TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - अत्त्वादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


अत्त्वादिवर्ग
सत्त्वं रजस्तमश्चेति पुंसां उक्तास्त्रयो गुणाः ।
तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥२१.१
सत्त्वं श्लेष्मा रजः पित्तं तमश्चापि समीरणः ।
द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥२१.२
सत्त्वं मनोविकाशः स्यात्सत्त्वायत्ता तथा स्थितिः ॥२१.३
रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥२१.४
तमस्तिमिरं आन्ध्यं च चित्तोन्मादश्च मूढता ।
हृदयावरणं ध्वान्तमन्धकारो विमोहनं ॥२१.५
वातो गन्धवहो वायुः पवमानो महाबलः ।
स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥२१.६
श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः ।
समीरणो जगत्प्राणः समीरश्च सदागतिः ॥२१.७
जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः ।
प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥२१.८
अन्येऽपि वायवो देहे नाडीचक्रप्रवाहकाः ।
मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥२१.९
सत्त्वादिगुणसंभिन्नदोषत्रयवशात्मना ।
आभ्यन्तरं च बाह्यं च स्वरूपं संनिरुच्यते ॥२१.१०
सत्त्वाढ्यः शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सोऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः ।
दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर्घनाम्बुतुहिनस्वप्नेक्षणः श्लेष्मलः ॥२१.११
राजसो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशोऽप्यकालपलिती क्रोधप्रपञ्चान्वितः ।
द्राघीयान्महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वप्नी च पित्तात्मकः ॥२१.१२
निद्रालुर्बहुभाषकः सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठोऽलसः ।
कार्येष्वत्यभिमानवानसमये दाता यथेच्छं कृशः स्वप्ने व्योमगतिः सितेतरतनुर्वातूलकस्तामसः ॥२१.१३
सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा ।
मिश्रप्रकृतिकः सोऽयं विज्ञातव्यो मनीषिभिः ॥२१.१४
सत्त्वादिरजसा मिश्रे श्रेष्ठं सत्त्वादितामसे ।
मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणं ॥२१.१५
सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिं ।
आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततं उपाधत्ते प्रमीलां तमः ॥२१.१६
वातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस्तोदकारी ।
माधुर्यान्ने सोऽभ्रकालेऽपराह्णे प्रत्यूषेऽन्ने याति जीर्णे च कोपं ॥२१.१७
पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तीक्ष्णं इदं मधौ बहु ।
वर्षान्तकाले भृशं अर्धरात्रे मध्यंदिनेऽन्नस्य जरे च कुप्यति ॥२१.१८
श्लेष्मा गुरुः श्लक्ष्णमृदुः स्थिरस्तथा स्निग्धः पटुः शीतजडश्च गौल्यवान् ।
शीते वसन्ते च भृशं निशामुखे पूर्वेऽह्नि भुक्तोपरि च प्रकुप्यति ॥२१.१९
दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः ।
तानतः सम्प्रवक्ष्यामि संक्षेपार्थं समञ्जसं ॥२१.२०
एकैकवृद्धौ स्युर्भेदास्त्रयो ये वृद्धिदास्त्रयः ।
तत्राप्येकतरा ह्यर्थे षडेवं द्वादशैव ते ॥२१.२१
वृद्धान्योन्यव्यत्ययाभ्यां षट्त्रिवृद्ध्या तु सप्तमः ।
वृद्धोऽन्योन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥२१.२२
तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः ।
एवं क्षयेऽपि तावन्तस्ततः पञ्चाशदीरिताः ॥२१.२३
वृद्धोऽन्योन्यः समोऽन्यश्च क्षीणस्त्विति पुनश्च षट् ।
द्विवृद्ध्यैकक्षयादुक्तव्यत्ययाच्च पुनश्च षट् ॥२१.२४
एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः ।
त्रिषष्टिस्त्वन्तिमो भेदस्त्रयाणां प्रकृतौ स्थितिः ॥२१.२५
एवं दोषत्रयस्यैतान्भेदान्विज्ञाय तत्त्वतः ।
ततो भिषक्प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥२१.२६
कालस्तु वेला समयोऽप्यनेहा दिष्टश्चलश्चावसरोऽस्थिरश्च ।
सोऽप्येष भूतः किल वर्तमानस्तथा भविष्यन्निति च त्रिधोक्तः ॥२१.२७
भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतं ।
वर्तमाने भवच्चाद्यतनं स्यादधुनातनं ॥२१.२८
अनागतं भविष्ये स्यात्श्वस्तनं च प्रगेतनं ।
वर्त्स्यद्वर्तिष्यमाणं च स्यादागामि च भावि च ॥२१.२९
साधारणं तु सामान्यं तत्सर्वत्रानुवर्तते ।
विशेषणं विशेषश्च सकृत्स्थाने च वर्तते ।
तुर्यं पादं चतुर्थांशं ईषत्किंचित्तथोच्यते ॥२१.३०
भूषापीयुषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोन्मीलनमौलिं ।
मेरुश्रीकैलासक्रीडासङ्घाटीशोभनाम्भःश्लाघाजङ्घालश्रीगौरीगूढाङ्गं वन्दे शम्भुं ॥२१.३१
शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात्क्षणस्तानि तैस्तु ।
षड्भिर्नाडी प्रहर इति ताः सप्त सार्धास्तथाहोरात्रो ज्ञेयः सुमतिभिरसावष्टभिस्तैः प्रदिष्टः ॥२१.३२
पक्षः स्यात्पञ्चदशभिरहोरात्रैरुभाविमौ ।
मासो द्वादशभिर्मासैः संवत्सर उदाहृतः ॥२१.३३
द्विशश्चैत्रादिभिर्मासैर्विज्ञेया ऋतवश्च षट् ॥२१.३४
त्रिभिस्त्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥२१.३५
पलं विघटिका प्रोक्ता नाडी तास्तु त्रिविंशतिः ।
नाडी तु घटिका प्रोक्ता तद्द्वयं च मुहूर्तकं ॥२१.३६
यामः प्रहर इत्युक्तो दिनभागो दिनांशकः ॥२१.३७
अहोरात्रदिवारात्राहर्दिवाहर्निशानि च ॥२१.३८
घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा ॥२१.३९
प्राह्णापराह्णमध्याह्नसायाह्नाः स्युस्तदंशकाः ॥२१.४०
प्रातर्दिनादिः प्रत्यूषो निशान्तः प्रत्युषोऽप्युषः ।
व्युष्टं चाहर्मुखं कल्यं प्रगे प्राह्णं प्रभातकं ॥२१.४१
आतपस्तु दिनज्योतिः सूर्यालोको दिनप्रभा ।
रविप्रकाशः प्रद्योतस्तमोरिस्तपनद्युतिः ॥२१.४२
रोचिर्दीप्तिर्द्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा ।
विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥२१.४३
सायंसंध्या दिनान्तश्च निशादिर्दिवसात्ययः ।
सायं पितृप्रसूश्चाथ प्रदोषः स्यान्निशामुखं ॥२१.४४
छाया विभानुगा श्यामा तेजोभीरुरनातपः ।
अभीतिरातपाभावो भावालीना च सा स्मृता ॥२१.४५
शर्वरी क्षणदा रात्रिर्निशा श्यामा तमस्विनी ।
तमी त्रियामा शयनी क्षपा यामवती तमा ॥२१.४६
नक्तं निशीथिनी दोषा ताराभूषा विभावरी ।
ज्योतिष्मती तारकिणी काली सापि कलापिनी ॥२१.४७
सा ज्यौत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोऽन्विता ॥२१.४८
अर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥२१.४९
ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा ।
चन्द्रातपश्चन्द्रकान्ता शीतामृततरङ्गिणी ॥२१.५०
कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा ।
श्रीर्लक्ष्मीर्दक्प्रियाभिख्या भानं भातिरुमा रमा ॥२१.५१
तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः ।
अन्धकारश्च भूछायं तच्चान्धतमसं घनं ॥२१.५२
आतपः कटुको रूक्षश्छाया मधुरशीतला ।
त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥२१.५३
पक्षादिः प्रथमाद्या च पक्षतिः प्रतिपच्च सा ॥२१.५४
पक्षान्तोऽर्केन्दुविश्लेषः पर्व पञ्चदशी तथा ।
द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः ॥२१.५५
प्रतिपदमारभ्यैताः क्रमात्द्वितीयादिकाश्च पञ्चदश ।
पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ॥२१.५६
सितस्त्वापूर्यमाणः स्यात्शुक्लश्च विशदः शुदि ॥२१.५७
असितो मलिनः कृष्णो बहुलो वदि च स्मृतः ॥२१.५८
दिवसैर्यत्र तत्रापि वसुसागरसम्मितैः ।
भिषक्क्रियोपयोगाय मण्डलं भिषजां मतं ॥२१.५९
पूर्णिमा पौर्णमासी च ज्यौत्स्नी चेन्दुमती सिता ।
सा पूर्वानुमतिर्ज्ञेया राका स्यादुत्तरा च सा ॥२१.६०
दर्शस्तु स्यादमावास्यामावस्यार्केन्दुसंगमः ।
सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता ॥२१.६१
मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥२१.६२
द्विपक्षस्तु भवेन्मासश्चैत्राद्या द्वादशाश्च ते ॥२१.६३
चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः ॥२१.६४
वैशाखो माधवो राधो ज्यैष्ठः शुक्रस्तपस्तथा ॥२१.६५
आषाढः शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि ॥२१.६६
भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥२१.६७
इषस्त्वाश्वयुजश्च स्यादाश्विनः शारदश्च सः ॥२१.६८
कार्त्तिको बाहुलोऽपि स्यादूर्जः कार्त्तिकिकश्च सः ॥२१.६९
मार्गः सहा मार्गशीर्ष आग्रहायणिकोऽपि सः ॥२१.७०
पौषस्तु पौषिकस्तैषः सहस्यो हैमनोऽपि च ॥२१.७१
माघस्तपाः तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥२१.७२
चैत्रादिमासौ द्वौ द्वौ स्युर्नाम्ना षडृतवः क्रमात् ॥२१.७३
भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः ।
नभोनभस्यौ जलदागमः स्यादिषोर्जकाभ्यां शरदं वदन्ति ॥२१.७४
हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण ।
मासद्विकेनेति वसन्तकाद्या धीमद्भिरुक्ता ऋतवः षडेते ॥२१.७५
ऋतुराजो वसन्तः स्यात्सुरभिर्माधवो मधुः ।
पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ॥२१.७६
निदाघस्तूष्मको घर्मो ग्रीष्म ऊष्मागमस्तपः ।
तापनश्चोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥२१.७७
वर्षाः प्रावृड्वर्षकालो घर्मान्तो जलदागमः ।
मयूरोल्लासकः कान्तश्चातकाह्लादनोऽपि सः ॥२१.७८
शरद्वर्षावसायः स्यान्मेघान्तः प्रावृडत्ययः ॥२१.७९
ऊष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥२१.८०
शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः ।
इत्येतन्नामतः प्रोक्तमृतुषट्कं यथाक्रमं ॥२१.८१
इह सुरभिनिदाघमेघकालाः शरद्धिमशिशिरहायनाः क्रमेण ।
प्रतिदिनमृतवः स्युरूर्ध्वं अर्कोदयसमयाद्दशकेन नाडिकानां ॥२१.८२
मकरक्रान्तिमारभ्य भानोः स्यादुत्तरायणं ॥२१.८३
कर्कटक्रमणादूर्ध्वं दक्षिणायनं उच्यते ॥२१.८४
यदा तुलायां मेषे च सूर्यसंक्रमणं क्रमात् ।
तदा विषुवती स्यातां विषुवे अपि ते स्मृते ॥२१.८५
कालज्ञैः षष्टिराख्याता वत्सराः प्रभवादयः ।
शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः ॥२१.८६
वसन्ते दक्षिणो वातो भवेद्वर्षासु पश्चिमः ।
उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥२१.८७
पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः ।
गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥२१.८८
दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः ।
रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥२१.८९
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः ।
सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणां ॥२१.९०
उत्तरः पवनः स्निग्धो मृदुर्मधुर एव च ।
सकषायरसः शीतो दोषाणां च प्रकोपणः ॥२१.९१
कृत्वैकं अवधिं तस्मादिदं पूर्वं च पश्चिमं ।
इति देशौ निदिश्येते यया सा दिगिति स्मृता ॥२१.९२
दिगाशा च हरित्काष्ठा ककुप्सा च निदेशिनी ।
सा च देशविभागेन दशधा परिकल्प्यते ॥२१.९३
ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् ।
यतो नित्यं उदीयन्ते सा पूर्वाख्या दिगुच्यते ॥२१.९४
पूर्वा च दक्षिणा चैव पश्चिमा चोत्तरापि च ।
प्रादक्षिण्यक्रमेणैताश्चतस्रः स्युर्महादिशः ॥२१.९५
पूर्वा प्राची पुरो मघोन्यैन्द्री माघवती च सा ।
शामनी दक्षिणावाची यामी वैवस्वती च सा ॥२१.९६
पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि ।
उत्तरा दिक्तु कौबेरी दैवी सा स्यादुदीच्यपि ॥२१.९७
दिशोर्द्वयोर्द्वयोर्मध्ये यो भागः कोणसंज्ञकः ।
विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥२१.९८
आग्नेयी स्यात्प्राच्यवाच्योस्तु मध्ये नैरृत्याख्या स्यादवाचीप्रतीच्योः ।
वायव्यापि स्यादुदीचीप्रतीच्योरैशानी स्यादन्तरा प्राच्युदीच्योः ॥२१.९९
उपरिष्टाद्दिगूर्ध्वं स्यादधस्तादधरा स्मृता ।
अन्तस्त्वभ्यन्तरं प्रोक्तं अन्तरं चान्तरालकं ॥२१.१००
स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः ।
स्याच्चतुर्विंशकैस्तैस्तु हस्तो हस्तचतुष्टयं ॥२१.१०१
दण्डो दण्डैर्द्विसाहस्रैः क्रोशस्तेषां चतुष्टयं ।
योजनं स्यादिति ह्येष देशस्योक्तो मितिक्रमः ॥२१.१०२
इति प्रस्तावतो वैद्यस्योपयुक्ततया मया ।
परिमाणं तथोन्मानमिति द्वितयं ईर्यते ॥२१.१०३
धान्ये सा निष्टिका पुंसो यत्तु मुष्टिचतुष्टयं ।
तद्द्वयेनाष्टिका ज्ञेया कुडवस्तद्द्वयेन तु ॥२१.१०४
प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण चाढकी ।
ताश्चतस्रो भवेद्द्रोणः खारी तेषां तु विंशतिः ॥२१.१०५
गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तया सार्धया वल्लो वल्लचतुष्टयेन भिषजां माषो मतस्तच्चतुः ।
निष्को निष्कयुगं तु सार्धं उदितः कर्षः पलं तच्चतुस्तद्वत्तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥२१.१०६
इत्थं सत्त्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयप्रक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितं ।
वर्गं स्वर्गसभासु भास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरीं प्रयाति मतिमानेनं पठित्वा प्रथां ॥२१.१०७
संग्रामोत्संगरिङ्गत्तुरगसुरपटोद्धूतधात्रीरजोभिः संरम्भं याति सान्द्रे तमसि किल शमं यद्द्विषां याति सत्त्वं ।
तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ नामनिर्माणचूडारत्नापीडे प्रशान्तिं नरहरिकृतिनः कोऽपि सत्त्वादिवर्गः ॥२१.१०८

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:31.2170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

संताविणें

  • v t  Quiet, appease, assuage. 
  • उ.क्रि. शांत करणें ; स्थिर करणें ; शांतवन करणें ; संथ करणें [ शांत ] 
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site