TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - ऊलकादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


ऊलकादिवर्ग
मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुरुच्यते ।
वंशो द्विर्वेत्रो माकन्दी हरिद्रा वनजा तथा ॥७.१
शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकं अथापरं ।
रसोनो द्विविधः प्रोक्तः पलाण्डुश्च द्विधा मतः ॥७.२
विंशत्येकोत्तरं मूलं शरणं द्वंद्वं उच्यते ।
आलूकसप्तकं चाथ प्रोक्ताश्चारण्यकन्दकाः ॥७.३
महिषीहस्तिकोलाश्च वाराही विष्णुधारिणी ।
द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥७.४
चण्डालस्तैलकन्दश्च त्रिपर्णी पुष्करस्तथा ।
मुसली द्विविधा चाथ त्रिधा गुच्छास्तथैव च ॥७.५
एषु नागकराह्वा च पत्त्रशाकं अथोच्यते ।
वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकं ॥७.६
पालक्यराजशाकिन्यौ चतुर्धोपोदकी क्रमात् ।
कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली ॥७.७
राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता ।
जीवशाकस्तथा गौरसुवर्णाख्यः पुनर्नवा ॥७.८
वसुकः फञ्जिकादिश्च मिश्रकोऽङ्ककराह्वयः ।
अतः परं च कुष्माण्डी कुम्भतुम्बी त्वलाबुका ॥७.९
भूतुम्बिका कलिङ्गश्च द्विधा कोशातकी तथा ।
पटोली मधुराद्या च मृगाक्षी दधिपुष्पिका ॥७.१०
शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका ।
निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा ।
कर्कटी त्रपुसैर्वारुर्वालुकी चीनकर्कटी ॥७.११
चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः ।
वेदभेदाः क्रमान्मूलकन्दपत्त्रफलात्मकाः ॥७.१२
शाकवर्गेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः ।
एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतं ॥७.१३
मूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकं ।
भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥७.१४
शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकं ।
कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥७.१५
मूलकं तीक्ष्णं उष्णं च कटूष्णं ग्राहि दीपनं ।
दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥७.१६
चाणाख्यमूलकं चान्यच्छालेयं विष्णुगुप्तकं ।
स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवं ।
शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधं ॥७.१७
चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनं ।
कफवातक्रिमीन्गुल्मं नाशयेद्ग्राहकं गुरु ॥७.१८
गृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलं ।
ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकं ॥७.१९
गृञ्जनं कटुकोष्णं च कफवातरुजापहं ।
रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनं ॥७.२०
पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकं ।
पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥७.२१
सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नं ।
कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यातुष्णं जीर्णं च शोषप्रदं उदितं इदं दाहपित्तास्रदायि ॥७.२२
आमं संग्राहि रुच्यं कफपवनहरं पक्वं एतत्कटूष्णं भुक्तेः प्राग्भक्षितं चेत्सपदि वितनुते पित्तदाहास्रकोपं ।
भुक्त्या सार्धं तु जग्धं हितकरबलकृद्वेशवारेण तच्चेत्पक्वं हृद्रोगशूलप्रशमनं उदितं शूलरुग्घारि मूलं ॥७.२३
गर्जरं पिङ्गमूलं च पीतकं च सुमूलकं ।
स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकं ॥७.२४
गर्जरं मधुरं रुच्यं किंचित्कटु कफापहं ।
आध्मानक्रिमिशूलघ्नं दाहपित्ततृषापहं ॥७.२५
शिग्रुर्हरितशाकश्च शाकपत्त्रः सुपत्त्रकः ।
उपदंशः क्षमादंशो ज्ञेयः कोमलपत्त्रकः ।
बहुमूलो दंशमूलस्तीक्ष्णमूलो दशाह्वयः ॥७.२६
शिग्रुश्च कटुतिक्तोष्णस्तीक्ष्णो वातकफापहः ।
मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत् ॥७.२७
शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः ।
मुखामोदः कृष्णशिग्रुश्चक्षुष्यो रुचिरञ्जनः ॥७.२८
शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा ।
जन्तुवातार्तिशूलघ्नश्चक्षुष्यो रोचनः परः ॥७.२९
श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः ।
सुमूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥७.३०
श्वेतशिग्रुः कटुस्तीक्ष्णः शोफानिलनिकृन्तनः ।
अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥७.३१
रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः ।
सुगन्धकेसरः सिंहो मृगारिश्च प्रकीर्तितः ॥७.३२
रक्तशिग्रुर्महावीर्यो मधुरश्च रसायनः ।
शोफाध्मानसमीरार्तिपित्तश्लेष्मापसारकः ॥७.३३
वंशो यवफलो वेणुः कर्मारस्तृणकेतुकः ।
मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ॥७.३४
महाबलो दृढग्रन्थिर्दृढपत्त्रो धनुद्रुमः ।
धनुष्यो दृढकाण्डश्च विज्ञेयो बाणभूमितः ॥७.३५
वंशौ त्वम्लौ कषायौ च किंचित्तिक्तौ च शीतलौ ।
मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥७.३६
अन्यस्तु रन्ध्रवंशः स्यात्त्वक्सारः कीचकाह्वयः ।
मस्करो वादनीयश्च सुषिराख्यः षडाह्वयः ॥७.३७
विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशनः ।
रुचिकृत्पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥७.३८
वंशाग्रं तु करीरो वंशाङ्कुरश्च यवफलाङ्कुरः ।
तस्य ग्रन्थिस्तु परुः पर्व तथा काण्डसन्धिश्च ॥७.३९
करीरं कटुतिक्ताम्लं कषायं लघु शीतलं ।
पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत्पर्व निर्गुणं ॥७.४०
वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः ।
वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥७.४१
माकन्दी बहुमूला च मादनी गन्धमूलिका ।
एका विशदमूली च श्यामला च तथापरा ॥७.४२
माकन्दी कटुका तिक्ता मधुरा दीपनी परा ।
रुच्याल्पवातला पथ्या न वर्षासु हिताधिका ॥७.४३
शोली वनहरिद्रा स्यात्वनारिष्टा च शोलिका ।
शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥७.४४
शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया ।
शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥७.४५
शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् ।
त्रिदोषतापश्रमशोफहारो रुचिप्रदो मेहनदार्ढ्यहेतुः ॥७.४६
भृङ्गाह्वा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका ।
भृङ्गच्छल्ली कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥७.४७
पेऊर्वनार्द्रका प्रोक्ता वनजारण्यजार्द्रका ।
पेऊस्तु कटुकाम्ला च रुचिकृद्बल्यदीपनी ॥७.४८
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधं ।
भूतघ्नश्चोग्रगन्धश्च लशुनः शीतमर्दकः ॥७.४९
रसोनोऽम्लरसोनः स्यात्गुरूष्णः कफवातनुत् ।
अरुचिक्रिमिहृद्रोगशोफघ्नश्च रसायनः ॥७.५०
रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः ।
वृष्यश्च मेधास्वरवर्णचक्षुष्यास्थिसंधर्भानकरः सुतीक्ष्णः ॥७.५१
रसोनोऽन्यो महाकन्दो गृजनो दीर्घपत्त्रकः ।
पृथुपत्त्रः स्थूलकन्दो यवनेष्टो बले हितः ॥७.५२
गृञ्जनस्य मधुरं कटु कन्दं नालं अप्युपदिशन्ति कषायं ।
पत्त्रसंचयं उशन्ति च तिक्तं सूरयो लवणं अस्थि वदन्ति ॥७.५३
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् ।
दुर्नामकुष्ठानिलसादजन्तुकफामयान्हन्ति महारसोनः ॥७.५४
पलाण्डुस्तीक्ष्णकन्दश्च उल्ली च मुखदूषणः ।
शूद्रप्रियः क्रिमिघ्नश्च दीपनो मुखगन्धकः ॥७.५५
बहुपत्त्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः ।
श्वेतकन्दश्च तत्रैको हारिद्रोऽन्य इति द्विधा ॥७.५६
पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः ।
वृष्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥७.५७
अन्यो राजपलाण्डुः स्यात्यवनेष्टो नृपाह्वयः ।
राजप्रियो महाकन्दो दीर्घपत्त्रश्च रोचकः ॥७.५८
नृपेष्टो नृपकन्दश्च महाकन्दो नृपप्रियः ।
रक्तकन्दश्च राजेष्टो नामान्यत्र त्रयोदश ॥७.५९
पलाण्डुर्नृपपूर्वः स्यात्शिशिरः पित्तनाशनः ।
कफहृद्दीपनश्चैव बहुनिद्राकरस्तथा ॥७.६०
वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः ।
कण्ठशोषशमनोऽतिदीपनः श्लेष्मपित्तशमनोऽतिबृंहणः ॥७.६१
कण्डूलः शूरणः कन्दी सुकन्दी स्थूलकन्दकः ।
दुर्नामारिः सुवृत्तश्च वातारिः कन्दशूरणः ॥७.६२
अर्शोघ्नस्तीव्रकन्दश्च कन्दार्हः कन्दवर्धनः ।
बहुकन्दो रुच्यकन्दः शूरकन्दस्तु षोडशः ॥७.६३
शूरणः कटुकरुच्यदीपनः पाचनः क्रिमिकफानिलापहः ।
श्वासकासवमनार्शसां हरः शूलगुल्मशमनोऽस्रदोषकृत् ॥७.६४
सितशूरणस्तु वन्यो वनकन्दोऽरण्यशूरणो वनजः ।
स श्वेतशूरणाख्यो वनकन्दः कण्डूलश्च सप्ताख्यः ॥७.६५
श्वेतशूरणको रुच्यः कटूष्णः क्रिमिनाशनः ।
गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥७.६६
मुखालुर्मण्डपारोहो दीर्घकन्दः सुकन्दकः ।
स्थूलकन्दो महाकन्दः स्वादुकन्दश्च सप्तधा ॥७.६७
मुखालुकः स्यान्मधुरः शिशिरः पित्तनाशनः ।
रुचिकृद्वातकृच्चैव दाहशोषतृषापहः ॥७.६८
पिण्डालुः स्यात्ग्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः ।
रोमाह्वः स्यात्सोऽपि ताम्बूलपत्त्रो लालाकन्दः पिण्डकोऽयं दशाह्वः ॥७.६९
पिण्डालुर्मधुरः शीतो मूत्रकृच्छ्रामयापहः ।
दाहशोषप्रमेहघ्नो वृष्यः संतर्पणो गुरुः ॥७.७०
अन्यस्तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः ।
लोहितो रक्तकन्दश्च लोहितालुः षडाह्वयः ॥७.७१
रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः ।
पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥७.७२
कासालुः कासकन्दश्च कन्दालुश्चालुकश्च सः ।
आलुर्विशालपत्त्रश्च पत्त्रालुश्चेति सप्तधा ॥७.७३
कासालुरुग्रकण्डूतिवातश्लेष्मामयापहः ।
अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥७.७४
फोण्डालुर्लोहितालुश्च रक्तपत्त्रो मृदुच्छदः ।
फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनश्च सः ॥७.७५
पाणियालुर्जलालुः स्यातनुपालुरवालुकः ।
पाणियालुस्त्रिदोषघ्नः संतर्पणकरः परः ॥७.७६
नीलालुरसितालुः स्यात्कृष्णालुः श्यामलालुकः ।
नीलालुर्मधुरः शीतः पित्तदाहश्रमापहः ॥७.७७
शुभ्रालुर्महिषीकन्दो लुलायकन्दश्च शुक्लकन्दश्च ।
सर्पाख्यो वनवासी विषकन्दो नीलकन्दोऽन्यः ॥७.७८
कटूष्णो महिषीकन्दः कफवातामयापहः ।
मुखजाड्यहरो रुच्यो महासिद्धिकरः सितः ॥७.७९
हस्तिकन्दो हस्तिपत्त्रः स्थूलकन्दोऽतिकन्दकः ।
बृहत्पत्त्रोऽतिपत्त्रश्च हस्तिकर्णः सुकर्णकः ॥७.८०
त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः ।
गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥७.८१
हस्तिकन्दः कटूष्णः स्यात्कफवातामयापहः ।
त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥७.८२
कोलकन्दः क्रिमिघ्नश्च पञ्जलो वस्त्रपञ्जलः ।
पुटालुः सुपुटश्चैव पुटकन्दश्च सप्तधा ॥७.८३
कोलकन्दः कटुश्चोष्णः क्रिमिदोषविनाशनः ।
वान्तिविच्छर्दिशमनो विषदोषनिवारणः ॥७.८४
स्याद्वाराही शूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता वराही ।
कौमारी स्याद्ब्रह्मपुत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥७.८५
शूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः ।
अमृतश्च महावीर्यो महौषधिः शबरकन्दश्च ॥७.८६
वराहकन्दो वीरश्च ब्राह्मकन्दः सुकन्दकः ।
वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥७.८७
वाराही तिक्तकटुका विषपित्तकफापहा ।
कुष्ठमेहक्रिमिहरा वृष्या बल्या रसायनी ॥७.८८
विष्णुकन्दो विष्णुगुप्तः सुपुष्टो बहुसम्पुटः ।
जलवासो बृहत्कन्दो दीर्घवृन्तो हरिप्रियः ॥७.८९
विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः ।
दाहशोफहरो रुच्यः संतर्पणकरः परः ॥७.९०
धारिणी धारणीया च वीरपत्त्री सुकन्दकः ।
कन्दालुर्वनकन्दश्च कन्दाद्यो दण्डकन्दकः ॥७.९१
मधुरो धारिणीकन्दः कफपित्तामयापहः ।
वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥७.९२
नाकुली सर्पगन्धा च सुगन्धा रक्तपत्त्रिका ।
ईश्वरी नागगन्धा चाप्यहिभुक्स्वरसा तथा ।
सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया ॥७.९३
अन्या महासुगन्धा च सुवहा गन्धनाकुली ।
सर्पाक्षी फणिहन्त्री च नकुलाढ्याहिभुक्च सा ॥७.९४
विषमर्दनिका चाहिमर्दिनी विषमर्दिनी ।
महाहिगन्धाहिलता ज्ञेया सा द्वादशाह्वया ॥७.९५
नाकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् ।
अनेकविषविध्वंसि किंचिच्छ्रेष्ठं द्वितीयकं ॥७.९६
अथ मालाकन्दः स्यादालिकन्दश्च पङ्क्तिकन्दश्च ।
त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता षोढा ॥७.९७
मालाकन्दः सुतीक्ष्णः स्यात्गण्डमालाविनाशकः ।
दीपनो गुल्महारश्च वातश्लेष्मापकर्षकृत् ॥७.९८
विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका ।
विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥७.९९
भूकुष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा ।
ज्ञेया कन्दफला चेति मनुसंख्याह्वया मता ॥७.१००
विदारी मधुरा शीता गुरुः स्निग्धास्रपित्तजित् ।
ज्ञेया च कफकृत्पुष्टिबल्या वीर्यविवर्धनी ॥७.१०१
अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्लरी ।
इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥७.१०२
क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता ।
पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥७.१०३
ज्ञेया क्षीरविदारी च मधुराम्ला कषायका ।
तिक्ता च पित्तशूलघ्नी मूत्रमेहामयापहा ॥७.१०४
क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः ।
विनालो रोगहर्ता स्याद्वयःस्तम्भी सनालकः ॥७.१०५
शाल्मलीकन्दकश्चाथ विजुलो वनवासकः ।
वनवासी मलघ्नश्च मलहन्ता षडाह्वयः ॥७.१०६
मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् ।
शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥७.१०७
प्रोक्तश्चण्डालकन्दः स्यादेकपत्त्रो द्विपत्त्रकः ।
त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥७.१०८
चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् ।
विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः ॥७.१०९
अथ तैलकन्द उक्तो द्रावककन्दस्तिलाङ्कितदलश्च ।
करवीरकन्दसंज्ञो ज्ञेयस्तिलचित्रपत्त्रको बाणैः ॥७.११०
लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः ।
शोफघ्नः स्याद्बन्धकारी रसस्य द्रागेवासौ देहसिद्धिं विधत्ते ॥७.१११
अश्वारिपत्त्रसंकाशः तिलबिन्दुसमन्वितः ।
संस्निग्धाधस्थभूमिस्थः तिलकन्दोऽतिविस्तृतः ॥७.११२
त्रिपर्णिका बृहत्पत्त्री छिन्नग्रन्थिनिका च सा ।
कन्दालः कन्दबहलाप्यम्लवल्ली विषापहा ॥७.११३
त्रिपर्णी मधुरा शीता श्वासकासविनाशनी ।
पित्तप्रकोपशमनी विषव्रणहरा परा ॥७.११४
मुसली तालमूली च सुवहा तालमूलिका ।
गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥७.११५
मुसली मधुरा शीता वृष्या पुष्टिबलप्रदा ।
पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥७.११६
मुसली स्याद्द्विधा प्रोक्ता श्वेता चापरसंज्ञका ।
श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥७.११७
गुच्छाह्वकन्दस्तवकाह्वकन्दको गुलुच्छकन्दश्च विघण्टिकाभिधः ।
गुलुच्छकन्दो मधुरः सुशीतलो वृष्यप्रदस्तर्पणदाहनाशनः ॥७.११८
लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा ।
नागाह्वा नागपत्त्री च तुलिनी मज्जिका च सा ।
अस्रबिन्दुच्छदा चैव सुकन्दा दशधाह्वया ॥७.११९
लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी ।
रसायनकरी बल्या त्रिदोषशमनी परा ॥७.१२०
हस्तपर्यायपूर्वस्तु जोडिर्वैद्यवरैः स्मृतः ।
करजोडिरिति ख्यातो रसबन्धादिवश्यकृत् ॥७.१२१
वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका ।
शाकराजो राजशाकश्चक्रवर्तिश्च कीर्तितः ॥७.१२२
वास्तुकं तु मधुरं सुशीतलं क्षारं ईषदम्लं त्रिदोषजित् ।
रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥७.१२३
चुक्रं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकं ।
दलाम्लं अम्लशाकाख्यं अम्लादि हिलमोचिका ॥७.१२४
चुक्रं स्यादम्लपत्त्रं तु लघूष्णं वातगुल्मनुत् ।
रुचिकृद्दीपनं पथ्यं ईषत्पित्तकरं परं ॥७.१२५
पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा ।
मृदुपत्त्री क्षारदला क्षारपत्त्री तु वास्तुकी ॥७.१२६
चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् ।
प्रमेहमूत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥७.१२७
श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका ।
सितचिल्ल्युपचिल्ली च ज्वरघ्नी क्षुद्रवास्तुकी ॥७.१२८
श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा ।
त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥७.१२९
अन्या शुनकचिल्ली स्यात्सुचिल्ली श्वानचिल्लिका ।
श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥७.१३०
शिग्रुपत्त्रभवं शाकं रुच्यं वातकफापहं ।
कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परं ॥७.१३१
पालक्यं तु पलक्यायां मधुरा क्षुरपत्त्रिका ।
सुपत्त्रा स्निग्धपत्त्रा च ग्रामीणा ग्राम्यवल्लभा ॥७.१३२
पालक्यं ईषत्कटुकं मधुरं पथ्यशीतलं ।
रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परं ॥७.१३३
राजाभिधानपूर्वा तु नगाह्वा चापरेण वा ।
राजाद्रिः स्याद्राजगिरिर्ज्ञातव्या राजशाकिनी ॥७.१३४
राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा ।
सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥७.१३५
उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ।
मोहिनी मदशाकश्च विशालाद्या ह्युपोदकी ॥७.१३६
उपोदकी कषायोष्णा कटुका मधुरा च सा ।
निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥७.१३७
उपोदक्यपरा क्षुद्रा सूक्ष्मपत्त्रा तु मण्डपी ।
रसवीर्यविपाकेषु सदृशी पूर्वया स्वयं ॥७.१३८
उपोदकी तृतीया च वन्यजा वनजाह्वया ।
वनजोपोदकी तिक्ता कटूष्णा रोचनी च सा ॥७.१३९
मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका ।
क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥७.१४०
मूलपोती त्रिदोषघ्नी वृष्या बल्या लघुश्च सा ।
बलपुष्टिकरी रुच्या जठरानलदीपनी ॥७.१४१
कुणञ्जरस्त्रिदोषघ्नो मधुरो रुच्यदीपकः ।
ईषत्कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥७.१४२
कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहरं मदघ्नं ।
दृष्टिप्रसादं कुरुते विशेषाद्रुचिप्रदं दीप्तिकरं च वह्नेः ॥७.१४३
शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् ।
वातघ्नं दीपनं पथ्यं पित्तहृद्रुचिदायकं ॥७.१४४
तण्डुलीयकदलं हिमं अर्शःपित्तरक्तविषकासविनाशि ।
ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥७.१४५
कटूष्णं राजिकापत्त्रं क्रिमिवातकफापहं ।
कण्ठामयहरं स्वादु वह्निदीपनकारकं ॥७.१४६
सार्षपं पत्त्रं अत्युष्णं रक्तपित्तप्रकोपनुत् ।
विदाहि कटुकं स्वादु शुक्रहृद्रुचिदायकं ॥७.१४७
चाङ्गेरीशाकं अत्युष्णं कटु रोचनपाचनं ।
दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥७.१४८
घोला च घोलिका घोली कलन्दुः कवलालुकं ॥७.१४९
क्षेत्रजं लवणं रुच्यं अम्लं वातकफापहं ॥७.१५०
आरामघोलिका चाम्ला रूक्षा रुच्यानिलापहा ।
पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ॥७.१५१
जीवन्तो रक्तनालश्च ताम्रपत्त्रः सनालकः ।
शाकवीरस्तु मधुरो जीवशाकश्च मेषकः ॥७.१५२
जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः ।
दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥७.१५३
गौरसुवर्णं स्वर्णं सुगन्धिकं भूमिजं च वारिजं च ।
ह्रस्वं च गन्धशाकं कटुशृङ्गाटं च वर्णशाकाङ्कः ॥७.१५४
गौरसुवर्णं शिशिरं कफपित्तज्वरापहं ।
पथ्यं दाहरुचिभ्रान्तिरक्तश्रमहरं परं ॥७.१५५
वर्षाभूवसुकौ श्लेष्मवह्निमान्द्यानिलापहौ ।
पाके रूक्षतरौ गुल्मप्लीहशूलापहारकौ ॥७.१५६
फञ्जिका जीवनी पद्मा तर्कारी चुचुकः पृथक् ।
वातामयहरं ग्राहि दीपनं रुचिदायकं ॥७.१५७
फञ्ज्यादिपञ्चकं भेण्डा कुणञ्जस्त्रिपुटस्तथा ।
इत्यादि वनपत्त्राणां शाकं एकत्र योजितं ॥७.१५८
दीपनं पाचनं रुच्यं बलवर्णविधायकं ।
त्रिदोषशमनं पथ्यं ग्राहि वृष्यं सुखावहं ॥७.१५९
कर्कोटिका च कुष्माण्डी कुम्भाण्डी तु बृहत्फला ।
सुफला स्यात्कुम्भफला नागपुष्पफला मुनिः ॥७.१६०
मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीच्छेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदं ।
वृष्यं स्वादुतरं त्वरोचकहरं बल्यं च पित्तापहं कुष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥७.१६१
गोरक्षतुम्बी गोरक्षी नवालाम्बुर्घटाभिधा ।
कुम्भालाम्बुर्घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥७.१६२
कुम्भतुम्बी सुमधुरा शिशिरा पित्तहारिणी ।
गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥७.१६३
क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा ।
इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥७.१६४
क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी ।
महावल्ली ह्यलाम्बुश्च श्रमघ्नी शरभूमिता ॥७.१६५
तुम्बी सुमधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् ।
वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥७.१६६
भूतुम्बी नागतुम्बी च शक्रचापसमुद्भवा ।
वल्मीकसम्भवा देवी दिव्यतुम्बी षडाह्वया ॥७.१६७
भूतुम्बी कटुकोष्णा च संनिपातापहारिणी ।
दन्तार्गलं दन्तरोधं धनुर्वातादिदोषनुत् ॥७.१६८
मांसलफलः कलिङ्गश्चित्रफलश्चित्रवल्लिकश्चित्रः ।
मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥७.१६९
कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः ।
वृष्यः संतर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥७.१७०
कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्यादपि पीतपुष्पा ।
धाराफला दीर्घफला सुकोशा धामार्गवः स्यान्नवसंज्ञकोऽयं ॥७.१७१
धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् ।
ईषद्वातकरी पथ्या रुचिकृद्बलवीर्यदा ॥७.१७२
हस्तिकोशातकी त्वन्या बृहत्कोशातकी तथा ।
महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥७.१७३
हस्तिकोशातकी स्निग्धा मधुराध्मानवातकृत् ।
वृष्या क्रिमिकरी चैव व्रणसंरोपणी च सा ॥७.१७४
ज्ञेया स्वादुपटोली च पटोली मण्डली च सा ।
पटोली मधुरादिः स्यात्प्रोक्ता दीर्घपटोलिका ।
स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश्च पटोलिका ॥७.१७५
पटोली स्वादुः पित्तघ्नी रुचिकृत्ज्वरनाशनी ।
बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी ॥७.१७६
पटोलपत्त्रं पित्तघ्नं नालं तस्य कफापहं ।
फलं त्रिदोषशमनं मूलं चास्य विरेचनं ॥७.१७७
मृगाक्षी शतपुष्पा च मृगेर्वारुर्मृगादनी ।
चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥७.१७८
चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा ।
मरुजा कुम्भसी देवी कट्फला लघुचिर्भिटा ।
सेन्दिनी च महादेवी बुधैः सा विंशतिर्मताः ॥७.१७९
मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशनी ।
पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ॥७.१८०
दधिपुष्पी खट्वाङ्गी खट्वा पर्यङ्कपादिका कूपा ।
खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥७.१८१
दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी ।
वातामयदोषकरी गुरुस्तथारोचकघ्नी च ॥७.१८२
असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका ।
स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ॥७.१८३
असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् ।
व्रणदोषापहन्त्री च शीतला रुचिदीपनी ॥७.१८४
करका कारवल्ली च चीरिपत्त्रः करिल्लका ।
सूक्ष्मवल्ली कण्टफला पीतपुष्पाम्बुवल्लिका ॥७.१८५
कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् ।
अरोचकहरा चैव रक्तदोषहरी च सा ॥७.१८६
कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी ।
बोधना वन्ध्यकर्कोटी देवी कण्टफलापि च ॥७.१८७
कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी ।
वातघ्नी पित्तहृत्चैव दीपनी रुचिकारिणी ॥७.१८८
अथ भवति मधुरबिम्बी मधुबिम्बी स्वादुतुम्बिका तुण्डी ।
रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥७.१८९
बिम्बी तु मधुरा शीता पित्तश्वासकफापहा ।
असृग्ज्वरहरा रम्या कासजिद्गृहबिम्बिका ॥७.१९०
निष्पावी ग्रामजादिः स्यात्फलीनी नखपूर्विका ।
मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा ।
विशालफलिका चैव निष्पाविश्चिपिटा तथा ॥७.१९१
अन्याङ्गुलीफला चैव नखनिष्पाविका स्मृता ।
वृत्तनिष्पाविका ग्राम्या नखपुच्छफला शराः ॥७.१९२
निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ रसौ ।
कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारकौ ।
संग्राहि समवीर्यं स्यादीषच्छ्रेष्ठं द्वितीयकं ॥७.१९३
वार्त्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्त्रिका ।
निद्रालुर्मांसलफला वृन्ताकी च महोटिका ॥७.१९४
चित्रफला कण्टकिनी महती कट्फला च सा ।
मिश्रवर्णफला नीलफला रक्तफला तथा ।
शाकश्रेष्ठा वृत्तफला नृपप्रियफलस्मृतिः ॥७.१९५
वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी ।
बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥७.१९६
डङ्गरी डाङ्गरी चैव दीर्घेर्वारुश्च डङ्गरिः ।
डङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥७.१९७
डङ्गरी शीतला रुच्या वातपित्तास्रदोषजित् ।
शोषहृत्तर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥७.१९८
बालं डाङ्गरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत्संतर्पणं पुष्टिदं ।
वीर्योन्मेषकरं बलप्रदं इदं भ्रान्तिश्रमध्वंसनं पक्वं चेत्कुरुते तदेव मधुरं तृड्दाहरक्तं गुरु ॥७.१९९
अथ खर्बुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता ।
तिक्तफला मधुपाका वृत्तेर्वारुश्च षण्मुखा नवधा ॥७.२००
तिक्तं बाल्ये तदनु मधुरं किंचिदम्लं च पाके निष्पक्वं चेत्तदमृतसमं तर्पणं पुष्टिदायि ।
वृष्यं दाहश्रमविशमनं मूत्रशुद्धिं विधत्ते पित्तोन्मादापहरकफदं खर्बुजं वीर्यकारि ॥७.२०१
अथ कर्कटी कटुदला छर्द्यायनिका च पीनसा मूत्रफला ।
त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नवाभिधा ॥७.२०२
कर्कटी मधुरा शीता त्वक्तिक्ता कफपित्तजित् ।
रक्तदोषकरा पक्वा मूत्ररोधार्तिनाशनी ॥७.२०३
मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तं ।
वान्तिश्रमघ्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥७.२०४
त्रपुसी पीतपुष्पी कण्टालुस्त्रपुसकर्कटी ।
बहुफला कोशफला सा तुन्दिलफला मुनिः ॥७.२०५
स्यात्त्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु ।
भ्रमपित्तविदाहार्तिवान्तिहृद्बहुमूत्रदं ॥७.२०६
एर्वारुः कर्कटी प्रोक्ता व्यालपत्त्रा च लोमशा ।
स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥७.२०७
एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदं ।
संतापमूर्छापहरं सुतृप्तिदं वातप्रकोपाय घनं तु सेवितं ॥७.२०८
अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा ।
मधुरफला शारदिका क्षुद्रेर्वारुश्च पीतपुष्पिका ॥७.२०९
वालुकी मधुरा शीताध्मानहृच्च श्रमापहा ।
पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥७.२१०
वालुकानि च सर्वाणि दुर्जराणि गुरूणि च ।
मन्दानलं प्रकुर्वन्ति वातरक्तहराणि च ॥७.२११
स्याद्वालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा तु खलु पित्तहरा च रुच्या ।
क्षिप्रं करोति खलु पीनसं अर्धपक्वा पक्वा त्वतीव मधुरा कफकारिणी च ॥७.२१२
चीनकर्कटिका ज्ञेया बीजकर्कटिका तथा ।
सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥७.२१३
चीनकर्कटिका रुच्या शिशिरा पित्तनाशनी ।
मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥७.२१४
स्यात्चिर्भिटा सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला ।
पथ्या च रोचनफला चिर्भिटिका कर्कटिका ग्रहसंख्या ॥७.२१५
बाल्ये तिक्ता चिर्भिटा किंचिदम्ला गौल्योपेता दीपनी सा च पाके ।
शुष्का रूक्षा श्लेष्मवातारुचिघ्नी जाड्यघ्नी सा रोचनी दीपनी च ॥७.२१६
शशाण्डुली बहुफला तण्डुली क्षेत्रसम्भवा ।
क्षुद्राम्ला लोमशफला धूम्रवृत्तफला च सा ॥७.२१७
शशाण्डुली तिक्तकटुश्च कोमला कट्वम्लयुक्ता जरठा कफापहा ।
पाके तु साम्ला मधुरा विदाहकृत्कफश्च शुष्का रुचिकृच्च दीपनी ॥७.२१८
कुडुहुञ्ची श्रीफलिका प्रतिपत्त्रफला च सा ।
शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ॥७.२१९
क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा ।
क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ॥७.२२०
कुडुहुञ्ची कटुरुष्णा तिक्ता रुचिकारिणी च दीपनदा ।
रक्तानिलदोषकरी पथ्यापि च सा फले प्रोक्ता ॥७.२२१
कारलीकन्दं अर्शोघ्नं मलरोधविशोधनं ।
योनिनिर्गतदोषघ्नं गर्भस्रावविषापहं ॥७.२२२
इति मूलकन्दफलपत्त्रसुन्दरक्रमनामतद्गुणनिरूपणोल्वणं ।
अवलोक्य वर्गं इमं आमयोचितां अगदप्रयुक्तिं अवबुध्यतां बुधः ॥७.२२३
मन्दाग्निं अरोचकिनं येऽपि शिलां आशयन्ति निजशक्त्या ।
तेषां शाकानां अयं आश्रयभूः शाकवर्ग इति कथितः ॥७.२२४
लब्धान्योऽन्यसहायवैद्यककुलाच्छङ्काकलङ्कापनुत्दस्रैक्यावतरोऽयं इत्यविरतं सन्तः प्रशंसन्ति यं ।
तस्य श्रीनृहरेः कृताववसितो यो मलकादिर्महान्वर्गोऽसावभिधानकोशपरिषच्चूडामणौ सप्तमः ॥७.२२५

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.4370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

myelogram

  • मेरुरज्जुचित्र 
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site