TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः २४

पूर्वार्धम् - अध्यायः २४

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः २४
॥वायुरुवाच॥
चत्वारि भारते वर्षे युगानि मुनयो विदुः ।
कृतं त्रेता द्वापरं च तिष्यं चेति चतुर्युगम् ॥१॥

एतत्सहस्रपर्यन्तमहर्यद्ब्रह्मणः स्मृतम्।
यामाद्यास्तु गणाः सप्त रोमवन्तश्चतुर्द्दश ॥२॥

सशरीराः श्रयन्ते स्म जनलोकं सहानुगाः।
एवं देवेष्वतीतेषु महर्ल्लोकाज्जनं तपः ॥३॥

मन्वन्तरेष्वतीतेषु देवाः सर्वे महौजसः।
ततस्तेषु गतेषूर्द्ध्वं सायुज्यं कल्पवासिनाम् ॥४॥

समेत्य देवैस्ते देवाः प्राप्ते सङ्कालने तदा।
महर्लोकं परित्यज्य गणास्ते वै चतुर्द्दश ॥५॥

भूतदिष्ववशिष्टेषु स्थावरान्तेषु वै तदा ।
शून्येषु तेषु लोकेषु महान्तेषु भुवादिषु।
देवेष्वथ गतेषूर्द्ध्वं कल्पवासिषु वै जनम् ॥६॥

तत्संहत्या ततो ब्रह्मा देवर्षिगणदानवान्।
संस्थापयति वै सर्व्वान् दाहवृष्‌ट्या युगक्षये ॥७॥

योऽतीतः सप्तमः कल्पो मया वः परिकीर्तितः।
समुद्रैः सप्तभिर्गाढमेकीभूतैर्महार्णवैः ।
आसीदेकार्णवं घोरमविभागं तमोमयम् ॥८
माययैकार्णवे तस्मिन् शङ्खचक्रगदाधरः।
जीमूताभोऽम्बुजाक्षश्च किरीटी श्रीपतिर्हरिः ॥९॥

नारायणमुखोद्गीर्णः सोऽष्टमः पुरुषोत्तमः।
अष्टबाहुर्महोरस्को लोकानां योनिरुच्यते।
किमप्यचिन्त्यं युक्तात्मा योगमास्थाय योगवित् ॥१०॥

फणासहस्रकलितं तमप्रतिमवर्चसम्।
महाभोगपतेर्भोगमन्वास्तीर्य महोच्छ्रयम्।
तस्मिन्महति पर्यङ्के शेते वै कनकप्रभे ॥११॥

एवं तत्र शयानेन विष्णुना प्रभविष्णुना।
आत्मारामेण क्रीडार्थं सृष्टं नाभ्यां तु पङ्कजम् ॥१२॥

शतयोजनविस्तीर्णं तरुणादित्यवर्च्चसम्।
बज्रदण्डं महोत्सेधं लीलया प्रभविष्णुना ॥१३॥

तस्यैवं क्रीडमानस्य समीपं देवमीढुषः।
हेमब्रह्माण्डजो ब्रह्मा रुक्मवर्णोह्यतीन्द्रियः।
चतुर्मुखो विशालाक्षः समागम्य यदृच्छया ॥१४॥

श्रिया युक्तेन नव्येन सुप्रभेण सुगन्धिना।
तं क्रीडमानं पझेन दृष्ट्वा ब्रह्मा तु भेजिवान् ॥१५॥

स विस्मयमथागम्य शस्य संपूर्णया गिरा।
प्रोवाच को भवान् शेते आक्षितो म्ध्यमम्भसाम् ॥१६॥

अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः।
उदतिष्ठत पर्य्यङ्काद्विस्मयोत्फुल्ललोचनः ॥१७॥

प्रत्युवाचोत्तरं चैव क्रियते यच्च किञ्चन।
द्यौरन्तरिक्षं भूतञ्च परं पदमहं प्रभुः ॥१८॥

तमेवमुक्त्वा भगवान् विष्णुः पुनरथाव्रवीत् ।
कस्त्वं खलु समायातः समीपं भगवान् कुतः ।
कुतस्व भूयो गन्तव्यं कुत्र वा ते प्रतिश्रयः ॥१९॥

को भवान् विश्वमूर्तिस्त्वं कर्त्तव्यं किञ्च ते मया।
एवं ब्रुवाण वैकुण्ठं प्रत्युवाच पितामहः ॥२०॥

यथा भवांस्तथा चाहमादिकर्त्त प्रजापतिः।
नारायणसमाख्यातः सर्व्वं वै मयि तिष्ठति ॥२१॥

सविस्मयं परं श्रुत्वा ब्रह्मणा लोककर्तृणा।
सोऽनुज्ञातो भगवता वैकुण्ठो विश्वसम्भवः ॥२२॥

कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम्।
इमानष्टादशद्वीपान् ससमुद्रान् सपर्व्वतान्।
प्रविश्य स महातेजाश्चातुर्वर्ण्यसमाकुलान्।
ब्रह्मादिस्तम्बपर्य्यन्तान् सप्तलोकान् सनातनान् ॥२३॥

ब्रह्मणस्तूदरे दृष्ट्वा सर्व्वान् विष्णुर्महायशाः।
अहोऽस्य तपसो वीर्य्यं पुनः पुनरभाषत ॥२४॥

पर्य्यटन् विविधान् लोकान् विष्णुर्नानाविधाश्रमान्।
ततो वर्षसहस्रान्ते नान्तं हि ददृशे तदा ॥२५॥

तदाऽस्य वक्रान्निष्क्रम्य पन्नगेन्द्रारिकेतनः।
अजातशत्रुर्भगवान् पितामहमथाब्रवीत् ॥२६॥

भगवन् आदि मध्यञ्च अन्तं कालदिशोर्न च।
नाहमन्तं प्रपश्यामि ह्युदरस्य तवानघ ॥२७॥

एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः।
भवानप्येवमेवाद्य ह्युदरं मम शाश्वतम्।
प्रविश्य लोकान् पश्यैताननौपम्यान् द्विजोत्तम ॥२८॥

मनःप्रह्लादनीं वाणीं श्रुत्वा तस्याभिनन्द्य च।
श्रीपतेरुदरं भूयः प्रविवेश पितामहः ॥२९॥

तानेव लोकान् गर्भस्थः पश्यन् सोऽचिन्त्यविक्रमः।
पर्यटित्वादिदेवस्य ददर्शान्तं न वै हरेः ॥३०॥

ज्ञात्वागमन्तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः।
विभुर्मनः कर्त्तुमियेष चाशु सुखं प्रसुप्तोऽस्मि महाजलौघे ॥३१॥

ततो द्वाराणि सर्वाणि पिहितान्युपलक्ष्यते।
सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत ॥३२॥

पझसूत्रानुमार्गेण ह्यनुगम्य पितामहः।
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः।
विरराजारविन्दस्थः पझगर्भसमद्युतिः ॥३३॥

एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कार्त्स्न्यतः।
प्रवर्त्तमाने संहर्षे मध्ये तस्यार्णवस्य तु ॥३४॥

॥सूत उवाच॥
ततो ह्यपरिमेयात्मा भूतानां प्रभुरीश्वरः।
शूलपाणिर्महादेवो हैमचीराम्बरच्छदः।
आगच्छद् यत्र सोऽनन्तो नागभोगपतिर्हरिः ॥३५॥

शीघ्रं विक्रमतस्तस्य पद्भ्यामत्यन्तपीडिताः।
उद्धूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः।
अत्युष्णाश्चातिशीताश्च वायुस्तत्र ववौ भृशम् ॥३६॥

तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत।
अब्बिन्दवो हि स्थूलोष्णाः कम्पते चाम्बुजं भृशम्।
एतं मे संशयं ब्रूहि किञ्चान्यत् त्वञ्चिकीर्षसि ॥३७॥

एतदेवंविधं वाक्यं पितामहमुखोद्भवम्।
श्रुत्वाप्रतिमकर्माह भगवानसुरान्तकृत् ॥३८॥

किन्नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् ।
वदन्ति प्रियमत्यर्थं विप्रियेपि च ते मया ॥३९॥

इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम्।
किन्न्वत्र भगवांस्तस्मिन् पुष्करे जातसम्भ्रमः ॥४०॥

किं मया यत् कृतं देव यन्मां प्रियमनुत्तमम्।
भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः ॥४१॥

एवं ब्रुवाणं देवेशं लोकया त्रान्तु तत्त्वगाम्।
प्रत्युवाचाम्बुजाभास्को ब्रह्म वेदनिधिः प्रभुः ॥४२॥

योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया।
यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो।
तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ॥४३॥

ततो वर्षसहस्रान्ते उपावृत्तस्य मेऽनघ।
नूनं मत्सरभावेन मां वशीकर्तुमिच्छता।
आशु द्वाराणि सर्वाणि घटितानि त्वया पुनः ॥४४॥

ततो मया महाभाग सञ्चिन्त्य स्वेन चेतसा।
लब्धो नाभ्यां प्रवेशतु पद्मसूत्राद्विनिर्गमः ॥४५॥

माभूत्ते मनसोऽल्पोऽपि व्याघातोऽयं कथञ्चन।
इत्येषानुगतिर्विष्णोः कार्याणामौपसर्गिकी ॥४६॥

यन्म यानन्तरं कार्यं मयाध्यवसितं त्वयि।
त्वाञ्चाबाधितुकामेन क्रीडापूर्वं यदृच्छया।
आशु द्वाराणि सर्वाणि घटितानि मया पुनः ॥४७॥

न तेऽन्यथावमन्तव्यो मान्यः पूज्यश्च मे भवान्।
सर्वं मर्षय कल्याण यन्मयाऽपकृतन्तव।
तस्मान्मयोच्यमानस्त्वं पझादवतर प्रभो ॥४८॥

नाहं भवन्तं शक्नोमि सोदुन्तेजोमयं गुरुम्।
स चोवाच वरं ब्रूहि पझादवतराम्ययम् ॥४९॥

॥विष्णुरुवाच॥
पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनम्।
सत्यधनो महायोगी त्वमीड्यः प्रणवात्मकः ॥५०॥

अद्यप्रभृति सर्वेश श्वेतोष्णीषविभूषणः।
पझयोनिरितीत्येवं ख्यातो नाम्ना भविष्यसि।
पुत्रो मे त्वं भव ब्रह्मन् सर्वलोकाधिप प्रभो ॥५१॥

ततः स भगवान् ब्रह्म वरं गृह्य किरीटिनः ।
एवं भवतु चेत्युक्त्वां प्रीतात्मा गतमत्सरः ॥५२॥

प्रत्यासन्नमथायातं बालार्काभं महाननम्।
भूतमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् ॥५३॥

अप्रमेयो महावक्रो दंष्ट्री व्यस्तशिरो रुहः।
दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतोमुखः ॥५४॥

लोकप्रभुः स्वयं साक्षाद्विकृतो मुञ्जमेखली ।
मेढ्रेणोर्ध्वेन महता नदमानोऽतिभैरवम् ॥५५॥

कः खल्वेष पुमान् विष्णो तेजोराशिर्महाद्युतिः।
व्याप्य सर्वा दिशो द्याञ्च इत एवाभिवर्त्तते ॥५६॥

तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत्।
पद्भ्यान्तलनिपातेन यस्य विक्रमतोऽर्णवे।
वेगेन महताकाशे व्यथिताश्च जलाशयाः ॥५७॥

छटाभिर्विष्णुतोऽत्यर्थं सिच्यते पझसम्भवः।
घ्राणजेन च वातेन कम्पमानं त्वया सह।
दोधूयते महापझं स्वच्छन्दं मम नाभिजम् ॥५८॥

स एष भगवानीशो ह्यनादिश्चान्तकृद्विभुः।
भवानहञ्च स्तोत्रेण ह्युपतिष्ठाव गोध्वजम् ॥५९॥

ततः क्रुद्धोऽम्बुजाभास्कं ब्रह्मा प्रोवाच केशवम्।
न भवान् न्यूनमात्मानं लोकानां योनिमुत्तमम् ॥६०॥

ब्रह्माणं लोककर्त्तारं माञ्च वेत्ति सनातनम्।
कोऽयं भोः शङ्करो नाम ह्यावयोर्व्यतिरिच्यते ॥६१॥

तस्य तत् क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत।
मा मैवं वद कल्याण परिवादं महात्मनः ॥६२॥

मायायोगेश्वरो धर्मो दुराधर्षो वरप्रदः।
हेतुरस्यात्र जगतः पुराणः पुरुषोऽव्ययः ॥६३॥

जीवः खल्वेष जीवानां ज्योतिरेकं प्रकाशते।
बालक्रीडनकैर्द्देवः क्रीडतो शङ्करः स्वयम् ॥६४॥

प्रधानमव्ययं ज्योतिरव्यक्तं प्रकृतिस्तमः।
अस्य चैतानि नामानि नित्यं प्रसवधर्मिणः।
यः कः स इति दुःखार्त्तैर्मृग्यते यतिभिः शिवः ॥६५॥

एष बीजी भवान् बीजमहं योनिः सनातनः।
एवमुक्रोऽथ विश्वात्मा ब्रह्मा विष्णुमभाषत ॥६६॥

भवान्योनिरहं बीजं कथं बीजी महेश्वरः ।
एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ॥६७॥

ज्ञात्वा चैवं समुत्पत्तिं ब्रह्मणा लोकतन्त्रिणा।
इदं परमसादृश्यं प्रश्रमभ्यवदद्धरिः ॥६८॥

अस्मान्महत्तरं गुह्यं भूतमव्यन्न विद्यते।
महतः परमं धाम शिवमध्यात्मिनां पदम् ॥६९॥

द्वैधीभावेन चात्मानं प्रविष्टस्तु व्यवस्थितः।
निष्कलः सूक्ष्ममव्यक्तः सकलश्च महेश्वरः ॥७०॥

अस्य मायाविधिज्ञस्य अगम्यगहनस्य च।
पुरा लिङ्गं भवद्बीजं प्रथमं त्वादिसर्गिकम् ॥७१॥

मयि योनौ समायुक्तं तद्बीजं कालपर्ययात्‌।
हिरण्मयमपारन्तद्योन्यामण्डमजायत ॥७२॥

शतानि दशवर्षाणामण्डञ्चाप्सु प्रतिष्ठितम्।
अन्ते वर्षसहस्रस्य वायुना तद्द्विधा कृतम् ॥७३॥

कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः।
उल्वन्तस्य महोत्सेधं योऽसौ कनकपर्वतः ॥७४॥

ततस्तस्मात् प्रबुद्धात्मा देवो देववरः प्रभुः ।
हिरण्यगर्भो भगवानहं जज्ञे चतुर्भुजः ॥७५॥

ततो वर्षसहस्रान्ते वायुना तद्द्विधाकृतम्।
अतारार्केन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च।
कोऽयमत्रे त्यभिध्याते कुमारास्तेऽभवंस्तदा ॥७६॥

प्रियदर्शनास्सुतनवो येऽतीताः पूर्वजास्तव।
भूयो वर्षसहस्रान्ते तत एवात्मजास्तव।
भुवनानलसङ्काशाः पझपत्रायतेक्षणाः ॥७७॥

श्रीमान् सनत्कुमारस्तु ऋभुश्चैवोर्द्ध्वरेतसौ ।
सनातनश्च सनकस्तथैव च सनन्दनः।
उत्पन्नाः समकालं ते बुद्धयाऽतीन्द्रियदर्शनाः ॥७८॥

उत्पन्नाः प्रतिघात्मानो जगदुश्च तदैव हि।
नारप्स्यन्ते च कर्माणि तापत्रयविवर्जिताः ॥७९॥

अस्य सौम्यं बहुक्लेशं जराशोकसमन्वितम्।
जीवितं मरणं चैव संभवञ्च पुनः पुनः ॥८०॥

स्वप्रभूतं पुनः स्वर्गे दुःखानि नरकांस्तथा।
विदित्वा चागमं सर्वमवश्यं भवितव्यताम् ॥८१॥

ऋभुं सनत्कुमारञ्च दृष्ट्वा तव वशे स्थितौ।
त्रयस्तु त्रीन् गुणान् हित्वा आत्मजाः सनकादयः।
वैवर्त्तेन तु ज्ञानेन निवृत्तास्ते महौजसः ॥८२॥

ततस्तेष्वपवृत्तेषु सनकादिषु वै त्रिषु।
भविष्यसि विमूढस्तु मायया शङ्करस्य तु ॥८३॥

एवं कल्पे तु वैकल्पे संज्ञा नस्यति तेऽनघ।
कल्पशेषाणि भूतानि सूक्ष्माणि पार्थिवानि च ॥८४॥

सा चैषा ह्यैश्वरी माया जगतः समुदाहृता।
स एष पर्वतो मेरु र्देवलोक उदाहृतः ॥८५॥

तवैवेदं हि माहात्म्यं दृष्ट्वा चात्मानमात्मना ।
ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामम्बुजेक्षणम् ॥८६॥

महादेवं महायोगं भूतानां वरदं प्रभुम्।
प्रणवात्मानमासाद्य नमस्कृत्या जगद्गुरुम्।
त्वाञ्च माञ्चैव संक्रुद्धो निःश्वासान्निर्द्दहेदयम् ॥८७॥

एवं ज्ञात्वा महायोगं अभ्युत्तिष्ठन् महाबलः।
अहं त्वामग्रतः कृत्वा स्तोष्येऽहमनलप्रभम् ॥८८॥

॥सूत उवाच॥
ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः।
अतीतैश्च भविष्यैश्च वर्त्तमानैस्तथैव च।
नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयत् ॥८९॥

नमस्तुभ्यं भगवते सुव्रतेऽनन्ततेजसे।
नमः क्षेत्राधिपतये बीजिने शूलिने नमः ॥९०॥

अमेढ्रायोर्द्ध्वमेढ्राय नमो वैकुण्ठरेतसे ।
नमो ज्येष्ठाय श्रेष्ठाय अपूर्वप्रथमाय च ॥९१॥

नमो हव्याय पूज्याय सद्यो जाताय वै नमः ।
गह्वराय धनेशाय हैमचीराम्बराय च ॥९२॥

नमस्ते ह्यस्मदादीनां भूतानां प्रभवाय च।
वेदकर्म्मावदानानां द्रव्याणां प्रभवे नमः ॥९३॥

नमो योग्स्य प्रभवे सांख्यस्य प्रभवे नमः ।
नमो ध्रुवनिशीथानामृषीणां पतये नमः ॥९४॥

विद्युदशनिमेघानां गर्ज्जितप्रभवे नमः।
उदधीनाञ्च प्रभवे द्वीपानां प्रभवे नमः ॥९५॥

अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः।
नमो नदानां प्रभवे नदीनां प्रभवे नमः ॥९६॥

नमश्चौषधिप्रभवे वृक्षाणां प्रभवे नमः।
धर्म्माध्यक्षाय धर्म्माय स्थितीनां प्रभवे नमः ॥९७॥

नमो रसानां प्रभवे रत्नानां प्रभवे नमः ।
नमः क्षणानां प्रभवे कलानां प्रभवे नमः ॥९८॥

निमेषप्रभवे चैव काष्ठानां प्रभवे नमः ।
अहोरात्रार्द्धमासानां मासानां प्रभवे नमः ॥९९॥

नम ऋतुनां प्रभवे संख्यायाः प्रभवे नमः।
प्रभवे च परार्द्धस्य परस्य प्रभवे नमः ॥१००॥

नमः पुराणप्रभवे युगस्य प्रभवे नमः।
चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ॥१०१॥

कल्पोदये निबद्धानां वार्त्तानां प्रभवे नमः।
नमो विश्वस्य प्रभवे ब्रह्मदिप्रभवे नमः ॥१०२॥

विद्यानां प्रभवे चैव विद्यानां पतये नमः।
नमो व्रतानां पतये मन्त्राणां पतये नमः ॥१०३॥

पितॄणां पतये चैव पशूनां पतये नमः।
वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च ॥१०४॥

सुचारुचारुकेशाय ऊर्द्ध्वचक्षुःशिराय च।
नमः पशूनां पतये गोवृषेन्द्रध्वजाय च ॥१०५॥

प्रजापतीनां पतये सिद्धानां पतये नमः।
गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥१०६॥

गोकर्णाय च गोष्ठाय शङ्कुकर्णाय वै नमः।
वाराहायाप्रमेयाय रक्षोधिपतये नमः ॥१०७॥

नमो ह्यप्सरसांपतये गणानां (पतये) ह्रीमये नमः।
अम्भसां पतये चैव तेजसां पतये नमः ॥१०८॥

नमोऽस्तु लक्ष्मीपतये श्रीमते ह्रीमते नमः।
बलाबलसमूहाय ह्यक्षोभ्यक्षोभणाय च ॥१०९॥

दीर्घश्रृङ्गैकश्रृङ्गाय वृषभाय ककुद्मिने।
नमः स्थैर्याय वपुषे तेजसे सुप्रभाय च ॥११०॥

भूताय च भविष्याय वर्त्तमानाय वै नमः।
सुवर्च्चसेऽथ वीराय शूराय ह्यतिगाय च ॥१११॥

वरदाय वरेण्याय नमः सर्वगताय च।
नमो भूताय भव्याय भवाय महते तथा ॥११२॥

जनाय च नमस्तुभ्यं तपसे वरदाय च।
नमो वन्द्याय मोक्षाय जनाय नरकाय च ॥११३॥

भवाय भजमानाय इष्टाय याजकाय च।
अभ्युदीर्णाय दीप्ताय तत्त्वाय निर्गुणाय च ॥११४॥

नमः पाशाय हस्ताय नमः स्वाभरणाय च।
हुताय चापहुताय प्रहुतप्रशिताय च ॥११५॥

नमोऽस्त्विष्टाय मूर्त्ताय ह्यग्निष्टोमर्त्विजाय च।
नम ऋताय सत्याय भूताधिपतये नमः ॥११६॥

सदस्याय नमश्चैव दक्षिणावभृथाय च।
अहिंसायाथ लोकानां पशुमन्त्रौषधाय च ॥११७॥

नमस्तुष्टिप्रदानाय त्र्यम्बकाय सुगन्धिने।
नमोऽस्त्विन्द्रियपतये परिहाराय स्रग्विणे ॥११८॥

विश्वाय विश्वरूपाय विश्वतोऽक्षिमुखाय च।
सर्वतः पाणिपादाय रुद्रायाप्रमिताय च ॥११९॥

नमो हव्याय कव्याय हव्यकव्याय वै नमः।
नमः सिद्धाय मेध्याय चेष्टाय त्वव्ययाय च ॥१२०॥

सुवीराय सुघोराय ह्यक्षोभ्यक्षोभणाय च।
सुमेधसे सुप्रजाय दीप्ताय भास्कराय च ॥१२१॥

मनो नमः सुपर्णाय तपनीयनिभाय च।
विरूपाक्षाय त्र्यक्षाय पिङ्गलाय महौजसे ॥१२२॥

दृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च।
नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ॥१२३॥

पिशिताय पिशङ्गाय पीताय च निषङ्गिणे।
नमस्ते सविशेषाय निर्विशेषाय वै नमः ॥१२४॥

नमो वै पझवर्णाय मृत्युघ्नाय च मृत्यवे ।
नमः श्यामाय गौराय कद्रवे रोहिताय च ॥१२५॥

नमः कान्ताय सन्ध्याभ्रवर्णाय बहुरूपिणे।
नमः कपालहस्ताय दिग्वस्त्राय कपर्द्दिने ॥१२६॥

अप्रमेयाय शर्वाय ह्यवध्याय वराय च।
पुरस्तात् पृष्ठतश्चैव बिभ्राणाय कृशानवे ॥१२७॥

दुर्गाय महते चैव रोधाय कपिलाय च।
अर्कप्रभशरीराय बलिने रंहसाय च ॥१२८॥

पिनाकिने प्रसिद्धाय स्फीताय प्रसृताय च।
सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥१२९॥

चित्राय चित्रवर्णाय विचित्राय धराय च।
चेकितानाय तुष्टाय नमस्त्वनिहिताय च ॥१३०॥

नमः क्षान्ताय शान्ताय वज्रसंहननाय च।
रक्षोघ्नाय मखघ्नाय शितिकण्ठोर्द्ध्वरेतसे ॥१३१॥

अरिहाय कृतान्ताय तिग्मायुधधराय च।
समोदाय प्रमोदाय इरिणायैव ते नमः ॥१३२॥

प्रणवप्रणवेशाय भक्तानां शर्मदाय च।
मृगव्याधाय दक्षाय दक्षयज्ञहराय च ॥१३३॥

सर्वभूताय भूताय सर्वेशातिशयाय च।
पुरभेत्रे च शान्ताय सुगन्धाय वरेशवे ॥१३४॥

पुष्पवन्तस्वरुपाय भगनेत्रान्तकाय च ।
कणादाय वरिष्ठाय कामाङ्गदहनाय च ॥१३५॥

रवेः करालचक्राय नागेन्द्रदमनाय च।
दैत्यानामन्तकायाथो दिव्याक्रन्दकराय च ॥१३६॥

श्मशानरतिनित्याय नमस्त्र्यम्बकधारिणे।
नमस्ते प्राणपालाय धवमालाधराय च ॥१३७॥

प्रहीणशोकैर्विविधैर्भूतैः परिष्टुताय च।
नरनारीशरीराय देव्याः प्रियकराय च ॥१३८॥

जटिने दण्डिने तुभ्यं व्यालयज्ञोपवीतिने ।
नमोऽस्तु नृत्यशीलाय वाद्यनृत्यप्रियाय च ॥१३९॥

मन्यवे शीतशीलाय सुगीतिगायते नमः।
कटककराय भीमाय चोग्ररूपधराय च ॥१४०॥

विभीषणाय भीमाय भगप्रमथनाय च।
सिद्धसङ्घातगीताय महाभागाय वै नमः ॥१४१॥

नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च।
नदते कूर्दते चैव नमः प्रमुदिताय च ॥१४२॥

नमोऽद्भुताय स्वपते धावते प्रस्थिताय च।
ध्यायते जृम्भते चैव तुदते द्रवते नमः ॥१४३॥

चलते क्रीडते चैव लम्बोदरशरीरिणे।
नमः कृताय कम्पाय मुण्डाय विकराय च ॥१४४॥

नम उन्मत्तवेषाय किङ्किणीकाय वै नमः।
नमो विकृतवेषाय क्रूरोग्रामर्षणाय च ॥१४५॥

अप्रमेयाय दीप्ताय दीप्तये निर्गुणाय च।
नमः प्रियाय वादाय मुद्रामणिधराय च ॥१४६॥

नमस्तोकाय तनवे गुणैरप्रतिमाय च।
नमो गणाय गुह्याय अगम्यागमनाय च ॥१४७॥

लोक धात्री त्वियं भूमिः पादौ सज्जनसेवितौ।
सर्व्वेषां सिद्धयोगानामधिष्ठानन्तवोदरम् ॥१४८॥

मध्येऽन्तरिक्षं विस्तीर्णन्तारागणविभूषितम्।
तारापथ इवा भाति श्रीमान् हारस्तवोरसि ॥१४९॥

दिशो दश भुजास्ते वै केयूराङ्गदभूषिताः।
विस्तीर्णपरिणाहश्च नीलाम्बुदचयोपमः ॥१५०॥

कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः ।
दंष्ट्राकरालदुर्द्धर्षमनौपम्यं मुखं तव ॥१५१॥

पझमालाकृतोष्णीषं शीर्षण्यं शोभते कथम्।
दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्ये भूर्ह्यनिलो बले ॥१५२॥

तैक्ष्ण्यमग्नौ प्रभा चन्द्रे खे शब्दः शैत्यमप्सु च।
अक्षरोत्तमनिष्पन्दान् गुणानेतान्विदुर्बुधाः ॥१५३॥

जपो जप्यो महायोगी महादेवो महेश्वरः।
पुरेशयो गुहावासी खेचरो रजनीचरः ॥१५४॥

तपोनिधिर्गुहगुरुर्नन्दनो नन्दिवर्द्धनः।
हयशीर्षो धराधाता विधाता भूतिवाहनः ॥१५५॥

बोद्धव्यो बोधनो नेता धूर्वहो दुष्प्रकम्पकः।
बृहद्रथो भीमकर्मा बृहत्कीर्तिर्धनञ्जयः ॥१५६॥

घण्टाप्रियो ध्वजीछत्री पताकाध्वजिनीपतिः।
कवची पट्टिशी शङ्खी पाशहस्तः परश्वभृत् ॥१५७॥

अगमस्त्वनघः शूरो देवराजारिमर्दनः।
त्वां प्रसाद्य पुराऽस्माभिर्द्विषन्तो निहता युधि ॥१५८॥

अग्निस्त्वं चार्णवान् सर्वान् पिभन्नैव न तृप्यसे।
क्रोधागारः प्रसन्नात्मा कामहा कामदः प्रियः ॥१५९॥

ब्रह्मण्यो ब्रह्मचारी च गोघ्नस्त्वं शिष्टपूजितः।
वेदानामव्ययः कोशस्त्वया यज्ञः प्रकल्पितः ॥१६०॥

हव्यञ्च वेदं वहति वेदोक्तं हव्यवाहनः।
प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥१६१॥

भवानीशो नादिमान् धामराशिर्ब्रह्मम लोकानान्त्वं कर्त्ता त्वादिसर्गः।
साङ्ख्याः प्रकृतिभ्यः परमं त्वां विदित्वा क्षीणध्यानास्ते न मृत्युं विशन्ति ॥१६२॥

योगेन त्वान्ध्यानिनो नित्ययुक्ताः ज्ञात्वा भोगान् सन्त्यजन्ते पुनस्तान् ।
येऽन्ये मर्त्त्यास्त्वां प्रपन्ना विशुद्धास्ते कर्मभिर्दिव्यभोगान् भजन्ते ॥१६३॥
अप्रमेयस्य तत्त्वस्य यथा विझः स्वशक्तितः।
कीर्तितं तव माहात्म्यमपारं परमात्मनः।
शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते ॥१६४॥

इति श्रीमहापुराणे वायुप्रोक्ते शार्वस्तवं नाम चतुर्विंशोऽध्यायः ॥२४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:59.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

health status of accounts

  • खाते की वास्तविक स्थिति 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.