TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - अनुष्यादिवर्गः

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


अनुष्यादिवर्गः
मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।
द्विपादाश्चेतना भूस्था भूमिजा भूस्पृशो विशः ॥१८.१
पुरुषः पूरुषो ना च नरः पञ्चजनः पुमान् ।
अर्थाश्रयोऽधिकारी स्यात्कर्मार्हश्च जनोऽर्थवान् ॥१८.२
स्त्री योषिद्वनिताबला सुनयना नारी च सीमन्तिनी रामा वामदृगङ्गना च ललना कान्ता पुरंध्री वधूः ।
सुभ्रूः सा वरवर्णिनी च सुतनुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी कुरङ्गनयना भीरुः प्रिया भामिनी ॥१८.३
योषिन्महेला महिला विलासिनी नितम्बिनी सापि च मत्तकाशिनी ।
जनी सुनेत्रा प्रमदा च सुन्दरी स्यादञ्चितभ्रूर्ललिता विलासिनी ॥१८.४
मानिनी च वरारोहा नताङ्गी च नतोदरा ।
प्रतीपदर्शिनी श्यामा कामिनी दर्शनी च सा ॥१८.५
भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही ॥१८.६
भार्या पत्नी प्रिया जाया दाराश्च गृहिणी च सा ॥१८.७
नपुंसकं भवेत्क्लीबं तृतीया प्रकृतिस्तथा ।
षण्डःअः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ॥१८.८
अथ राज्ञी च पट्टार्हा महिषी राजवल्लभा ॥१८.९
भोगिन्योऽन्या विलासिन्यः संभुङ्क्ते यास्तु पार्थिवः ॥१८.१०
राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः ॥१८.११
वेश्या तु गणिका भोग्या वारस्त्री स्मरदीपिका ॥१८.१२
ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः ॥१८.१३
राजा तु सार्वभौमः स्यात्पार्थिवः क्षत्रियो नृपः ॥१८.१४
वैश्यस्तु व्यवहर्ता विड्वार्त्तिको वाणिजो वणिक् ॥१८.१५
शूद्रः पज्जश्चतुर्थः स्यात्द्विजदास उपासकः ॥१८.१६
विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः ।
एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥१८.१७
बालः पाकोऽर्भको गर्भः पोतकः पृथुकः शिशुः ।
शावोऽर्भो बालिशो डिम्भो वटुर्माणवको मतः ॥१८.१८
जातोऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः ।
षड्भिस्तु मासैः पृथुकोऽब्दतः शिशुस्त्रिभिर्वटुर्माणवकश्च सप्तभिः ॥१८.१९
बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः ।
युवा पञ्चाशता वर्षैर्वृद्धः स्यादत उत्तरैः ॥१८.२०
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
कैशोरं आ पञ्चदशाद्यौवनं तु ततः परं ॥१८.२१
युवा वयःस्थस्तरुणो वृद्धस्तु स्थविरो जरन् ।
प्रवया यातयामश्च जीनो जीर्णश्च जर्जरः ॥१८.२२
बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥१८.२३
कन्या कुमारी गौरी तु नग्निकानागतार्तवा ॥१८.२४
सा मध्यमा वयःस्था च युवती सुस्तनी च सा ।
चिरण्टी सुवयाः श्यामा प्रौढा दृष्टरजाश्च सा ॥१८.२५
गुर्विण्यापन्नसत्त्वा स्यादन्तर्वत्नी च गर्भिणी ॥१८.२६
निष्फला जरती वृद्धा स्थविरा च गतार्तवा ॥१८.२७
पुष्पिता मलिना म्लाना पांशुला च रजस्वला ॥१८.२८
वन्ध्यावकेशिनी शून्या मोघपुष्पा वृथार्तवा ॥१८.२९
तनुस्तनूः संहननं शरीरं कलेवरं क्षेत्रवपुःपुराणि ।
गात्रं च मूर्तिर्घनकायदेहावष्टाङ्गपीडानि च विग्रहश्च ॥१८.३०
अङ्गमंसः प्रतीकश्चापघनोऽवयवोऽपि च ॥१८.३१
शिरः शीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकं ।
वराङ्गं उत्तमाङ्गं च कपालं केशभृत्स्मृतं ॥१८.३२
केशाः शिरसिजा वालाः कुन्तला मूर्धजाः कचाः ।
चिकुराः करुहाश्चाथ तद्वेष्टाः कवरीमुखाः ॥१८.३३
दृग्दृष्टिर्लोचनं नेत्रं चक्षुर्नयनमम्बकं ।
ईक्षणं ग्रहणं चाक्षि दर्शनं च विलोचनं ॥१८.३४
अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि ।
तयोर्मध्यगता तारा बिम्बिनी च कनीनिका ॥१८.३५
भालं ललाटमलिकं कथयन्ति गोधिर्भ्रूश्चिल्लिका च नयनोर्ध्वगरोमराजिः ।
मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचोग्रहाश्च ॥१८.३६
ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः ।
तयोरुभयतो देशौ यौ प्रान्तौ सृक्कणी च तौ ॥१८.३७
घ्राणं गन्धवहो घोणा सिङ्घिणी नासिका च सा ॥१८.३८
शङ्खः कर्णसमीपः स्यात्शिङ्घाणं नासिकामले ॥१८.३९
तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने ॥१८.४०
ओष्ठाधरस्तु चिबुकं गण्डो गल्लः कपोलकः ॥१८.४१
हनूस्तदूर्ध्वं दशनाश्च दन्ता द्विजा रदास्ते रदनास्तथोक्ताः ॥१८.४२
जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥१८.४३
तदूर्ध्वं सूक्ष्मजिह्वा या घण्टिका लम्बिका च सा ॥१८.४४
अन्याधोमूलजिह्वा स्यात्प्रतिजिह्वोपजिह्विका ॥१८.४५
अवटुस्तु शिरःपश्चात्संधिर्घाटा कृकाटिका ॥१८.४६
ग्रीवा च कंधरा कंधिः शिरोधिश्च शिरोधरा ॥१८.४७
कण्ठो गलो निगालोऽथ घण्टिका गलशुण्ठिका ॥१८.४८
धमनी तु शिरांसे तु स्कन्धोऽधःशिखरं तथा ॥१८.४९
तस्य संधिस्तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ॥१८.५०
तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतं ॥१८.५१
दोर्दोषा च प्रवेष्टश्च बाहुर्बाहा भुजो भुजा ॥१८.५२
पाणिस्तु पञ्चशाखः स्यात्करो हस्तः शयस्तथा ॥१८.५३
करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च ॥१८.५४
तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥१८.५५
अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी ।
परुः स्यादङ्गुलीसंधिः पर्वसंधिश्च कथ्यते ॥१८.५६
अथाङ्गुष्ठप्रदेशिन्यौ मध्यमानामिका तथा ।
कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥१८.५७
कामाङ्कुशाः कररुहाः करजा नखरा नखाः ।
पाणिजाङ्गुलीसम्भूताः पुनर्भवपुनर्नवाः ॥१८.५८
करस्याधः प्रपाणिः स्यादूर्ध्वं करतलं स्मृतं ।
रेखाः सामुद्रिके ज्ञेयाः शुभाशुभनिवेदिकाः ॥१८.५९
स्तनोरसिजवक्षोजपयोधरकुचास्तथा ॥१८.६०
स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥१८.६१
वक्षो वत्समुरः क्रोडो हृदयं हृद्भुजान्तरं ॥१८.६२
कुक्षिः पिचिण्डो जठरं तुन्दं स्यादुदरं च तत् ॥१८.६३
जीवस्थानं तु मर्म स्यात्कटिप्रान्ते त्रिकं स्मृतं ॥१८.६४
नाभिः स्यादुदरावर्तस्ततोऽधो वस्तिरुच्यते ।
वस्तिश्च वातशीर्षं स्याद्गर्भस्थानं च तत्स्त्रियाः ॥१८.६५
गर्भाशयो जरायुश्च गर्भाधारश्च च स्मृतः ॥१८.६६
नाभिस्तनान्तरं जन्तोरामाशयः इति स्मृतः ॥१८.६७
पक्वाशयो ह्यधो नाभेर्वस्तिर्मूत्राशयः स्मृतः ॥१८.६८
कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकं ।
आरोहं श्रोणिफलकं कलत्रं रसनापदं ॥१८.६९
नितम्बश्चरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥१८.७०
ककुन्दरौ तु सर्वेषां स्यातां जघनकूपकौ ।
कटिप्रोथौ स्फिचौ पायुर्गुदापानं तदासनं ॥१८.७१
गुदमुष्कद्वयोर्मध्ये यो भागः स भगः स्मृतः ॥१८.७२
मुष्कोऽण्डमण्डकोषश्च वृषणो बीजपेशिका ॥१८.७३
शिश्नं शेफश्च लिङ्गं च मेढ्रं साधनमेहने ॥१८.७४
योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरं ॥१८.७५
ऊरू तु सक्थिनी श्रोणिसक्थ्नोः संधिस्तु वङ्क्षणः ।
जङ्घोरूमध्यपर्व स्याज्जान्वष्ठीवच्च चक्रिका ॥१८.७६
जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा ॥१८.७७
जङ्घाङ्घ्रिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥१८.७८
गुल्फस्याधस्तु पार्ष्णिः स्यात्पदाग्रं प्रपदं मतं ॥१८.७९
विक्रमश्चरणः पादः पादाङ्घ्रिश्च पदं क्रमः ॥१८.८०
क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥१८.८१
करो भवेत्संहितविस्तृताङ्गुलस्तलश्चपेटः प्रतलः प्रहस्तकः ।
मुष्टिर्भवेत्संहृतपिण्डिताङ्गुलावाकुञ्चितोऽग्रे प्रसृतः प्रकीर्तितः ॥१८.८२
स्यात्तर्जनी मध्यमिका त्वनामिका कनिष्ठिकाङ्गुष्ठयुता यदा तदा ।
प्रादेशतालाभिधगोस्रवस्तथा वितस्तिरत्यर्थं इह क्रमादियं ॥१८.८३
हस्तस्तु विस्तृते पाणावा मध्याङ्गुलिकूर्परं ॥१८.८४
बद्धमुष्टौ सरत्निः स्यादरत्निरकनिष्ठकः ॥१८.८५
व्यामः सहस्तयोः स्यात्तु तिर्यग्बाह्वोर्यदन्तरं ।
ऊर्ध्वं विस्तृतदोष्पाणिर्नृमानं पौरुषं विदुः ॥१८.८६
जीवस्थानं तु मर्म स्याज्जीवागारं तदुच्यते ॥१८.८७
मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥१८.८८
भ्रूमध्यकण्डगलशङ्खकचांसपृष्ठग्रीवागुदाण्डपदपाणियुगास्थिसंधीन् ।
वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥१८.८९
लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा ॥१८.९०
स्वेदो घर्मश्च घर्माम्भो दूषिका नेत्रयोर्मलं ॥१८.९१
मलं विष्ठा पुरीषं च विट्किट्टं पूतिकं च तत् ।
मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥१८.९२
वली चर्मतरंगः स्यात्त्वगूर्मिस्त्वक्तरंगकः ॥१८.९३
पलितं च जरा लक्ष्म केशशौक्ल्यं च तद्भवेत् ॥१८.९४
रसासृङ्मांसमेदोऽस्थिमज्जानः शुक्रसंयुताः ।
शरीरस्थैर्यदाः सम्यक्विज्ञेयाः सप्त धातवः ॥१८.९५
रसस्तु रसिका प्रोक्ता स्वेदमाता वपुःस्रवः ।
चर्माम्भश्चर्मसारश्च रक्तसूरस्रमातृका ॥१८.९६
रक्तास्रं रुधिरं त्वग्जं कीलालक्षतजानि तु ।
शोणितं लोहितं चासृक्शोणं लोहं च चर्मजं ॥१८.९७
मांसं तु पिशितं क्रव्यं पलं तु रस्यं अस्रजं ।
पललं जाङ्गलं कीरं आमिषं च तदुच्यते ॥१८.९८
मेदस्तु मांससारः स्यान्मांसस्नेहो वसा वपा ॥१८.९९
मेदोजं अस्थिधातुः स्यात्कुल्यं कीकसकं च तत् ॥१८.१००
अस्थिसारस्तु मज्जा स्यात्तेजो बीजं तथास्थिजं ।
जीवनं देहसारश्च तथास्थिस्नेहसंज्ञकं ॥१८.१०१
शुक्रं पुंस्त्वं रेतो बीजं वीर्यं च पौरुषं कथितं ।
इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥१८.१०२
रसादस्रं ततो मांसं मांसान्मेदोऽस्थि तद्भवं ।
अस्थ्नो मज्जा ततः शुक्रं इत्थं एषां जनिक्रमः ॥१८.१०३
तिलकं क्लोम मस्तिष्कं स्नेहस्तु मस्तकोद्भवः ॥१८.१०४
अन्त्रं पुरी तदाख्यातं प्लीहा गुल्म इति स्मृतः ॥१८.१०५
वसा तु वस्नसा स्नायुर्वत्सोक्ता देहवल्कलं ।
सा त्वक्[... १० Zएइछेन्] ॥१८.१०६
शिरोधिजा मन्या धमनी धरणी धरा ।
तन्तुकी जीवितज्ञा च नाडी सिंही च कीर्तिता ॥१८.१०७
कण्डरा तु महास्नायुर्महानाडी च सा स्मृता ॥१८.१०८
शरीरास्थि तु कङ्कालं स्यात्करङ्कोऽस्थिपञ्जरः ।
स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतं ॥१८.१०९
शिरोऽस्थि तु करोटिः स्यात्शिरस्त्राणं तु शीर्षकं ।
तत्खण्डं खर्परं प्राहुः कपालं च तदीरितं ॥१८.११०
पृष्ठास्थि तु कसेरुः स्यात्शाखास्थि नलकं स्मृतं ॥१८.१११
पार्श्वास्थि पर्शुका प्रोक्तमिति देहाङ्गनिर्णयः ॥१८.११२
आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः ।
जीवो विभुः पुमानीशः सर्वज्ञः शम्भुरव्ययः ॥१८.११३
प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि ॥१८.११४
अहंकारोऽभिमानः स्यादहंताहंमतिस्तथा ॥१८.११५
मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् ॥१८.११६
सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस्त्रयो गुणाः ॥१८.११७
श्रोत्रं त्वग्रसना नेत्रं नासा चेत्यक्षपञ्चकं ॥१८.११८
अक्षं हृषीकं करणं वर्हणं विषयीन्द्रियं ॥१८.११९
शब्दः स्पर्शो रसो रूपं गन्धश्च विषया अमी ।
इन्द्रियार्था गोचरास्ते पञ्चभूतगुणाः खलु ॥१८.१२०
आकाशमनिलस्तोयं तेजः पृथ्वी च तान्यपि ।
क्रमेण पञ्च भूतानि कीर्तितानि मनीषिभिः ॥१८.१२१
इत्येष मानुषवयोत्तरवर्णगात्रधात्वङ्गलक्षणनिरूपणपूर्यमाणः ।
वर्गः कृतस्तु भिषजां बहुदेहदोषनामा निदानगणनिर्णयधीनिवेशः ॥१८.१२२
इति पशुपतिपादाम्भोजसेवासमाधिप्रतिसमयसमुत्थानन्दसौख्यैकसीम्ना ।
नरहरिकृतिनायं निर्मिते याति नामप्रचयमुकुटरत्ने शान्तिमष्टादशाङ्कः ॥१८.१२३

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:31.0470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

active balance of payments

  • अनुकूल आंतरराष्ट्रीय ताळेबंद 
  • also favourable balance of payments 
  • = favourable balance of payments 
RANDOM WORD

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site