TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - उवर्णादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


उवर्णादिवर्ग
त्रिस्वर्णरौप्यताम्राणि त्रपु सीसं द्विरीतिका ।
कांस्यायो वर्तकं कान्तं किट्टं मुण्डं च तीक्ष्णकं ॥१३.१
शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा ।
तुवरी हरितालं च गन्धकं च शिलाजतु ॥१३.२
सिक्थकं च द्विकासीसं माक्षिकौ पञ्चधाञ्जनं ।
कम्पिल्लतुत्थरसकं पारदश्चाभ्रकं चतुः ॥१३.३
स्फटी च क्षुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा ।
खटिनी दुग्धपाषाणो मणिश्च कर्पूराद्यकः ॥१३.४
सिकता च द्विकङ्गुष्ठं विमला च द्विधा मता ।
तथाखुप्रस्तरश्चैव शरवेदमिताह्वयाः ।
अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥१३.५
माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्यादथ पुष्परागः ।
वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥१३.६
स्फटिकश्च सूर्यकान्तो वैक्रान्तश्चन्द्रकान्तकः ।
राजावर्तः पेरोजं स्यादुभौ बाणाश्च संख्यया ॥१३.७
स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि ।
गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्माग्निहेमतपनीयकभास्कराणि ॥१३.८
जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि ।
कार्तस्वरापिञ्जरभर्मभूरितेजांसि दीप्तानलपीतकानि ॥१३.९
मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्राजरजाम्बवानि ।
आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितनाम हेम ॥१३.१०
स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यं आयुष्प्रदं ।
प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियं इदं धत्ते नॄणां धारणात् ॥१३.११
दाहे च रक्तं अथ यच्च सितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे ।
स्निग्धं च गौरवं उपैति च यत्तुलायां जात्या तदेव कनकं मृदु रक्तपीतं ॥१३.१२
तच्चैकं रसवेधजं तदपरं जातं स्वयं भूमिजं किंचान्यद्बहुलोहसंकरभवं चेति त्रिधा काञ्चनं ।
तत्राद्यं किल पीतरक्तं अपरं रक्तं ततोऽन्यत्तथा मैरालं तदतिक्रमेण तदिदं स्यात्पूर्वपूर्वोत्तमं ॥१३.१३
रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकं ।
श्वेतकं तु महाशुभ्रं रजतं तप्तरूपकं ॥१३.१४
चन्द्रभूतिः सितं तारं कलधौतेन्दुलोहकं ।
कुप्यं धौतं तथा सौधं चन्द्रहासं मुनीन्दुकं ॥१३.१५
रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरं ।
वातपित्तहरं रुच्यं वलीपलितनाशनं ॥१३.१६
दाहच्छेदनिकाषेषु सितं स्निग्धं च यद्गुरु ।
सुघर्षेऽपि च वर्णाढ्यं उत्तमं तदुदीरितं ॥१३.१७
ताम्रं म्लेच्छमुखं शुल्वं तपनेष्टं उदुम्बरं ।
त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियं ।
रक्तं नेपालकं चैव रक्तधातुः करेन्दुधा ॥१३.१८
ताम्रं सुपक्वं मधुरं कषायं तिक्तं विपाके कटु शीतलं च ।
कफापहं पित्तहरं विबन्धशूलघ्नपाण्डूदरगुल्मनाशि ॥१३.१९
घनघातसहं स्निग्धं रक्तपत्त्रामलं मृदु ।
शुद्धाकरसमुत्पन्नं ताम्रं शुभं असंकरं ॥१३.२०
त्रपु त्रपुसमाण्डूकं वङ्गं च मधुरं हिमं ।
कुरूप्यं पिच्चटं रङ्गं पूतिगन्धं दशाह्वयं ॥१३.२१
त्रपुसं कटुतिक्तहिमं कषायलवणं सरं च मेहघ्नं ।
क्रिमिदाहपाण्डुशमनं कान्तिकरं तद्रसायनं चैव ॥१३.२२
श्वेतं लघु मृदु स्वच्छं स्निग्धं उष्णापहं हिमं ।
सूतपत्त्रकरं कान्तं त्रपु श्रेष्ठं उदाहृतं ॥१३.२३
सीसकं तु जडं सीसं यवनेष्टं भुजंगमं ।
योगीष्टं नागपुरगं कुवङ्गं परिपिष्टकं ॥१३.२४
मृदु कृष्णायसं पद्मं तारशुद्धिकरं स्मृतं ।
सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश ॥१३.२५
सीसं तु वङ्गतुल्यं स्यात्रसवीर्यविपाकतः ।
उष्णं च कफवातघ्नं अर्शोघ्नं गुरु लेखनं ॥१३.२६
स्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरत्वं ।
रौप्यसंशोधनं क्षिप्रं सीसकं च तदुत्तमं ॥१३.२७
रीतिः क्षुद्रसुवर्णं सिंहलकं पिङ्गलं च पित्तलकं ।
लौहितकं आरकुट्टं पिङ्गललोहं च पीतकं नवधा ॥१३.२८
राजरीतिः काकतुण्डी राजपुत्री महेश्वरी ।
ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च ॥१३.२९
रीतिकायुगलं तिक्तं शीतलं लवणं रसे ।
शोधनं पाण्डुवातघ्नं क्रिमिप्लीहार्तिपित्तजित् ॥१३.३०
शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी ।
हेमोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥१३.३१
कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकं ।
दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयं ॥१३.३२
कांस्यं तु तिक्तं उष्णं चक्षुष्यं वातकफविकारघ्नं ।
रूक्षं कषायरुच्यं लघु दीपनपाचनं पथ्यं ॥१३.३३
श्वेतं दीप्तं मृदु ज्योतिः शब्दाढ्यं स्निग्धनिर्मलं ।
घनाग्निसहसूत्राङ्गं कांस्यं उत्तमं ईरितं ॥१३.३४
वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरं ।
नीलिका नीललोहं च लोहजं वट्टलोहकं ॥१३.३५
इदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा ।
कफहृत्पित्तशमनं मधुरं दाहमेहनुत् ॥१३.३६
अयस्कान्तं कान्तलोहं कान्तं स्याल्लोहकान्तिकं ।
कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥१३.३७
स्याद्भ्रामकं तदनु चुम्बकरोमकाख्यं स्याच्छेदकाख्यं इति तच्च चतुर्विधं स्यात् ।
कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्ढ्याङ्गकान्तिकचकार्ष्ण्यविरोगदायि ॥१३.३८
अयस्कान्तविशेषाः स्युर्भ्रामकाश्चुम्बकादयः ।
रसायनकराः सर्वे देहसिद्धिकराः पराः ॥१३.३९
न सूतेन विना कान्तं न कान्तेन विना रसः ।
सूतकान्तसमायोगाद्रसायनं उदीरितं ॥१३.४०
लोहकिट्टं तु किट्टं स्याल्लोहचूर्णं अयोमलं ।
लोहजं कृष्णचूर्णं च कार्ष्ण्यं लोहमलं तथा ॥१३.४१
लोहकिट्टं तु मधुरं कटूष्णं क्रिमिवातनुत् ।
पक्तिशूलं मरुच्छूलं मेहगुल्मार्तिशोफनुत् ॥१३.४२
मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजं ।
अश्मजं कृषिलोहं च आरं कृष्णायसं नव ॥१३.४३
तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठं ।
आयसं निशितं तीव्रं लोहखड्गं च मुण्डजं ।
अयश्चित्रायसं प्रोक्तं चीनजं वेदभूमितं ॥१३.४४
लोहं रूक्षोष्णतिक्तं स्याद्वातपित्तकफापहं ।
प्रमेहपाण्डुरशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतं ॥१३.४५
स्वर्णं सम्यगशोधितं श्रमकरं स्वेदावहं दुःसहं रौप्यं जाठरजाड्यमान्द्यजननं ताम्रं वमिभ्रान्तिदं ।
नागं च त्रपु चाङ्गदोषदं अयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तं उदितं कार्ष्ण्यामयस्फोटदं ॥१३.४६
विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापहौ गौरवगुल्मदायकौ ।
कांस्यायसं क्लेदकतापकारकं रीत्यौ च सम्मोहनशोषदायिके ॥१३.४७
मनःशिला स्यात्कुनटी मनोज्ञा शिला मनोह्वापि च नागजिह्वा ।
नेपालिका स्यान्मनसश्च गुप्ता कल्याणिका रोगशिला दशाह्वा ॥१३.४८
मनःशिला कटुः स्निग्धा लेखनी विषनाशनी ।
भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥१३.४९
सिन्दूरं नागरेणुः स्याद्रक्तं सीमन्तकं तथा ।
नागजं नागगर्भं च शोणं वीररजः स्मृतं ॥१३.५०
गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतं ।
सौभाग्यं अरुणं चैव मङ्गल्यं मनुसंमितं ॥१३.५१
सिन्दूरं कटुकं तिक्तं उष्णं व्रणविरोपणं ।
कुष्ठास्रविषकण्डूतिवीसर्पशमनं परं ॥१३.५२
सुरङ्गोऽग्निसहः सूक्ष्मः स्निग्धः स्वच्छो गुरुर्मृदुः ।
सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः ॥१३.५३
भूनागः क्षितिनागश्च भूजन्तू रक्तजन्तुकः ।
क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥१३.५४
भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः ।
रसस्य जारणे तूक्तं तत्सत्त्वं तु रसायनं ॥१३.५५
हिङ्गुलं बर्बरं रक्तं सुरङ्गं सुगरं स्मृतं ।
रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदं ॥१३.५६
अन्यच्च मारकं चैव मणिरागं रसोद्भवं ।
रञ्जकं रसगर्भं च बाणभूसंख्यसंमितं ॥१३.५७
हिङ्गुलं मधुरं तिक्तं उष्णवातकफापहं ।
त्रिदोषद्वंद्वदोषोत्थं ज्वरं हरति सेवितं ॥१३.५८
गैरिकं रक्तधातुः स्याद्गिरिधातुर्गवेधुकं ।
धातुः सुरङ्गधातुश्च गिरिजं गिरिमृद्भवं ॥१३.५९
सुवर्णगैरिकं चान्यत्स्वर्णधातुः सुरक्तकं ।
संध्याभ्रं बभ्रुधातुश्च शिलाधातुः षडाह्वयं ॥१३.६०
गैरिकं मधुरं शीतं कषायं व्रणरोपणं ।
विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं शुभं ॥१३.६१
तुवरी मृच्च सौराष्ट्री मृत्स्ना सङ्गा सुराष्ट्रजा ।
भूघ्नी मृतालकं कासी मृत्तिका सुरमृत्तिका ।
स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश ॥१३.६२
तुवरी तिक्तकटुका कषायाम्ला च लेखनी ।
चक्षुष्या ग्रहणीछर्दिपित्तसंतापहारिणी ॥१३.६३
हरितालं गोदन्तं पीतं नटमण्डनं च गौरं च ।
चित्राङ्गं पिञ्जरकं भवेदालं तालकं च तालं च ॥१३.६४
कनकरसं काञ्चनकं बिडालकं चैव चित्रगन्धं च ।
पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञं ॥१३.६५
हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनं ।
भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥१३.६६
गन्धको गन्धपाषाणो गन्धाश्मा गन्धमोदनः ।
पूतिगन्धोऽतिगन्धश्च वटः सौगन्धिकस्तथा ॥१३.६७
सुगन्धो दिव्यगन्धश्च गन्धश्च रसगन्धकः ।
कुष्ठारिः क्रूरगन्धश्च कीटघ्नः शरभूमितः ॥१३.६८
गन्धकः कटुरुष्णश्च तीव्रगन्धोऽतिवह्निकृत् ।
विषघ्नः कुष्ठकण्डूतिखर्जूत्वग्दोषनाशनः ॥१३.६९
श्वेतो रक्तश्च पीतश्च नीलश्चेति चतुर्विधः ।
गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः ॥१३.७०
श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् ।
पीतो रसप्रयोगार्हो नीलो वर्णान्तरोचितः ॥१३.७१
शिलाजतु स्यादश्मोत्थं शैलं गिरिजं अश्मजं ।
अश्मलाक्षाश्मजतुकं जत्वश्मकं इति स्मृतं ॥१३.७२
शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनं ।
मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनं ॥१३.७३
सिक्थकं मधुकं सिक्थं मधुजं मधुसम्भवं ।
मदनकं मधूच्छिष्टं मदनं मक्षिकामलं ॥१३.७४
क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा ।
क्षौद्रजं मधुशेषं च द्रावकं मक्षिकाश्रयं ।
मधूषितं च सम्प्रोक्तं मधूत्थं चोनविंशति ॥१३.७५
सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन्मृदु ।
कटु स्निग्धं च लेपेन स्फुटिताङ्गविरोपणं ॥१३.७६
कासीसं धातुकासीसं केसरं हंसलोमशं ।
शोधनं पांशुकासीसं शुभ्रं सप्ताह्वयं मतं ॥१३.७७
कासीसं तु कषायं स्यात्शिशिरं विषकुष्ठजित् ।
खर्जूक्रिमिहरं चैव चक्षुष्यं कान्तिवर्धनं ॥१३.७८
द्वितीयं पुष्पकासीसं वत्सकं च मलीमसं ।
ह्रस्वं नेत्रौषधं योज्यं विशदं नीलमृत्तिका ॥१३.७९
पुष्पकासीसं तिक्तं शीतं नेत्रामयापहं ।
लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनं ॥१३.८०
माक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकं ।
तापीजं ताप्यकं ताप्यमापीतं पीतमाक्षिकं ॥१३.८१
आवर्तं मधुधातुः स्यात्क्षौद्रधातुस्तथापरः ।
प्रोक्तं माक्षिकधातुश्च वेदभूर्हेममाक्षिकं ॥१३.८२
माक्षिकं मधुरं तिक्तमम्लं कटु कफापहं ।
भ्रमहृल्लासमूर्छार्तिश्वासकासविषापहं ॥१३.८३
माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकं ।
भिन्नवर्णविशेषत्वात्रसवीर्यादिकं पृथक् ॥१३.८४
तारवादादिके तारमाक्षिकं च प्रशस्यते ।
देहे हेमादिकं शस्तं रोगहृद्बलपुष्टिदं ॥१३.८५
अञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा ।
स्रोतोजं दृक्प्रदं नीलं सौवीरं च सुवीरजं ॥१३.८६
तथा नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवं ।
कपोतकं च कापोतं सम्प्रोक्तं शरभूमितं ॥१३.८७
शीतं नीलाञ्जनं प्रोक्तं कटु तिक्तं कषायकं ।
चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनं ॥१३.८८
कुलत्था दृक्प्रसादा च चक्षुष्याथ कुलत्थिका ।
कुलाली लोचनहिता कुम्भकारी मलापहा ॥१३.८९
कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा ।
विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥१३.९०
पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनं ।
रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पकं ॥१३.९१
पुष्पाञ्जनं हिमं प्रोक्तं पित्तहिक्काप्रदाहनुत् ।
नाशयेद्विषकासार्तिं सर्वनेत्रामयापहं ॥१३.९२
रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजं ।
कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥१३.९३
रसजातं तार्क्ष्यशैलं ज्ञेयं वर्याञ्जनं तथा ।
रसनाभं चाग्निसारं द्वादशाह्वं च कीर्तितं ॥१३.९४
रीत्यां तु ध्मायमानायां तत्किट्टं तु रसाञ्जनं ।
तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवं ॥१३.९५
स्रोतोञ्जनं वारिभवं तथान्यं स्रोतोद्भवं स्रोतनदीभवं च ।
सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वं ॥१३.९६
स्रोतोञ्जनं शीतकटु कषायं क्रिमिनाशनं ।
रसाञ्जनं रसे योग्यं स्तन्यवृद्धिकरं परं ॥१३.९७
वल्मीकशिखराकारं भिन्ननीलाञ्जनप्रभं ।
घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनं च तत् ॥१३.९८
कम्पिल्लकोऽथ रक्ताङ्गो रेचनो रेचकस्तथा ।
रञ्जको लोहिताङ्गश्च कम्पिल्लो रक्तचूर्णकः ॥१३.९९
कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः ।
कफकासार्तिहारी च जन्तुक्रिमिहरो लघुः ॥१३.१००
तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकं ।
मयूरग्रीवकं चैव ताम्रगर्भामृतोद्भवं ।
मयूरतुत्थं सम्प्रोक्तं शिखिकण्ठं दशाह्वयं ॥१३.१०१
तुत्थं कटु कषायोष्णं श्वित्रनेत्रामयापहं ।
विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकं ॥१३.१०२
द्वितीयं खर्परीतुत्थं खर्परी रसकं तथा ।
चक्षुष्यममृतोत्पन्नं तुत्थखर्परिका तु षट् ॥१३.१०३
खर्परी कटुका तिक्ता चक्षुष्या च रसायनी ।
त्वग्दोषशमनी रुच्या दीप्या पुष्टिविवर्धनी ॥१३.१०४
पारदो रसराजश्च रसनाथो महारसः ।
रसश्चैव महतेजा रसलोहो रसोत्तमः ॥१३.१०५
सूतराट्चपलो जैत्रः शिवबीजं शिवस्तथा ।
अमृतं च रसेन्द्रः स्याल्लोकेशो धूर्तरः प्रभुः ॥१३.१०६
रुद्रजो हरतेजश्च रसधातुरचिन्त्यजः ।
खेचरश्चामरः प्रोक्तो देहदो मृत्युनाशनः ॥१३.१०७
स्कन्दः स्कन्दांशकः सूतो देवो दिव्यरसस्तथा ।
प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः ॥१३.१०८
पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः ।
पञ्चभूतमय एष कीर्तितो देहलोहपरसिद्धिदायकः ॥१३.१०९
मूर्छितो हरते व्याधीन्बद्धः खेचरसिद्धिदः ।
सर्वसिद्धिकरो नीलो निरुद्धो देहसिद्धिदः ॥१३.११०
विविधव्याधिभयोदयमरणजरासंकटेऽपि मर्त्यानां ।
पारं ददाति यस्मात्तस्मादयमेव पारदः कथितः ॥१३.१११
अभ्रकमभ्रं भृङ्गं व्योमाम्बरं अन्तरिक्षमाकाशं ।
बहुपत्त्रं खमनन्तं गौरीजं गौरिजेयमिति रवयः ॥१३.११२
श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियार्हं ।
श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधावग्र्यं अग्र्यं गुणाढ्यं ॥१३.११३
नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि ।
चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात् ॥१३.११४
यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल ।
वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमात्गुल्मी च व्रणवांश्च कुत्सितगदी नीरुक्च संजायते ॥१३.११५
मनोजभावभावितौ यदा शिवौ परस्परं ।
तदा किलाभ्रपारदौ गुहोद्भवौ बभूवतुः ॥१३.११६
स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा ।
रङ्गदृढा दृढरङ्गा रङ्गाङ्गा वसुसंमिता ॥१३.११७
स्फटी च कटुका स्निग्धा कषाया प्रदरापहा ।
मेहकृच्छ्रवमीशोषदोषघ्नी दृढरङ्गदा ॥१३.११८
क्षुल्लकः क्षुद्रशङ्खः स्यात्शम्बूको नखशङ्खकः ।
क्षुल्लकः कटुकस्तिक्तः शूलहारी च दीपनः ॥१३.११९
शङ्खो ह्यर्णोभवः कम्बुर्जलजः पावनध्वनिः ।
कुटिलोऽन्तर्महानादः कम्बूः पूतः सुनादकः ॥१३.१२०
सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः ।
एवं षोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥१३.१२१
शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः ।
गुल्मशूलहरः श्वासनाशनो विषदोषनुत् ॥१३.१२२
क्रिमिशङ्खः क्रिमिजलजः क्रिमिवारिरुहश्च जन्तुकम्बुश्च ।
कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशोऽयं ॥१३.१२३
कपर्दको वराटश्च कपर्दिश्च वराटिका ।
चराचरश्चरो वर्यो बालक्रीडरनकश्च सः ॥१३.१२४
कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः ।
गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ॥१३.१२५
शुक्तिर्मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका ।
मुक्तास्फोटस्तौतिकं तु मौक्तिकप्रसवा च सा ।
ज्ञेया मौक्तिकशुक्तिश्च मुक्तामाताङ्कधा स्मृता ॥१३.१२६
मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।
शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥१३.१२७
जलशुक्तिर्वारिशुक्तिः क्रिमिसूः क्षुद्रशुक्तिका ।
शम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥१३.१२८
जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ।
विषदोषहरा रुच्या पाचनी बलदायिनी ॥१३.१२९
खटिनी खटिका चैव खटी धवलमृत्तिका ।
सितधातुः श्वेतधातुः पाण्डुमृत्पाण्डुमृत्तिका ॥१३.१३०
खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् ।
व्रणदोषकफास्रघ्नी नेत्ररोगनिकृन्तनी ॥१३.१३१
दुग्धाश्मा दुग्धपाषाणः क्षीरी गोमेदसंनिभः ।
वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥१३.१३२
दुग्धपाषाणको रुच्य ईषदुष्णो ज्वरापहः ।
पित्तहृद्रोगशूलघ्नः कासाध्मानविनाशनः ॥१३.१३३
कर्पूरनामभिश्चादावन्ते च मणिवाचकः ।
कर्पूरमणिनामायं युक्त्या वातादिदोषनुत् ॥१३.१३४
सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा ।
प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णका ॥१३.१३५
वालुका मधुरा शीता संतापश्रमनाशिनी ।
सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ॥१३.१३६
कङ्कुष्ठं कालकुष्ठं च विरङ्गं रङ्गदायकं ।
रेचकं पुलकं चैव शोधकं कालपालकं ॥१३.१३७
कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा ।
कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् ॥१३.१३८
विमलं निर्मलं स्वच्छममलं स्वच्छधातुकं ।
बाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतं ॥१३.१३९
विमलं कटुतिक्तोष्णं त्वग्दोषव्रणनाशनं ।
रसवीर्यादिके तुल्यं वेधे स्याद्भिन्नवीर्यकं ॥१३.१४०
मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः ।
आखुपाषाणनामायं लोहसंकरकारकः ॥१३.१४१
धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् ।
ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥१३.१४२
द्रव्यं किंचन लक्ष्मीभोग्यं वसुवस्तुसम्पदो वृद्धिः ।
श्रीर्व्यवहार्यं द्रविणं धनमर्थो राः स्वापतेयं च ॥१३.१४३
रत्नं वसुमणिरुपलो दृषद्द्रविणदीप्तवीर्याणि ।
रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥१३.१४४
माणिक्यं शोणरत्नं च रत्नराड्रविरत्नकं ।
शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥१३.१४५
रागदृक्पद्मरागश्च रत्नं शोणोपलस्तथा ।
सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकं ॥१३.१४६
माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनं ।
रत्नप्रयोगप्रज्ञानां रसायनकरं परं ॥१३.१४७
स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च ।
इति जात्यादिमाणिक्यं कल्याणं धारणात्कुरुते ॥१३.१४८
द्विछायं अभ्रपिहितं कर्कशशर्करिलं भिन्नधूम्रं च ।
रागविकलं विरूपं लघु माणिक्यं न धारयेद्धीमान् ॥१३.१४९
तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकं ।
तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर्माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं जगुः ॥१३.१५०
मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिकं तारका च ।
अम्भःसारं शीतलं नीरजं च नक्षत्रं स्यादिन्द्ररत्नं वलक्षं ॥१३.१५१
मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियं ।
स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितं ॥१३.१५२
मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहं ।
राजयक्ष्ममुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनं ॥१३.१५३
नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।
न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मूल्यं मौक्तिकं सौख्यदायि ॥१३.१५४
यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां चापि धत्ते ।
मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमता दोषदायि ॥१३.१५५
मातंगोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृत्शुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा ।
छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरितरच्छौक्तेयकं तूल्वणं ॥१३.१५६
लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तं ।
मर्दितमपि शालितुषैर्यदविकृतं तत्तु मौक्तिकं जात्यं ॥१३.१५७
प्रवालोऽङ्गारकमणिर्विद्रुमोऽम्भोधिपल्लवः ।
भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरो लतामणिः ॥१३.१५८
प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् ।
वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥१३.१५९
शुद्धं दृढघनं वृतं स्निग्धगात्रं सुरङ्गकं ।
समं गुरु सिराहीनं प्रवालं धारयेत्शुभं ॥१३.१६०
गौररङ्गं जलाक्रान्तं वक्रं सूक्ष्मं सकोटरं ।
रूक्षं कृष्णं लघु श्वेतं प्रवालं अशुभं त्यजेत् ॥१३.१६१
बालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता ।
या न त्यजति निजरुचिं निकषे घृष्टापि सा स्मृता जात्या ॥१३.१६२
गारुत्मतं मरकतं रौहीणेयं हरिन्मणिः ।
सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजं ।
गरलारिर्वायवालं गारुडं रुद्रसंमितं ॥१३.१६३
मरकतं विषघ्नं च शीतलं मधुरं रसे ।
आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनं ॥१३.१६४
स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतं ।
अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं बिभृयात् ॥१३.१६५
शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति कल्माषं ।
त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥१३.१६६
यत्शैवालशिखण्डिशाद्वलहरित्काचैश्च चाषच्छदैः खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च ।
छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥१३.१६७
पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च ।
पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥१३.१६८
पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः ।
आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणां ॥१३.१६९
सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव सुवृत्तशीतं ।
यः पुष्परागं अमलं कलयेदमुष्य पुष्णाति कीर्तिं अतिशौर्यसुखायुरर्थान् ॥१३.१७०
कृष्णबिन्द्वङ्कितं रूक्षं धवलं मलिनं लघु ।
विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकं ॥१३.१७१
घृष्टं निकाषपट्टे यत्पुष्यति रागमधिकमात्मीयं ।
तेन खलु पुष्परागो जात्यतयायं परीक्षकैरुक्तः ॥१३.१७२
वज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः ।
अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतं ।
षट्कोणं बहुधारं च शतकोट्यब्धिभूमितं ॥१३.१७३
वज्रं च षड्रसोपेतं सर्वरोगापहारकं ।
सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनं ॥१३.१७४
भस्माङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलं ।
अधारं मलिनं बिन्दुसंत्रासं स्फुटितं तथा ।
नीलाभं चिपिटं रूक्षं तद्वज्रं दोषदं त्यजेत् ॥१३.१७५
श्वेतालोहितपीतकमेचकतया छायाश्चतस्रः क्रमात्विप्रादित्वं इहास्य यत्सुमनसः शंसन्ति सत्यं ततः ।
स्फीतां कीर्तिं अनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मर्त्यानां अयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥१३.१७६
यत्पाषाणतले निकाषनिकरे नोद्घृष्यते निष्ठुरैर्यच्चोलूखललोहमुद्गरघनैर्लेखां न यात्याहतं ।
यच्चान्यन्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाघ्यं महार्घ्यं च तत् ॥१३.१७७
विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलितजित्मृत्युं जयेदञ्जसा ।
द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्वोऽथ शूद्रो भवेत्सर्वव्याधिहरस्तदेष कथितो वज्रस्य वर्ण्यो गुणः ॥१३.१७८
नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः ।
नीलोपलस्तृणग्राही महानीलः सुनीलकः ।
मसारं इन्द्रनीलं स्याद्गल्लर्कः पद्मरागजः ॥१३.१७९
नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ।
यो दधाति शरीरे स्यात्सौरिर्मङ्गलदो भवेत् ॥१३.१८०
न निम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः ।
तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ॥१३.१८१
मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः ।
रूक्षः स्फुटितगर्तश्च वर्ज्यो नीलः सदोषकः ॥१३.१८२
सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः ।
विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत्फलवत् ॥१३.१८३
आस्त्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितं ।
यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥१३.१८४
गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ।
स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ॥१३.१८५
गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् ।
दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥१३.१८६
गोमूत्राभं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते ।
हेमारक्तं श्रीमतां योग्यमेतत्गोमेदाख्यं रत्नं आख्यान्ति सन्तः ॥१३.१८७
पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलतां ।
घर्षेऽप्यहीनकान्तिं गोमेदं तं बुधा विदुर्जात्यं ॥१३.१८८
अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु ।
विच्छायं शर्करागारं गोमेदं विबुधस्त्यजेत् ॥१३.१८९
वैडूर्यं केतुरत्नं च कैतवं बालवीयजं ।
प्रावृष्यं अभ्रलोहं च खशब्दाङ्कुरकस्तथा ।
वैडूर्यरत्नं सम्प्रोक्तं ज्ञेयं विदूरजं तथा ॥१३.१९०
वैडूर्यं उष्णं अम्लं च कफमारुतनाशनं ।
गुल्मादिदोषशमनं भूषितं च शुभावहं ॥१३.१९१
एकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया ।
यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनं ॥१३.१९२
विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतं ।
सत्रासं परुषं कृष्णं वैडूर्यं दूरतस्त्यजेत् ॥१३.१९३
घृष्टं यदात्मना स्वच्छं स्वछायां निकषाश्मनि ।
स्फुटं प्रदर्शयेदेतद्वैडूर्यं जात्यमुच्यते ॥१३.१९४
माणिक्यं पद्मबन्धोरतिविमलतमं मौक्तिकं शीतभानोर्माहेयस्य प्रवालं मरकतमतुलं कल्पयेदिन्दुसूनोः ।
देवेज्ये पुष्परागं कुलिशमपि कवेर्नीलं अर्कात्मजस्य स्वर्भानोश्चापि गोमेदकं अथ विदुरोद्भावितं किंतु केतोः ॥१३.१९५
इत्थं एतानि रत्नानि तत्तदुद्देशतः क्रमात् ।
यो दद्याद्बिभृयाद्वापि तस्मिन्सानुग्रहा ग्रहाः ॥१३.१९६
संत्यज्य वज्रं एकं सर्वत्रान्यत्र संघाते ।
लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥१३.१९७
लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च ।
वैडूर्यपुष्परागप्रवालगोमेदकादयोऽर्वाञ्चः ॥१३.१९८
गोमेदप्रवालवायव्यं देवेज्यमणीन्द्रतरणिकान्ताद्याः ।
नानावर्णगुणाढ्या विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥१३.१९९
स्फटिकः सितोपलः स्यादमलमणिर्निर्मलोपलः स्वच्छः ।
स्वच्छमणिरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥१३.२००
स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् ।
तस्याक्षमाला जपतां दत्ते कोटिगुणं फलं ॥१३.२०१
यद्गङ्गातोयबिन्दुछविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरं अतिहिमं पित्तदाहास्रहारि ।
पाषाणैर्यन्निघृष्टं स्फुटितं अपि निजां स्वच्छतां नैव जह्यात्तज्जात्यं जात्वलभ्यं शुभं उपचिनुते शैवरत्नं विचित्रं ॥१३.२०२
अथ भवति सूर्यकान्तस्तपनमणिस्तपनश्च रविकान्तः ।
दीप्तोपलोऽग्निगर्भो ज्वलनाश्माऽर्कोपलश्च वसुनामा ॥१३.२०३
सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः ।
वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥१३.२०४
शुद्धः स्निग्धो निर्व्रणो निस्तुषोऽन्तर्यो निर्मृष्टो व्योम्नि नैर्मल्यं एति ।
यः सूर्यांशुस्पर्शनिष्ठ्यूतवह्निर्जात्यः सोऽयं जायते सूर्यकान्तः ॥१३.२०५
वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकं ।
गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥१३.२०६
वज्राभावे च वैक्रान्तं रसवीर्यादिके समं ।
क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनं ॥१३.२०७
वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणां ।
यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितं ॥१३.२०८
इन्द्रकान्तश्चन्द्रकान्तश्चन्द्राश्मा चन्द्रजोपलः ।
शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥१३.२०९
चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् ।
शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥१३.२१०
स्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन्मुनीनां ।
यच्च स्रावं याति चन्द्रांशुसङ्गाज्जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥१३.२११
राजावर्तो नृपावर्तो राजन्यावर्तकस्तथा ।
आवर्तमणिरावर्तः स्यादित्येषः शराह्वयः ॥१३.२१२
राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः ।
सौभाग्यं कुरुते नॄणां भूषणेषु प्रयोजितः ॥१३.२१३
निर्गारं असितमसृणं नीलं गुरु निर्मलं बहुछायं ।
शिखिकण्ठसमं सौम्यं राजावर्तं वदन्ति जात्यमणिं ॥१३.२१४
पेरोजं हरिताश्मं च भस्माङ्गं हरितं द्विधा ।
पेरोजं सुकषायं स्यान्मधुरं दीपनं परं ॥१३.२१५
स्थावरं जङ्गमं चैव संयोगाच्च यथा विषं ।
तत्सर्वं नाशयेत्शीघ्रं शूलं भूतादिदोषजं ॥१३.२१६
सिद्धाः पारदं अभ्रकं च विविधान्धातूंश्च लोहानि च प्राहुः किंच मणीनपीह सकलान्संस्कारतः सिद्धिदान् ।
यत्संस्कारविहीनं एषु हि भवेद्यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन्निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः ॥१३.२१७
यान्संस्कृतान्शुभगुणानथ चान्यथा चेद्दोषांश्च यानपि दिशन्ति रसादयोऽमी ।
याश्चेह सन्ति खलु संस्कृतयस्तदेतन्नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥१३.२१८
इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरं ।
अवधार्य वर्गं इमं आद्यवैद्यकप्रगुणप्रयोगकुशलो भवेद्बुधः ॥१३.२१९
कुर्वन्ति ये निजगुणेन रसाध्वगेन नॄणां जरन्त्यपि वपूंषि पुनर्नवानि ।
तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥१३.२२०
नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूयस्तथा चित्ताकर्षणचञ्चवस्त्रिभुवनं भूम्ना परिकुर्वते ।
तेनात्रैष कृते नृसिंहकृतिना नामादिचूडामणौ संस्थामेति मितस्त्रयोदशतया वर्गः सुवर्णादिकः ॥१३.२२१

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.7630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चकाकणे

  • क्रि. चमकणे , झळकणे , तळपणे , प्रकाशणे , लखलखणे . 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site