TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - शाल्मल्यादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


शाल्मल्यादिवर्ग
शाल्मली तस्य निर्यासो रोहितश्चैकवीरकः ।
पारिभद्रोऽथ खदिरस्त्रिधारिः खादिरः स्मृतः ॥८.१
शमीद्वयं च बर्बुरद्वितयं चारिमेदकः ।
पक्वाण्डेङ्गुदिका प्रोक्ता निष्पत्त्री च स्नुही द्विधा ॥८.२
कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः ।
कारिका मदनस्त्रेधा बिल्वान्तरस्तरट्टिका ॥८.३
श्रीवल्ली कुञ्जिका चैव रामकाण्डस्तथापरः ।
सयावनालौ द्विशरौ मुञ्जकाशी द्विधा कुशः ॥८.४
वल्वजा कुतृणौ चाथ नलौ दूर्वा चतुर्विधा ।
कुन्दुरो भूतृणो ज्ञेय उखल इक्षुदर्भकः ॥८.५
गोमूत्री शिल्पी निश्रेणी गर्मोटी मज्जरास्तथा ।
गिरिभूर्वंशपत्त्री च मन्थानः पल्लिवाहकः ॥८.६
पटुतृणशुको ज्ञेयः त्रिपण्यान्धः त्रिगुण्डकः ।
कसेरुश्चणिका प्रोक्ता गुण्डाला शूलिका तथा ।
परिपेल्लं हिज्जुलं च सेवालं च शराङ्कधा ॥८.७
शाल्मलिश्चिरजीवी स्यात्पिच्छिलो रक्तपुष्पकः ।
कुक्कुटी तूलवृक्षश्च मोचाख्यः कण्टकद्रुमः ॥८.८
रक्तफलो रम्यपुष्पो बहुवीर्यो यमद्रुमः ।
दीर्घद्रुमः स्थूलफलो दीर्घायुस्तिथिभिर्मितः ॥८.९
शाल्मली पिच्छिलो वृष्यो बल्यो मधुरशीतलः ।
कषायश्च लघुः स्निग्धः शुक्रश्लेष्मविवर्धनः ॥८.१०
तद्रसस्तद्गुणो ग्राही कषायः कफनाशनः ।
पुष्पं तद्वच्च निर्दिष्टं फलं तस्य तथाविधं ॥८.११
मोचरसो मोचस्तु मोचस्रावश्च मोचनिर्यासः ।
पिच्छिलसारः सुरसः शाल्मलिवेष्टश्च मोचसारश्च ॥८.१२
मोचरसस्तु कषायः कफवातहरो रसायनो योगात् ।
बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥८.१३
रोहीतको रोहितकश्च रोहितः कुशाल्मलिर्दाडिमपुष्पसंज्ञकः ।
सदाप्रसूनः स च कूटशाल्मलिर्विरोचनः शाल्मलिको नवाह्वयः ॥८.१४
सप्ताह्वः श्वेतरोहितः सितपुष्पः सिताह्वयः ।
सिताङ्गः शुक्लरोहितो लक्ष्मीवान्जनवल्लभः ॥८.१५
रोहितकौ कटुस्निग्धौ कषायौ च सुशीतलौ ।
क्रिमिदोषव्रणप्लीहरक्तनेत्रामयापहौ ॥८.१६
एकवीरो महावीरः सकृद्वीरः सुवीरकः ।
एकादिवीरपर्यायैर्वीरश्चेति षडाह्वयः ॥८.१७
एकवीरो भवेच्चोष्णः कटुकस्तोदवातनुत् ।
गृध्रसीकटिपृष्ठादिशूलपक्षाभिघातनुत् ॥८.१८
अथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः ।
रक्तकुसुमः क्रिमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥८.१९
पारिभद्रः कटूष्णः स्यात्कफवातनिकृन्तनः ।
अरोचकहरः पथ्यो दीपनश्चापि कीर्तितः ॥८.२०
खदिरो बालपत्त्रश्च खाद्यः पत्त्री क्षिती क्षमा ।
सुशल्यो वक्रकण्टश्च यज्ञाङ्गो दन्तधावनः ॥८.२१
गायत्री जिह्मशल्यश्च कण्टी सारद्रुमस्तथा ।
कुष्ठारिर्बहुसारश्च मेध्यः सप्तदशाह्वयः ॥८.२२
खदिरस्तु रसे तिक्तः शीतः पित्तकफापहः ।
पाचनः कुष्ठकासास्रशोफकण्डूव्रणापहः ॥८.२३
खदिरः श्वेतसारोऽन्यः कार्मुकः कुब्जकण्टकः ।
सोमसारो नेमिवृक्षः सोमवल्कः पथिद्रुमः ॥८.२४
श्वेतस्तु खदिरस्तिक्तः कषायः कटुरुष्णकः ।
कण्डूतिभूतकुष्ठघ्नः कफवातव्रणापहः ॥८.२५
स रक्तो रक्तसारश्च सुसारस्ताम्रकण्टकः ।
स प्रोक्तो बहुशल्यश्च याज्ञिकः कुष्ठतोदनः ।
यूपद्रुमोऽस्रखदिरोऽपरुश्च दशधा स्मृतः ॥८.२६
कटूष्णो रक्तखदिरः कषायो गुरुतिक्तकः ।
आमवातास्रवातघ्नो व्रणभूतज्वरापहः ॥८.२७
विट्खदिरः काम्भोजी कालस्कन्धश्च गोरटो मरुजः ।
पत्त्रतरुर्बहुसारः संसारः खादिरो ग्रहैर्महासारः ॥८.२८
विट्खदिरः कटुरुष्णस्तिक्तो रक्तव्रणोत्थदोषहरः ।
कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतघ्नः ॥८.२९
अरिः संदानिका दाला ज्ञेया खदिरपत्त्रिका ।
अरिः कषायकटुका तिक्ता रक्तार्तिपित्तनुत् ॥८.३०
खादिरः खदिरोद्भूतस्तत्सारो रङ्गदः स्मृतः ।
ज्ञेयः खदिरसारश्च तथा रङ्गः षडाह्वयः ॥८.३१
कटुकः खादिरः सारस्तिक्तोष्णः कफवातहृत् ।
व्रणकण्ठामयघ्नश्च रुचिकृद्दीपनः परः ॥८.३२
शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर्लक्ष्मीस्तपनतनुनष्टा शुभकरी ।
हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिरथ पापशमनी ॥८.३३
भद्राथ शंकरी ज्ञेया केशहन्त्री शिवाफला ।
सुपत्त्रा सुखदा चैव पञ्चविंशाभिधा मता ॥८.३४
शमी रूक्षा कषाया च रक्तपित्तातिसारजित् ।
तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनं ॥८.३५
द्वितीया तु शमी शान्ता शुभा भद्रापराजिता ।
जया च विजया चैव पूर्वोक्तगुणसंयुता ॥८.३६
बर्बुरो युगलाक्षश्च कण्टालुस्तीक्ष्णकण्टकः ।
गोशृङ्गः पङ्क्तिबीजश्च दीर्घकण्टः कफान्तकः ।
दृढबीजः श्वासभक्ष्यो ज्ञेयश्चेति दशाह्वयः ॥८.३७
बर्बुरस्तु कषायोष्णः कफकासामयापहः ।
आमरक्तातिसारघ्नः पित्तदाहार्तिनाशनः ॥८.३८
जालबर्बुरकस्त्वन्यश्छत्त्राकः स्थूलकण्टकः ।
सूक्ष्मशाखस्तनुच्छायो रन्ध्रकण्टः षडाह्वयः ॥८.३९
जालबर्बुरको रूक्षो वातामयविनाशकृत् ।
पित्तकृच्च कषायोष्णः कफहृद्दाहकारकः ॥८.४०
इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः ।
अहिमेदोऽहिमारश्च शितमेदोऽहिमेदकः ॥८.४१
अरिमेदः कषायोष्णस्तिक्तो भूतविनाशकः ।
शोफातिसारकासघ्नो विषवीसर्पनाशनः ॥८.४२
पक्वाण्डः पञ्चकृत्पञ्चवर्धनः पञ्चरक्षकः ।
दृष्ट्यञ्जनविधौ शस्तः कटुः जीर्णज्वरापहः ॥८.४३
इङ्गुदी हिङ्गुपत्त्रश्च विषकण्टोऽनिलान्तकः ।
गौरस्तूक्तः सुपत्त्रश्च शूलारिस्तापसद्रुमः ॥८.४४
तीक्ष्णकण्टस्तैलफलः पूतिगन्धो विगन्धकः ।
ज्ञेयः क्रोष्टुफलश्चैव वह्नीन्दुगणिताह्वयः ॥८.४५
इङ्गुदी मदगन्धिः स्यात्कटूष्णा फेनिला लघुः ।
रसायनी हन्ति जन्तुवातामयकफव्रणान् ॥८.४६
निष्पत्त्रकः करीरश्च करीरग्रन्थिलस्तथा ।
कृकरो गूढपत्त्रश्च करकस्तीक्ष्णकण्टकः ॥८.४७
करीरं आध्मानकरं कषायं कटूष्णं एतत्कफकारि भूरि ।
श्वासानिलारोचकसर्वशूलविच्छर्दिखर्जूव्रणदोषहारि ॥८.४८
स्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्त्रिका ।
शाखाकण्टश्च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥८.४९
बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः ।
भद्रो व्याघ्रनखश्चैव नेत्रारिर्दण्डवृक्षकः ।
समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक्चेति विंशतिः ॥८.५०
स्नुही चोष्णा पित्तदाहकुष्ठवातप्रमेहनुत् ।
क्षीरं वातविषाध्मानगुल्मोदरहरं परं ॥८.५१
स्नुही चान्या त्रिधारा स्यात्तिस्रो धारास्तु यत्र सा ।
पूर्वोक्तगुणवत्येषा विशेषाद्रससिद्धिदा ॥८.५२
कन्थारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका ।
तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रवेशाष्टकाभिधा ॥८.५३
कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी ।
शोफघ्नी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥८.५४
श्वेतैरण्डः सितैरण्डश्चित्रो गन्धर्वहस्तकः ।
आमण्डस्तरुणः शुक्लो वातारिर्दीर्घदण्डकः ।
पञ्चाङ्गुलो वर्धमानो रुवुको द्वादशाह्वयः ॥८.५५
रक्तैरण्डोऽपरो व्याघ्रो हस्तिकर्णो रुवुस्तथा ।
उरुवुको नागकर्णश्चञ्चुरुत्तानपत्त्रकः ॥८.५६
करपर्णो याचनकः स्निग्धो व्याघ्रदलस्तथा ।
तत्करश्चित्रबीजश्च ह्रस्वैरण्डस्त्रिपञ्चधा ॥८.५७
श्वेतैरण्डः सकटुकरसस्तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसार्हः ।
रक्तैरण्डः श्वयथुपचनः वान्तिरक्तार्तिपाण्डुभ्रान्तिश्वासज्वरकफहरोऽरोचकघ्नो लघुश्च ॥८.५८
स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः ।
स्थूलैरण्डो गुणाढ्यः स्याद्रसवीर्यविपक्तिषु ॥८.५९
घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः ।
कर्कटी च तुरंगी च तुरगाह्वाष्टधा स्मृता ॥८.६०
घोटिका कटुकोष्णा च मधुरा वातनाशनी ।
व्रणकण्डूतिकुष्ठासृग्दोषश्वयथुहारिणी ॥८.६१
लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रवीरकः ।
धनदाक्षः कण्टफलः कुबेराक्षश्च सप्तधा ॥८.६२
लताकरञ्जपत्त्रं तु कटूष्णं कफवातनुत् ।
तद्बीजं दीपनं पथ्यं शूलगुल्मव्यथापहं ॥८.६३
कारी तु कारिका कार्या गिरिजा कटुपत्त्रिका ।
तत्रैका कण्टकारी स्यादन्या त्वाकर्षकारिका ॥८.६४
कारी कषायमधुरा द्विविधा पित्तनाशनी ।
दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥८.६५
मदनः शल्यकैडर्यः पिण्डी धाराफलस्तथा ।
तरटः करहाटश्च राहुः पिण्डातकः स्मृतः ॥८.६६
कण्टालो विषमुष्टिश्च छर्दनो विषपुष्पकः ।
घण्टालो मादनो हर्षो घण्टाख्यो वस्तिरोधनः ।
ग्रन्थिफलो गोलफलो मदनाह्वश्च विंशतिः ॥८.६७
मदनः कटुतिक्तोष्णः कफवातव्रणापहः ।
शोफदोषापहश्चैव वमने च प्रशस्यते ॥८.६८
वाराहोऽन्यः कृष्णवर्णो महापिण्डीतको महान् ।
स्निग्धपिण्डीतकश्चान्यः स्थूलवृक्षफलस्तथा ॥८.६९
अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ ।
छर्दनौ कफहृद्रोगपक्वामाशयशोधनौ ॥८.७०
बिल्वान्तरश्चीरवृक्षः क्षुधाकुशलसंज्ञकः ।
दीर्घमूलो वीरवृक्षः कृच्छ्रारिश्च षडाह्वयः ॥८.७१
बिल्वान्तरः कटूष्णश्च कृच्छ्रघ्नः संधिशूलनुत् ।
वह्निदीप्तिकरः पथ्यो वातामयविनाशनः ॥८.७२
तरटी तारटी तीव्रा खर्बुरा रक्तबीजका ।
तरटी तिक्तमधुरा गुरुर्बल्या कफापहृत् ॥८.७३
श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला ।
अम्ला कटुफलाश्वत्था दुरारोहा च साष्टधा ॥८.७४
श्रीवल्ली कटुकाम्ला च वातशोफकफापहा ।
तत्फलं तैललेपघ्नं अत्यम्लं रुचिकृत्परं ॥८.७५
अन्या निकुञ्जिकाम्लाख्या कुञ्जिका कुञ्जवल्लरी ।
निकुञ्जिका बुधैरुक्ता श्रीवल्लीसदृशी गुणैः ॥८.७६
अपर्वदण्डो दीर्घश्च रामबाणो नृपप्रियः ।
रामकाण्डो रामशरो रामस्येषुश्च सप्तधा ॥८.७७
रामकाण्डजमूलं स्यादीषदुष्णं रुचिप्रदं ।
रसे चाम्लकषायश्च पित्तकृत्कफवातहृत् ॥८.७८
यावनालोऽथ नदीजो दृढत्वग्वारिसम्भवः ।
यावनालनिभश्चैव खरपत्त्रः षडाह्वयः ॥८.७९
यावनालशरमूलं ईषन्मधुररुच्यकं ।
शीतं पित्ततृषापघ्नं पशूनां अबलप्रदं ॥८.८०
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।
इक्षुरः क्षुरिकापत्त्रो विशिखश्च दशाभिधः ॥८.८१
स्थूलोऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः ।
इक्षुरकः क्षुरपत्त्रो बहुमूलो दीर्घमूलको मुनिभिः ॥८.८२
शरद्वयं स्यान्मधुरं सुतिक्तं कोष्णं कफभ्रान्तिमदापहारि ।
बलं च वीर्यं च करोति नित्यं निषेवितं वातकरं च किंचित् ॥८.८३
मुञ्जो मौञ्जीतृणाख्यः स्याद्ब्रह्मण्यस्तेजनाह्वयः ।
वानीरजो मुञ्जनकः शारी दर्भाह्वयश्च सः ॥८.८४
दूरमूलो दृढतृणो दृढमूलो बहुप्रजः ।
रञ्जनः शत्रुभङ्गश्च स्याच्चतुर्दशसंज्ञकः ॥८.८५
मुञ्जस्तु मधुरः शीतः कफपित्तजदोषजित् ।
ग्रहरक्षासु दीक्षासु पावनो भूतनाशनः ॥८.८६
काशः काण्डेक्षुरिक्ष्वारिः काकेक्षुर्वायसेक्षुकः ।
इक्षुरश्चेक्षुकाण्डश्च शारदः सितपुष्पकः ॥८.८७
नादेयो दर्भपत्त्रश्च लेखनः काण्डकाण्डकौ ।
कण्ठालंकारकश्चैव ज्ञेयः पञ्चदशाह्वयः ॥८.८८
काशश्च शिशिरो गौल्यो रुचिकृत्पित्तदाहनुत् ।
तर्पणो बलकृद्वृष्य आमशोषक्षयापहः ॥८.८९
अन्योऽशिरी मिशिर्गण्डा अश्वालो नीरजः शरः ।
मिशिर्मधुरशीतः स्यात्पित्तदाहक्षयापहः ॥८.९०
सितदर्भो ह्रस्वकुम्भः पूतो यज्ञियपत्त्रकः ।
वज्रो ब्रह्मपवित्रश्च तीक्ष्णो यज्ञस्य भूषणः ।
सूचीमुखः पुण्यतृणो वह्निः पूततृणो द्विषट् ॥८.९१
दर्भमूलं हिमं रुच्यं मधुरं पित्तनाशनं ।
रक्तज्वरतृषाश्वासकामलादोषशोषकृत् ॥८.९२
कुशोऽन्यः शरपत्त्रश्च हरिद्गर्भः पृथुच्छदः ।
शारी च रूक्षदर्भश्च दीर्घपत्त्रः पवित्रकः ॥८.९३
दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितोऽधिकः ।
यदि श्वेतकुशाभावस्त्वपरं योजयेत्भिषक् ॥८.९४
बल्वजा दृढपत्त्री च तृणेक्षुस्तृणबल्वजा ।
मौञ्जीपत्त्रा दृढतृणा पानीयाश्वा दृढक्षुरा ॥८.९५
बल्वजा मधुरा शीता पित्तदाहतृषापहा ।
वातप्रकोपणी रुच्या कण्ठशुद्धिकरी परा ॥८.९६
कुतृणं कत्तृणं भूतिर्भूतिकं रोहिषं तृणं ।
श्यामकं ध्यामकं पूतिर्मुद्गलं दवदग्धकं ॥८.९७
कुतृणं दशनामाढ्यं कटुतिक्तकफापहं ।
शस्त्रशल्यादिदोषघ्नं बालग्रहविनाशनं ॥८.९८
अन्यद्रोहिषकं दीर्घं दृढकाण्डो दृढच्छदं ।
द्राघिष्ठं दीर्घनालश्च तिक्तसारश्च कुत्सितं ॥८.९९
दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् ।
भूतग्रहविषघ्नश्च व्रणक्षतविरोपणं ॥८.१००
नालो नडो नलश्चैव कुक्षिरन्ध्रोऽथ कीचकः ।
वंशान्तरश्च धमनः शून्यमध्यो विभीषणः ॥८.१०१
छिद्रान्तो मृदुपत्त्रश्च रन्ध्रपत्त्रो मृदुच्छदः ।
नालवंशः पोटगल इत्यस्याह्वास्त्रिपञ्चधा ॥८.१०२
नलः शीतकषायश्च मधुरो रुचिकारकः ।
रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ॥८.१०३
अन्यो महानलो वन्यो देवनलो नलोत्तमः ।
स्थूलनालः स्थूलदण्डः सुरनालः सुरद्रुमः ॥८.१०४
देवनालोऽतिमधुरो वृष्य ईषत्कषायकः ।
नलः स्यादधिको वीर्ये शस्यते रसकर्मणि ॥८.१०५
स्यान्नीलदूर्वा हरिता च शाम्भवी श्यामा च शान्ता शतपर्विकामृता ।
पूता शतग्रन्थिरनुष्णवल्लिका शिवा शिवेष्टापि च मङ्गला जया ॥८.१०६
सुभगा भूतहन्त्री च शतमूला महौषधी ।
अमृता विजया गौरी शान्ता स्यादेकविंशतिः ॥८.१०७
नीलदूर्वा तु मधुरा तिक्ता शिशिररोचनी ।
रक्तपित्तातिसारघ्नी कफवातज्वरापहा ॥८.१०८
स्याद्गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च ।
गौरी विघ्नेशानकान्ताप्यनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ॥८.१०९
सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च ।
शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाब्धिहस्ता ॥८.११०
श्वेतदूर्वातिशिशिरा मधुरा वान्तिपित्तजित् ।
आमातिसारकासघ्नी रुच्या दाहतृषापहा ॥८.१११
मालादूर्वा वल्लिदूर्वालिदूर्वा मालाग्रन्थिर्ग्रन्थिला ग्रन्थिदूर्वा ।
मूलग्रन्थिर्वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या ।
वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा ।
पित्तदोषप्रशमनी कफवान्तितृषापहा ॥८.११२
गण्डाली स्याद्गण्डदूर्वातितीव्रा मत्स्याक्षी स्याद्वारुणी मीननेत्रा ।
श्यामग्रन्थिः ग्रन्थिला ग्रन्थिपर्णी सूचीपत्त्रा श्यामकाण्डा जलस्था ॥८.११३
शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया ॥८.११४
गण्डदूर्वा तु मधुरा वातपित्तज्वरापहा ।
शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥८.११५
दूर्वाः कषाया मधुराश्च शीताः पित्तात्तृषारोचकवान्तिहन्त्र्यः ।
सदाहमूर्च्छाग्रहभूतशान्तिश्लेष्मश्रमध्वंसनतृप्तिदाश्च ॥८.११६
कुन्दुरुः कन्दुरो रुण्डी दीर्घपत्त्रः खरच्छदः ।
रसाभः क्षेत्रसम्भूतः सुतृष्णो मृगवल्लभः ॥८.११७
गौल्यं कुन्दुरुमूलं च शीतं पित्तातिसारनुत् ।
प्रशस्तं शोधनानां च बलपुष्टिविवर्धनं ॥८.११८
भूतृणो रोहिणो भूतिर्भूतिकोऽथ कुटुम्बकः ।
मालातृणं सुमाली च छत्त्रोऽतिछत्त्रकस्तथा ॥८.११९
गुह्यबीजः सुगन्धश्च गुलालः पुंस्त्वविग्रहः ।
बधिरश्चातिगन्धश्च शृङ्गरोहः रसेन्दुकः ॥८.१२०
भूतृणं कटुतिक्तं च वातसंतापनाशनं ।
हन्ति भूतग्रहावेशान्विषदोषांश्च दारुणान् ॥८.१२१
सुगन्धभूतृणश्चान्यः सुरसः सुरभिस्तथा ।
गन्धतृणः सुगन्धश्च मुखवासः षडाह्वयः ॥८.१२२
गन्धतृणं सुगन्धि स्यादीषत्तिक्तं रसायनं ।
स्निग्धं मधुरशीतं च कफपित्तश्रमापहं ॥८.१२३
उखलो भूरिपत्त्रश्च सुतृणश्च तृणोत्तमः ।
उखलो बलदो रुच्यः पशूनां सर्वदा हितः ॥८.१२४
इक्षुदर्भा सुदर्भा च पत्त्रालुस्तृणपत्त्रिका ॥८.१२५
इक्षुदर्भा सुमधुरा स्निग्धा चेषत्कषायका ।
कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥८.१२६
गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा ।
गोमूत्रिका तु मधुरा वृष्या गोदुग्धदायिनी ॥८.१२७
शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा ।
शिल्पिका मधुरा शीता तद्बीजं बलवृष्यदं ॥८.१२८
निःश्रेणिका श्रेणिका च नीरसा वनवल्लरी ।
निःश्रेणिका नीरसोष्णा पशूनां अबलप्रदा ॥८.१२९
गर्मोटिका सुनीला च जरडी च जलाश्रया ॥८.१३०
जरडी मधुरा शीता सारणी दाहहारिणी ।
रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥८.१३१
मज्जरः पवनः प्रोक्तः सुतृणः स्निग्धपत्त्रकः ।
मृदुग्रन्थिश्च मधुरो धेनुदुग्धकरश्च सः ॥८.१३२
तृणाढ्यं पर्वततृणं पत्त्राढ्यं च मृगप्रियं ।
बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितं ॥८.१३३
वंशपत्त्री वंशदला जीरिका जीर्णपत्त्रिका ।
वंशपत्त्री सुमधुरा शिशिरा पित्तनाशनी ।
रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥८.१३४
मन्थानकस्तु हरितो दृढमूलस्तृणाधिपः ।
स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥८.१३५
पल्लिवाहो दीर्घतृणः सुपत्त्रस्ताम्रवर्णकः ।
अदृढः शाकपत्त्रादिः पशूनां अबलप्रदः ॥८.१३६
लवणतृणं लोणतृणं तृणाम्लं पटुतृणकं अम्लकाण्डं च ।
कटुतृणकं क्षाराम्लं कषायस्तन्यं अश्ववृद्धिकरं ॥८.१३७
पण्यान्धः कङ्गुनीपत्त्रः पण्यान्धा पणधा च सा ॥८.१३८
पण्यान्धा समवीर्या स्यात्तिक्ता क्षारा च सारिणी ।
तत्कालशस्त्रघातस्य व्रणसंरोपणी परा ॥८.१३९
दीर्घा मध्या तथा ह्रस्वा पण्यान्धा त्रिविधा स्मृता ।
रसवीर्यविपाके च मध्यमा गुणदायिका ॥८.१४०
गुण्डस्तु काण्डगुण्डः स्याद्दीर्घकाण्डस्त्रिकोणकः ।
छत्त्रगुच्छोऽसिपत्त्रश्च नीलपत्त्रस्त्रिधारकः ॥८.१४१
वृत्तगुण्डोऽपरो वृत्तो दीर्घनालो जलाश्रयः ।
तत्र स्थूलो लघुश्चान्यस्त्रिधायं द्वादशाभिधः ॥८.१४२
गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः ।
दाहरक्तहरास्तेषां मध्ये स्थूलतरोऽधिकः ॥८.१४३
गुण्डकन्दः कसेरुः स्यात्क्षुद्रमुस्ता कसेरुका ।
शूकरेष्टः सुगन्धिश्च सुकन्दो गन्धकन्दकः ॥८.१४४
कसेरुकः कषायोऽल्पमधुरोऽतिखरस्तथा ।
रक्तपित्तप्रशमनः शीतो दाहश्रमापहः ॥८.१४५
चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा ।
वृष्या बल्यातिमधुरा बीजैः पशुहिता तृणैः ॥८.१४६
गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा ।
तृणपत्त्री जलवासा पृथुला सुविष्टरा च नवाह्वा ॥८.१४७
गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा ।
तिक्तोष्णा श्वयथुघ्नी च व्रणदोषनिबर्हणी ॥८.१४८
शूली तु शूलपत्त्री स्यादशाखा धूम्रमूलिका ।
जलाश्रया मृदुलता पिच्छिला महिषीप्रिया ॥८.१४९
शूली तु पिच्छिला चोष्णा गुरुर्गौल्या बलप्रदा ।
पित्तदाहहरा रुच्या दुग्धवृद्धिप्रदायिका ॥८.१५०
परिपेल्लं प्लवं धान्यं गोपुटं स्यात्कुटन्नटं ।
सितपुष्पं दासपुरं गोनर्दं जीर्णबुध्नकं ॥८.१५१
परिपेल्लं कटूष्णं च कफमारुतनाशनं ।
व्रणदाहामशूलघ्नं रक्तदोषहरं परं ॥८.१५२
हिज्जलोऽथ नदीकान्तो जलजो दीर्घपत्त्रकः ।
नदीजो निचुलो रक्तः कार्मुकः कथितश्च सः ॥८.१५३
हिज्जलः कटुरुष्णश्च पवित्रो भूतनाशनः ।
वातामयहरो नानाग्रहसंचारदोषजित् ॥८.१५४
शैवालं जलनीली स्यात्शैवलं जलजं च तत् ।
शैवालं शीतलं स्निग्धं संतापव्रणनाशनं ॥८.१५५
इत्थं नानाकण्टकिविटपिप्रस्तावव्याख्यातैरण्डादिकतृणविस्ताराढ्यं ।
वर्गं विद्वान्वैद्यकविषयप्रावीण्यज्ञेयं पण्यारण्यकगुणं ईयाद्वैद्यः ॥८.१५६
दुर्वारां विकृतिं स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्वाहाश्च हठेन कण्टकितया सूक्ष्माश्च ये केचन ।
तेषां एष महागमान्तरभुवां आरण्यकानां किल क्रूरातङ्कभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥८.१५७
द्विजानां यो राजा जयति रचयन्नोषधिगणं प्रतीतोऽयं नॄणां अमृतकरतां धारयति च ।
अमुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर्वसुभिरभिधाशेखरमणौ ॥८.१५८

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

phosphorolysis

  • न. Chem. फॉस्फोरसीलयन 
  • न. फॉस्फोरिक आम्लीय अपघटन 
RANDOM WORD

Did you know?

गणपतीला २१ दुर्वा वाहतांना काय मंत्र म्हणावा ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site