TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - इश्रकादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


इश्रकादिवर्ग
यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर्व्यवहृतानि च योगकृद्भिः ।
तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्गं महागुणमुदारं उदीरयामः ॥२२.१
पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितं ।
त्रिकटु त्र्यूषणं त्र्यूषं कटुत्रयकटुत्रिकं ॥२२.२
हरीतकी चामलकं विभीतकमिति त्रयं ।
त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥२२.३
द्राक्षाकाश्मर्यखर्जूरीफलानि मिलितानि तु ।
मधुरत्रिफला ज्ञेया मधुरादिफलत्रयं ॥२२.४
जातीफलं पूगफलं लवंगकलिकाफलं ।
सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥२२.५
चन्दनं कुङ्कुमं वारि त्रयमेतद्वरार्धकं ।
त्रिभागकुङ्कुमोपेतं तदुक्तं चाद्यपुष्पकं ॥२२.६
सैन्धवं च विडं चैव रुचकं चेति मिश्रितं ।
लवणत्रयं आख्यातं तच्च त्रिलवणं तथा ॥२२.७
सर्जिक्षारं यवक्षारं टङ्कक्षारमेव च ।
क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितं ॥२२.८
हरीतकी नागरं च गुडश्चेति त्रयं समं ।
समत्रितयमित्युक्तं त्रिसमं च समत्रयं ॥२२.९
सितामाक्षिकसर्पींषि मिलितानि यदा तदा ।
मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयं ॥२२.१०
गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितं ।
त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥२२.११
कालाञ्जनसमायुक्ते पुष्पाञ्जनरसाञ्जने ।
अञ्जनत्रितयं प्राहुस्त्र्यञ्जनं चाञ्जनत्रयं ॥२२.१२
वातः पित्तं कफश्चेति त्रयमेकत्र संयुतं ।
दोषत्रयं त्रिदोषं स्याद्दोषत्रितयमित्यपि ॥२२.१३
वातपित्तकफा यत्र समतां यान्ति नित्यशः ।
त्रिदोषसमं इत्येतत्समदोषत्रयं तथा ॥२२.१४
बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयं ।
कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयं ॥२२.१५
नागरातिविषा मुस्ता त्रयमेतत्त्रिकार्षिकं ॥२२.१६
गुडूच्या मिलितं तच्च चातुर्भद्रकमुच्यते ॥२२.१७
त्वगेलापत्त्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकं ।
नागकेशरसंयुक्तं चातुर्जातकं उच्यते ॥२२.१८
एलात्वक्पत्त्रकैस्तुल्यैर्मरिचेन समन्वितैः ।
कटुपूर्वं इदं चान्यच्चातुर्जातकमुच्यते ॥२२.१९
श्रीखण्डागुरुकर्पूरकाश्मीरैस्तु समांशकैः ।
मृगाङ्कमुकुटार्होऽयं मिलितैर्देवकर्दर्मः ॥२२.२०
कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षधूपकः ।
एकीकृतमिदं सर्वं यक्षकर्दम इष्यते ॥२२.२१
कुङ्कुमागुरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसम्भृतं ।
त्र्यक्षपूजनपरैकगोचरं यक्षकर्दमं इमं प्रचक्षते ॥२२.२२
कर्पूरकक्कोललवंगपुष्पगुवाकजातीफलपञ्चकेन ।
समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥२२.२३
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।
सर्वैरेकत्र मिलितैः पञ्चकोलकमुच्यते ॥२२.२४
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
सर्वैरेकत्र मिलितैः पञ्चवेतसमुच्यते ॥२२.२५
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका ।
तथा गोक्षुरकश्चेति लघ्विदं पञ्चमूलकं ॥२२.२६
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटला तथा ।
सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकं ॥२२.२७
पञ्चमूलकयोरेतद्द्वयं च मिलितं यदा ।
तदा भिषग्भिराख्यातं गुणाढ्यं दशमूलकं ॥२२.२८
बलापुनर्नवैरण्डसूप्यपर्णीद्वयेन च ।
एकत्र योजितेनैतन्मध्यमं पञ्चमूलकं ॥२२.२९
गुडूची गोक्षुरश्चैव मूषली मुण्डिका तथा ।
शतावरीति पञ्चानां योगः पञ्चामृताभिधः ॥२२.३०
गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितं ।
एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परं ॥२२.३१
गोमूत्रं गोमयं क्षीरं गव्यमाज्यं दधीति च ।
युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतं ॥२२.३२
निम्बस्य पत्त्रत्वक्पुष्पफलमूलैर्विमिश्रितैः ।
पञ्चनिम्बं समाख्यातं तत्तिक्तं निम्बपञ्चकं ॥२२.३३
कोलदाडिमवृक्षाम्लं चुल्लकी साम्लवेतसा ।
फलं पञ्चाम्लमुद्दिष्टमम्लपञ्चफलं स्मृतं ॥२२.३४
जम्बीरनारङ्गसहाम्लवेतसैः सतिन्तिडीकैश्च सबीजपूरकैः ।
समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकं ॥२२.३५
चाङ्गेरी लिकुचाम्लवेतसयुतं जम्बीरकं पूरकं नारङ्गं फलषाडवस्त्विति तु पिण्डाम्लं च बीजाम्लकं ।
अम्बष्ठासहितं द्विरेतदुदितं पञ्चाम्लकं तद्द्वयं विज्ञेयं करमर्दनिम्बुकयुतं स्यादम्लवर्गाह्वयं ॥२२.३६
तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका ।
सर्पनेत्रयुताः पञ्च सिद्धौषधिकसंज्ञकाः ॥२२.३७
शैरीषं कुसुमं मूलं फलं पत्त्रं त्वगित्ययं ।
कीटारिः कथितो योगः पञ्चशैरीषकाभिधः ॥२२.३८
त्वक्पत्त्रकुसुमं मूलं फलमेकस्य शाखिनः ।
एकत्र मिलितं तच्चेत्पञ्चाङ्गमिति संज्ञितं ॥२२.३९
विदारिगन्धा बृहती पृश्निपर्णी निदिग्धिका ।
श्वदंष्ट्रा चेति सम्प्रोक्तो योगः पञ्चगणाभिधः ॥२२.४०
अत्यम्लपर्णीकाण्डीरमालाकन्दद्विशूरणैः ।
प्रोक्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः ॥२२.४१
शृङ्गिकः कालकूटश्च मुस्तको वत्सनाभकः ।
सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥२२.४२
स्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका ।
एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥२२.४३
गवां अजानां मेषीणां महिषीणां च मिश्रितं ।
मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकं ॥२२.४४
सुवर्णं रजतं ताम्रं त्रयमेतत्त्रिलोहकं ॥२२.४५
वङ्गनागसमायुक्तं तत्प्राहुः पञ्चलोहकं ॥२२.४६
सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं समं ।
ग्रहाङ्गमिति बोद्धव्यं द्वितीयं पञ्चलोहकं ॥२२.४७
यवमुष्ककसर्जानां पलाशतिलयोस्तथा ।
क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥२२.४८
काचसैन्धवसामुद्रविडसौवर्चलैः समैः ॥२२.४९
स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं षडाह्वयं ॥२२.५०
धवापामार्गकुटजलाङ्गलीतिलमुष्कजैः ।
क्षारैरेतैस्तु मिलितैः क्षारषट्कमुदाहृतं ॥२२.५१
रसासृङ्मांसमेदोऽस्थिमज्जाशुक्रसमाह्वयैः ।
शरीरस्थैर्यदैरेतैः सप्तधातुमयो गणः ॥२२.५२
दरदः पारदं सस्यो वैक्रान्तं कान्तमभ्रकं ।
माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः ॥२२.५३
खेचराञ्जनकङ्गुष्ठगन्धालगैरिकक्षितीः ।
शैलेयाञ्जनसम्मिश्राः शंसन्त्युपरसान्बुधाः ॥२२.५४
कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान् ।
पाषाणिनो वोदरशृङ्गयुक्तानित्यष्ट सामान्यरसानि चाहुः ॥२२.५५
पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः ।
कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥२२.५६
शिग्रुमूलकपलाशचुक्रिकाचित्रकार्द्रकसनिम्बसम्भवैः ।
इक्षुशैखरिकमोचकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितं ॥२२.५७
मूत्राणि हस्तिमहिषोष्ट्रगवाजकानां मेषाश्वरासभकमानुषमानुषीणां ।
यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाह्वयभाञ्जि भान्ति ॥२२.५८
स्याज्जीवकर्षभकयुग्ययुगद्विमेदाकाकोलिकाद्वययुतद्विकसूप्यपर्ण्या ।
जीव्या मधूकयुतया मधुराह्वयोऽयं योगो महानिह विराजति जीवकादिः ॥२२.५९
जीवकर्षभकौ मेदे काकोल्यावृद्धिवृद्धिके ।
एकत्र मिलितैरेतैरष्टवर्गः प्रकीर्तितः ॥२२.६०
कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः ।
मुराकर्चूरमुस्ताभिः सर्वौषधं उदाहृतं ॥२२.६१
अजाजी मरिचं शुण्ठी ग्रन्थि धान्यं निशाह्वयं ।
पिप्पली मरिचं चेति वेशवारगणो मतः ॥२२.६२
सर्वौषधिसमायुक्ताः शुष्काश्चामलकत्वचः ।
यदा तदायं योगः स्यात्सुगन्धामलकाभिधः ॥२२.६३
द्राक्षादाडिमखर्जूरकदलीशर्करान्वितं ।
लाजाचूर्णं समध्वाज्यं संतर्पणं उदाहृतं ॥२२.६४
सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः ।
नात्यच्छो नातिसान्द्रश्च मन्थः इत्यभिधीयते ॥२२.६५
दाडिमं किंशुकं लाक्षा बन्धूकं च निशाह्वयं ।
कुसुम्भपुष्पं मञ्जिष्ठा इत्येतै रक्तवर्गकः ॥२२.६६
खटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः ।
भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥२२.६७
भार्गीशटीपुष्करवत्सबीजदुरालभाशृङ्गिपटोलतिक्ताः ।
किरातविश्वेन्द्रकणेन्द्रबीजधान्यानि तिक्तं सुरदारुकं च ॥२२.६८
अष्टादशाङ्गाभिध एष योगः समागमे स्याद्दशमूलकेन ।
द्विधा च भार्ग्यादिक एक एष ज्ञेयो द्वितीयस्तु किरातकादिः ॥२२.६९
द्वात्रिंशत्पलसम्मितं दधि पलान्यष्टौ च खण्डं पलस्यार्धं चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाह्वयं ।
मध्वाज्यं च युतं तदर्धमिलितं संशोधितैर्योजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥२२.७०
इत्थं नानामिश्रयोगाभिधानादेनं वर्गं मिश्रकाख्यं विदित्वा ।
वैद्यः कुर्याद्योगं अत्रत्यसंज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः ॥२२.७१
शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसम्मिता यं श्रिता ।
तस्यागादभिधानशेखरमणौ वर्गो नृसिंहेशितुर्द्वाविंशोऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ॥२२.७२

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:31.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चाडयेरो

  • वि. ( कों . ) चहाडखोर . तो सलो चाडयेरो . - लोककथा २ . २८ . 
RANDOM WORD

Did you know?

अंत्येष्टी संस्कारात और्द्ध्वदेहिक विधि काय असतो ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.