TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - आंसादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


आंसादिवर्ग
मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजं ।
पललं जाङ्गलं कीरं आमिषं च तदुच्यते ॥१७.१
सद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस्तु ।
ज्ञेयं सुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमं ॥१७.२
बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु ।
त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥१७.३
सर्वं मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तच्च मांसं ।
देशस्थानाच्चात्मसंस्थं स्वभावैर्भूयो नानारूपतां याति नूनं ॥१७.४
तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखराद्युद्भवं जाङ्गलीयं ।
पुष्टिं दीप्तिं च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं वृष्यं बल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणां ॥१७.५
मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोषापहं ।
पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात्परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशं ॥१७.६
द्रुतो विलम्बितश्चैव प्लवश्चेति गतैस्त्रयः ।
स्थानतोऽपि त्रयस्ते तु बिलस्थलजलाश्रयाः ॥१७.७
पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति ।
स्वभावतस्त्रयः प्रोक्ताः क्रमशो मृगपक्षिणः ॥१७.८
अथैषां क्रमशो लक्ष्मगुणान्वक्ष्यामि वर्गशः ।
एवं नवविधाः प्रोक्तास्त एव मृगपक्षिणः ॥१७.९
अजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते ।
तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥१७.१०
गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते ।
बलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात् ॥१७.११
सारसहंसबलाकाश्चक्रक्रौञ्चादयो जले प्लवनात् ।
प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥१७.१२
अहिनकुलशल्यगोधामूषकमुख्या बिलेशयाः कथिताः ।
श्वासानिलकासहरं तन्मांसं पित्तदाहकरं ॥१७.१३
क्रोडरुरुकुरङ्गाद्या विविधा ये मृगादयः ।
स्थलेशयास्तु ते सर्वे मांसं सर्वगुणावहं ॥१७.१४
झषमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः ।
मांसं तेषां तु सरं वृष्यं गुरु शिशिरबलसमीरकरं ॥१७.१५
शार्दूलसिंहशरभर्क्षतरक्षुमुख्या येऽन्ये प्रसह्य विनिहन्त्यभिवर्तयन्ति ।
ते कीर्तिताः प्रसहनाः पललं तदीयं अर्शःप्रमेहजठरामयजाड्यहारि ॥१७.१६
भोक्ता निष्कृष्यामिषं स प्रतुदः प्रोक्तो गृध्रश्येनकाकादिको यः ।
मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि ॥१७.१७
भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षौणीं विलिख्य नखरैः खलु वर्तयन्ति ।
ते विष्किराः प्रकथिताः पिशितं तदीयं वृष्यं कषायमधुरं शिशिरं च रुच्यं ॥१७.१८
अयमेव गुणो ज्ञेयः पक्षिणां च यथाक्रमं ।
सर्वस्थानविशेषेण संख्या च गतिरुच्यते ॥१७.१९
यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः ।
स्वस्वोचितस्थाननिवर्तनेन मांसेऽपि तेषां गुणपर्ययाः स्युः ॥१७.२०
मांसं खड्गमृगोत्थं तु बलकृद्बृंहणं गुरु ॥१७.२१
गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणं ॥१७.२२
रुरुक्रव्यं गुरु स्निग्धं मन्दवह्निबलप्रदं ॥१७.२३
अपूतं गोभवं क्रव्यं गुरु वातकफप्रदं ॥१७.२४
वनमहिषामिषं स्यादीषल्लघु दीपनं च बलदायि ॥१७.२५
ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरं ॥१७.२६
हस्तिक्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकं ।
बहुपुष्टिप्रदं चैव दुर्जरं मन्दवह्निदं ॥१७.२७
अश्वमांसं भवेदुष्णं वातघ्नं बलदं लघु ।
पित्तदाहप्रदं नृणां तदेतच्चातिसेवनात् ॥१७.२८
उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु ।
बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनं ॥१७.२९
गर्दभप्रभवं मांसं किंचिद्गुरु बलप्रदं ।
रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदं ॥१७.३०
एणस्य मांसं लघुशीतवृष्यं त्रिदोषहृत्षड्रसजं च रुच्यं ॥१७.३१
कुरङ्गमांसं मधुरं च तद्वत्कफापहं मांसदपित्तनाशि ॥१७.३२
सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकं ॥१७.३३
शिखरीसम्भवं मांसं लघु हृद्यं बलप्रदं ॥१७.३४
वराहमांसं गुरु वातहारि वृष्यं बलस्वेदकरं वनोत्थं ॥१७.३५
तस्माद्गुरु ग्रामवराहमांसं तनोति मेदो बलवीर्यवृद्धिं ॥१७.३६
शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफप्रदं ।
बल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परं ॥१७.३७
छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदं ।
निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदं ॥१७.३८
छागपोतभवं मांसं लघु शीतं प्रमेहजित् ।
ईषल्लघु बलं दत्ते तदेव तृणचारिणः ॥१७.३९
औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणं ॥१७.४०
आविकं मधुरं मांसं किंचिद्गुरु बलप्रदं ॥१७.४१
शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ॥१७.४२
पिच्छिलं नाकुलं मांसं वातघ्नं श्लेष्मपित्तकृत् ॥१७.४३
गोधामांसं तु वातघ्नं श्वासकासहरं च तत् ॥१७.४४
शशमांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ॥१७.४५
अन्ये बिलेशया ये स्युः कोकडोन्दुरुकादयः ।
मांसं च गर्हितं तेषां मान्द्यं गौरवदुर्जरं ॥१७.४६
आरण्यकुक्कुटक्रव्यं हृद्यं श्लेष्महरं लघु ॥१७.४७
ग्राम्यकुक्कुटजं स्निग्धं वातहृद्दीपनं गुरु ॥१७.४८
हारीतपललं स्वादु कफपित्तास्रदोषजित् ॥१७.४९
वर्धनं वीर्यबलयोस्तद्वदेव कपोतजं ॥१७.५०
पारावतपलं स्निग्धं मधुरं गुरु शीतलं ।
पित्तास्रदाहनुद्बल्यं तथान्यद्वीर्यवृद्धिदं ॥१७.५१
स्निग्धं तित्तिरिजं मांसं लघु वीर्यबलप्रदं ।
कषायं मधुरं शीतं त्रिदोषशमनं परं ॥१७.५२
तद्वच्च लावकं मांसं पथ्यं ग्राहि लघु स्मृतं ॥१७.५३
तद्वच्च वर्तकमांसं निर्दोषं वीर्यपुष्टिदं ॥१७.५४
चटकायाः पलं शीतं लघु वृष्यं बलप्रदं ॥१७.५५
तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदं ॥१७.५६
चटकाच्छीतलं रुच्यं वृष्यं कापिञ्जलामिषं ॥१७.५७
तद्वच्चकोरजं मांसं वृष्यं च बलपुष्टिदं ॥१७.५८
क्रव्यं तु चक्रवाकस्य लघु स्निग्धं बलप्रदं ।
वह्निकृत्सर्वशूलघ्नं उष्णं वातामयापहं ॥१७.५९
सारसस्य तु मांसं च मधुराम्लकषायकं ।
महातीसारपित्तघ्नं ग्रहण्यर्शोरुजापहं ॥१७.६०
स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरं ॥१७.६१
तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥१७.६२
अन्ये बकबलाकाद्या गुरवो मांसभक्षणात् ।
अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥१७.६३
मत्स्याः स्निग्धोष्णगुरवो वातघ्ना रक्तपित्तदाः ।
तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥१७.६४
रोहितो गर्गरो भीरुर्बालको बर्बरस्तथा ।
छागलो रक्तमत्स्योऽथ महिषश्चाविलस्तथा ॥१७.६५
वातूकोऽलोमशा चापि ज्ञेया कर्णवशादयः ।
लक्ष्यलक्षणवीर्यादीन्कथयामि यथाक्रमं ॥१७.६६
कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः ।
कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमाप्नोति वीर्यं ॥१७.६७
यः पीतवर्णोऽपि च पिच्छिलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः ।
स गर्गरो बर्बरनादरूक्षो जडश्च शीतः कफवातदायी ॥१७.६८
पृष्ठे पक्षौ द्वौ गले पुच्छकं चेत्सर्पाभः स्यात्फूत्कृतो वृत्ततुण्डः ।
ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥१७.६९
नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तान्श्मश्रुलो दीर्घकायः ।
संध्यायां वा रात्रिशेषे च वर्यः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥१७.७०
पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सोऽप्ययं बर्बराख्यः ।
वाताटोपं सोऽपि दत्ते जडश्च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥१७.७१
श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति ।
नले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः ॥१७.७२
यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः ।
शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥१७.७३
यः कृष्णो दीर्घकायः स्यात्स्थूलशल्को बलाधिकः ।
मत्स्यो महिषनामासौ दीपनो बलवीर्यदः ॥१७.७४
शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गश्चाविलाह्वयः ।
सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥१७.७५
यः स्थूलाङ्गो माहिषाकारको यस्तालुस्थाने नीरजाभां दधाति ।
शल्कं स्थूलं यस्य वातूककोऽसौ दत्ते वीर्यं दीपनं वृष्यदायी ॥१७.७६
वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः ।
अलोमशाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥१७.७७
यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः ॥१७.७८
दीपनः पाचनः पथ्यो वृष्योऽसौ बलपुष्टिदः ॥१७.७९
निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः ।
वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ॥१७.८०
ह्रदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः ।
ते तु जडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥१७.८१
क्षाराम्बुमत्स्या गुरवोऽस्रदाहदा विष्टम्भदास्ते लवणार्णवादिजाः ।
तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥१७.८२
शैलाटवीनगरभूजलचारिणो ये ये केऽपि सत्त्वनिवहाः खलु सप्तसंख्याः ।
तन्मांसमत्र न वितथ्यं अथाभ्यधायि ग्रन्थस्य विस्तरभयाच्च नवोपयोगात् ॥१७.८३
पक्वं मांसं हितं सर्वं बलवीर्यविवर्धनं ।
भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ॥१७.८४
पूर्वार्धं पुरुषस्य तद्गुरुतरं पश्चार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः ।
पक्षी चेत्पुरुषो लघुः शृणु शिरःस्कन्धोरुपृष्ठे क्रमात्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥१७.८५
रसरक्तादिधातूनां गुरुः स्यादुत्तरोत्तरं मेढ्रवृक्कयकृन्मांसं वार्षणं चातिमात्रतः ॥१७.८६
इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णयपूर्णं एनं ।
वर्गं विचार्य भिषजा विनियुज्यमानो भुक्त्वाशनं न विकृतिं समुपैति मर्त्यः ॥१७.८७
यस्यासीत्समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिषप्रायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषां ।
तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुर्वर्गः सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥१७.८८

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:31.0000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dune

  • पु. धन्व 
  • वालुकाराशि 
  • वाऱ्याने किंवा मोठ्या लाटांनी किनाऱ्यावर किंवा वाळवंटात जमलेल्या वाळूचे लहान मोठे ढीग (उंचवटे) 
  • न. वाळूचे टेकाड 
More meanings
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.