सावर्णिकास्तृतीयास्ता यजुर्वाक्यार्थपण्डिताः ॥६०॥

शांशपायनिकाश्चान्या नोदनार्थविभूषिताः ।
सहस्राणि ऋचामष्टौ षट्शतानि तथैव च ॥६१॥

एताः पञचदशान्याश्च दशान्या दशभिस्तथा।
वालखिल्याः समप्रैखाः (षाः) ससावर्णाः प्रकीर्तिताः ॥६२॥

अष्टौ सामसहस्राणि सामानि च चतुर्द्दश।
आरण्यकं सहोमञ्च एताद्गायन्ति सामगाः ॥६३॥

द्वादशैव सहस्राणि छन्द आध्वर्यवं स्मृतम्।
यजुषां ब्राह्मणानाञ्च यथा व्यासो व्यकल्पयत् ॥६४॥

सग्राम्यारण्यकन्तत्स्यात्समन्त्रकरणं तथा।
अतः परं कथानान्तु पूर्वा इति विशेषणम् ॥६५॥

ग्राम्यारण्यं समन्त्रञ्च ऋग्ब्राह्मणयजुः स्मृतम्।
तथा हारिद्रवीयाणां खिलान्युपखिलानि च।
तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ॥६६॥

द्वे सहस्रे शतन्यूने वेदे वाजसनेयके।
ऋग्गणः परि संख्यातो ब्राह्मणन्तु चतुर्गुणम् ॥६७॥

अष्टौ सहस्राणि शतानि चाष्टौ अशीतिरन्यान्यधिकश्च पादः।
एतत्प्रमाणं यजुषामृचाञ्च सशुक्रियं साखिल याज्ञवल्क्यम् ॥६८॥

तथा चरणविद्यानां प्रमाणं संहितां श्रृणु।
षट्साहस्रमृचामुक्तमृचः षड्विंशतिः पुनः ।
एतावदधिकं तेषां यजुः कामं विवक्षति ॥६९॥

एकादश सहस्राणि दश चान्या दशोत्तराः ।
ऋचान्दश सहस्राणि अशीतित्रिशतानि च ॥७०॥

सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः।
एतावद्भृगुविस्तारमन्यच्चाथर्विकं बहु ॥७१॥

ऋचामथर्वणां पञ्च सहस्राणि विनिश्चयः।
सहस्रमन्यद्विज्ञेयमृषिभिर्विंशतिं विना ॥७२॥

एतदङ्गिरसा प्रोक्तन्तेषामारण्यकं पुनः।
इति संख्या प्रसंख्याता शाखाभेदास्तथैव च ॥७३॥

कर्त्तारश्चैव शाखानां भेदे हेतुस्तथैव च।
सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाः स्मृताः ॥७४॥

प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः।
अनित्यभावाद्देवानां मन्त्रोत्पत्तिः पुनः पुनः ॥७५॥

मन्वन्तराणां क्रियते सुराणां नामनिश्चयः।
द्वापरेषु पुनर्भेदाः श्रुतानां परिकीर्त्तिताः ॥७६॥

एवं वेदं तदान्यस्य भगवानृषिसत्तमः।
शिष्येभ्यश्च पुनर्दत्त्वा तपस्तप्तुं गतो वनम्।
तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ॥७७॥

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
धर्म शास्त्रं पुराणञ्च विद्यास्त्वेताश्चतुर्दश ॥७८॥

आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः।
अर्थशास्त्रं चतुर्थन्तु विद्यास्त्वष्टादशैव तु ॥७९॥

ज्ञेया ब्रह्मर्षयः पूर्वन्तेभ्यो देवर्षयः पुनः।
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः।
तेभ्य ऋषिप्रकृतयो मुनिभिः संसितव्रतैः ॥८०॥

कश्यपेषु वसिष्ठेषु तथा भृग्वहङगिरोऽत्रिषु।
पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः।
यस्मादृषन्ति ब्रह्माणन्तेन ब्रह्मर्षयः स्मृताः ॥८१॥

धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च।
प्रत्यूषस्य प्रभासस्य कश्यपस्य तथा पुनः ॥८२॥

देवर्षयः सुतास्तेषां नामतस्तान्निबोधत।
देवर्षी धर्मपुत्रौ तु नरनारायणानुभौ ॥८३॥

वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु।
कुबेरश्चैव पौलस्त्यः प्रत्यूषस्याचलः स्मृतः ॥८४॥

पर्वतो नारदश्चैव कश्यपस्यात्मजावुभौ।
ऋषन्ति देवान् तस्मात्ते तस्माद्देवर्षयः स्मृताः ॥८५॥

मानवे वैषये वंशे ऐलवंशे च ये नृपाः।
ऐला ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ॥८६॥

ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः ।
ब्रह्मलोकप्रतिष्ठास्तु स्मृता ब्रह्मर्षयो मताः ॥८७॥

देवलोकप्रतिष्ठाश्च ज्ञेया देवर्षयः शुभाः।
इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ॥८८॥

अभिजात्या च तपसा मन्त्रव्याहरणैस्तथा।
एवं ब्रह्मर्षयः प्रोक्ता दिव्या राजर्षयस्तु ये ॥८९॥

देवर्षयस्तथान्ये च तेषां वक्ष्यामि लक्षणम्।
भूतभव्यभवज्ञानं सत्याभिव्याहृतं तथा ॥९०॥

सम्बुद्धास्तु स्वयं ये तु सम्बुद्धा ये च वै स्वयम्।
तपसेह प्रसिद्धा ये गर्भेयैश्च प्रणोदितम् ॥९१॥

मन्त्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये।
इत्येते ऋषिबिर्युक्ता देवद्विजनृपास्तु ये ॥९२॥

एतान् भावानधीयाना ये चैत ऋषयो मताः।
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ॥९३॥

दीर्घायुषो मन्त्रकृत ईश्वरा दिव्यचक्षुषः।
बुद्धाः प्रत्यक्षधर्माणो गोत्रप्रवर्तकाश्च ये ॥९४॥

षट्कर्माभिरता नित्यं शालिनो गृहमेधिनः।
तुल्यैर्व्यवहरन्ति स्म अदृष्टैः कर्महेतुभिः ॥९५॥

अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयंकृतैः।
कुटुम्बिन ऋद्विमन्तो बाह्यान्तरनिवासिनः ॥९६॥

कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः।
वर्णाश्रमव्यवस्थानं क्रियन्ते प्रथमन्तु वै ॥९७॥

प्राप्तै त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह।
प्रवर्त्तयन्ति ये वर्णा नाश्रमांश्चैव सर्वशः।
तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः ॥९८॥

जायमाने पिता पुत्रेपुत्रः पितरि चैव हि।
एवं समेत्याविच्छेदाद्वर्त्तयन्त्यायुगक्षयात्।
अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ॥९९॥

अर्यम्णो दक्षिणा ये तु पितृयाणं समाश्रिताः।
दाराग्निहोत्रिणस्ते वै ये प्रजाहेतवः स्मृताः ॥१००॥

गृहमेधिनाञ्च संख्येयाः श्मशानान्याश्रयन्ति ते।
अष्टाशीतिसहस्राणि निहिता उत्तरायणे ॥१०१॥

ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्द्वरेतसः।
मन्त्रब्राह्मणकर्त्तारो जायन्ते ह युगक्षये ॥१०२॥

एवमावर्त्तमानास्ते द्वापरेषु पुनः पुनः।
कल्पानां भाष्यविद्यानां नानाशास्त्रकृतः क्षये ॥१०३॥

भविष्ये द्वापरे चैव द्रोणिर्द्वैपायनः पुनः ।
वेदव्यासो ह्यतीतेऽस्मिन् भविता सुमहातपाः ॥१०४॥

भविष्यन्ति भविष्येषु शाखाप्रणयनानि तु।
तस्मै तद्ब्रह्मणा ब्रह्मतपसा प्राप्तमव्ययम् ॥१०५॥

तपसा कर्म सम्प्राप्तं कर्मणा हि ततो यशः।
यशसा प्राप्य सत्यं हि सत्येनाप्तो हि चाव्ययः ॥१०६॥

अव्ययादमृतं शुक्रममृतात् सर्वमेव हि।
ध्रुवमेकाक्षरमिदं स्वात्मन्येव व्यवस्थितम्।
बृहत्त्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते ॥१०७॥

प्रणवाव स्थितं भूयो भूर्भुवःस्वरिति स्मृतम्।
ऋग्यजुः सामाथर्वरूपिणे ब्रह्मणे नमः ॥१०८॥

जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञितम्।
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥१०९॥

अगाधापरमक्षय्यं जगत्सम्मोहनालयम्।
सप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥११०॥

साङ्ख्यज्ञानवतां निष्ठा गतिः सङ्गदमात्मनः।
यत्तदव्यक्तममृतं प्रकृतिब्रह्म शाश्वतम् ॥१११॥

प्रधानमात्मयोनिश्च गुह्यं सत्त्वञ्च शब्द्यते।
अविभागस्तथा शुक्रमक्षरं बहु वाचकम्।
परमब्रह्मणे तस्मै नित्यमेव नमो नमः ॥११२॥

कृते पुनः क्रिया नास्ति कुत एवाकृतक्रिया।
सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् ॥११३॥

श्रोतव्यं वै श्रुतं वापि तथैवासाधुसाधुता।
ज्ञातव्यञ्चाथ मन्तव्यं स्प्रष्टव्यं भोज्यमेव च।
द्रष्टव्यञ्चाथ श्रोतव्यं ज्ञातव्यं वाथ किञ्चन ॥११४॥

दर्शितं यदनेनैव ज्ञानं तद्वै सुरर्षिणाम् ।
यद्वै दर्शितवानेष कस्तदन्वेष्टुमर्हति ।
सर्वाणि सर्वान्सर्वांश्च भगवानेव सोऽब्रवीत् ॥११५॥

यदा यत्क्रियते येन तदा तत्सोऽभिमन्यते।
येनेदं क्रियते पूर्वं तदन्येन विभावितम् ॥११६॥

यदा तु क्रियते किञ्चित्केनचिद्वाङ्मयं क्वचित्।
तेनैव तत्कृतं पूर्वं कर्त्तॄणां प्रतिभाति वै ॥११७॥

विरक्तञ्चातिरिक्तञ्च ज्ञानाज्ञाने प्रियाप्रिये।
धर्माधर्मौ सुखं दुःखं मृत्युश्चामृतमेव च।
ऊर्द्ध्वन्तिर्यगधोभागस्तस्यैवादृष्टकारणम् ॥११८॥

स्वायम्भुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः।
प्रत्येकविद्यम्भवति त्रेतास्विह पुनः पुनः ॥११९॥

व्यस्यते ह्येकविद्यन्तद्द्वापरेषु पुनः पुनः ।
ब्रह्मा चैतदुवाचादौ तस्मिन् वैवस्वतेऽन्तरे ॥१२०॥

आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः।
कुर्वन्ति संहिता ह्येते जायमानाः परस्परम् ॥१२१॥

अष्टाशीतिसहस्राणि श्रुतर्षीणां स्मृतानि वै।
ता एव संहिता ह्येते आवर्त्तन्ते पुनः पुनः ॥१२२॥

श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे।
युगे युगे तु ताः शाखा व्यस्यन्ते तैः पुनः पुनः ॥१२३॥

द्वापरेष्विव सर्वेषु संहिताश्च श्रुतर्षिभिः।
तेषां गोत्रेष्विमाः शाखा भवन्तीह पुनः पुनः।
ताः शाखास्तत्र कर्त्तारो भवन्तीह युगक्षयात् ॥१२४॥

एवमेव तु विज्ञेयं व्यतीतानागतेष्विह।
मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ॥१२५॥

अतीतेषु अतीतानि वर्त्तन्ते साम्प्रतेषु च।
भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ॥१२६॥

पूर्वेण पश्चिमं ज्ञेयं वर्त्तमानेन चोभयम्।
एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ॥१२७॥

एवं देवाश्च पितर ऋषयो मनवश्च ये।
मन्त्रैः सहोर्द्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह ॥१२८॥

जनलोकात्सुराः सर्वे पशुकल्पात्पुनः पुनः।
पर्याप्तकाले सम्प्राप्ते सम्भूता नैव नस्य (?) तु ॥१२९॥

अवश्यम्भाविनार्थेन सम्बध्यन्ते तदा तु ते।
ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ॥१३०॥

निवर्त्तते तदा वृत्तिस्तेषामादोषदर्शनात् ।
एवं देव युगानीह दशकृत्वा निवर्त्तते ॥१३१॥

जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तनम्।
एवं देवयुगानीह व्यतीतानि सहस्रशः।
निधनं ब्रह्मलोके वै गतानि मुनिभिस्सह ॥१३२॥

न शक्यमानुपूर्व्येण तेषां वक्तुं सविस्तरान् ।
अनादित्वाच्च कालस्य असङ्ख्यानाच्च सर्वशः।
मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह ॥१३३॥

पितृभिर्मुनिभिर्देवैः सार्द्धं सप्तार्षिभिश्च वै।
कालेन प्रतिसृष्टानां युगानाञ्च निवर्तनम् ॥१३४॥

एतेन क्रमयोगेन कल्पमन्वन्तराणि तु।
सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ॥१३५॥

मन्वन्तरान्ते संहारः संहारान्ते च सम्भवः।
देवतानामृषीणाञ्च मनोः पितृगणस्य च ॥१३६॥

न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि।
विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः।
मन्वन्तरस्य संख्यां तु मानुषेण निबोधत ॥१३७॥

देवतानामृषीणाञ्च सङ्ख्यानार्थनिशारदैः।
त्रिंशत्कोट्यस्तु संपूर्णाः सङ्ख्याताः सङ्ख्यया द्विजैः ॥१३८॥

सप्तषष्टिस्तथान्यानि नियुतानि च सङ्ख्यया।
विंशतिश्च सहस्राणि कालोऽयं सोधिकान् विना ॥१३९॥

मन्वन्तरस्य सङ्ख्यैषा मानुषेण प्रकीर्तिता।
वत्सरेणैव दिव्येन प्रवक्ष्याम्यन्तरम्मनोः ॥१४०॥

अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतम्।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥१४१॥

चतुर्द्दशगुणो ह्येष काल आहूतसंप्लवः।
पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ॥१४२॥

तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः।
ब्रह्माणमग्रतः कृत्वा सह देवर्षिदानवैः।
प्रविशन्ति सुरश्रेष्ठं देवदेवं महेश्वरम् ॥१४३॥

स स्रष्टा सर्वभूतानि कल्पादिषु पुनः पुनः।
इत्येष स्थितिकालो वै मनोर्देवर्षिभिः सह ॥१४४॥

सर्वमन्वन्तराणां वै प्रतिसन्धिं निबोधत।
युगाख्या या समुद्दिष्टा प्रागेवास्मिन् मया तव ॥१४५॥

कृतत्रेतादि संयुक्तं चतुर्युगमिति स्मृतम्।
तदेकसप्ततिगुणं परिवृत्तं तु साधिकम्।
मनोरेकमधीकारं प्रोवाच भगवान् प्रभुः ॥१४६॥

एवं मन्वन्तराणां तु सर्वेषामेव लक्षणम्।
अतीतानागतानां वै वर्त्तमानेन कीर्त्तितम् ॥१४७॥

इत्येष कीर्त्तितः सर्गा मनोः स्वायम्भुवस्य ह।
प्रति सन्धिन्तु वक्ष्यामि तस्य वै चापरस्य तु ॥१४८॥

मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह।
अवश्यम्भाविनार्थेन यथा तद्वै निवर्त्तते ॥१४९॥

अस्मिन् मन्वन्तरे पूर्वं त्रैलोक्यस्येश्वरास्तु ये।
सप्तर्षयश्च देवास्ते पितरो मनवस्तथा।
मन्वन्तरस्य काले तु सम्पूर्णे साधकास्तथा ॥१५०॥

क्षीणाधिकाराः संवृत्ता बुद्ध्वा पर्यायमात्मनः।
महर्लोकाय ते सर्वे उन्मुखा दधिरे गतिम् ॥१५१॥

ततो मन्वन्तरे तस्मिन् प्रक्षीणा देवतास्तु ताः।
सम्पूर्णे स्थितिकाले तु तिष्ठन्त्येकं कृतं युगम् ॥१५२॥

उत्पद्यन्ते भविष्याश्च यावन्मन्वन्तरेश्वराः।
देवताः पितरश्चैव ऋषयो मनुरेव च ॥१५३॥

मन्वन्तरे तु सम्पूर्णे यद्यन्यद्वै कलौ युगे।
सम्पद्यते कृतं तेषु कलिशिष्टेषु वै तदा ॥१५४॥

यथा कृतस्य सन्तानः कलिपूर्वः स्मृतो बुधैः।
तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ॥१५५॥

क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः।
मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ॥१५६॥

स्प्तर्षयो मनुश्चैव कालावेक्षास्तु ये स्थिताः।
मन्वन्तरं प्रतीक्षन्ते क्षीयन्ते तपसि स्थिताः ॥१५७॥

मन्वन्तरव्यवस्थार्थं सन्तत्यर्थञ्च सर्वशः।
पूर्ववत् सम्प्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्ज्जने ॥१५८॥

द्वन्द्वेषु सम्प्रवृत्तेषु उत्पन्नास्वौषधीषु च।
प्रजासु च निकेतासु संस्थितासु क्वचित् क्वचित् ॥१५९॥

वार्त्तायान्तु प्रवृत्तायां सद्धर्मे ऋषिभाविते ।
निरानन्दे गते लोके नष्टे स्थावरजङ्गमे ॥१६०॥

अग्रामनगरे चैव वर्णाश्रमविवर्जिते।
पूर्वमन्वन्तरे शिष्टे ये भवन्तीह धार्मिकाः ।
सप्तर्षयो मनुश्चैव सन्तानार्थं व्यवस्तिताः ॥१६१॥

प्रजार्थं तपतां तेषां तपः परमदुश्चरम्।
उत्पद्यन्तीह सर्वेषां निधनेष्विह सर्वशः ॥१६२॥

देवासुराः पितृगणा मुनयो मनवस्तथा।
सर्पा भूताः पिशाचाश्च गन्धर्वा यक्षराक्षसाः ॥१६३॥

ततस्तेषां तु ये शिष्टा शिष्टाचारान् प्रचक्षते ।
सप्तर्षयो मनुश्चैव आदौ मन्वन्तरस्य ह।
प्रारम्भन्ते च कर्माणि मनुष्या दैवतैः सह ॥१६४॥

मन्वन्तरादौ प्रागेव त्रेतायुगमुखे ततः ।
पूर्वं देवास्ततस्ते वै स्थिते धर्मे तु सर्वशः ॥१६५॥

ऋषीणां ब्रह्मचर्येण गत्वाऽऽनृण्यन्तु वै ततः।
पितॄणां प्रजया चैव देवानामिज्यया तथा ॥१६६॥

शतं वर्षसहस्राणि धर्मे वर्णात्मके स्थिताः।
त्रयीं वार्त्तां दण्डनीतिं धर्मान् वर्णाश्रमांस्तथा।
स्थापयित्वाश्रमांश्चैव स्वर्गाय दधिरे मतीः ॥१६७॥

पूर्वं देवेषु तेष्वेव स्वर्गाय प्रमुखेषु च।
पूर्वं देवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ॥१६८॥

मन्वन्तरे परावृत्ते स्थानान्युत्सृज्य सर्वशः।
मन्त्रैः सहोर्ध्वङ्गच्छन्ति महर्लोकमनामयम् ॥१६९॥

विनिवृत्तविकारास्ते मानसीं सिद्धिमास्थिताः।
अवेक्षमाणा वशिनस्तिष्ठन्त्याभूतसंप्लवम् ॥१७०॥

ततस्तेषु व्यतीतेषु सर्वेष्वेतेषु सर्वदा।
शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः।
उपस्थिता इहैवान्ये देवा ये स्वर्गवासिनः ॥१७१॥

ततस्ते तपसा युक्ता स्थानान्यापूरयन्ति वै।
सत्यैन ब्रह्मचर्येण श्रुतेन च समन्विताः ॥१७२॥

सप्तर्षीणं मनोश्चैव देवानां पितृभिः सह।
निधनानीह पूर्वेषामादिना च भविष्यता ॥१७३॥

तेषामत्यन्तविच्छेद इह मन्वन्तरक्षयात्।
एवं पूर्वानुपूर्व्येण स्थितिरेषानवस्थिता।
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥१७४॥

एवं मन्वन्तराणान्तु प्रतिसन्धानलक्षणम्।
अतीतानागतानान्तु प्रोक्तं स्वायम्भुवेन तु ॥१७५॥

मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् ।
एवमत्यन्तविच्छिन्नं भवत्याभूतसंप्लवात् ॥१७६॥

मन्वन्तराणां परिवर्त्तनानि एकान्ततस्तानि महर्गतानि।
महर्जनञ्चैव जनन्तपश्च एकान्तगानि स्म भवन्ति सत्ये ॥१७७॥

तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन।
सत्ये स्थितानीह तदा तु तानि प्रप्ते विकारे प्रतिसर्गकाले ॥१७८॥

मन्वन्तराणां परिवर्त्तनानि मुञ्चन्ति सत्यन्तु ततोऽपरान्ते।
ततोऽभियोगाद्विषमप्रमाणं विशन्ति नारायणमेव देवम् ॥१७९॥

मन्वन्तराणां परिवर्त्तनेषु चिरप्रवृत्तेषु निधिस्वभावात्।
क्षणं रसं तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवन्दमानः ॥१८०॥

इत्युत्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम्।
वायुप्रणीतान्युपलभ्य दृश्यं दिव्यौजसा व्याससमासयोगैः ॥१८१॥

सर्वाणि राजर्षिसुरर्षिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव।
सुरेशसप्तर्षिपितृप्रजैशैर्युक्तानि सम्यक् परिवर्त्तनानि ॥१८२॥

उदारवंशाभिजनद्युतीनां प्रकृष्टमेधाभिसमेधितानाम्।
कीर्तिद्युतिख्यातिभिरन्वितानां पुण्यं हि विख्यापनमीश्वराणाम् ॥१८३॥

स्वर्गीयमेतत् परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम्।
जप्यं महत्पर्वसु चैतदग्र्यं दुःस्वप्नशान्तिः परमायुषेयम् ॥१८४॥

प्रजेशदेवर्षिमनुप्रधानां पुण्यप्रसूतिं प्रथितामजस्य।
ममापि विख्यापनसंयमाय सिद्धिं जुषध्वं सुमहेशतत्वम् ॥१८५॥

इत्येतदन्तरं प्रोक्तं मनोः स्वायम्भुवस्य तु।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥१८६॥

इति महापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्त्तनं नामैकषष्टितमोऽध्यायः ॥६१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:01.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पाण्यापरीस-पेक्षां-हून पातळ करणें

  • फजीत करणें 
  • लज्जित करणे 
  • तेजोभंग करणें. ‘धर्मासि करी सज्जनवृदीं पाण्यापरीस पाताळ तें।’-मोसभा २.३४ 
  • मोउद्योग ३.८२ 
More meanings
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.