TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - पानीयादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


पानीयादिवर्ग
पानीयजीवनवनामृतपुष्कराम्भःपाथोऽम्बुशम्बरपयःसलिलोदकानि ।
आपः कवारुणकबन्धजलानि नीरकीलालवारिकमलानि विषार्णसी च ॥१४.१
भुवनं दहनारातिर्वास्तोयं सर्वतोमुखं क्षीरं ।
घनरसनिम्नगमेघप्रसवरसाश्चेति वह्निमिताः ॥१४.२
पानीयं मधुरं हिमं च रुचिदं तृष्णाविशोषापहं मोहभ्रान्तिमपाकरोति कुरुते भुक्तान्नपक्तिं परां ।
निद्रालस्यनिरासनं विषहरं श्रान्तातिसंतर्पणं नॄणां धीबलवीर्यतुष्टिजननं नष्टाङ्गपुष्टिप्रदं ॥१४.३
दिव्योदकं खरारि स्यादाकाशसलिलं तथा ।
व्योमोदकं चान्तरिक्षजलं चेष्वभिधाह्वयं ॥१४.४
व्योमोदकं त्रिदोषघ्नं मधुरं पथ्यदं परं ।
रुच्यं दीपनदं तृष्णाश्रममेहापहारकं ॥१४.५
सद्योवृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकं ।
चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहं ॥१४.६
यादोनाथसमुद्रसिन्धुजलदाकूपारपाथोधयः पारावारपयोधिसागरसरिन्नाथाश्च वारां निधिः ।
अम्भोराशिसरस्वदम्बुधिनदीनाथाब्धिनित्यार्णवोदन्वद्वारिधिवार्धयः कधिरपांनाथोऽपि रत्नाकरः ॥१४.७
सागरसलिलं विस्रं लवणं रक्तामयप्रदं चोष्णं ।
वैवर्ण्यदोषजननं विशेषाद्दाहार्तिपित्तकरणं च ॥१४.८
नदी धुनी निर्झरिणी तरंगिणी सरस्वती शैवलिनी समुद्रगा ।
कूलंकषा कूलवती च निम्नगा शैवालिनी सिन्धुरथापगापि च ॥१४.९
ह्रदिनी समुद्रकान्ता सागरगा ह्रादिनी सरित्कर्षूः ।
स्रोतस्विनी सुनीरा रोधोवक्रा च वाहिनी तटिनी ॥१४.१०
नादेयं सलिलं स्वच्छं लघु दीपनपाचनं ।
रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुष्णकं ॥१४.११
गङ्गा भानुसुता रेवा चन्द्रभागा सरस्वती ।
मधुमती विपाशाथ शोणो घर्घरकस्तथा ॥१४.१२
वेत्रावती क्षौद्रवती पयोष्णी तापी वितस्ता सरयूश्च सिन्धुः ।
महाशतद्रुर्ह्यथ गौतमी स्यात्कृष्णा च तुङ्गा च कवेरिकन्या ॥१४.१३
इत्येवं आद्याः सरितः समस्तास्तडागवापीह्रदकूपकाद्याः ।
अन्येऽप्यनूपात्मकदेशभेदाः कौलाभिधानैः स्वयं ऊहनीयाः ॥१४.१४
धाराकारादिकातोयं अन्तरिक्षोद्भवं तथा ।
परीक्ष्येत यथा चोक्तं ज्ञातव्यं जलवेदिभिः ॥१४.१५
गङ्गा स्वर्गसरिद्वरा त्रिपथगा मन्दाकिनी जाह्नवी पुण्या विष्णुपदी समुद्रसुभगा भागीरथी स्वर्णदी ।
त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वर्धुनी ज्येष्ठा जह्नुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥१४.१६
शीतं स्वादु स्वच्छं अत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि ।
तृष्णामोहध्वंसनं दीपनं च प्रज्ञां दत्ते वारि भागीरथीयं ॥१४.१७
यमुना तपनतनुजा कलिन्दकन्या यमस्वसा च कालिन्दी ॥१४.१८
पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनं ।
वह्निदीपनकरं विरोचनं यामुनं जलं इदं बलप्रदं ॥१४.१९
रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥१४.२०
सलिलं शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपणं ।
सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थं ॥१४.२१
चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदं ॥१४.२२
सरस्वती प्लक्षसमुद्भवा च सा वाक्प्रदा ब्रह्मसती च भारती ।
वेदाग्रणीश्चैव पयोष्णिजाता वाणी विशाला कुटिला दशाह्वा ॥१४.२३
सरस्वतीजलं स्वादु पूतं सर्वरुजापहं ।
रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥१४.२४
चान्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनं ॥१४.२५
शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघ्नं ।
जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुषं च ॥१४.२६
शोणे घर्घरके जलं तु रुचिदं संतापशोषापहं पथ्यं वह्निकरं तथा च बलदं क्षीणाङ्गपुष्टिप्रदं ।
तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं वृष्यं दीपनपाचनं बलकरं वेत्रावती तापिनी ॥१४.२७
पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनं ।
सर्वामयहरं सौख्यं बलकान्तिप्रदं लघु ॥१४.२८
वितस्तासलिलं स्वादु त्रिदोषशमनं लघु ।
प्रज्ञाबुद्धिप्रदं पथ्यं तापजाड्यहरं परं ॥१४.२९
सरयूसलिलं स्वादु बलपुष्टिप्रदायकं ॥१४.३०
गोदावरी गौतमसम्भवा सा ब्रह्माद्रिजाताप्यथ गौतमी च ॥१४.३१
पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि ।
कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि ॥१४.३२
कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणापि च कृष्णगङ्गा ॥१४.३३
कार्ष्ण्यं जाड्यकरं स्वादु पूतं पित्तास्रकोपनं ।
कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनं ॥१४.३४
मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः ।
मलापहाघट्टगयोस्तथापि पथ्यं लघु स्वादुतरं सुकान्तिदं ॥१४.३५
तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु ।
कण्डूपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परं ॥१४.३६
कावेरीसलिलं स्वादु श्रमघ्नं लघु दीपनं ।
दद्रुकुष्ठादिदोषघ्नं मेधाबुद्धिरुचिप्रदं ॥१४.३७
नदीनामित्थं अन्यासां देशदोषादिभेदतः ।
तत्तद्गुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥१४.३८
सर्वा गुर्वी प्राङ्मुखी वाहिनी या लघ्वी पश्चाद्वाहिनी निश्चयेन ।
देशे देशे तद्गुणानां विशेषादेषा धत्ते गौरवं लाघवं च ॥१४.३९
विन्ध्यात्प्राची याप्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण ।
वाताटोपं श्लेष्मपित्तार्तिलोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ॥१४.४०
हिमवति मलयाचले च विन्ध्ये प्रभवति सह्यगिरौ च या स्रवन्ती ।
सृजति किल शिरोरुजादिदोषानपनुदतेऽपि च पारियात्रजाता ॥१४.४१
नद्यः प्रावृषिजास्तु पीनसकफश्वासार्तिकासप्रदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः ।
संतापं शमयन्ति शं विदधते शैशिर्यवासन्तजास्तृष्णादाहवमिश्रमार्तिशमदा ग्रीष्मे यथा सद्गुणाः ॥१४.४२
अनूपसलिलं स्वादु स्निग्धं पित्तहरं गुरु ।
तनोति पामकण्डूतिकफवातज्वरामयान् ॥१४.४३
जाङ्गलसलिलं स्वादु त्रिदोषघ्नं रुचिप्रदं ।
पथ्यं चायुर्बलवीर्यपुष्टिदं कान्तिकृत्परं ॥१४.४४
साधारणं जलं रुच्यं दीपनं पाचनं लघु ।
श्रमतृष्णापहं वातकफमेदोघ्नपुष्टिदं ॥१४.४५
जातं ताम्रमृदस्तदेव सलिलं वातादिदोषप्रदं देशाज्जाड्यकरं च दुर्जरतरं दोषावहं धूसरं ।
वातघ्नं तु शिलाशिरोत्थं अमलं पथ्यं लघु स्वादु च श्रेष्ठं श्याममृदस्त्रिदोषशमनं सर्वामयघ्नं पयः ॥१४.४६
ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ॥१४.४७
प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनं च दीपनकृत् ॥१४.४८
तडागसलिलं स्वादु कषायं वातदं कियत् ॥१४.४९
वापीजलं तु संतापि वातश्लेष्मकरं गुरु ॥१४.५०
कफघ्नं कूपपानीयं क्षारं पित्तकरं लघु ॥१४.५१
औद्भिदं पित्तशमनं सलिलं लघु च स्मृतं ॥१४.५२
केदारसलिलं स्वादु विपाके दोषदं गुरु ।
तदेव बद्धमुक्तं तु विशेषाद्दोषदं भवेत् ॥१४.५३
नादेयं नवमृद्घटेषु निहितं संतप्तं अर्कांशुभिर्यामिन्यां च निविष्टं इन्द्रकिरणैर्मन्दानिलान्दोलितं ।
एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकं ॥१४.५४
यः पानीयं पिबति शिशिरं स्वादु नित्यं निशीथे प्रत्यूषे वा पिबति यदि वा घ्राणरन्ध्रेण धीरः ।
सोऽयं सद्यः पतगपतिना स्पर्धते नेत्रशक्त्या स्वर्गाचार्यं प्रहसति धिया द्वेष्टि दस्रौ च तन्वा ॥१४.५५
विण्मूत्रारुणनीलिकाविषहतं तप्तं घनं फेनिलं दन्तग्राह्यं अनार्तवं सलवणं शैवालकैः संवृतं ।
जन्तुव्रातविमिश्रितं गुरुतरं पर्णौघपङ्काविलं चन्द्रार्कांशुतिरोहितं च न पिबेन्नीरं जडं दोषलं ॥१४.५६
पार्श्वशूले प्रतिश्याये वातदोषे नवज्वरे ।
हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥१४.५७
धातुक्षये रक्तविकारदोषे वान्त्यस्रमेहे विषविभ्रमेषु ।
जीर्णज्वरे शैथिल्यसंनिपाते जलं प्रशस्तं शृतशीतलं तु ॥१४.५८
तप्तं पाथः पादभागेन हीनं प्रोक्तं पथ्यं वातजातामयघ्नं ।
अर्धांशोनं नाशयेद्वातपित्तं पादप्रायं तत्तु दोषत्रयघ्नं ॥१४.५९
हेमन्ते पादहीनं तु पादार्धोनं तु शारदे ।
प्रावृड्वसन्ते शिशिरे ग्रीष्मे चार्धावशेषितं ॥१४.६०
कौपं प्रास्रवणं वापि शिशिरर्तुवसन्तयोः ।
ग्रीष्मे चौडं तु सेवेत दोषदं स्यादतोऽन्यथा ॥१४.६१
तप्तं दिवा जाड्यं उपैति नक्तं नक्तं च तप्तं तु दिवा गुरु स्यात् ।
दिवा च नक्तं च नृभिस्तदात्वतप्तं जलं युक्तमतो ग्रहीतुं ॥१४.६२
उष्णं क्वापि क्वापि शीतं कवोष्णं क्वापि क्वापि क्वाथशीतं च पाथः ।
इत्थं नॄणां पथ्यमेतत्प्रयुक्तं कालावस्थादेहसंस्थानुरोधात् ॥१४.६३
अपनयति पवनदोषं दलयति कफमाशु नाशयत्यरुचिं ।
पाचयति चान्नमनलं पुष्णाति निशीथपीतं उष्णाम्भः ॥१४.६४
रात्रौ पीतमजीर्णदोषशमनं शंसन्ति सामान्यतः पीतं वारि निशावसानसमये सर्वामयध्वंसनं ।
भुक्त्वा तूर्ध्वमिदं च पुष्टिजननं प्राक्चेदपुष्टिप्रदं रुच्यं जाठरवह्निपाटवकरं पथ्यं च भुक्त्यन्तरे ॥१४.६५
अत्यम्बुपानान्न विपच्यतेऽन्नं अनम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्धनार्थं मुहुर्मुहुर्वारि पिबेदभूरि ॥१४.६६
जलं चतुर्विधं प्राहुरन्तरिक्षोद्भवं बुधाः ।
धारं च कारकं चैव तौषारं हैममित्यपि ॥१४.६७
अम्बु वर्षोद्भवं धारं कारं वर्षोपलोद्भवं ।
नीहारतोयं तौषारं हैमं प्रातर्हिमोद्भवं ॥१४.६८
धारं च द्विविधं प्रोक्तं गाङ्गसामुद्रभेदतः ।
तत्र गाङ्गं गुणाढ्यं स्यातदोषं पाचनं परं ॥१४.६९
यदा स्यादाश्विने मासि सूर्यः स्वातिविशाखयोः ।
तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥१४.७०
अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः ।
अभिवृष्टमिदं तोयं सामुद्रमिति शब्दितं ॥१४.७१
धाराधरे वर्षति रौप्यपात्रे विन्यस्य शाल्योदनसिद्धपिण्डे ।
दध्नोपदिग्धे निहितं मुहूर्तादविक्रियं गाङ्गं अथान्यथा स्यात् ॥१४.७२
गाङ्गं जलं स्वादु सुशीतलं च रुचिप्रदं पित्तकफापहं च ।
निर्दोषं अच्छं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतं आहुः ॥१४.७३
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु ।
मूर्छापित्तास्रदाहेषु हितं कासमदात्यये ॥१४.७४
सामुद्रसलिलं शीतं कफवातप्रदं गुरु ।
चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥१४.७५
पतितं भुवि यत्तोयं गाङ्गं सामुद्रमेव वा ।
स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकं ॥१४.७६
अस्रं च लवणं च स्यात्पतितं पार्थिवस्थले ।
आप्ये तु मधुरं प्रोक्तं कटु तिक्तं च तैजसे ॥१४.७७
कषायं वायवीये स्यादव्यक्तं नाभसे स्मृतं ।
तत्र नाभसमेवोक्तं उत्तमं दोषवर्जितं ॥१४.७८
यत्र चेदाश्विने मासि नैव वर्षति वारिदः ।
गाङ्गतोयविहीने स्युः काले तत्राधिका रुजः ॥१४.७९
क्वचिदुष्णं क्वचिच्छीतं क्वचित्क्वथितशीतलं ।
क्वचिद्भेषजसंयुक्तं न क्वचिद्वारि वार्यते ॥१४.८०
इक्षवः पञ्चधा प्रोक्ता नानावर्णगुणान्विताः ।
सितः पुण्ड्रः करङ्केक्षुः कृष्णो रक्तश्च ते क्रमात् ॥१४.८१
इक्षुः कर्कटको वंशः कान्तारः सुकुमारकः ।
असिपत्त्रो मधुतृणो वृष्यो गुडतृणो नव ॥१४.८२
श्वेतेक्षुस्तु सितेक्षुः स्यात्काष्ठेक्षुर्वंशपत्त्रकः ।
सुवंशः पाण्डुरेक्षुश्च काण्डेक्षुर्धवलेक्षुकः ॥१४.८३
सितेक्षुः कठिनो रुच्यो गुरुश्च कफमूत्रकृत् ।
दीपनः पित्तदाहघ्नो विपाके कोष्णदः स्मृतः ॥१४.८४
पुण्ड्रकस्तु रसालः स्यात्रसेक्षुः सुकुमारकः ।
कर्बुरो मिश्रवर्णश्च नेपालेक्षुश्च सप्तधा ॥१४.८५
पुण्ड्रोऽतिमधुरः शीतः कफकृत्पित्तनाशनः ।
दाहश्रमहरो रुच्यो रसे संतर्पणः परः ॥१४.८६
अन्यः करङ्कशालिः स्यादिक्षुवाटीक्षुवाटिका ।
यावनी चेक्षुयोनिश्च रसाली रसदालिका ॥१४.८७
करङ्कशालिर्मधुरः शीतलो रुचिकृन्मृदुः ।
पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥१४.८८
कृष्णेक्षुरिक्षुरः प्रोक्तः श्यामेक्षुः कोकिलाक्षकः ।
श्यामवंशः श्यामलेक्षुः कोकिलेक्षुश्च कथ्यते ॥१४.८९
कृष्णेक्षुरुक्तो मधुरश्च पाके स्वादुः सुहृद्यः कटुको रसाढ्यः ।
त्रिदोषहारी शमवीर्यदश्च सुबल्यदायी बहुवीर्यदायी ॥१४.९०
रक्तेक्षुः सूक्ष्मपत्त्रश्च शोणो लोहित उत्कटः ।
मधुरो ह्रस्वमूलश्च लोहितेक्षुश्च कीर्तितः ॥१४.९१
लोहितेक्षुश्च मधुरः पाके स्याच्छीतलो मृदुः ।
पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥१४.९२
इक्षुमूलं त्विक्षुनेत्रं तच्च मोरटकं तथा ।
वंशनेत्रं वंशमूलं मोरटं वंशपूरकं ॥१४.९३
मूलादूर्द्ध्वन्तु मधुरा मध्येऽतिमधुरास्तथा ।
इक्षवस्तेऽग्रभागेषु क्रमाल्लवणनीरसाः ॥१४.९४
अभुक्ते पित्तहाश्चैते भुक्ते वातप्रकोपणाः ।
भुक्तमध्ये गुरुतरा इतीक्षूणां गुणास्त्रयः ॥१४.९५
वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेस्मदोऽल्पः स्निग्धो हृद्यश्च रुच्यो रचयति च मुदं सूत्रशुद्धिं विधत्ते ।
कान्तिं देहस्य दत्ते बलमति कुरुते बृंहणं तृप्तिदायी दन्तैर्निष्पीद्य काण्डं मृदुयतिरसितो मोहनश्चेक्षुदण्डः ॥१४.९६
पीयूषोपमितं त्रिदोषशमनं स्याद्दन्तनिष्पीडितं तद्वच्चेद्गृहयन्त्रजं तदपरं श्लेस्मानिलघ्नं कियत् ।
एतद्वातहरं तु वातजननं जाड्यप्रतिश्वायदं प्रोक्तं पर्युषितं कफानिलकरं पानीयं इक्षद्भवं ॥१४.९७
मधुरं लवणक्षारं स्निग्धं सोष्णं रुचिप्रदं ।
वृष्यं वातकफघ्नं च यावनालशरात्रसं ॥१४.९८
पक्वेक्षुरसः स्निग्धः स्यात्कफवातनाशनोऽतिगुरुः ।
अतिपाकेन विदाहं तनुते पित्तास्रदोषशोषांश्च ॥१४.९९
गुडः स्यादिक्षुसारस्तु मधुरो रसपाकजः ।
शिशुप्रियः सितादिः स्यादरुणो रसजः स्मृतः ॥१४.१००
पित्तघ्नः पवनार्तिजिद्रुचिकरो हृद्यस्त्रिदोषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः ।
विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तकः स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥१४.१०१
स्याद्यावनालरसपाकभवो गुडोऽयं क्षारः कटुः सुमधुरः कफवातहारी ।
पित्तप्रदः सततमेष निषेव्यमाणः कण्डूतिकुष्ठजननोऽस्रविदाहहारी ॥१४.१०२
शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा ।
अहिच्छत्रा तु सिकता सिता चैव गुडोद्भवा ॥१४.१०३
शर्करा मधुरा शीता पित्तदाहश्रमापहा ।
रक्तदोषहरा भ्रान्तिक्रिमिकोपप्रणाशिनी ॥१४.१०४
स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्धिनी सुमधुरा रूक्षा च वंशेक्षुजा ।
वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा पित्तजित् ॥१४.१०५
यावनाली हिमोत्पन्ना हिमानी हिमशर्करा ।
क्षुद्रशर्करिका क्षुद्रा गुद्गुडा जालबिन्दुजा ॥१४.१०६
हिमजा शर्करा गौल्या सोष्णा तिक्तातिपिच्छिला ।
वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥१४.१०७
सितजान्या शर्करजा माधवी मधुशर्करा ।
माक्षीकशर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥१४.१०८
सिताखण्डोऽतिमधुरश्चक्षुष्यः छर्दिनाशनः ।
कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥१४.१०९
यवासशर्करा त्वन्या सुधा मोदकमोदकः ।
तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥१४.११०
तवराजोऽतिमधुरः पित्तश्रमतृषापहः ।
वृष्यो विदाहमूर्छार्तिभ्रान्तिशान्तिकरः सरः ॥१४.१११
तवराजोद्भवः खण्डः सुधा मोदकजस्तथा ।
खण्डजो द्रवजः सिद्धमोदकामृतसारजः ॥१४.११२
दाहं निवारयति तापमपाकरोति तृप्तिं नियच्छति निहन्ति च मोहमूर्छां ।
श्वासं निवारयति तर्पयतीन्द्रियाणि शीतः सदा सुमधुरः खलु सिद्धिखण्डः ॥१४.११३
मधु क्षौद्रं च माक्षीकं माक्षिकं कुसुमासवं ।
पुष्पासवं पवित्रं च पित्र्यं पुष्परसाह्वयं ॥१४.११४
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्त्रकं तथा ।
आर्घ्यमौद्दालकं दालं इत्यष्टौ मधुजातयः ॥१४.११५
नानापुष्परसाहाराः कपिला वनमक्षिकाः ।
याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥१४.११६
ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः ।
भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥१४.११७
पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः ।
ताभिरुत्पादितं यत्तु तत्क्षौद्रं मधु कथ्यते ॥१४.११८
अन्नजा मक्षिकाः पिङ्गाः पुत्तिका इति कीर्तिताः ।
तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतं ॥१४.११९
छत्त्राकारं तु पटलं सरघाः पीतपिङ्गलाः ।
यत्कुर्वन्ति तदुत्पन्नं मधु छात्त्रकं ईरितं ॥१४.१२०
मक्षिकास्तीक्ष्णतुण्डा यास्तथा षट्पदसंनिभाः ।
तदुद्भूतं यदर्घार्हं तदार्घ्यं मधु वर्ण्यते ॥१४.१२१
औद्दालाः कपिलाः कीटा भूमेरुद्दलनाः स्मृताः ।
वल्मीकान्तस्तदुत्पन्नमौद्दालकं उदीर्यते ॥१४.१२२
इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः ।
यद्वृक्षकोटरान्तस्थं मधु दालमिदं स्मृतं ॥१४.१२३
इत्येतस्याष्टधा भेदैरुत्पत्तिः कथिता क्रमात् ।
अथ वक्ष्याम्यहं तेषां वर्णवीर्यादिकं क्रमात् ॥१४.१२४
माक्षिकं तैलवर्णं स्यात्श्वेतं भ्रामरमुच्यते ।
क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसंनिभं ॥१४.१२५
आपीतवर्णं छात्त्रं स्यात्पिङ्गं चार्घ्यनामकं ।
औद्दालं स्वर्णसदृशं आपीतं दालमुच्यते ॥१४.१२६
माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् ।
भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥१४.१२७
क्षौद्रं तु शीतं चक्षुष्यं पिच्छिलं पित्तवातहृत् ।
पौत्तिकं मधु रूक्षोष्णं अस्रपित्तादिदाहकृत् ॥१४.१२८
श्वित्रमेहक्रिमिघ्नं च विद्याच्छात्त्रं गुणोत्तरं ।
आर्घ्यमध्वतिचक्षुष्यं कफपित्तादिदोषहृत् ॥१४.१२९
औद्दालकं तु कुष्ठादिदोषघ्नं सर्वसिद्धिदं ।
दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥१४.१३०
नवं मधु भवेत्स्थौल्यं नातिश्लेष्मकरं परं ।
देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनं ॥१४.१३१
पक्वं दोषत्रयघ्नं मधु विविधरुजाजाड्यजिह्वामयादिध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्यवृद्धिं विधत्ते ।
आमं चेदामगुल्मामयपवनरुजापित्तदाहास्रदोषं हन्याद्वातं च शोषं जनयति नियतं ध्वंसयत्यन्तवृद्धिं ॥१४.१३२
व्रणशोधनसंधाने व्रणसंरोपणादिषु ।
साधारण्या मधु हितं तत्तुल्या मधुशर्करा ॥१४.१३३
उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा ।
आमं मधु मनुष्याणां विषवत्तापदायकं ॥१४.१३४
कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः ।
कण्टकोटरगतं च मेचकं तच्च गेहजनितं च दोषकृत् ॥१४.१३५
दण्डैर्निहत्य यदुपात्तमपास्तदंशं तादृग्विधं मधु रसायनयोगयोग्यं ।
हिक्कागुदाङ्कुरविशोफकफव्रणादिदोषापहं भवति दोषदं अन्यथा चेत् ॥१४.१३६
माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा ।
माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥१४.१३७
यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।
विशेषाद्बलवृष्यं च तर्पणं क्षीणदेहिनां ॥१४.१३८
मद्यं सुरा प्रसन्ना स्यान्मदिरा वारुणी वरा ।
मत्ता कादम्बरी शीता चपला कामिनी प्रिया ॥१४.१३९
मदगन्धा च माध्वीकं मधु संधानं आसवः ।
परिसृतामृता वीरा मेधावी मदनी च सा ॥१४.१४०
सुप्रतिभा मनोज्ञा च विपाना मोदिनी तथा ।
हालाहलगुणारिष्टं सरकोऽथ मधूलिका ।
मदोत्कटा महानन्दा द्वात्रिंशदभिधाः क्रमात् ॥१४.१४१
मद्यं सुमधुराम्लं च कफमारुतनाशनं ।
बलदीप्तिकरं हृद्यं सरं एतन्मदावहं ॥१४.१४२
स्याद्धातकीरसगुडादिकृता तु गौडी पुष्पद्रवादिमधुसारमयी तु माध्वी ।
पैष्टी पुनर्विविधधान्यविकारजाता ख्याता मदाधिकतयात्र च पूर्वपूर्वा ॥१४.१४३
तालादिरसनिर्यासैः सैन्धीं हालां सुरां जगुः ।
नानाद्रव्यकदम्बेन मद्यं कादम्बरं स्मृतं ।
सैन्धी कादम्बरी चैव द्विविधं मद्यलक्षणं ॥१४.१४४
गौडी तीक्ष्णोष्णमधुरा वातहृत्पित्तकारिणी ।
बलकृद्दीपनी पथ्या कान्तिकृत्तर्पणी परा ॥१४.१४५
माध्वी तु मधुरा हृद्या नात्युष्णा पित्तवातहृत् ।
पाण्डुकामलगुल्मार्शःप्रमेहशमनी परा ॥१४.१४६
पैष्टी कटूष्णा तीक्ष्णा स्यान्मधुरा दीपनी परा ॥१४.१४७
सैन्धी शीता कषायाम्ला पित्तहृद्वातदा च सा ॥१४.१४८
गौडी तु शिशिरे पेया पैष्टी हेमन्तवर्षयोः ।
शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा ॥१४.१४९
कादम्बरीशर्करजादि मद्यं सुशीतलं वृष्यकरं मदाढ्यं ।
माध्वीसमं स्यात्तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणं च ॥१४.१५०
सर्वेषां तृणवृक्षाणां निर्यासं शीतलं गुरु ।
मोहनं बलकृद्धृद्यं तृष्णासंतापनाशनं ॥१४.१५१
ऐक्षवं तु भवेन्मद्यं शिशिरं च मदोत्कटं ।
यवधान्यकृतं मद्यं गुरु विष्टम्भदायकं ॥१४.१५२
शर्कराधातकीतोये कृतं शीतं मनोहरं ।
शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनं ॥१४.१५३
अन्ये द्वादशधा मद्यभेदानाहुर्मनीषिणः ।
उक्तेष्वन्तर्भवन्तीति नान्यैस्तु पृथगीरिताः ॥१४.१५४
मद्यं नवं सर्वविकारहेतुः सर्वं तु वातादिकदोषदायि ।
जीर्णं तु सर्वं सकलामयघ्नं बलप्रदं वृष्यकरं च दीपनं ॥१४.१५५
मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्तिषु ।
द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतं ॥१४.१५६
इत्थं वार्धिनदीनदह्रदसरःकुल्यादितीरान्तरप्रक्रान्तेक्षुगुडादिमाक्षिकभिदामद्यप्रभेदानपि ।
प्रागस्मात्प्रतिबुध्य नामगुणतो निर्णीतयोगौचिती याथातथ्यवशाद्विनिश्चितमनाः कुर्वीत वैद्यः क्रियां ॥१४.१५७
यै रस्यमाना हि नृणां यथास्वं दोषान्निरस्यन्त्यपि दुर्निरासान् ।
तेषां रसानां वसतिः किलायं वर्गः प्रसिद्धो रसवर्गनाम्ना ॥१४.१५८
निस्यन्दं दुग्धसिन्धावमृतमथ समस्तौषधीनां न दोहं तापाहं नो चिकित्सामभिलषति रसं नापि दोषाकरस्य ।
लब्ध्वा यत्सौहृदय्यं जगति बुधजनस्तेन वर्गः कृतोऽस्मिन्पानीयादिः प्रसिद्धिं व्रजति मनुमितो नामगीर्मौलिरत्ने ॥१४.१५९

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.8270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शल VII.

  • n. एक असुर, जो वृक एवं दुर्वाक्षी क पुत्रों में से एक था [भा. ९.२४.४३] 
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site