TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - इंहादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


इंहादिवर्ग
सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः ।
विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ॥१९.१
महाशृङ्गस्तु शरभो मेघस्कन्धो महामनाः ।
अष्टपादो महासिंहो मनस्वी पर्वताश्रयः ॥१९.२
व्याघ्रः पञ्चनखो व्यालः शार्दूलोऽथ गुहाशयः ।
तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर्नखायुधः ॥१९.३
चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः ।
शूरश्च क्षुद्रशार्दूलश्चित्रव्याघ्रश्च स स्मृतः ॥१९.४
ऋक्षो भल्लूकोऽथ भल्लः सशल्यो दुर्घोषः स्यात्भल्लकः पृष्ठदृष्टिः ।
द्राघिष्ठः स्यात्दीर्घकेशश्चिरायुर्ज्ञेयः सोऽयं दुश्चरो दीर्घदर्शी ॥१९.५
मृगादस्तु स विज्ञेयस्तरक्षुर्घोरदर्शनः ॥१९.६
शिवा तु भूरिमायः स्यात्गोमायुर्मृगधूर्तकः ।
शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ ।
शालावृकः शिवालुश्च फेरण्डो व्याघ्रसेवकः ॥१९.७
ईहामृगस्तु कोकः स्याद्वृको वत्सादनोऽविभुक् ।
गोवत्सारिश्छागलारिश्छागलान्तो जलाश्रयः ॥१९.८
कुक्कुरः सारमेयश्च भषकः श्वानकः शुनः ।
भूस्तरो वक्रलाङ्गूलो वृकारी रात्रिजागरः ॥१९.९
कौलेयको ग्राममृगो मृगारिर्मृगदंशकः ।
शूरः शुनिः शयालुश्च भषः शरदिकामुकः ॥१९.१०
बिडालो मूषकारातिः वृषदंशो बिडालकः ।
शालावृकश्च मार्जारो मायावी दीप्तलोचनः ॥१९.११
अन्यो लोमशमार्जारः पूतिको मारजातकः ।
सुगन्धिमूत्रपतनो गन्धमार्जारकश्च सः ॥१९.१२
द्विरदगजमतंगजेभकुम्भिद्विरदनवारणहस्तिपद्मिनागाः ।
करिकरटिविषाणिकुञ्जरास्ते रदनिमदाबलसम्मदद्विपाश्च ॥१९.१३
भद्रः स्तम्बेरमो दन्ती द्रुमारिः षष्टिहायनः ।
मातंगः पुष्करी दन्ताबलश्चानेकपस्त्विभः ॥१९.१४
भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।
वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥१९.१५
स बालः कलभो ज्ञेयो दुर्दान्तो व्याल उच्यते ।
प्रभिन्नो गर्जितो भ्रान्तो मत्तो मदकलश्च सः ॥१९.१६
इभी तु करिणी ज्ञेया हस्तिनी धेनुका वशा ।
करेणुः पद्मिनी चैव मातंगी वासिता च सा ॥१९.१७
खड्गः खड्गमृगः क्रोधी मुखशृङ्गो मुखेबली ।
गण्डको वज्रचर्मा च खड्गी वार्ध्रीणसश्च सः ॥१९.१८
उष्ट्रो दीर्घगतिर्बली च करभो दासेरको धूसरो लम्बोष्ठो लवणः क्रमेलकमहाजङ्घौ च बीजाङ्घ्रिकः ।
दीर्घः शृङ्खलको महानथ महाग्रीवो महाङ्गो महानादः सोऽपि महाध्वगः स च महापृष्ठो बलिष्ठश्च सः ॥१९.१९
महिषः कासरः क्रोधी कलुषश्चापि सैरिभः ।
लुलापमत्तरक्ताक्षा विषाणी कवली बली ॥१९.२०
महिषी मन्दगमना महाक्षीरा पयस्विनी ।
लुलापकान्ता कलुषा तुरंगद्वेषिणी च सा ॥१९.२१
गौस्तु भद्रो बलीवर्दो दम्यो दान्तः स्थिरो बली ।
उक्षानड्वान्ककुद्मान्स्यादृषभो वृषभो वृषः ॥१९.२२
धुर्यो धुरीणो धौरेयः शांकरो हरवाहनः ।
रोहिणीरमणो वोढा गोनाथः सौरभेयकः ॥१९.२३
वृषभस्तु वृषः प्रोक्तो महोक्षः पुंगवो बली ।
गोनाथ उक्षा ऋषभो गोप्रियो गोपतिश्च सः ॥१९.२४
धवलः शबलस्ताम्रश्चित्रश्च धूसरस्तथा ।
इत्यादिवर्णभेदेन ज्ञेया गावोऽत्र भेदिताः ॥१९.२५
विनीतः शिक्षितो दान्तो धुर्यो वोढा च धौरिकः ॥१९.२६
बालो वत्सतरः प्रोक्तो दुर्दान्तो गडिरुच्यते ॥१९.२७
गौर्मातोस्रा शृङ्गिणी सौरभेयी माहेयी स्याद्रोहिणी धेनुरघ्न्या ।
दोग्ध्री भद्रा भूरिमत्यानडुह्यौ कल्याणी स्यात्पावनी चार्जुनी च ॥१९.२८
वनगौर्गवयः प्रोक्तो बलभद्रो महागवः ॥१९.२९
गवयी वनधेनुः स्यात्सैव भिल्लगवी मता ॥१९.३०
चमरो व्यजनो वन्यो धेनुगो बालधिप्रियः ।
तस्य स्त्री चमरी प्रोक्ता दीर्घबाला गिरिप्रिया ॥१९.३१
वराहः स्तब्धरोमा च रोमशः शूकरः किरिः ।
वक्रदंष्ट्रः किटिर्दंष्ट्री क्रोडो दन्तायुधो बली ॥१९.३२
पृथुस्कन्धश्च भूदारः पोत्री घोणान्तभेदनः ।
कोलः पोत्रायुधः शूरो बह्वपत्यो रदायुधः ॥१९.३३
अन्यस्तु विड्वराहः स्याद्ग्रामीणो ग्रामशूकरः ।
ग्राम्यक्रोडो ग्राम्यकोलो विष्ठाशी दारकश्च सः ॥१९.३४
अश्वो घोटस्तुरंगोऽर्वा तुरगश्च तुरंगमः ।
वाहो वाजी मुद्गभोजी वीतिः सप्तिश्च सैन्धवः ॥१९.३५
हरिर्हयश्च धाराटो जवनो जीवनो जवी ।
गन्धर्वो वाहनश्रेष्ठः श्रीभ्रातामृतसोदरः ॥१९.३६
आरट्टसिन्धुजवनायुजपारसीककाम्बोजबाह्लिकमुखा विविधास्तुरङ्गाः ।
साम्राणशेफकमुखा अपि देशतः स्युर्वर्णेन तेऽपि च पुनर्बहुधा भवन्ति ॥१९.३७
श्वेतः कर्कः सोऽथ रक्तस्तु शोणो हैमः कृष्णो नीलवर्णस्तु नीलः ।
शुभ्रैर्नेत्रैर्मल्लिकाक्षो निदिष्टः कृष्णैरुक्तः सोऽयं इन्द्रायुधाख्यः ॥१९.३८
इत्थं नानावर्णभेदेन वाजी ज्ञातव्योऽयं लोकरूढैः सुधीभिः ।
अत्रास्माभिर्न प्रपञ्चः कृतोऽस्मादाजानेयोऽप्यत्र वाजी कुलीनः ॥१९.३९
सुकुलः सुविनीताश्वः किशोरस्तुरगार्भकः ॥१९.४०
वाजिनी वडबा चापि प्रसूरश्वाश्विनी च सा ॥१९.४१
गर्दभः शङ्कुकर्णश्च बालेयो रासभः खरः ।
भारवाहो भूरिगमश्चक्रीवान्धूसराह्वयः ॥१९.४२
वेसरस्त्वश्वखरजः सकृद्गर्भोऽध्वगः क्षमी ।
संतुष्टो मिश्रजः प्रोक्तो मिश्रशब्दोऽतिभारगः ॥१९.४३
अजो बुक्कश्च मेध्यः स्याल्लम्बकर्णः पशुश्च सः ।
छागलो बर्करश्छागस्तुभो बस्तः पयस्वलः ॥१९.४४
अजा पयस्विनी भीरुश्छागी मेध्या गलस्तनी ॥१९.४५
मेषो भेडो हुडो मेण्ढ्रः ऊर्णायुरुरणस्तथा ।
एडकः शृङ्गिणोऽविः स्यादुरभ्रो रोमशो बली ॥१९.४६
नानादेशविशेषेण मेषा नानाविधा अमी ॥१९.४७
मृगः कुरङ्गो वातायुः कृष्णसारः सुलोचनः ।
हरिणोऽजिनयोनिः स्यादेणः पृषत इत्यपि ॥१९.४८
ककुवागथ सारङ्गः शाखिशृङ्गश्च चित्तलः ।
अन्यश्च भारशृङ्गः स्यात्महाशृङ्गो वनप्रियः ॥१९.४९
रुरुस्तु रौहिषो रोही स्यान्न्यङ्कुश्चैव शम्बरः ।
नीलकः पृषतश्चैव रङ्कुः शबलपृष्ठकः ॥१९.५०
शिखर्युपकुरङ्गः स्यात्श्रीकारी च महाजवः ।
जवनी वेगिहरिणी जङ्घालो जाङ्घिकाह्वयः ॥१९.५१
वानरो मर्कटः कीशः कपिः शाखामृगो हरिः ।
प्लवंगमो वनौकाश्च प्लवंगः प्लवगः प्लवः ॥१९.५२
गोलाङ्गूलस्तु गौराख्यः कपिः कृष्णमुखो हि सः ।
मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ॥१९.५३
शल्यकः स्यात्शल्यमृगो वज्रशुक्तिर्बिलेशयः ॥१९.५४
शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः ॥१९.५५
शल्यलोम्नि तु विज्ञेया शलली शललं शलं ॥१९.५६
कोकडो जवनः प्रोक्तः कोकोवाचो बिलेशयः ।
ज्ञेयश्चमरपुच्छश्च लोमशो धूम्रवर्णकः ॥१९.५७
नकुलः सूचिरदनः सर्पारिर्लोहिताननः ॥१९.५८
दर्वीकरो द्विरसनः पातालनिलयो बली ।
नागश्च काद्रवेयश्च वक्रगो दन्दशूककः ॥१९.५९
चक्षुःश्रवा विषधरो गूढाङ्घ्रिः कुण्डली फणी ।
पन्नगो वायुभक्षश्च भोगी स्याज्जिह्मगश्च सः ॥१९.६०
सर्पो दंष्ट्री भुजंगोऽहिर्भुजगश्च सरीसृपः ।
कञ्चुकी दीर्घपुच्छश्च द्विझ्वि उरगश्च सः ॥१९.६१
फणिनो धवलाङ्गा ये ते नागा इति कीर्तिताः ।
अन्ये रक्तादिवर्णाढ्या बोध्याः सर्पादिनामभिः ॥१९.६२
गोनसो मण्डलीत्युक्तश्चित्राङ्गो व्यन्तरो भवेत् ॥१९.६३
कुलिको हरितो ज्ञेयो राजिलं डुण्डुभं विदुः ॥१९.६४
अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः ।
कर्कोटः कुलिकः शङ्ख इत्यमी नागनायकाः ॥१९.६५
तद्बान्धवास्तु कुमुदकम्बलाश्वतरादयः ॥१९.६६
आपहृत्द्विमुखी चैव धामिणीत्यादयः परे ॥१९.६७
मूषिको मूषकः पिङ्गोऽप्याखुरुन्दुरुको नखी ।
खनको बिलकारी च धान्यारिश्च बहुप्रजः ॥१९.६८
अन्यो महामूषकः स्यान्मूषी विघ्नेशवाहनः ।
महाङ्गः सस्यमारी च भूफलो भित्तिपातनः ॥१९.६९
छुछुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका ।
सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूषिका ॥१९.७०
गोधा तु गोधिका ज्ञेया दारुमत्स्याह्वया च सा ।
खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥१९.७१
गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥१९.७२
बर्बरी घोरिका घोरा दीर्घरूपा भयावहा ।
स्थूलचञ्चुर्दीर्घपादा सर्पभक्षी गुणारिका ॥१९.७३
ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका ॥१९.७४
सरटः कृकलासः स्यात्प्रतिसूर्यः शयानकः ।
वृत्तिस्थः कण्टकागारो दुरारोहद्रुमाश्रयः ॥१९.७५
जाहको गात्रसंकोची मण्डली बहुरूपकः ।
कामरूपी विरूपी च बिलवासः प्रकीर्तितः ॥१९.७६
पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका ।
ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥१९.७७
तन्तुवायस्तूर्णनाभो लूता मर्कटकः कृमिः ॥१९.७८
हालाहला त्वञ्जलिका गिरिका बालमूषिका ॥१९.७९
वृश्चिकः शूककीटः स्यादलिद्रोणश्च वृश्चिके ॥१९.८०
अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥१९.८१
पिपीलकः पिपीलश्च स्त्रीसंज्ञा च पिपीलिका ॥१९.८२
उदङ्घा कपिजङ्घिका ज्ञेया तैलपिपीलिका ॥१९.८३
कृष्णान्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥१९.८४
मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥१९.८५
यादस्तु जलजन्तुः स्याज्जलप्राणी जलेशयः ।
तत्रातिक्रूरकर्मा यः स जलव्याल उच्यते ॥१९.८६
मत्स्यो वैसारिणो मीनः पृथुरोमा झषोऽण्डजः ।
विसारः शकुली शल्की पाठीनोऽनिमिषस्तिमिः ॥१९.८७
राजीवः शकुलः शृङ्गी वागुसः शल्यपल्लवौ ।
पाठीनः शकुलश्चैव नद्यावर्तश्च रोहितः ॥१९.८८
मद्गुरस्तिमिरित्याद्या ज्ञेयास्तद्भेदजातयः ।
तद्भेदो मकराख्योऽन्यो मातंगमकरोऽपरः ॥१९.८९
चिलिचिमस्तिमिश्चैव तथान्यश्च तिमिङ्गिलः ।
तिमिङ्गिलगिलश्चेति महामत्स्या अमी मताः ॥१९.९०
शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः ॥१९.९१
भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ॥१९.९२
कच्छपः कमठः कूर्मो गूढाङ्गो धरणीधरः ।
कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥१९.९३
कर्कटः स्यात्कर्कटकः कुलीरश्च कुलीरकः ।
संदंशकः पङ्कवासस्तिर्यग्गामी स चोर्ध्वदृक् ॥१९.९४
मण्डूको दर्दुरो मण्डो हरिर्भेकश्च लूलकः ।
शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा ।
समीडन्यश्च मुण्डी च प्लवंगश्च प्लवंगमः ॥१९.९५
पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि ।
पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः ॥१९.९६
जलूका तु जलौका स्याद्रक्तपा रक्तपायिनी ।
रक्तसंदोहिका तीक्ष्णा चर्मटी जलजीविनी ॥१९.९७
जलकाकस्तु दात्यूहः स च स्यात्कालकण्ठकः ॥१९.९८
जलपारावतः कोपी प्रोक्तो जलकपोतकः ॥१९.९९
स्थले करितुरंगाद्या यावन्तः सन्ति जन्तवः ।
जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥१९.१००
खगविहगविहंगमा विहंगः पिपतिषुपत्त्रिपतत्रिपत्त्रवाहाः ।
शकुनिशकुनविष्किराण्डजा विः पतगपतन्नभसंगमा नगौकाः ॥१९.१०१
वाजी पत्त्ररथः पक्षी द्विजो नीडोद्भवोऽनुगः ।
शकुन्तः पतगः पिच्छन्पतंगो विकिरश्च सः ॥१९.१०२
गृध्रस्तार्क्ष्यो वैनतेयः खगेन्द्रो भुजगान्तकः ।
वक्रतुण्डश्च दाक्षाय्यो गरुत्मान्दूरदर्शनः ॥१९.१०३
श्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः ।
कामान्धस्तीव्रसम्पातस्तरस्वी तार्क्ष्यनायकः ॥१९.१०४
काष्ठकुट्टः काष्ठभङ्गी काष्ठकूटश्च शब्दितः ॥१९.१०५
करको नीलपिच्छः स्यात्लम्बकर्णो रणप्रियः ।
रणपक्षी पिच्छबाणः स्थूलनीलो भयंकरः ॥१९.१०६
कङ्कस्तु लोहपृष्ठः स्यात्संदंशवदनः खरः ।
रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥१९.१०७
काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्प्रजः ।
बलिभुग्बलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥१९.१०८
कौशिकारिश्चिरायुश्च करटो मुखरः खरः ।
आत्मघोषो महालोलश्चिरजीवी चलाचलः ॥१९.१०९
द्रोणस्तु द्रोणकाकः स्यात्काकोलोऽरण्यवायसः ।
वनवासी महाप्राणः क्रूररावी फलप्रियः ॥१९.११०
उलूकस्तामसो घूको दिवान्धः कौशिकः कुविः ।
नक्तंचरो निशाटश्च काकारिः क्रूरघोषकः ॥१९.१११
वल्गुली वक्त्रविष्ठा सा दिवान्धा च निशाचरी ।
स्वैरिणी च दिवास्वापा मांसेष्टा मातृवाहिनी ॥१९.११२
चर्मकी चर्मपक्षी च चर्माङ्गी चर्मगन्धिका ।
कृत्याशूकारिणी चर्मी चर्मपत्त्री च मेलिका ।
दिनान्धा नक्तभोजी च भ्रामणी कर्णिकाह्वया ॥१९.११३
मयूरश्चन्द्रकी बर्ही नीलकण्ठः शिखी ध्वजी ।
मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥१९.११४
बर्हिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः ।
केकी भुजंगभोजी च मेघनादानुलासकः ॥१९.११५
बर्हभारः कलापः स्याद्बर्हनेत्राणि चन्द्रकाः ।
प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥१९.११६
कुररः खरशब्दः क्रुङ्क्रौञ्चः पङ्क्तिचरः खरः ॥१९.११७
नीलक्रौञ्चस्तु नीलाङ्गो दीर्घग्रीवोऽतिजागरः ॥१९.११८
बकः कङ्को बकोटश्च तीर्थसेवी च तापसः ।
मीनघाती मृषाध्यानी निश्चलाङ्घ्रिश्च दाम्भिकः ॥१९.११९
शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी ॥१९.१२०
दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥१९.१२१
बलाका विषकण्ठी स्यात्शुष्काङ्गी दीर्घकंधरा ॥१९.१२२
घर्मान्तकामुकी श्वेता मेघनादा जलाश्रया ॥१९.१२३
चक्रः कोकश्चक्रवाको रथाङ्गो भूरिप्रेमा द्वंद्वचारी सहायः ।
कान्तः कामी रात्रिविश्लेषगामी रामावक्षोजोपमः कामुकश्च ॥१९.१२४
सारसो रसिकः कामी नीलाङ्गो भणितारवः ।
नीलकण्ठो रक्तनेत्रः काकवाक्कामिवल्लभः ॥१९.१२५
टिट्टिभी पीतपादश्च सदालूता नृजागरः ।
निशाचरी चित्रपक्षी जलशायी सुचेतना ॥१९.१२६
जलकुक्कुटकश्चान्यो जलशायी जलस्थितः ॥१९.१२७
ठिकः पाशगडष्ठिक्को जलसार्यतिलाशयः ॥१९.१२८
जलपक्षी महापक्षी जलसाघतिवासकः ॥१९.१२९
जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी ।
सराजी राजिमन्तश्च जलसर्पः स दुन्दुभिः ॥१९.१३०
द्विविगोडो निसश्चैव चित्री शल्पी च गोमुखः ॥१९.१३१
अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः ।
श्वेताश्चित्राश्च धूम्राद्या नानावर्णानुगाह्वयाः ॥१९.१३२
हंसो धवलपक्षी स्यात्चक्राङ्गो मानसालयः ॥१९.१३३
कलहंसस्तु कादम्बः कलनादो मरालकः ॥१९.१३४
एतेषु चञ्चुचरणेष्वरुणेषु राजहंसोऽपि धूसरतरेषु च मल्लिकाक्षः ।
कालेषु तेषु धवलः किल धार्तराष्ट्रः सोऽप्येष धूसरतनुस्तु भवेदभव्यः ॥१९.१३५
हंसी तु वरटा ज्ञेया वरला वारला च सा ।
मराली मञ्जुगमना चक्राङ्गी मृदुगामिनी ॥१९.१३६
कुक्कुटस्ताम्रचूडः स्यात्कालज्ञश्चरणायुधः ।
नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥१९.१३७
स्यात्कपोतः कोकदेवो धूसरो धूम्रलोचनः ।
दहनोऽग्निसहायश्च भीषणो गृहनाशनः ॥१९.१३८
पारावतः कलरवोऽरुणलोचनश्च पारापतो मदनकाकुरवश्च कामी ।
रक्तेक्षणो मदनमोहनवाग्विलासी कण्ठीरवो गृहकपोतक एष उक्तः ॥१९.१३९
पारावतोऽन्यदेशीयः कामुको घुल्लुसारवः ॥१९.१४०
जलपारावतः कामी ज्ञेयो गलरवश्च सः ॥१९.१४१
कोकिलः परपुष्टः स्यात्कालः परभृतः पिकः ।
वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायनः ॥१९.१४२
वासन्तः कलकण्ठश्च कामान्धः काकलीरवः ।
कुहूरवोऽन्यपुष्टश्च मत्तो मदनपाठकः ॥१९.१४३
कोकिला त्वन्यपुष्टा स्यान्मत्ता परभृता च सा ।
सुकण्ठी मधुरालापा कलकण्ठी मधूदया ॥१९.१४४
वसन्तदूती ताम्राक्षी पिकी सा च कुहूरवा ।
वासन्ती कामगा चैव गन्धर्वा वनभूषणी ॥१९.१४५
शुकः कीरो रक्ततुण्डो मेधावी मञ्जुपाठकः ॥१९.१४६
अन्यो राजशुकः प्राज्ञः शतपत्त्रो नृपप्रियः ॥१९.१४७
सारिका मधुरालापा दूती मेधाविनी च सा ।
कवरी कुत्सिताङ्गी च कष्कलाङ्गी च शारिका ॥१९.१४८
पीतपादा ह्युज्ज्वलाक्षी रक्तचञ्चुश्च सारिका ।
पठन्ती पाठवार्ता च बुद्धिमती भूसारिका ॥१९.१४९
गोराण्टिका गोकिराटी गोरिका कलहप्रिया ॥१९.१५०
चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः ।
चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः ॥१९.१५१
हारीतकस्तु हारीतस्तेजलश्च कपिञ्जलः ॥१९.१५२
धूसरी पिङ्गला सूची भैरवी योगिनी जया ।
कुमारी सुविचित्रा च माता कोटरवासिनी ॥१९.१५३
तैलपा तु परोष्णी स्याज्जतुकाजिनपत्त्रिका ॥१९.१५४
भृङ्गः कुलिङ्गो धूम्याटो दार्वाघातः शतच्छदः ॥१९.१५५
व्याघ्राटः स्याद्भरद्वाजः खञ्जनः खञ्जरीटकः ।
समन्तभद्रः कृष्णस्तु स्वल्पकृष्णः सुभद्रकः ॥१९.१५६
द्वीपवासी मुनिश्चैव चातुर्मास्यविदर्शनः ।
चाषः किकीदिविः प्रोक्तो नीलाङ्गः पुण्यदर्शनः ॥१९.१५७
वर्तको वर्तिको वर्तिर्गाञ्जिकायश्च कथ्यते ॥१९.१५८
कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥१९.१५९
चटका कलविङ्की स्यात्चाटकैरस्तु तत्सुतः ॥१९.१६०
धूसरोऽरण्यचटकः कुजो भूमिशयश्च सः ।
भारीटः श्यामचटकः शैशिरः कणभक्षकः ॥१९.१६१
धूसरोऽन्योऽतिसूक्ष्मः स्यात्चटको धान्यभक्षकः ।
गृहकृत्यक्षमो भीरुः कृषिद्विष्टः कणप्रियः ॥१९.१६२
लावा तु लावकः प्रोक्तो लावः स च लवः स्मृतः ॥१९.१६३
तित्तिरिस्तित्तिरश्चैव तैत्तिरो याजुषो गिरिः ॥१९.१६४
कृष्णोऽन्यस्तित्तिरिः शूरः सुभूतिः परिपालकः ॥१९.१६५
गोत्रद्वेषी भूरिपक्षः शतायुः सिद्धिकारकः ।
क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुण्डुलश्च सः ।
वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥१९.१६६
श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटका च कृष्णा ।
स्यात्पोतकी पाण्डविका च वामा सा कालिका स्यात्सितबिम्बिनी च ॥१९.१६७
प्रभाकीटस्तु खद्योतः खज्योतिरुपसूर्यकः ॥१९.१६८
तैलिनी तैलकीटः स्यात्षड्बिम्बा दद्रुनाशिनी ॥१९.१६९
शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपकौ ॥१९.१७०
भ्रमरः षट्पदो भृङ्गः कलालापः शिलीमुखः ।
पुष्पंधयो द्विरेफोऽलिर्मधुकृन्मधुपो द्विभः ॥१९.१७१
भसरश्चञ्चरीकोऽलिः झङ्कारी मधुलोलुपः ।
इन्दीन्दिरश्च मधुलिट्मत्तो घुमुघुमारवः ॥१९.१७२
वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥१९.१७३
गन्धोली वरटा क्षुद्रा क्रूरा स्यात्क्षुद्रवर्वणा ।
रंरिकश्छत्रकारी च तीक्ष्णदंष्ट्रो महाविषः ।
पीतवर्णो दीर्घपादो मत्सर्यः क्रूरदंष्ट्रकः ॥१९.१७४
दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका ॥१९.१७५
मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥१९.१७६
मशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका ।
रात्रिजागरदो धूम्रो नीलाभ्रस्त्वन्यजातयः ॥१९.१७७
अष्टाङ्घ्रिरष्टपादश्च गृहवासी च कृष्णकः ॥१९.१७८
कालिकः कोकिलः प्रोक्तः कालुञ्चः कृष्णदंष्ट्रकः ।
कसारिका दीर्घमूर्छा गृहवासा बिलाशयी ॥१९.१७९
यूका तु केशकीटः स्यात्स्वेदजः षट्पदः स्मृतः ॥१९.१८०
पक्ष्मजा पक्ष्मयूका स्यात्सूक्ष्मा षट्चरणापि सा ॥१९.१८१
श्वेतयूकाङ्गवस्त्रोत्था लिक्षा यूकाङ्गवस्त्रके ॥१९.१८२
कथितेष्वेषु यो जीवः क्षोदीयान्वृश्चिकादिकः ।
तत्र तत्र बुधैर्ज्ञेयः स सर्वः कीटसंज्ञकः ॥१९.१८३
कीटिका चटिका प्रोक्ता वज्रदंष्ट्रा बहुप्रजा ।
कृशाङ्गी तामसी शूरा कीरिभारा महाबला ॥१९.१८४
मङ्कोरो मङ्कटः कृष्णस्तीक्ष्णदंष्ट्रो विशालुकः ।
षट्पादकस्तु मात्सर्यो माकोटस्तूर्ध्वगुह्यकः ॥१९.१८५
षड्बिन्दुर्बिन्दुकीटस्तु दीर्घकीटस्तु पादतः ॥१९.१८६
प्रसहनविलम्बितद्रुतशयप्रतुदाश्च विष्किरः ।
कीटा इति कथिताः नवधात्र तिर्यञ्चः ॥१९.१८७
इत्थं नानातिर्यगाख्याप्रपञ्चव्याख्यापूर्णं वर्गमेनं विदित्वा ।
बुद्ध्या सम्यक्चाभिसंधाय धीमान्वैद्यः कुर्यान्मांसवर्गप्रयोगं ॥१९.१८८
येनेभास्यपिता मृगाङ्कमुकुटः शार्दूलचर्माम्बरः सर्पालंकरणः सुपुङ्गवगतिः पञ्चाननोऽभ्यर्च्यते ।
तस्य श्रीनृहरीशितुः खलु कृतावेकोनविंशोऽभिधाचूडापीठमणावगादवसितिं सिंहादिवर्गो महान् ॥१९.१८९

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:31.1070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

CATURAŚVA(चतुरश्व)

RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site