TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - अन्दनादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


अन्दनादिवर्ग
श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनं ।
बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतं ॥१२.१
देवदारु द्विधा प्रोक्तं चीडा सप्तच्छदस्तथा ।
सरलः कुङ्कुमे कङ्गुः कस्तूरी रोचना तथा ॥१२.२
कर्पूरौ स्याज्जवादिस्तु नन्दी च जातिपत्रिका ।
जातीफलं च कक्कोलं लवङ्गं स्वादुरुच्यते ॥१२.३
अगर्व्यश्च त्रिधा मांसी तुरुष्को गुग्गुलुस्त्रिधा ।
रालः कुन्दुरुकः कुष्ठं सारिवा तु द्विधा नखौ ॥१२.४
स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः ।
पद्मप्रपौण्डरीके च लामज्जं रोहिणी द्विधा ।
श्रीवेष्टोशीरनलिका मुनिबाणमिताह्वयाः ॥१२.५
श्रीखण्डं चन्दनं प्रोक्तं महार्हं श्वेतचन्दनं ।
गोशीर्षं तिलपर्णं च मङ्गल्यं मलयोद्भवं ॥१२.६
गन्धराजं सुगन्धं च सर्पावासं च शीतलं ।
गन्धाढ्यं गन्धसारं च भद्रश्रीर्भोगिवल्लभं ।
शीतगन्धो मलयजं पावनं चाङ्कभूह्वयं ॥१२.७
श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं कियत्पित्तभ्रान्तिवमिज्वरक्रिमितृषासंतापशान्तिप्रदं ।
वृष्यं वक्त्ररुजापहं प्रतनुते कान्तिं तनोर्देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदं ॥१२.८
श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद्धर्षणे ।
स्वादे तिक्तकटुः सुगन्धबहुलं शीतं यदल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच्चन्दनं मध्यमं ॥१२.९
चन्दनं द्विविधं प्रोक्तं बेट्टसुक्वडिसंज्ञकं ।
बेट्टं तु सार्द्रविच्छेदं स्वयं शुष्कं तु सुक्वडि ॥१२.१०
मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः ।
तज्जातं चन्दनं यत्तु बेट्टवाच्यं क्वचिन्मते ॥१२.११
बेट्टचन्दनं अतीव शीतलं दाहपित्तशमनं ज्वरापहं ।
छर्दिमोहतृषिकुष्ठतैमिरोत्कासरक्तशमनं च तिक्तकं ॥१२.१२
सुक्वडिचन्दनं तिक्तं कृच्छ्रपित्तास्रदाहनुत् ।
शैत्यसुगन्धदं चार्द्रं शुष्कं लेपे तदन्यथा ॥१२.१३
नातिपीतं कैरातं शबरं चन्दनं सुगन्धं ।
वन्यं च गन्धकाष्ठं किरातकान्तं च शैलगन्धं च ॥१२.१४
कैरातं उष्णं कटुशीतलं च श्लेष्मानिलघ्नं श्रमपित्तहारि ।
विस्फोटपामादिकनाशनं च तृषापहं तापविमोहनाशि ॥१२.१५
पीतगन्धं तु कालीयं पीतकं माधवप्रियं ।
कालीयकं पीतकाष्ठं बर्बरं पीतचन्दनं ॥१२.१६
पीतं च शीतलं तिक्तं कुष्ठश्लेष्मानिलापहं ।
कण्डूविचर्चिकादद्रुकृमिहृत्कान्तिदं परं ॥१२.१७
पत्तङ्गं चैव पत्राङ्गं रक्तकाष्ठं सुरङ्गदं ।
पत्राढ्यं पट्टरागं च भार्यावृक्षश्च रक्तकः ॥१२.१८
लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनं ।
पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥१२.१९
पत्राङ्गं कटुकं रूक्षं अम्लं शीतं तु गौल्यकं ।
वातपित्तज्वरघ्नं च विस्फोटोन्मादभूतहृत् ॥१२.२०
रक्तचन्दनं इदं च लोहितं शोणितं च हरिचन्दनं हिमं ।
रक्तसारं अथ ताम्रसारकं क्षुद्रचन्दनं अथार्कचन्दनं ॥१२.२१
रक्तचन्दनं अतीव शीतलं तिक्तं ईक्षणगदास्रदोषनुत् ।
भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित्तृषापहं ॥१२.२२
बर्बरोत्थं बर्बरकं श्वेतबर्बरकं तथा ।
शीतं सुगन्धि पित्तारि सुरभि चेति सप्तधा ॥१२.२३
बर्बरं शीतलं तिक्तं कफमारुतपित्तजित् ।
कुष्ठकण्डूव्रणान्हन्ति विशेषाद्रक्तदोषजित् ॥१२.२४
हरिचन्दनं सुरार्हं हरिगन्धं इन्द्रचन्दनं दिव्यं ।
दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञं ॥१२.२५
हरिचन्दनं तु दिव्यं तिक्तहिमं तदिह दुर्लभं मनुजैः ।
पित्ताटोपविलोपि चन्दनवच्छ्रमशोषमान्द्यतापहरं ॥१२.२६
चन्दनानि समानानि रसतो वीर्यतस्तथा ।
भिद्यन्ते किंतु गन्धेन तत्राद्यं गुणवत्तरं ॥१२.२७
देवदारु सुरदारु दारुकं स्निग्धदारुरमरादिदारु च ।
भद्रदारु शिवदारु शाम्भवं भूतहारि भवदारु रुद्रवत् ॥१२.२८
स्निग्धदारु स्मृतं तिक्तं स्निग्धोष्णं श्लेष्मवातजित् ।
आमदोषविबन्धार्शःप्रमेहज्वरनाशनं ॥१२.२९
देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्ठकं ।
अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयं ॥१२.३०
देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहं ।
भूतदोषापहं धत्ते लिप्तं अङ्गेषु कालिकं ॥१२.३१
देवदारु द्विधा ज्ञेयं तत्राद्यं स्निग्धदारुकं ।
द्वितीयं काष्ठदारु स्याद्द्वयोर्नामान्यभेदतः ॥१२.३२
चीडा च दारुगन्धा गन्धवधूर्गन्धमादनी तरुणी ।
तारा च भूतमारी मङ्गल्या तु कपाटिनी ग्रहभीतिजित् ।
चीडा कटूष्णा कासघ्नी कफजिद्दीपनी परा ।
अत्यन्तसेविता सा तु पित्तदोषभ्रमापहा ॥१२.३३
सप्तपर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः ।
सप्तच्छदो गुच्छपुष्पोऽयुग्मपर्णो मुनिच्छदः ॥१२.३४
बृहत्त्वग्बहुपर्णश्च तथा शाल्मलिपत्रकः ।
मदगन्धो गन्धिपर्णो विज्ञेयो वह्निभूमितः ॥१२.३५
सप्तपर्णस्तु तिक्तोष्णस्त्रिदोषघ्नश्च दीपनः ।
मदगन्धो निरुन्द्धेऽयं व्रणरक्तामयक्रिमीन् ॥१२.३६
सरलस्तु पूतिकाष्ठं तुम्बी पीतद्रुरुत्थितो दीपतरुः ।
स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ॥१२.३७
सरलः कटुतिक्तोष्णः कफवातविनाशनः ।
त्वग्दोषशोफकण्डूतिव्रणघ्नः कोष्ठशुद्धिदः ॥१२.३८
ज्ञेयं कुङ्कुमं अग्निसेखरं असृक्काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितं ।
वाह्लीकं घुसृणं वरेण्यं अरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितं ॥१२.३९
कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नं ।
मूर्धशूलविषदोषनाशनं रोचनं च तनुकान्तिकारकं ॥१२.४०
तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पं ।
गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञं ॥१२.४१
तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् ।
कण्डूतिपामाकुष्ठामदोषघ्नं भास्करं परं ॥१२.४२
प्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया ।
गौरी गोवन्दनी वृत्ता कारम्भा कङ्गु कङ्गुनी ॥१२.४३
भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी ।
शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥१२.४४
प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् ।
वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥१२.४५
कस्तूरी मृगनाभिस्तु मदनी गन्धचेलिका ।
वेधमुख्या च मार्जारी सुभगा बहुगन्धदा ॥१२.४६
सहस्रवेधी श्यामा स्यात्कामानन्दा मृगाण्डजा ।
कुरङ्गनाभी ललिता मदो मृगमदस्तथा ।
श्यामली काममोदी च विज्ञेयाष्टादशाह्वया ॥१२.४७
कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगजित् ।
किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥१२.४८
कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।
नेपालेऽपि च काश्मीरे कामरूपे च जायते ॥१२.४९
साप्येका खरिका ततश्च तिलका ज्ञेया कुलित्थापरा पिण्डान्यापि च नायिकेति च परा या पञ्चभेदाभिधा ।
सा शुद्धा मृगनाभितः क्रमवशादेषा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥१२.५०
चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थबीजसदृशी च कुलित्थका च ।
स्थूला ततः कियदियं किल पिण्डिकाख्या तस्याश्च किंचिदधिका यदि नायिका सा ॥१२.५१
स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च ।
याप्सु न्यस्ता नैव वैवर्ण्यं ईयात्कस्तूरी सा राजभोग्याप्रशस्ता ॥१२.५२
या गन्धं केतकीनां अपहरति मदं सिन्धुराणां च वर्णे स्वादे तिक्ता कटुर्वा लघुरथ तुलिता मर्दिता चिक्कणा स्यात् ।
दाहं या नैति वह्नौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥१२.५३
बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता ।
कामातुरे च तरुणे कस्तूरी बहुलपरिमला भवति ॥१२.५४
या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसोऽन्तर्निःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः ।
या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥१२.५५
शुद्धो वा मलिनोऽस्तु वा मृगमदः किं जातं एतावता कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौरभ्यं एको गुणः ।
येनासौ स्मरमण्डनैकवसतिर्भाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशां ॥१२.५६
गोरोचना रुचिः शोभा रुचिरा शोभना शुभा ।
गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥१२.५७
पीता च गौतमी गव्या वन्दनीया च काञ्चनी ।
मेध्या मनोरमा श्यामा रामा भूमिकराह्वया ॥१२.५८
गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री ।
भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥१२.५९
कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुर्हिमवालुका हिमकरः शीतप्रभः शाम्भवः ।
शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश्चन्द्रालोकतुषारगौरकुमुदान्येकादशाह्वा द्विशः ॥१२.६०
पोतासो भीमसेनस्तदनु सितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जोऽब्दसारस्तदनु हिमयुता वालुका जूटिका च ।
पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पक्विकान्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥१२.६१
कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णोऽस्रदाहदः ।
चिरस्थो दाहदोषघ्नः स धौतः शुभकृत्परः ॥१२.६२
शिरो मध्यं तलं चेति कर्पूरस्त्रिविधः स्मृतः ।
शिरः स्तम्भाग्रसंजातं मध्यं पर्णतले तलं ॥१२.६३
भास्वद्विशदपुलकं शिरोजातं तु मध्यमं ।
सामान्यपुलकं स्वच्छं तले चूर्णं तु गौरकं ॥१२.६४
स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भबाह्ये च मध्यमं ।
स्वच्छं ईषत्हरिद्राभं शुभ्रं तन्मध्यमं स्मृतं सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् ॥१२.६५
स्वच्छं भृङ्गारपत्त्रं लघुतरविशदं तोलने तिक्तकं चेत्स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि ।
निःस्नेहं दार्ढ्यपत्त्रं शुभतरं इति चेत्राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेद्बहुतरं अशने स्फोटदायि व्रणाय ॥१२.६६
चीनकश्चीनकर्पूरः कृत्रिमो धवलः पटुः ।
मेघसारस्तुषारश्च द्वीपकर्पूरजः स्मृतः ॥१२.६७
चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः ।
कण्ठदोषहरी मेध्यः पाचनः क्रिमिनाशनः ॥१२.६८
जवादि गन्धराजं स्यात्कृत्रिमं मृगचर्मजं ।
समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमं ।
सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधं ॥१२.६९
सौगन्धिकं जवादि स्यात्स्निग्धं चोष्णं सुखावहं ।
वाते हितं च राज्ञां च मोहनाह्लादकारणं ॥१२.७०
जवादि नीलं सस्निग्धं ईषत्पीतं सुगन्धदं ।
आतपे बहुलामोदं राज्ञां योग्यं न चान्यथा ॥१२.७१
तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा ।
नन्दी कुरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥१२.७२
वृक्षः कटुस्तिक्तः शीतस्तिक्तास्रदाहजित् ।
शिरोऽर्तिश्वेतकुष्ठघ्नः सुगन्धिः पुष्टिवीर्यदः ॥१२.७३
जातीपत्त्री जातिकोशः सुमनःपत्त्रिकापि सा ।
मालतीपत्त्रिका पञ्चनाम्नी सौमनसायिनी ॥१२.७४
जातीपत्री कटुस्तिक्ता सुरभिः कफनाशनी ।
वक्त्रवैशद्यजननी जाड्यदोषनिकृन्तनी ॥१२.७५
जातीफलं जातिशस्यं शालूकं मालतीफलं ।
मज्जासारं जातिसारं पुटं च सुमनःफलं ॥१२.७६
जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् ।
वातातिसारमेहघ्नं लघु वृष्यं च दीपनं ॥१२.७७
कक्कोलकं कृतफलं कोलकं कटुकं फलं ।
विद्वेष्यं स्थूलमरिचं कर्कोलं माधवोचितं ।
कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितं ॥१२.७८
कक्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परं ।
दीपनं पाचनं रुच्यं कफवातनिकृन्तनं ॥१२.७९
लवंगकलिका दिव्यं लवंगं शेखरं लवं ।
श्रीपुष्पं देवकुसुमं रुचिरं वारिसम्भवं ॥१२.८०
तीक्ष्णपुष्पं तु भृङ्गारं गीर्वाणकुसुमं तथा ।
पुष्पकं चन्दनादि स्यात्ज्ञेयं त्रयोदशाह्वयं ॥१२.८१
लवंगं शीतलं तिक्तं चक्षुष्यं भक्तरोचनं ।
वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहं ॥१२.८२
लवंगं सोष्णकं तीक्ष्णं विपाके मधुरं हिमं ।
वातपित्तकफामघ्नं क्षयकासास्रदोषनुत् ॥१२.८३
स्वादुस्त्वगरुसारः स्यात्सुधूम्यो गन्धधूमजः ।
स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥१२.८४
कृष्णागरु स्यादगरु शृङ्गारं विश्वरूपकं ।
शीर्षं कालागरु केश्यं वसुकं कृष्णकाष्ठकं ।
धूपार्हं वल्लरं गन्धराजकं द्वादशाह्वयं ॥१२.८५
कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलं ।
पाने पित्तहरं किंचित्त्रिदोषघ्नं उदाहृतं ॥१२.८६
अन्यागरु पीतकं च लोहं वर्णप्रसादनं ।
अनार्यकं असारं च कृमिजग्धं च काष्ठकं ॥१२.८७
काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहं ॥१२.८८
दाहागरु दहनागरु दाहककाष्ठं च वह्निकाष्ठं च ।
धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥१२.८९
दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्यं च ।
अपनयति केशदोषानातनुते संततं च सौगन्ध्यं ॥१२.९०
मङ्गल्या मल्लिका गन्धमङ्गलागरुवाचका ।
मङ्गल्या गुरुशिशिरा गन्धाढ्या योगवाहिका ॥१२.९१
मांसी तु जटिला पेशी क्रव्यादी पिशिता मिशी ।
केशिनी च जटा हिंस्रा जटामांसी च मांसिनी ॥१२.९२
जटाला नलदा मेषी तामसी चक्रवर्तिनी ।
माता भूतजटा चैव जननी च जटावती ।
मृगभक्षापि चेत्येता एकविंशतिधाभिधाः ॥१२.९३
सुरभिस्तु जटामांसी कषाया कटुशीतला ।
कफहृद्भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ॥१२.९४
द्वितीया गन्धमांसी च केशी भूतजटा स्मृता ।
पिशाची पूतना चैव भूतकेशी च लोमशा ।
जटाला लघुमांसी च ख्याता चाङ्कमिताह्वया ॥१२.९५
गन्धमांसी तिक्तशीता कफकण्ठामयापहा ।
रक्तपित्तहरा वर्ण्या विषभूतज्वरापहा ॥१२.९६
आकाशमांसी सूक्ष्मान्या निरालम्बा खसम्भवा ।
सेवाली सूक्ष्मपत्त्री च गौरी पर्वतवासिनी ॥१२.९७
अभ्रमांसी हिमा शोफव्रणनाडीरुजापहा ।
लूतागर्दभजालादिहारिणी वर्णकारिणी ॥१२.९८
तुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः ।
सिह्लकः सिह्लसारश्च पीतसारः कपिस्तथा ॥१२.९९
पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः ।
करेवरः कृत्रिमको लेपनो मुनिभूह्वयः ॥१२.१००
तुरुष्कः सुरभिस्तिक्तः कटुस्निग्धश्च कुष्ठजित् ।
कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥१२.१०१
गुग्गुलुर्यवनद्विष्टो भवाभीष्टो निशाटकः ।
जटालः कालनिर्यासः पूरो भूतहरः शिवः ॥१२.१०२
कौशिकः शाम्भवो दुर्गो यातुघ्नो महिषाक्षकः ।
देवेष्टो मरुदेश्योऽपि रक्षोहा रूक्षगन्धकः ।
दिव्यस्तु महिषाक्षश्च नामान्येतानि विंशतिः ॥१२.१०३
गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् ।
क्रिमिवातोदरप्लीहशोफार्शोघ्नो रसायनः ॥१२.१०४
गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः ।
कनको वंशपोतश्च सुरसश्च पलंकषः ॥१२.१०५
कणगुग्गुलुः कटूष्णः सुरभिर्वातनाशनः ।
शूलगुल्मोदराध्मानकफघ्नश्च रसायनः ॥१२.१०६
गुग्गुलुश्च तृतीयोऽन्यो भूमिजो दैत्यमेदजः ।
दुर्गाह्लाद इडाजात आशादिरिपुसम्भवः ।
मज्जाजो मदजश्चैव महिषासुरसम्भवः ॥१२.१०७
गुग्गुलुर्भूमिजस्तिक्तः कटूष्णः कफवातजित् ।
उमाप्रियश्च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥१२.१०८
रालः सर्जरसश्चैव शालः कनकलोद्भवः ।
ललनः शालनिर्यासो देवेष्टः शीतलस्तथा ॥१२.१०९
बहुरूपः शालरसः सर्जनिर्यासकस्तथा ।
सुरभिः सुरधूपश्च यक्षधूपोऽग्निवल्लभः ।
कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ॥१२.११०
रालस्तु शिशिरः स्निग्धः कषायस्तिक्तसंग्रहः ।
वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ।
कुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दुकस्तीक्ष्णः ।
गोपुरको बहुगन्धः पालिन्दो भीषणश्च दशसंज्ञः ॥१२.१११
कुन्दुरुर्मधुरस्तिक्तः कफपित्तार्तिदाहनुत् ।
पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥१२.११२
कुष्ठं रुजागदो व्याधिरामयं पारिभद्रकं ।
रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषं उत्पलं ।
कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकं ॥१२.११३
कुष्ठं कटूष्णं तिक्तं स्यात्कफमारुतकुष्ठजित् ।
विसर्पविषकण्डूतिखर्जूदद्रुघ्नकान्तिकृत् ॥१२.११४
सारिवा शारदा गोपा गोपवल्ली प्रतानिका ।
गोपकन्या लतास्फोता नवाह्वा काष्ठसारिवा ॥१२.११५
सारिवान्या कृष्णमूली कृष्णा चन्दनसारिवा ।
भद्रा चन्दनगोपा तु चन्दना कृष्णवल्ल्यपि ॥१२.११६
सारिवे द्वे तु मधुरे कफवातास्रनाशने ।
कुष्ठकण्डूज्वरहरे मेहदुर्गन्धिनाशने ॥१२.११७
नखः कररुहः शिल्पी शुक्तिः शङ्खः खुरः शफः ।
वलः कोशी च करजो हनुर्नागहनुस्तथा ॥१२.११८
पाणिजो बदरीपत्त्रो धूप्यः पण्यविलासिनी ।
संधिनालः पाणिरुहः स्यादष्टादशसंज्ञकः ॥१२.११९
नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः ।
कुष्ठकण्डूव्रणघ्नश्च भूतविद्रावणः परः ॥१२.१२०
नखोऽन्यः स्याद्बलनखः कूटस्थश्चक्रनायकः ।
चक्री चक्रनखस्त्र्यस्रः कालो व्याघ्रनखः स्मृतः ॥१२.१२१
द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः ।
व्यालायुधो व्यालबलो व्यालखड्गश्च षोडश ॥१२.१२२
व्यालनखस्तु तिक्तोष्णः कषायः कफवातजित् ।
कुष्ठकण्डूव्रणघ्नश्च वर्ण्यः सौगन्ध्यदः परः ॥१२.१२३
स्पृक्का च देवी पिशुना वधूश्च कोटिर्मनुर्ब्राह्मणिका सुगन्धा ।
समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लघ्वी ॥१२.१२४
निर्माल्या सुकुमारा च मालाली देवपुत्रिका ।
पञ्चगुप्तिरसृक्प्रोक्ता नखपुष्पी च विंशतिः ॥१२.१२५
स्पृक्का कटुकषाया च तिक्ता श्लेष्मार्तिकासजित् ।
श्लेष्ममेहाश्मरीकृच्छ्रनाशनी च सुगन्धदा ॥१२.१२६
स्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा ।
विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयं ॥१२.१२७
स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकं ।
पित्तप्रकोपशमनं बलपुष्टिविवर्धनं ॥१२.१२८
मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी ।
सुरभिर्भूरिगन्धा च कुटी गन्धकुटी तथा ॥१२.१२९
मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् ।
श्वासासृग्विषदाहार्तिभ्रममूर्छातृषापहा ॥१२.१३०
शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवं ।
स्थविरं पलितं जीर्णं तथा कालानुसार्यकं ॥१२.१३१
शिलोत्थं च शिलादद्रुः शैलजं गिरिपुष्पकं ।
शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयं ॥१२.१३२
शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् ।
दाहतृष्णावमिश्वासव्रणदोषविनाशनं ॥१२.१३३
चोरकः शङ्कितश्चण्डा दुष्पत्त्रः क्षेमको रिपुः ।
चपलः कितवो धूर्तः पटुर्नीचो निशाचरः ॥१२.१३४
गणहासः कोपनकश्चौरकः फलचोरकः ।
दुष्कुलो ग्रन्थिलश्चैव सुग्रन्थिः पर्णचोरकः ।
ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्त्रस्त्रिनेत्रधा ॥१२.१३५
चोरकस्तीव्रगन्धोष्णस्तिक्तो वातकफापहः ।
नासामुखरुजाजीर्णक्रिमिदोषविनाशनः ॥१२.१३६
पद्मकं पीतकं पीतं मालयं शीतलं हिमं ।
शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभं ।
पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्याद्द्वादशाह्वयं ॥१२.१३७
पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनं ।
मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् ॥१२.१३८
प्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकं ।
पौण्डर्यं च सुपुष्पं च सानुजं चानुजं स्मृतं ॥१२.१३९
प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलं ।
पित्तरक्तव्रणान्हन्ति ज्वरदाहतृषापहं ॥१२.१४०
लामज्जकं सुनालं स्यादमृणालं लवं लघु ।
इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयं ॥१२.१४१
लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् ।
तृड्दाहश्रममूर्छार्तिरक्तपित्तज्वरापहं ॥१२.१४२
मांसरोहिण्यतिरुहा वृत्ता चर्मकषा च सा ।
विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥१२.१४३
अन्या मांसी सदामांसी मांसरोहा रसायनी ।
सुलोमा लोमकरणी रोहिणी मांसरोहिका ॥१२.१४४
विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् ।
रसायनप्रयोगाच्च सर्वरोगहरा मता ।
कषाया ग्राहिणी वर्ण्या रक्तपित्तप्रसादनी ॥१२.१४५
रोहिणीयुगलं शीतं कषायं क्रिमिनाशनं ।
कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनं ॥१२.१४६
श्रीवेष्टो वृक्षधूपश्च चीडागन्धो रसाङ्गकः ।
श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥१२.१४७
वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः ।
धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥१२.१४८
श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् ।
योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषजित् ॥१२.१४९
उशीरं अमृणालं स्याज्जलवासं हरिप्रियं ।
मृणालं अभयं वीरं वीरणं समगन्धिकं ॥१२.१५०
रणप्रियं वारितरं शिशिरं शितिमूलकं ।
वेणीगमूलकं चैव जलामोदं सुगन्धिकं ।
सुगन्धिमूलकं शुभ्रं बालकं ग्रहभूह्वयं ॥१२.१५१
उशीरं शीतलं तिक्तं दाहश्रमहरं परं ।
पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकं ॥१२.१५२
नलिका विद्रुमलतिका कपोतबाणा नली च निर्मथ्या ।
सुषिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः ॥१२.१५३
नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा ।
कृमिवातोदरार्त्यर्शःशूलघ्नी मलशोधनी ॥१२.१५४
इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गं ।
वर्गं वक्त्राम्भोरुहमोदार्हं अधीयाथैनं मध्ये संसदसौ दीव्यतु वैद्यः ॥१२.१५५
ये गन्धयन्ति सकलानि च भूतलानि लोकांश्च येऽपि सुखयन्ति च गन्धलुब्धान् ।
तेषां अयं मलयजादिसुगन्धिनाम्नां भूर्गन्धवर्ग इति विश्रुतिं एति वर्गः ॥१२.१५६
यस्योच्चैश्चरितानि शीतसुरभीण्यभ्यस्य सत्यात्मनो दुश्चारित्रजना निषङ्गजनितं द्राग्दौःस्थं आस्थन्स्वकं तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थितिं वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥१२.१५७

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.7170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तुणी

  • स्त्री. एक वनस्पति ; नादुकणी ; कुणि ; कछ ; कांतलक . - मसाप ४५ . ४ . 
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.