TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - आम्रादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


आम्रादिवर्ग
आम्राः पञ्चविधाः प्रोक्ता जम्बूश्चैव चतुर्विधा ।
पनसः कदली चाब्धिः नारिकेलद्वयं तथा ॥११.१
खर्जूरी पञ्चधा चैव चारो भल्लातरायणी ।
दाडिमं तिन्दुकौ चाथो अक्षोटः पीलुको द्विधा ॥११.२
पारेवते मधूकं तु द्विधा भव्यारुके क्रमात् ।
द्राक्षा त्रिधाथ कर्मारः परुषः पिप्पलो वटः ॥११.३
वटी चाश्वत्थिका प्लक्षस्तथा चोदुम्बरस्त्रिधा ।
तत्त्वचा बदरं चाब्धि बीजपूरं त्रिधा मतं ॥११.४
आमलक्यौ द्विधा चैव चिञ्चा चिञ्चारसस्तथा ।
आम्रातकोऽथ नारङ्गो निम्बूर्जम्बीरकद्वयं ॥११.५
कपित्थस्तुम्बरश्चाथ रुद्राक्षो बिल्वशल्लकी ।
कतकः कर्कटश्चैव द्विधा श्लेष्मातकस्तथा ॥११.६
मुष्ककः करमर्दश्च तथा तेजःफलस्तथा ।
विकण्टकः शिवा सप्ताप्यक्षः पूगोऽष्टधा स्मृतः ॥११.७
सप्तधा नागवल्ली स्याच्चूर्णं चैवाष्टधा स्मृतं ।
उक्ता आम्रादिके वर्गे शून्यचन्द्रेन्दुसङ्ख्यया ॥११.८
आम्रः कामशरश्चूतो रसालः कामवल्लभः ।
कामाङ्गः सहकारश्च कीरेष्टो माधवद्रुमः ॥११.९
भृङ्गाभीष्टः सीधुरसो मधूली कोकिलोत्सवः ।
वसन्तदूतोऽम्लफलो मदाढ्यो मन्मथालयः ॥११.१०
मध्वावासः सुमदनः पिकरागो नृपप्रियः ।
प्रियाम्बुः कोकिलावासः स प्रोक्तस्त्रिकराह्वयः ॥११.११
आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयघ्नोऽग्निकरश्च बालः ।
पित्तप्रकोपानिलरक्तदोषप्रदः पटुत्वादिरुचिप्रदश्च ॥११.१२
बालं पित्तानिलकफकरं तच्च बद्धास्थि तादृक्पक्वं दोषत्रितयशमनं स्वादु पुष्टिं गुरुं च ।
दत्ते धातुप्रचयं अधिकं तर्पणं कान्तिकारि ख्यातं तृष्णाश्रमशमकृतौ चूतजातं फलं स्यात् ॥११.१३
कोशाम्रश्च घनस्कन्धो वनाम्रो जन्तुपादपः ।
क्षुद्राम्रश्चेति रक्ताम्रो लाक्षावृक्षः सुरक्तकः ॥११.१४
कोशाम्रं अम्लं अनिलापहरं कफार्त्तिपित्तप्रदं गुरु विदाहविशोफकारि ।
पक्वं भवेन्मधुरं ईषदपारं अम्लं पट्वादियुक्तरुचिदीपनपुष्टिबल्यं ॥११.१५
राजाम्रोऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः ।
मधुरः कोकिलानन्दः कामेष्टो नृपवल्लभः ॥११.१६
अन्यो महाराजचूतो महाराजाम्रकस्तथा ।
स्थूलाम्रो मन्मथावासः कङ्को नीलकपित्थकः ॥११.१७
कामायुधः कामफलो राजपुत्रो नृपात्मजः ।
महाराजफलः कामो महाचूतस्त्रयोदश ॥११.१८
तस्यापि श्रेष्ठतोऽन्याम्रो रसालो बद्धपूर्वकः ।
ज्ञेयश्चक्रलताम्रश्च मध्वाम्रः सितजाम्रकः ।
वनेज्यो मन्मथानन्दो मदनेच्छाफलो मुनिः ॥११.१९
राजाम्राः कोमलाः सर्वे कट्वम्लाः पित्तदाहदाः ।
सुपक्वाः स्वादुमाधुर्याः पुष्टिवीर्यबलप्रदाः ॥११.२०
राजाम्रेषु त्रिषु प्रोक्तं साम्यं एव रसाधिकं ।
गुणाधिकं तु विज्ञेयं पर्यायादुत्तरोत्तरं ॥११.२१
बालं राजफलं कफास्रपवनश्वासार्तिपित्तप्रदं मध्यं तादृशं एव दोषबहुलं भूयः कषायाम्लकं ।
पक्वं चेन्मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमश्वासारोचकमोचकं गुरु हिमं वृष्यातिचूताह्वयं ॥११.२२
आम्रत्वचा कषाया च मूलं सौगन्धि तादृशं ।
रुच्यं संग्राहि शिशिरं पुष्पं तु रुचिदीपनं ॥११.२३
जम्बूस्तु सुरभिपत्रा नीलफला श्यामला महास्कन्धा ।
राजार्हा राजफला शुकप्रिया मेघमोदिनी नवाह्वा ॥११.२४
जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठार्तिशोषशमनी क्रिमिदोषहन्त्री ।
श्वासातिसारकफकासविनाशनी च विष्टम्भिनी भवति रोचनपाचनी च ॥११.२५
महाजम्बू राजजम्बूः स्वर्णमाता महाफला ।
शुकप्रिया कोकिलेष्टा महानीला बृहत्फला ॥११.२६
महाजम्बूरुष्णा समधुरकषाया श्रमहरा निरस्यत्यास्यस्थं झटिति जडिमानं स्वरकरी ।
विधत्ते विष्टम्भं शमयति च शोषं वितनुते श्रमातीसारार्त्तिश्वसितकफकासप्रशमनं ॥११.२७
काकजम्बूः काकफला नादेयी काकवल्लभा ।
भृङ्गेष्टा काकनीला च ध्वाङ्क्षजम्बूर्धनप्रिया ॥११.२८
काकजम्बूः कषायाम्ला पाके तु मधुरा गुरुः ।
दाहश्रमातिसारघ्नी वीर्यपुष्टिबलप्रदा ॥११.२९
अन्या च भूमिजम्बूर्ह्रस्वफला भृङ्गवल्लभा ह्रस्वा ।
भूजम्बूर्भ्रमरेष्टा पिकभक्षा काष्ठजम्बूश्च ॥११.३०
भूमिजम्बूः कषाया च मधुरा श्लेष्मपित्तनुत् ।
हृद्या संग्राहिहृत्कण्ठदोषघ्नी वीर्यपुष्टिदा ॥११.३१
पनसस्तु महासर्जः फलिनः फलवृक्षकः ।
स्थूलः कण्टफलश्चैव स्यान्मूलफलदः स्मृतः ।
अपुष्पफलदः पूतफलो ह्यङ्कमितस्तथा ॥११.३२
पनसं मधुरं सुपिच्छिलं गुरु हृद्यं बलवीर्यवृद्धिदं ।
श्रमदाहविशोषनाशनं रुचिकृद्ग्राहि च दुर्जरं परं ॥११.३३
ईषत्कषायं मधुरं तद्बीजं वातलं गुरु ।
तत्फलस्य विकारघ्नं रुच्यं त्वग्दोषनाशनं ॥११.३४
बालं तु नीरसं हृद्यं मध्यपक्वं तु दीपनं ।
रुचिदं लवणाद्युक्तं पनसस्य फलं स्मृतं ॥११.३५
कदली सुफला रम्भा सुकुमारा सकृत्फला ।
मोचा गुच्छफला हस्तिविषाणी गुच्छदन्तिका ॥११.३६
काष्ठीरसा च निःसारा राजेष्टा बालकप्रिया ।
ऊरुस्तम्भा भानुफला वनलक्ष्मीश्च षोडश ॥११.३७
बालं फलं मधुरं अल्पतया कषायं पित्तापहं शिशिररुच्यं अथापि नालं ।
पुष्पं तदप्यनुगुणं क्रिमिहारि कन्दं पर्णं च शूलशमकं कदलीभवं स्यात् ॥११.३८
रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्रविमर्दनं गुरुतरं पथ्यं न मन्दानले ।
सद्यः शुक्रविवृद्धिदं क्लमहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयकरं सन्तर्पणं दुर्जरं ॥११.३९
काष्ठकदली सुकाष्ठा वनकदली काष्ठिका शिलारम्भा ।
दारुकदली फलाढ्या वनमोचा चाश्मकदली च ॥११.४०
स्यात्काष्ठकदली रुच्या रक्तपित्तहरा हिमा ।
गुरुर्मन्दाग्निजननी दुर्जरा मधुरा परा ॥११.४१
गिरिकदली गिरिरम्भा पर्वतमोचाप्यरण्यकदली च ।
बहुबीजा वनरम्भा गिरिजा गजवल्लभाभिहिता ॥११.४२
गिरिकदली मधुरहिमा बलवीर्यविवृद्धिदायिनी रुच्या ।
तृट्पित्तदाहशोषप्रशमनकर्त्री च दुर्जरा च गुरुः ॥११.४३
अन्या सुवर्णकदली सुवर्णरम्भा च कनकरम्भा च ।
पीता सुवर्णमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥११.४४
हेमफला स्वर्णफला कनकस्तम्भा च पीतरम्भा च ।
गौरा च गौररम्भा काञ्चनकदली सुरप्रिया षड्भूः ॥११.४५
सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च ।
तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश्च ॥११.४६
नारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः ।
दृढनीलो नीलतरुर्मङ्गल्योच्चतरुस्तथा ॥११.४७
तृणराजः स्कन्धतरुर्दाक्षिणात्यो दुरारुहः ।
लाङ्गली त्र्यम्बकफलस्तथा दृढफलस्थितिः ॥११.४८
नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः ।
अर्द्धपक्वस्तृषाशोषशमनो दुर्जरः परः ॥११.४९
नारिकेलसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि ।
पक्वं एतदपि किंचिदिहोक्तं पित्तकारि रुचिदं मधुरं च दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनं इदं तु वदन्ति ॥११.५०
खुबरं नारिकेलस्य स्निग्धं गुरु च दुर्जरं ।
दाहविष्टम्भदं रुच्यं बलवीर्यविवर्धनं ॥११.५१
मधुनारिकेलकोऽन्यो माध्वीकफलश्च मधुफलोऽसितजफलः ।
माक्षिकफलो मृदुफलो बहुकूर्चो ह्रस्वफलश्च वसुगणिताह्वः ॥११.५२
मधुरं मधुनारिकेलं उक्तं शिशिरं दाहतृषार्तिपित्तहारि ।
बलपुष्टिकरं च कान्तिं अग्र्यं कुरुते वीर्यविवर्धनं च रुच्यं ॥११.५३
माध्वीकं नारिकेलं फलं अतिमधुरं दुर्जरं जन्तुकारि स्निग्धं वातातिसारश्रमशमनं अथ ध्वंसनं वह्निदीप्तेः ।
आमश्लेष्मप्रकोपं जनयति कुरुते चारुकान्तिं बलं च स्थैर्यं देहस्य धत्ते घनमदनकलावर्धनं पित्तनाशं ॥११.५४
खर्जूरी तु खरस्कन्धा दुष्प्रधर्षां दुरारुहा ।
निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ॥११.५५
खर्जूरी तु कषाया च पक्वा गौल्यकषायका ।
पित्तघ्नी कफदा चैव क्रिमिकृद्वृष्यबृंहणी ॥११.५६
मधुखर्जूरी त्वन्या मधुकर्कटिका च कोलकर्कटिका ।
कण्टकिनी मधुफलिका माध्वी मधुरा च मधुरखर्जूरी ॥११.५७
मधुखर्जूरी मधुरा वृष्या संतापपित्तशान्तिकरी ।
शिशिरा च जन्तुकरी बहुवीर्यविवर्धनं तनुते ॥११.५८
भूखर्जूरी भुक्ता वसुधाखर्जूरिका च भूमिखर्जूरी ।
भूखर्जूरी मधुरा शिशिरा च विदाहपित्तहरा ॥११.५९
दीप्या च पिण्डखर्जूरी स्थलपिण्डा मधुस्रवा ।
फलपुष्पा स्वादुपिण्डा हयभक्ष्या स्वराभिधा ॥११.६०
तथान्या राजखर्जूरी राजपिण्डा नृपप्रिया ।
मुनिखर्जूरिका वन्या राजेष्टा रिपुसम्मिता ॥११.६१
पिण्डखर्जूरिकायुग्मं गौल्यं स्वादे हिमं गुरु ।
पित्तदाहार्त्तिश्वासघ्नं श्रमहृद्वीर्यवृद्धिदं ॥११.६२
दाहघ्नी मधुरास्रपित्तशमनी तृष्णार्तिदोषापहा शीता श्वासकफश्रमोदयहरा सन्तर्पणी पुष्टिदा ।
वह्नेर्मान्द्यकरी गुरुर्विषहरा हृद्या च दत्ते बलं स्निग्धा वीर्यविवर्धनी च कथिता पिण्डाख्यखर्जूरिका ॥११.६३
चारः खद्रुः खरस्कन्धो ललनश्चारकस्तथा ।
बहुवल्कः प्रियालश्च नवद्रुस्तापसप्रियः ।
स्नेहबीजश्चोपवटो भक्षबीजः करेन्दुधा ॥११.६४
चारस्य च फलं पक्वं वृष्यं गौल्याम्लकं गुरु ।
तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनं ॥११.६५
भल्लातकोऽग्निर्दहनस्तपनोऽरुष्करोऽनलः ।
क्रिमिघ्नस्तैलबीजश्च वातारिः स्फोटबीजकः ॥११.६६
पृथग्बीजो धनुर्बीजो भल्लातो बीजपादपः ।
वह्निर्वरतरुश्चेति विज्ञेयः षोडशाह्वयः ॥११.६७
भल्लातकः कटुस्तिक्तः कषायोष्णः क्रिमीञ् जयेत् ।
कफवातोदरानाहमेहदुर्नामनाशनः ॥११.६८
भल्लातस्य फलं कषायमधुरं कोष्णं कफार्तिश्रमश्वासानाहविबन्धशूलजठराध्मानक्रिमिध्वंसनं ।
तन्मज्जा च विशोषदाहशमनी पित्तापहा तर्पणी वातारोचकहारिदीप्तिजननी पित्तापहा त्वञ्जसा ॥११.६९
राजादनो राजफलः क्षीरवृक्षो नृपद्रुमः ।
निम्बबीजो मधुफलः कपीष्टो माधवोद्भवः ॥११.७०
क्षीरी गुच्छफलः प्रोक्तः शुकेष्टो राजवल्लभः ।
श्रीफलोऽथ दृढस्कन्धः क्षीरशुक्लस्त्रिपञ्चधा ॥११.७१
राजादनी तु मधुरा पित्तहृद्गुरुतर्पणी ।
वृष्या स्थौल्यकरी हृद्या सुस्निग्धा मेहनाशकृत् ॥११.७२
दाडिमो दाडिमीसारः कुट्टिमः फलषाडवः ।
करको रक्तबीजश्च सुफलो दन्तबीजकः ॥११.७३
मधुबीजः कुचफलो रोचनः शुकवल्लभः ।
मणिबीजस्तथा वल्कफलो वृत्तफलश्च सः ।
सुनीलो नीलपत्रश्च ज्ञेयः सप्तदशाह्वयः ॥११.७४
दाडिमं मधुरं अम्लकषायं कासवातकफपित्तविनाशि ।
ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं रुचिदायि ॥११.७५
दाडिमं द्विविधं ईरितं आर्यैरम्लं एकं अपरं मधुरं च ।
तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यं ॥११.७६
तिन्दुको नीलसारश्च कालस्कन्धोऽतिमुक्तकः ।
स्फूर्जको रामणश्चैव स्फूर्जनः स्यन्दनाह्वयः ॥११.७७
तिन्दुकस्तु कषायः स्यात्संग्राही वातकृत्परः ।
पक्वस्तु मधुरः स्निग्धो दुर्जरः श्लेष्मलो गुरुः ॥११.७८
तिन्दुकोऽन्यः काकपीलुः काकाण्डः काकतिन्दुकः ।
काकस्फूर्जश्च काकेन्दुः काकाह्वः काकबीजकः ॥११.७९
काकतिन्दुः कषायोऽम्लो गुरुर्वातविकारकृत् ।
पक्वस्तु मधुरः किंचित्कफकृत्पित्तवान्तिहृत् ॥११.८०
अक्षोटः पार्वतीयश्च फलस्नेहो गुडाशयः ।
कीरेष्टः कन्दरालश्च मधुमज्जा बृहच्छदः ॥११.८१
अक्षोटो मधुरो बल्यः स्निग्धोष्णो वातपित्तजित् ।
रक्तदोषप्रशमनः शीतलः कफकोपनः ॥११.८२
पीतुः शीतः सहस्रांशी धानी गुडफलस्तथा ।
विरेचनफलः शाखी श्यामः करभवल्लभः ॥११.८३
अङ्काह्वः कटुकः पीलुः कषायो मधुराम्लकः ।
सरः स्वादुश्च गुल्मार्शःशमनो दीपनः परः ॥११.८४
अन्यश्चैव बृहत्पीलुर्महापीलुर्महाफलः ।
राजपीलुर्महावृक्षो मधुपीलुः षडाह्वयः ॥११.८५
मधुरस्तु महापीलुर्वृष्यो विषविनाशनः ।
पित्तप्रशमनो रुच्य आमघ्नो दीपनीयकः ॥११.८६
पारेवतं तु रैवतं आरेवतकं च किंच रैवतकं ।
मधुफलं अमृतफलाख्यं पारेवतकं च सप्ताह्वं ॥११.८७
पारेवतं तु मधुरं क्रिमिवातहारि वृष्यं तृषाज्वरविदाहहरं च हृद्यं ।
मूर्छाभ्रमश्रमविशोषविनाशकारि स्निग्धं च रुच्यं उदितं बहुवीर्यदायि ॥११.८८
महापारेवतं चान्यत्स्वर्णपारेवतं तथा ।
साम्राणिजं खारिकं च रक्तरैवतकं च तत् ।
बृहत्पारेवतं प्रोक्तं द्वीपजं द्वीपखर्जूरी ॥११.८९
महापारेवतं गौल्यं बलकृत्पुष्टिवर्धनं ।
वृष्यं मूर्छाज्वरघ्नं च पूर्वोक्तादधिकं गुणैः ॥११.९०
मधूको मधुवृक्षः स्यात्मधुष्ठीलो मधुस्रवः ।
गुडपुष्पो लोध्रपुष्पो वानप्रस्थश्च माधवः ॥११.९१
मधुकं मधुरं शीतं पित्तदाहश्रमापहं ।
वातलं जन्तुदोषघ्नं वीर्यपुष्टिविवर्धनं ॥११.९२
अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः ।
क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश्च ॥११.९३
ज्ञेयो जलमधूकस्तु मधुरो व्रणनाशनः ।
वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥११.९४
मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि ।
फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयं एवं एतत् ॥११.९५
भव्यं भवं भविष्यं च भावनं वक्त्रशोधनं ।
तथा पिच्छलबीजं च तच्च लोमफलं मतं ॥११.९६
भव्यं अम्लं कटूष्णं च बालं वातकफापहं ।
पक्वं तु मधुराम्लं च रुचिकृत्सामशूलहृत् ॥११.९७
आरुकं वीरसेनं च वीरं वीरारुकं तथा ।
तत्र विद्याच्चतुर्जातीः पत्रपुष्पादिभेदतः ॥११.९८
आरुकाणि च सर्वाणि मधुराणि हिमानि च ।
अर्शःप्रमेहगुल्मास्रदोषविध्वंसनानि च ॥११.९९
द्राक्षा चारुफला कृष्णा प्रियाला तापसप्रिया ।
गुच्छफला रसाला च ज्ञेयामृतफला च सा ॥११.१००
द्राक्षातिमधुराम्ला च शीता पित्तार्तिदाहजित् ।
मूत्रदोषहरा रुच्या वृष्या संतर्पणी परा ॥११.१०१
अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला ।
अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ॥११.१०२
हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका ।
हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥११.१०३
गोस्तनी मधुरा शीता हृद्या च मदहर्षणी ।
दाहमूर्छाज्वरश्वासतृषाहृल्लासनाशिनी ॥११.१०४
अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा ।
लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी ।
शिशिरा श्वासहृल्लासनाशिनी जनवल्लभा ॥११.१०५
द्राक्षाबालफलं कटूष्णविशदं पित्तास्रदोषप्रदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदं ।
पक्वं चेन्मधुरं तथाम्लसहितं तृष्णास्रपित्तापहं पक्वं शुष्कतमं श्रमार्तिशमनं सन्तर्पणं पुष्टिदं ॥११.१०६
शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकातिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफतृष्णाज्वरघ्नी ।
दाहाध्मानभ्रमादीनपनयति परा तर्पणी पक्वशुष्का द्राक्षा सुक्षीणवीर्यानपि मदनकलाकेलिदक्षान्विधत्ते ॥११.१०७
कर्मारः कर्मरकः पीतफलः कर्मरश्च मुद्गरकः ।
मुद्गरफलश्च धाराफलकस्तु कर्मारकश्चैव ॥११.१०८
कर्मारकोऽम्ल उष्णश्च वातहृत्पित्तकारकः ।
पक्वस्तु मधुराम्लः स्याद्बलपुष्टिरुचिप्रदः ॥११.१०९
परूषकं तीलपर्णं गिरिपीलु परावरं ।
नीलमण्डलं अल्पास्थि परुषं च परुस्तथा ॥११.११०
परूषं अम्लं कटुकं कफार्तिजिद्वातापहं तत्फलं एव पित्तदं ।
सोष्णं च पक्वं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतं ॥११.१११
अश्वत्थश्चाच्युतावासश्चलपत्रः पवित्रकः ।
शुभदो बोधिवृक्षश्च याज्ञिको गजभक्षकः ॥११.११२
श्रीमान्क्षीरद्रुमो विप्रो मङ्गल्यः श्यामलश्च सः ।
पिप्पलो गुह्यपुष्पश्च सेव्यः सत्यः शुचिद्रुमः ।
चैत्यद्रुमो धर्मवृक्षो ज्ञेयो विंशतिसंज्ञकः ॥११.११३
पिप्पलः सुमधुरस्तु कषायः शीतलश्च कफपित्तविनाशी ।
रक्तदाहशमनः स हि सद्यो योनिदोषहरणः किल पक्वः ॥११.११४
अश्वत्थवृक्षस्य फलानि पक्वान्यतीवहृद्यानि च शीतलानि ।
कुर्वन्ति पित्तास्रविषार्तिदाहविच्छर्दिशोषारुचिदोषनाशं ॥११.११५
स्यादथ वटो जटालो न्यग्रोधो रोहिणोऽवरोही च ।
विटपी रक्तफलश्च स्कन्धरुहो मण्डली महाच्छायः ॥११.११६
शृङ्गी यक्षावासो यक्षतरुः पादरोहिणो नीलः ।
क्षीरी शिफारुहः स्याद्बहुपादः स तु वनस्पतिर्नवभूः ॥११.११७
वटः कषायो मधुरः शिशिरः कफपित्तजित् ।
ज्वरदाहतृषामोहव्रणशोफापहारकः ॥११.११८
नदीवटो यज्ञवृक्षः सिद्धार्थो वटको वटी ।
अमरा सङ्गिनी चैव क्षीरकाष्ठा च कीर्तिता ॥११.११९
वटी कषायमधुरा शिशिरा पित्तहारिणी ।
दाहतृष्णाश्रमश्वासविच्छर्दिशमनी परा ॥११.१२०
अश्वत्थी लघुपत्री स्यात्पवित्रा ह्रस्वपत्रिका ।
पिप्पलिका वनस्था च क्षुद्रा चाश्वत्थसंनिभा ॥११.१२१
अश्वत्थिका तु मधुरा कषाया चास्रपित्तजित् ।
विषदाहप्रशमनी गुर्विण्या हितकारिणी ॥११.१२२
प्लक्षः कपीतनः क्षीरी सुपार्श्वोऽथ कमण्डलुः ।
शृङ्गी वरोहशाखी च गर्दभाण्डः कपीतकः ।
दृढप्ररोहः प्लवकः प्लवङ्गश्च महाबलः ॥११.१२३
प्लक्षश्चैवापरो ह्रस्वः सुशीतः शीतवीर्यकः ।
पुण्ड्रो महावरोहश्च ह्रस्वपर्णस्तु पिम्परिः ।
भिदुरो मङ्गलच्छायो ज्ञेयो द्वाविंशधाभिधः ॥११.१२४
प्लक्षः कटुकषायश्च शिशिरो रक्तदोषजित् ।
मूर्छाभ्रमप्रलापघ्नो ह्रस्वप्लक्षो विशेषतः ॥११.१२५
उदुम्बरः क्षीरवृक्षो हेमदुग्धः सदाफलः ।
कालस्कन्धो यज्ञयोग्यो यज्ञीयः सुप्रतिष्ठितः ॥११.१२६
शीतवल्को जन्तुफलः पुष्पशून्यः पवित्रकः ।
सौम्यः शीतफलश्चेति मनुसंज्ञः समीरितः ॥११.१२७
उदुम्बरं कषायं स्यात्पक्वं तु मधुरं हिमं ।
कृमिकृत्पित्तरक्तघ्नं मूर्छादाहतृषापहं ॥११.१२८
औदुम्बरं फलं अतीव हिमं सुपक्वं पित्तापहं च मधुरं श्रमशोफहारि ।
आमं कषायं अतिदीपनरोचनं च मांसस्य वृद्धिकरं अस्रविकारकारि ॥११.१२९
नद्युदुम्बरिका चान्या लघुपत्रफला तथा ।
प्रोक्ता लघुहेमदुग्धा लघुपूर्वसदाफला ॥११.१३०
लघ्वाद्युम्बराह्वा स्याद्बाणाह्वा च प्रकीर्तिता ।
रसवीर्यविपाकेषु किंचिन्न्यूना च पूर्वतः ॥११.१३१
कृष्णोदुम्बरिका चान्या खरपत्री च राजिका ।
उदुम्बरी च कठिना कुष्ठघ्नी फल्गुवाटिका ॥११.१३२
अजाक्षी फल्गुनी चैव मलपूश्चित्रभेषजा ।
काकोदुम्बरिका चैव ध्वाङ्क्षनाम्नी त्रयोदश ॥११.१३३
काकोदुम्बरिका शीता पक्वा गौल्याम्लिका कटुः ।
त्वग्दोषपित्तरक्तघ्नी तद्वल्कं चातिसरजित् ॥११.१३४
उदुम्बरत्वचा शीता कषाया व्रणनाशिनी ।
गुर्विणीगर्भसंरक्षे हिता स्तन्यप्रदायिनी ॥११.१३५
बदरो बदरी कोली कर्कन्धूः कोलफेनिलौ ।
सौवीरको गुडफलो बालेष्टः फलशैशिरः ॥११.१३६
दृढबीजो वृत्तफलः कण्टकी वक्रकण्टकः ।
सुबीजः सुफलः स्वच्छः सुरसः स्मृतिसम्मितः ॥११.१३७
बदरं मधुरं कषायं अम्लं परिपक्वं मधुराम्लं उष्णं एतत् ।
कफकृत्पचनातिसाररक्तश्रमशोषार्तिविनाशनं च रुच्यं ॥११.१३८
बदरस्य पत्रलेपो ज्वरदाहविनाशनः ।
त्वचा विस्फोटशमनी बीजं नेत्रामयापहं ॥११.१३९
राजबदरो नृपेष्टो नृपबदरो राजवल्लभश्चैव ।
पृथुकोलस्तनुबीजो मधुरफलो राजकोलश्च ॥११.१४०
राजबदरः सुमधुरः शिशिरो दाहार्तिपित्तवातहरः ।
वृष्यश्च वीर्यवृद्धिं कुरुते शोषश्रमं हरति ॥११.१४१
भूबदरी क्षितिबदरी वल्लीबदरी च बदरिवल्ली च ।
बहुफलिका लघुबदरी बदरफली सूक्ष्मबदरी च ॥११.१४२
भूबदरी मधुराम्ला कफवातविकारहारिणी पथ्या ।
दीपनपाचनकर्त्री किंचित्पित्तास्रकारिणी रुच्या ॥११.१४३
सूक्ष्मफलो लघुबदरो बहुकण्टः सूक्ष्मपत्रको दुःस्पर्शः ।
मधुरः शम्बराहारः शिखिप्रियश्चैव निर्दिष्टः ॥११.१४४
लघुबदरं मधुराम्लं पक्वं कफवातनाशनं रुच्यं ।
स्निग्धं तु जन्तुकारकं ईषत्पित्तार्तिदाहशोषघ्नं ॥११.१४५
बीजपूरो बीजपूर्णं पूर्णबीजः सुकेसरः ।
बीजकः केशराम्लश्च मातुलुङ्गः सुपूरकः ॥११.१४६
रुचको बीजफलको जन्तुघ्नो दन्तुरत्वचः ।
पूरको रोचनफलो द्विदेवमुनिसम्मितः ॥११.१४७
बीजपूरफलं अम्लकटूष्णं श्वासकासशमनं पचनं च ।
कण्ठशोधनपरं लघु हृद्यं दीपनं च रुचिकृज्जरणं च ॥११.१४८
बालं पित्तमरुत्कफास्रकरणं मध्यं च तादृग्विधं पक्वं वर्णकरं च हृद्यं अथ तत्पुष्णाति पुष्टिं बलं ।
शूलाजीर्णविबन्धमारुतकफश्वासार्तिमन्दाग्निजित्कासारोचकशोफशान्तिदं इदं स्यान्मातुलुङ्गं सदा ॥११.१४९
त्वक्तिक्ता दुर्जरा स्यात्कृमिकफपवनध्वंसिनी स्निग्धं उष्णं मध्यं शूलार्तिपित्तप्रशमनं अखिलारोचकघ्नं च गौल्यं ।
वातार्तिघ्नं कटूष्णं जठरगदहरं केसरं दीप्यं अम्लं बीजं तिक्तं कफार्शःश्वयथुशमकरं बीजपूरस्य पथ्यं ॥११.१५०
वनबीजपूरकोऽन्यो वनजो वनपूरकश्च वनबीजः ।
अत्यम्ला गन्धाढ्या वनोद्भवा देवदूती च ॥११.१५१
पीता च देवदासी देवेष्टा मातुलुङ्गिका चैव ।
पवनी महाफला च स्यादियं इति वेदभूमिमिता ॥११.१५२
अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश्च ।
स्यादम्लदोषकृमिनाशकारी कफापहः श्वासनिषूदनश्च ॥११.१५३
मधुरबीजपूरो मधुपर्णी मधुरकर्कटी मधुवल्ली ।
मधुकर्कटी मधुरफला महाफला वर्धमाना च ॥११.१५४
मधुकर्कटी मधुरा शिशिरा दाहनाशनी ।
त्रिदोषशमनी रुच्या वृष्या च गुरुदुर्जरा ॥११.१५५
आमलकी वयःस्था च श्रीफला धात्रिका तथा ।
अमृता च शिवा शान्ता शीतामृतफला तथा ॥११.१५६
जातीफला च धात्रेयी ज्ञेया धात्रीफला तथा ।
वृष्या वृत्तफला चैव रोचनी शरभूह्वया ॥११.१५७
आमलकं कषायाम्लं मधुरं शिशिरं लघु ।
दाहपित्तवमीमेहशोफघ्नं च रसायनं ॥११.१५८
कटु मधुरकषायं किंचिदम्लं कफघ्नं रुचिकरं अतिशीतं हन्ति पित्तास्रतापं ।
श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनं अमृताभं चामलक्याः फलं स्यात् ॥११.१५९
अन्यच्चामलकं प्रोक्तं काष्ठधात्रीफलं तथा ।
क्षुद्रामलकसंप्रोक्तं क्षुद्रजातीफलं च तत् ॥११.१६०
काष्ठधात्रीफलं स्वादे कषायं कटुकं तथा ।
शीतं पित्तास्रदोषघ्नं पूर्वोक्तं अधिकं गुणैः ॥११.१६१
चिञ्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका ।
अम्ली सुतिन्तिडी चाम्ला चुक्रिका च नवाभिधा ॥११.१६२
चिञ्चात्यम्ला भवेदामा पक्वा तु मधुराम्लिका ।
वातघ्नी पित्तदाहास्रकफदोषप्रकोपणी ॥११.१६३
अम्लिकायाः फलं त्वामं अत्यम्लं लघु पित्तकृत् ।
पक्वं तु मधुराम्लं स्याद्भेदि विष्टम्भवातजित् ॥११.१६४
पक्वचिञ्चाफलरसो मधुराम्लो रुचिप्रदः ।
शोफपाककरो लेपाद्व्रणदोषविनाशनः ॥११.१६५
चिञ्चापत्रं च शोफघ्नं रक्तदोषव्यथापहं ।
तस्याः शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनं ॥११.१६६
अम्लसारस्तु शाकाम्लं चुक्राम्लं चाम्लचुक्रिका ।
चिञ्चाम्लं अम्लचूडश्च चिञ्चारसोऽपि सप्तधा ॥११.१६७
अम्लसारस्त्वतीवाम्लो वातघ्नः कफदाहकृत् ।
साम्येन शर्करामिश्रो दाहपित्तकफार्त्तिनुत् ॥११.१६८
आम्रातकः पीतनकः कपिचूतोऽम्लवाटकः ।
शृङ्गी कपिरसाढ्यश्च तनुक्षीरः कपिप्रियः ॥११.१६९
आम्रातकं कषायाम्लं आमहृत्कण्ठहर्षणं ।
पक्वं तु मधुराम्लाढ्यं स्निग्धं पित्तकफापहं ॥११.१७०
नारङ्गः स्यान्नागरङ्गः सुरङ्गस्त्वग्गन्धश्चैरावतो वक्त्रवासः ।
योगीरङ्गो नागरो योगरङ्गः गन्धाढ्योऽयं गन्धपत्रो रवीष्टः ॥११.१७१
नारङ्गं मधुरं चाम्लं गुरूष्णं चैव रोचनं ।
वातामक्रिमिशूलघ्नं श्रमहृद्बलरुच्यदं ॥११.१७२
निम्बूकः स्यादम्लजम्बीरकाख्यो वह्निर्दीप्यो वह्निबीजोऽम्लसारः ।
दन्ताघातः शोधनो जन्तुमारी निम्बूश्च स्याद्रोचनो रुद्रसंज्ञः ॥११.१७३
निम्बूफलं प्रथितं अम्लरसं कटूष्णं गुल्मामवातहरं अग्निविवृद्धिकारि ।
चक्षुष्यं एतदथ कासकफार्त्तिकण्ठविच्छर्दिहारि परिपक्वं अतीव रुच्यं ॥११.१७४
जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव ।
रोचनको मुखशोधी जाड्यारिर्जन्तुजिन्नवधा ॥११.१७५
जम्बीरस्य फलं रसेऽम्लमधुरं वातापहं पित्तकृत्पथ्यं पाचनरोचनं बलकरं वह्नेर्विवृद्धिप्रदं ।
पक्वं चेन्मधुरं कफार्त्तिशमनं पित्तास्रदोषापनुत्वर्ण्यं वीर्यविवर्द्धनं च रुचिकृत्पुष्टिप्रदं तर्पणं ॥११.१७६
अन्यो मधुजम्बीरो मधुजम्भो मधुरजम्भलश्चैव ।
शङ्खद्रावी शर्करकः पित्तद्रावी च षट्संज्ञः ॥११.१७७
मधुरो मधुजम्बीरः शिशिरः कफपित्तनुत् ।
शोषघ्नस्तर्पणो वृष्यः श्रमघ्नः पुष्टिकारकः ॥११.१७८
मालूरस्तु कपित्थो मङ्गल्यो नीलमल्लिका च दधि ।
ग्राहिफलश्चिरपाकी ग्रन्थिफलः कुचफलो दधिफलश्च ॥११.१७९
गन्धफलश्च कपीष्टो वृत्तफलः करभवल्लभश्चैव ।
दन्तशठः कठिनफलः करण्डफलकश्च सप्तदशसंज्ञः ॥११.१८०
कपित्थो मधुराम्लश्च कषायस्तिक्तशीतलः ।
वृष्यः पित्तानिलं हन्ति संग्राही व्रणनाशनः ॥११.१८१
आमं कपित्थं अम्लोष्णां कफघ्नं ग्राहि वातलं ।
दोषत्रयहरं पक्वं मधुराम्लरसं गुरु ॥११.१८२
आमं कण्ठरुजं कपित्थं अधिकं जिह्वाजडत्वावहं तद्दोषत्रयवर्धनं विषहरं संग्राहकं रोचकं ।
पक्वं श्वासवमिश्रमक्लमहरं हिक्कापनोदक्षमं सर्वं ग्राहि रुचिप्रदं च कथितं सेव्यं ततः सर्वदा ॥११.१८३
तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः ।
तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः ।
स्फुटफलः सुगन्धिश्च स प्रोक्तो द्वादशाह्वयः ॥११.१८४
तुम्बरुर्मधुरस्तिक्तः कटूष्णः कफवातनुत् ।
शूलगुल्मोदराध्मानकृमिघ्नो वह्निदीपनः ॥११.१८५
रुद्राक्षश्च शिवाक्षश्च शर्वाक्षो भूतनाशनः ।
पावनो नीलकण्ठाक्षो हराक्षश्च शिवप्रियः ॥११.१८६
रुद्राक्षं अम्लं उष्णं च वातघ्नं कफनाशनं ।
शिरऽर्तिशमनं रुच्यं भूतग्रहविनाशनं ॥११.१८७
बिल्वः शल्यो हृद्यगन्धः शलाटुः शाण्डिल्यः स्याच्छ्रीफलः कर्कटाह्वः ।
शैलूषः स्याच्छैवपत्रः शिवेष्टः पत्रश्रेष्ठो गन्धपत्रस्त्रिपत्त्रः ॥११.१८८
लक्ष्मीफलो गन्धफलो दुरारुहस्त्रिशाकपत्त्रस्त्रिशिखः शिवद्रुमः ।
सदाफलः सत्फलदः सुभूतिकः समीरसारः शिखिनेत्रसंज्ञितः ॥११.१८९
बिल्वस्तु मधुरो हृद्यः कषायः पित्तजित्गुरुः ।
कफज्वरातिसारघ्नो रुचिकृद्दीपनः परः ॥११.१९०
बिल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् ।
फलं तु कोमलं स्निग्धं गुरु संग्राहि दीपनं ॥११.१९१
तदेव पक्वं विज्ञेयं मधुरं सरसं गुरु ।
कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ॥११.१९२
सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा ।
सुरभिर्गजभक्ष्या च सुवहा गजवल्लभा ॥११.१९३
गन्धमूला मुखामोदा सुश्रीका जलविक्रमा ।
हृद्या कुण्टरिका चैव प्रोक्ता त्र्यस्रफला च सा ।
छिन्नरुहा गन्धफला ज्ञेया चाष्टादशाह्वया ॥११.१९४
सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा ।
कुष्ठास्रकफवातार्शोव्रणदोषार्तिनाशिनी ॥११.१९५
कतकोऽम्बुप्रसादश्च कतस्तिक्तफलस्तथा ।
रुच्यस्तु छेदनीयश्च ज्ञेयो गुडफलः स्मृतः ।
प्रोक्तः कतफलस्तिक्तमरीचश्च नवाह्वयः ॥११.१९६
कतकः कटुतिक्तोष्णश्चक्षुष्यः कृमिदोषनुत् ।
रुचिकृच्छूलदोषघ्नो बीजं अम्बुप्रसादनं ॥११.१९७
कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः ।
क्षुद्रामलकसंज्ञश्च प्रोक्तः कर्कफलश्च षट् ॥११.१९८
कार्कटं तु फलं रुच्यं कषायं दीपनं परं ।
कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलं ॥११.१९९
श्लेष्मातको बहुवारः पिच्छलो द्विजकुत्सितः ।
शेलुः शीतफलः शीतः शाकटः कर्बुदारकः ।
भूतद्रुमो गन्धपुष्पः ख्यात एकादशाह्वयः ॥११.२००
श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकरः क्रिमिशूलहारी ।
आमास्रदोषमलरोधबहुव्रणार्तिविस्फोटशान्तिकरणः कफकारकश्च ॥११.२०१
भूकर्बुदारकश्चान्यः क्षुद्रश्लेष्मातकस्तथा ।
भूशेलुर्लघुशेलुश्च पिच्छलो लघुपूर्वकः ।
लघुशीतः सूक्ष्मफलो लघुभूतद्रुमश्च सः ॥११.२०२
भूकर्बुदारो मधुरः क्रिमिदोषविनाशनः ।
वातप्रकोपणः किंचित्सशीतः स्वर्णमारकः ॥११.२०३
मुष्कको मोचको मुष्को मोक्षको मुञ्चकस्तथा ।
गौलिको मेहनश्चैव क्षारवृक्षश्च पाटलिः ॥११.२०४
विषापहो जटालश्च वनवासी सुतीक्ष्णकः ।
श्वेतः कृष्णश्च स द्वेधा स्यात्त्रयोदशसंज्ञकः ॥११.२०५
मुष्ककः कटुकोऽम्लश्च रोचनः पाचनः परः ।
प्लीहगुल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥११.२०६
करमर्दः सुषेणश्च कराम्लः करमर्दकः ।
अविग्नः पाणिमर्दश्च कृष्णपाकफलो मुनिः ॥११.२०७
करमर्दः सतिक्ताम्लो बालो दीपनदाहकः ।
पक्वस्त्रिदोषशमनोऽरुचिघ्नो विषनाशनः ॥११.२०८
तेजःफलो बहुफलस्तथोक्तः शाल्मलीफलः ।
फलस्तीक्ष्णादिसंयुक्तः फलान्तस्तवकादिकः ।
स्तेयीफलो गन्धफलः कण्टवृक्षः प्रकीर्तितः ॥११.२०९
तेजःफलः कटुस्तीक्ष्णः सुगन्धिर्दीपनः परः ।
वातश्लेष्मारुचिघ्नश्च बालरक्षाकरः परः ॥११.२१०
विकण्टको मृदुफलो ग्रन्थिलः स्वादुकण्टकः ।
गोकण्टकः काकनाशो व्याघ्रपादो घनद्रुमः ॥११.२११
गर्जाफलो घनफलो मेघस्तनितोद्भवश्च मुदिरफलः ।
प्रावृष्यो हास्यफलः स्तनितफलः पञ्चदशसंज्ञः ॥११.२१२
विकण्टकः कषायः स्यात्कटू रूक्षो रुचिप्रदः ।
दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥११.२१३
हरीतकी हेमवती जयाभया शिवाव्यथा चेतनिका च रोहिणी ।
पथ्या प्रपथ्यापि पूतनामृता जीवप्रिया जीवनिका भिषग्वरा ॥११.२१४
जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा ।
देवी दिव्या च विजया वह्निनेत्रमिताभिधा ॥११.२१५
हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता ।
रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ॥११.२१६
बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुरुष्णवीर्या ।
मांसांशतश्चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयं ॥११.२१७
हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता ।
तस्या नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमं ॥११.२१८
विजया रोहिणी चैव पूतना चामृताभया ।
जीवन्ती चेतकी चेति नाम्ना सप्तविधा मता ॥११.२१९
अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता ।
स्वल्पत्वक्पूतना ज्ञेया स्थूलमांसामृता स्मृता ॥११.२२०
पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् ।
त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणं ॥११.२२१
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिष्ठानके ।
चम्पायां अमृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्तप्रभेदा बुधैः ॥११.२२२
सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता ।
विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ॥११.२२३
स्याच्चेतकी सर्वरुजापहारिका नेत्रामयघ्नीं अभयां वदन्ति ।
इत्थं यथायोगं इयं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥११.२२४
चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः ।
तावद्विरिच्यते वेगात्तत्प्रभावान्न संशयः ॥११.२२५
सप्तानां अपि जातीनां प्रधानं विजया स्मृता ।
सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ॥११.२२६
क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः ।
यस्या यस्या भूयो निमज्जनं सा गुणाढ्या स्यात् ॥११.२२७
हरते प्रसभं व्याधीन्भूयस्तरति यद्वपुः ।
हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ॥११.२२८
हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे ।
शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शस्यते ॥११.२२९
विभीतकस्तैलफलो भूतावासः कलिद्रुमः ।
संवर्तकस्तु वासन्तः कल्किवृक्षो वहेडकः ॥११.२३०
हार्यः कर्षफलः कल्किर्धर्मघ्नोऽक्षोऽनिलघ्नकः ।
बहुवीर्यश्च कासघ्नः स प्रोक्तः षोडशाह्वयः ॥११.२३१
विभीतकः कटुस्तिक्तः कषायोष्णः कफापहः ।
चक्षुष्यः पलितघ्नश्च विपाके मधुरो लघुः ॥११.२३२
पूगस्तु पूगवृक्षश्च क्रमुको दीर्घपादपः ।
वल्कतरुर्दृढवल्कश्चिक्कणश्च मुनिर्मतः ॥११.२३३
पूगवृक्षस्य निर्यासो हिमः संमोहनो गुरुः ।
विपाके सोष्णकक्षारः साम्लो वातघ्नपित्तलः ॥११.२३४
पूगं तु चिक्कणी चिक्का चिक्कणं श्लक्ष्णकं तथा ।
उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥११.२३५
सेरी च मधुरा रुच्या कषायाम्ला कटुस्तथा ।
पथ्या च कफवातघ्नी सारिका मुखदोषनुत् ॥११.२३६
तैल्वनं मधुरं रुच्यं कण्ठशुद्धिकरं लघु ।
त्रिदोषशमनं दीप्यं रसालं पाचनं समं ॥११.२३७
गौल्यं गुहागरं श्लक्ष्णं कषायं कटु पाचनं ।
विष्टम्भजठराध्मानहरणं द्रावकं लघु ॥११.२३८
घोण्टा कटुकषायोष्णा कठिना रुचिकारिणी ।
मलविष्टम्भशमनी पित्तहृद्दीपनी च सा ॥११.२३९
पूगीफलं चेउलसंज्ञकं यत्तत्कोङ्कणेषु प्रथितं सुगन्धि ।
श्लेष्मापहं दीपनपाचनं च बलप्रदं पुष्टिकरं रसाढ्यं ॥११.२४०
यत्कोङ्कणे वल्लिगुलाभिधानकं ग्रामोद्भवं पूगफलं त्रिदोषनुत् ।
आमापहं रोचनरुच्यपाचनं विष्टम्भतुन्दामयहारि दीपनं ॥११.२४१
चन्द्रापुरोद्भवं पूगं कफघ्नं मलशोधनं ।
कटु स्वादु कषायं च रुच्यं दीपनपाचनं ।
आन्ध्रदेशोद्भवं पूगं कषायं मधुरं रसे ।
वातजिद्वक्त्रजाड्यघ्नं ईषदम्लं कफापहं ॥११.२४२
पूगं सम्मोहकृत्सर्वं कषायं स्वादु रेचनं ।
त्रिदोषशमनं रुच्यं वक्त्रक्लेदमलापहं ॥११.२४३
आमं पूगं कषायं मुखमलशमनं कण्ठशुद्धिं विधत्ते रक्तामश्लेष्मपित्तप्रशमनं उदराध्मानहारं सरं च ।
शुष्कं कण्ठामयघ्नं रुचिकरं उदितं पाचनं रेचनं स्यात्तत्पर्णेनायुतं चेत्झटिति वितनुते पाण्डुवातं च शोषं ॥११.२४४
अथ भवति नागवल्ली ताम्बूली फणिलता च सप्तशिरा ।
पर्णलता फणिवल्ली भुजगलता भक्ष्यपत्री च ॥११.२४५
नागवल्ली कटुस्तीक्ष्णा तिक्ता पीनसवातजित् ।
कफकासहरा रुच्या दाहकृद्दीपनी परा ॥११.२४६
सा श्रीवाट्यम्लादिवाटादिनानाग्रामस्तोमस्थानभेदाद्विभिन्ना ।
एकाप्येषा देशमृत्स्नाविशेषान्नानाकारं याति काये गुणे च ॥११.२४७
श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा ।
रसाढ्या सुरसा रुच्या विपाके शिशिरा स्मृता ॥११.२४८
स्यादम्लवाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककर्त्री ।
विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिबर्हणी च ॥११.२४९
सतसा मधुरा तीक्ष्णा कटुरुष्णा च पाचनी ।
गुल्मोदराध्मानहरा रुचिकृद्दीपनी परा ॥११.२५०
गुहागरे सप्तशिरा प्रसिद्धा सापर्णजूर्णातिरसातिरुच्या ।
सुगन्धि तीक्ष्णा मधुरातिहृद्या सन्दीपनी पुंस्त्वकरातिबल्या ॥११.२५१
नाम्नान्याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत्पित्तोद्रेकहरा सुदीपनकरी बल्या मुखामोदिनी ।
स्त्रीसौभाग्यविवर्धनी मदकरी राज्ञां सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता सा मालवे तु स्थिता ॥११.२५२
अन्ध्रे पटुलिका नाम कषायोष्णा कटुस्तथा ।
मलापकर्षा कण्ठस्य पित्तकृद्वातनाशनी ॥११.२५३
ह्वेसणीया कटुस्तीक्ष्णा हृद्या दीर्घदला च सा ।
कफवातहरा रुच्या कटुर्दीपनपाचनी ॥११.२५४
सद्यस्त्रोटितभक्षितं मुखरुजाजाड्यावहं दोषकृत्दाहारोचकरक्तदायि मलकृद्विष्टम्भि वान्तिप्रदं ।
यद्भूयो जलपानपोषितरसं तच्चेच्चिरात्त्रोटितं ताम्बूलीदलं उत्तमं च रुचिकृद्वर्ण्यं त्रिदोषार्तिनुत् ॥११.२५५
कृष्णं पर्णं तिक्तं उष्णं कषायं धत्ते दाहं वक्त्रजाद्यं मलं च ।
शुभ्रं पर्णं श्लेष्मवातामयघ्नं पथ्यं रुच्यं दीपनं पाचनं च ॥११.२५६
शिरा पर्णस्य शैथिल्यं कुर्यात्तस्यास्रहृद्रसः ।
शीर्णं त्वग्दोषदं तस्य भक्षिते च शितं सदा ॥११.२५७
अनिधाय मुखे पर्णं पूगं खादात यो नरः ।
मतिभ्रंशो दरिद्रः स्यादन्ते स्मरति नो हरिं ॥११.२५८
पर्णाधिक्ये दीपनी रङ्गदात्री पूगाधिक्ये रूक्षदा कृच्छ्रदात्री ।
साराधिक्ये खादिरे शोषदात्री चूर्णाधिक्ये पित्तकृत्पूतिगन्धा ॥११.२५९
चूर्णं चार्जुनवृक्षजं कफहरं गुल्मघ्नं अर्काह्वयं शोफघ्नं कुटजं करञ्जजनितं वातापहं रुच्यदं ।
पित्तघ्नं जलजं बलाग्निरुचिदं शैलाह्वयं पित्तदं स्फाटिक्यं दृढदन्तपङ्क्तिजननं शुक्त्यादिजं रूक्षदं ॥११.२६०
इत्थं नानाफलतरुलतानामतत्तद्गुणादिव्यक्ताख्यानप्रगुणरचनाचारुसौरभ्यसारं ।
वर्गं वक्त्राम्बुरुहवलभीलास्यलीलारसालं विद्यावैद्यः खलु सफलयेदेतं आम्नायभूम्ना ॥११.२६१
यान्युपभुञ्जानानां स भवति संसारपादपः सफलः ।
तेषां एष फलानां वर्गः फलवर्ग इति कथितः ॥११.२६२
यस्याजस्रविकस्वरामलयशःप्राग्भारपुष्पोद्गमः साश्चर्यं विबुधेप्सितानि फलति श्रीमान्करः स्वर्द्रुमः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

convverse

  • संभाषण करणे 
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.