TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - पिप्पल्यादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


पिप्पल्यादिवर्ग
चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा ।
आर्द्रकं मरिचद्वन्द्वं धान्यकं च यवानिका ॥५.१
चव्यं च चित्रकद्वन्द्वं विडङ्गं च वचाद्वयं ।
कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गुपत्रिका ॥५.२
हिङ्गुद्वयं चाग्निजारौ रास्ने एलाद्वयं शिवं ।
सौवर्चलं च काचाह्वं विडं च गडनामकं ॥५.३
सामुद्रं द्रौणिकं चान्यदौषरं रोमकं तथा ।
नवधा लवणं प्रोक्तं अजमोदा च रेणुका ॥५.४
बोलं कर्चूरकः पाठा वृक्षाम्लश्चाम्लवेतसं ।
कटुकातिविषा मुस्ता द्वयं यष्टीमधुद्वयं ॥५.५
भार्गी पुष्करमूलं च शृङ्ग्यथो दन्तिकाद्वयं ।
जैपालश्च त्रिवृद्द्वेधा त्वक्पत्रं नागकेशरं ॥५.६
तवक्षीरं च तालीसपत्राख्यं वंशरोचना ।
मञ्जिष्ठा च चतुर्धा स्याद्धरिद्रे च द्विधा मते ॥५.७
लाक्षा चालक्तको लोध्रो धातक्यब्धिफलं तथा ।
निर्विषाथ विषद्वन्द्वं द्विधा चाम्लहरिद्रका ॥५.८
अब्धिफेनं अफेनं च टङ्कणौ साकुरुण्डकं ।
हिमावली हस्तिमदः स्वर्जिको लोणकं तथा ॥५.९
वज्रको यवजश्चाथ सर्वक्षारोऽथ मायिका ।
औषधान्यभिधीयन्ते षडङ्गमितसंख्यया ॥५.१०
पिप्पली कृकरा शौण्डी चपला मागधी कणा ।
कटुबीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥५.११
श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा ।
उषणा चोपकुल्या च स्मृत्याह्वा तीक्ष्णतण्डुला ॥५.१२
पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका ।
दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥५.१३
गजोषणा चव्यफला चव्यजा गजपिप्पली ।
श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश्च तैजसी ।
वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ॥५.१४
गजोषणा कटूष्णा च रूक्षा मलविशोषणी ।
बलासवातहन्त्री च स्तन्यवर्णविवर्धिनी ॥५.१५
सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा ।
पार्वती शैलजा ताम्रा लम्बबीजा तथोत्कटा ॥५.१६
अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला ।
जीवाली जीवनेत्रा च कुरवी षोडशाह्वया ॥५.१७
सैंहली कटुरुष्णा च जन्तुघ्नी दीपनी परा ।
कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥५.१८
वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानं एतत् ।
क्षुद्रादिपिप्पल्यभिधानयोग्यं वनाभिधापूर्वकणाभिधानं ॥५.१९
वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी ।
आमा भवेद्गुणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥५.२०
ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः ।
कोलमूलं कटुग्रन्थि कटुमूलं कटूषणं ॥५.२१
सर्वग्रन्थि च पत्राढ्यं विरूपं शोणसम्भवं ।
सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युश्चतुर्दश ॥५.२२
कटूष्णं पिप्पलीमूलं श्लेष्मक्रिमिविनाशनं ।
दीपनं वातरोगघ्नं रोचनं पित्तकोपनं ॥५.२३
शुण्ठी महौषधं विश्वं नागरं विश्वभेषजं ।
विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणं ॥५.२४
सौपर्णं शृङ्गवेरं च कफारिश्चार्द्रकं स्मृतं ।
शोषणं नागराह्वं च विज्ञेयं षोडशाह्वयं ॥५.२५
शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा ।
शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥५.२६
आर्द्रकं गुल्ममूलं च मूलजं कन्दलं वरं ।
शृङ्गवेरं महीजं च सैकतेष्टं अनूपजं ॥५.२७
अपाकशाकं चार्द्राख्यं राहुच्छत्रं सुशाककं ।
शार्ङ्गं स्यादार्द्रशाकं च सच्छाकं ऋतुभूह्वयं ॥५.२८
कटूष्णं आर्द्रकं हृद्यं विपाके शीतलं लघु ।
दीपनं रुचिदं शोफकफकण्ठामयापहं ॥५.२९
मरिचं पलितं श्यामं कोलं वल्लीजं ऊषणं ।
यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनं ॥५.३०
कटुकं च शिरोवृत्तं वीरं कफविरोधि च ।
रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितं ॥५.३१
मरिचं कटु तिक्तोष्णं लघु श्लेष्मविनाशनं ।
समीरकृमिहृद्रोगहरं च रुचिकारकं ॥५.३२
सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलं ।
धवलं चन्द्रकं एतन्मुनिनाम गुणाधिकं च वश्यकरं ॥५.३३
कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनं ।
अवृष्यं दृष्टिरोगघ्नं युक्त्या चैव रसायनं ॥५.३४
धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा ।
कुस्तुम्बुरुश्चावलिका छत्रधान्यं वितुन्नकं ॥५.३५
सुगन्धिः शाकयोग्यश्च सूक्ष्मपत्रो जनप्रियः ।
धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयं ॥५.३६
धान्यकं मधुरं शीतं कषायं पित्तनाशनं ।
ज्वरकासतृषाच्छर्दिकफहारि च दीपनं ॥५.३७
यवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः ।
दीपनी चोग्रगन्धा च वातारिर्भूकदम्बकः ॥५.३८
यवजो दीपनीयश्च शूलहन्त्री यवानिका ।
उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥५.३९
यवानी कटुतिक्तोष्णा वातार्शःश्लेष्मनाशनी ।
शूलाध्मानक्रिमिच्छर्दिमर्दनी दीपनी परा ॥५.४०
चव्यकं चविका चव्यं वशिरो गन्धनाकुली ।
वल्ली च कोलवल्ली च कोलं कुटलमस्तकं ।
तीक्ष्णा करिणिका वल्ली कृकरो नेत्रभूह्वया ॥५.४१
चव्यं स्यादुष्णकटुकं लघु रोचनदीपनं ।
जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनं ॥५.४२
चित्रकोऽग्निश्च शार्दूलश्चित्रपाली कटुः शिखी ।
कृशानुर्दहनो व्यालो ज्योतिष्कः पालकस्तथा ॥५.४३
अनलो दारुणो वह्निः पावकः शबलस्तथा ।
पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश्च विंशतिः ॥५.४४
चित्रकोऽग्निसमः पाके कटुः शोफकफापहः ।
वातोदरार्शोग्रहणीक्रिमिकण्डूतिनाशनः ॥५.४५
कालो व्यालः कालमूलोऽतिदीप्यो मार्जारोऽग्निर्दाहकः पावकश्च ।
चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्याद्रुद्राह्वश्चित्रकोऽन्यो गुणाढ्यः ॥५.४६
स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः ।
रसे नियामको लोहे वेधकश्च रसायनः ॥५.४७
विडङ्गा क्रिमिहा चैत्रा तण्डुला तण्डुलीयका ।
वातारिस्तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥५.४८
कैरली गह्वरामोघा कपाली चित्रतण्डुला ।
वरा सुचित्रबीजा च जन्तुहन्त्री च षोडश ॥५.४९
विडङ्गा कटुरुष्णा च लघुर्वातकफार्तिनुत् ।
अग्निमान्द्यारुचिभ्रान्तिक्रिमिदोषविनाशनी ॥५.५०
वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा ।
रक्षोघ्नी विजया भद्रा मङ्गल्येति दशाह्वया ॥५.५१
वचा तीक्ष्णा कटूष्णा च कफामग्रन्थिशोफनुत् ।
वातज्वरातिसारघ्नी वान्तिकृन्मादनुत् ॥५.५२
मेध्या श्वेतवचा त्वन्या षड्ग्रन्था दीर्घपत्रिका ।
तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥५.५३
श्वेतवचातिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत् ।
वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥५.५४
कुलञ्जो गन्धमूलश्च तीक्ष्णमूलः कुलञ्जनः ।
कुलञ्जः कटुतिक्तोष्णो दीपनो मुखदोषनुत् ॥५.५५
जीरको जरणो जीरो जीर्णो दीप्यश्च दीपकः ।
अजाजिको वह्निशङ्खो मागधश्च नवाह्वयः ॥५.५६
जीरकः कटुरुष्णश्च वातहृद्दीपनः परः ।
गुल्माध्मानातिसारघ्नो ग्रहणीक्रिमिहृत्परः ॥५.५७
गौरादिजीरकस्त्वन्योऽजाजी स्यात्श्वेतजीरकः ।
कणाह्वा कणजीर्णा च कणा दीप्यः सितादिकः ।
ज्ञेया दीर्घकणा चैव सिताजाजी दशाह्वया ॥५.५८
गौराजाजी हिमा रुच्या कटुर्मधुरदीपनी ।
क्रिमिघ्नी विषहन्त्री च चक्षुष्याध्माननाशिनी ॥५.५९
कृष्णा तु जरणा काली बहुगन्धा च भेदिनी ।
कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥५.६०
काश्मीरजीरका वर्षा काली स्याद्दन्तशोधनी ।
कालमेषी सुगन्धा च विज्ञेया बाणभूह्वया ॥५.६१
जरणा कटुरुष्णा च कफशोफनिकृन्तनी ।
रुच्या जीर्णज्वरघ्नी च चक्षुष्या ग्रहणीहरा ॥५.६२
दीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः ।
मनोज्ञा जरणी जीर्णा तरुणी स्थूलजीरकः ।
सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश ॥५.६३
पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् ।
श्लेष्माध्मानहरा जीर्णा जन्तुघ्नी दीपनी परा ॥५.६४
बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा ।
वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥५.६५
जीरकाः कटुकाः पाके क्रिमिघ्ना वह्निदीपनाः ।
जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥५.६६
मेथिका मेथिनी मेथी दीपनी बहुपत्रिका ।
वेधनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥५.६७
वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी ।
कुञ्चिका बहुपर्णी च पीतबीजा मुनीन्दुधा ॥५.६८
मेथिका कटुरुष्णा च रक्तपित्तप्रकोपणी ।
अरोचकहरा दीप्तिकरा वातघ्नदीपनी ॥५.६९
पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः ।
तन्वी च दारुपत्री च बिल्वी बाष्पी नवाह्वया ॥५.७०
हिङ्गुपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत् ।
आमक्रिमिहरा रुच्या पथ्या दीपनपाचनी ॥५.७१
हिङ्गूग्रगन्धं भूतारिर्वाह्लीकं जन्तुनाशनं ।
शूलगुल्मादिरक्षोघ्नं उग्रवीर्यं च रामठं ॥५.७२
अगूढगन्धं जरणं भेदनं सूपधूपनं ।
दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधं ॥५.७३
हृद्यं हिङ्गु कटूष्णं च क्रिमिवातकफापहं ।
विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनं ॥५.७४
नाडीहिङ्गुः पलाशाख्या जन्तुका रामठी च सा ।
वंशपत्री च पिण्डाह्वा सुवीर्या हिङ्गुनाडिका ॥५.७५
नाडीहिङ्गुः कटूष्णा च कफवातार्तिशान्तिकृत् ।
विष्ठाविबन्धदोषघ्नं आनाहामयहारि च ॥५.७६
अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भोऽग्निजः स्मृतः ।
वडवाग्निमलो ज्ञेयो जरायुश्चाग्निसम्भवः ॥५.७७
स्यादग्निजारः कटुरुष्णवीर्यस्तुण्डामयो वातकफापहश्च ।
पित्तप्रदः सोऽधिकसंनिपातशूलार्तिशीतामयनाशकश्च ॥५.७८
जाराभो दहनस्पर्शी पिच्छिलः सागरे भवः ।
जरायुस्तच्चतुर्वर्णः तेषु श्रेष्ठः सलोहितः ॥५.७९
रास्ना युक्तरसा रम्या श्रेयसी रसना रसा ।
सुगन्धिमूला सुरसा रसाढ्यातिरसा दश ॥५.८०
रास्ना तु त्रिविधा प्रोक्ता पत्रं तृणं तथा ।
ज्ञेये दले श्रेष्ठे तृणरास्ना च मध्यमा ॥५.८१
रास्ना गुरुश्च तिक्तोष्णा विषवातास्रकासजित् ।
शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥५.८२
स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भद्रैला ।
सुरभित्वक्च महैला पृथ्वी कन्या कुमारिका चैन्द्री ॥५.८३
कायस्था गोपुटा कान्ता घृताची गर्भसम्भवा ।
इन्द्राणी दिव्यगन्धा च विज्ञेयाष्टादशाह्वया ॥५.८४
एला बहुलगन्धैन्द्री द्राविडी निष्कुटिस्त्रुटिः ।
कपोतवर्णी गौराङ्गी बाला बलवती हिमा ॥५.८५
चन्द्रिका चोपकुञ्ची च सूक्ष्मा सागरगामिनी ।
गर्भारिर्गन्धफलिका कायस्थाष्टादशाह्वया ॥५.८६
एलाद्वयं शीतलतिक्तं उक्तं सुगन्धि पित्तार्तिकफापहारि ।
करोति हृद्रोगमलार्तिवस्तिशूलघ्नं अत्र स्थविरा गुणाढ्या ॥५.८७
सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवं ।
शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधं ॥५.८८
सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनं ।
त्रिदोषशमनं पूतं व्रणदोषविबन्धजित् ॥५.८९
सैन्धवं द्विविधं ज्ञेयं श्वेतं रक्तं इति क्रमात् ।
रसवीर्यविपाकेषु गुणाढ्यं नूतनं शिवं ॥५.९०
सौवर्चलं तु रुचकं तिलकं हृद्यगन्धकं ।
अक्षं च कृष्णलवणं रुच्यं कौद्रविकं तथा ॥५.९१
सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् ।
ऊर्ध्ववातामशूलार्तिविबन्धारोचकान्जयेत् ॥५.९२
नीलं काचोद्भवं काचं तिलकं काचसम्भवं ।
काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतं ॥५.९३
काचोत्थं हृद्यगन्धं च तत्काललवणं तथा ।
कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥५.९४
काचादिलवणं रुच्यं ईषत्क्षारं च पित्तलं ।
दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥५.९५
विडं द्राविडकं खण्डं कृतकं क्षारं आसुरं ।
सुपाक्यं खण्डलवणं धूर्तं कृत्रिमकं दश ॥५.९६
विडं उष्णं च लवणं दीपनं वातनाशनं ।
रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनं ॥५.९७
गाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजं ।
गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवं ॥५.९८
गडोत्थं तूष्णलवणं ईषदम्लं मलापहं ।
दीपनं कफवातघ्नं अर्शोघ्नं कोष्ठशोधनं ॥५.९९
सामुद्रकं तु सामुद्रं समुद्रलवणं शिवं ।
वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजं ॥५.१००
सामुद्रं लघु हृद्यं च पलितास्रदपित्तदं ।
विदाहि कफवातघ्नं दीपनं रुचिकृत्परं ॥५.१०१
द्रौणेयं वार्धेयं द्रोणीजं वारिजं च वार्धिभवं ।
द्रोणीलवणं द्रोणं त्रिकटुलवणं च वसुसंज्ञं ॥५.१०२
द्रौणेयं लवणं पाके नात्युष्णं अविदाहि च ।
भेदनं स्निग्धं ईषच्च शूलघ्नं चाल्पपित्तलं ॥५.१०३
औषरकं सार्वगुणं सार्वरसं सर्वलवणं ऊषरजं ।
साम्भारं बहुलवणं मेलकलवणं च मिश्रकं नवधा ॥५.१०४
औषरं तु कटु क्षारं तिक्तं वातकफापहं ।
विदाहि पित्तकृद्ग्राहि मूत्रसंशोषकारि च ॥५.१०५
रोमकं औद्भिदं उक्तं वसुकं वसु पांशुलवणं ऊषरजं ।
पांशवं औषरं ऐरिणं और्वं सार्वसहं रुद्रैः ॥५.१०६
रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनं ।
दाहशोषकरं ग्राहि पित्तकोपकरं परं ॥५.१०७
अजमोदा खराह्वा च बस्तमोदा च मर्कटी ।
मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥५.१०८
मायूरी शिखिमोदा च मोदाढ्या वह्निदीपिका ।
ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका ।
मोदिनी फलमुख्या च वसुचन्द्राभिधा मता ॥५.१०९
अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रुचिकृत् ।
शूलाध्मानारोचकजठरामयनाशनी चैव ॥५.११०
रेणुका कपिला कान्ता नन्दिनी महिला द्विजा ।
राजपुत्री हिमा रेणुः पाण्डुपत्री हरेणुका ॥५.१११
सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी ।
कपिलोमा हैमवती पाण्डुपत्री च विंशतिः ॥५.११२
रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी ।
तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥५.११३
बोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषं ।
निर्लोहं बर्बरं पिण्डं सौरभं रक्तगन्धकं ॥५.११४
रसगन्धं महागन्धं विश्वं च शुभगन्धकं ।
विश्वगन्धं गन्धरसं व्रणारिर्वसुभूह्वयं ॥५.११५
बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् ।
कफपित्तामयान्हन्ति प्रदरादिरुजापहं ॥५.११६
कर्चूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः ।
वेधमुख्यो गन्धसारो जटिलश्चाष्टनामकः ॥५.११७
कर्चूरः कटुतिक्तोष्णः कफकासविनाशनः ।
मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥५.११८
पाठाम्बष्ठाम्बष्ठिका स्यात्प्राचीना पापचेलिका ।
पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥५.११९
एकाष्ठीला कुचैली च दीपनी वरतिक्तका ।
तिक्तपुष्पा बृहत्तिक्ता दीपनी त्रिशिरा वृकी ।
मालवी च वरा देवी वृत्तपर्णी द्विदृङ्मिता ॥५.१२०
पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा ।
भग्नसन्धानकृत्पित्तदाहातीसारशूलहृत् ॥५.१२१
वृक्षाम्लं अम्लशाकं स्याच्चुक्राम्लं तित्तिडीफलं ।
शाकाम्लं अम्लपूरं च पूराम्लं रक्तपूरकं ॥५.१२२
चूडाम्लबीजाम्लफलाम्लकं स्यादम्लादिवृक्षाम्लफलं रसाम्लं ।
श्रेष्ठाम्लं अत्यम्लं अथाम्लबीजं फलं च चुक्रादि नगेन्दुसंख्यं ॥५.१२३
वृक्षाम्लं अम्लं कटुकं कषायं सोष्णं कफार्शोघ्नं उदीरयन्ति ।
तृष्णासमीरोदरहृद्गदादिगुल्मातीसारव्रणदोषनाशि ॥५.१२४
अम्लोऽम्लवेतसो वेधी रसाम्लो वीरवेतसः ।
वेतसाम्लश्चाम्लसारः शतवेधी च वेधकः ॥५.१२५
भीमश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः ।
अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥५.१२६
सहस्रवेधी वीराम्लो गुल्मकेतुर्धराक्षिधा ।
शङ्खमांसादिद्रावी स्याद्द्विधा चैवाम्लवेतसः ॥५.१२७
अम्लवेतसं अत्यम्लं कषायोष्णं च वातजित् ।
कफार्शःश्रमगुल्मघ्नं अरोचकहरं परं ॥५.१२८
कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी ।
चक्राङ्गी मत्स्यपित्ता च बकुला शुकुलादनी ॥५.१२९
सादनी शतपर्वा स्यात्चक्राङ्गी मत्स्यभेदिनी ।
अशोकरोहिणी कृष्णा कृष्णमेदा महौषधी ॥५.१३०
कट्व्यञ्जनी काण्डरुहा कटुश्च कटुरोहिणी ।
केदारकटुकारिष्टाप्यामघ्नी पञ्चविंशतिः ॥५.१३१
कटुकातिकटुस्तिक्ता शीतपित्तास्रदोषजित् ।
बलासारोचकश्वासज्वरहृद्रेचनी च सा ॥५.१३२
अतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा ।
विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥५.१३३
वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता ।
अरुणोपविषा चैव ज्ञेया षोडशसम्मिता ॥५.१३४
कटूष्णातिविषा तिक्ता कफपित्तज्वरापहा ।
आमातीसारकासघ्नी विषच्छर्दिविनाशनी ॥५.१३५
त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा ।
रसवीर्यविपाकेषु निर्विशेषगुणा च सा ॥५.१३६
दोलायां गोमयक्वाथे पचेदतिविषां ततः ।
सूर्यतापे भवेच्छुष्का योजयेत्तां भिषग्वरः ॥५.१३७
मुस्ताभद्रावारिदाम्भोदमेघा जीमूतोऽब्दो नीरदोऽब्भ्रं घनश्च ।
गाङ्गेयं स्याद्भद्रमुस्ता वराही गुञ्जा ग्रन्थिर्भद्रकासी कसेरुः ॥५.१३८
क्रोडेष्टा कुरुविन्दाख्या सुगन्धिर्ग्रन्थिला हिमा ।
वन्या राजकसेरुश्च कच्छोत्था पञ्चविंशतिः ॥५.१३९
भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी ।
पित्तज्वरकफघ्नी च ज्ञेया सङ्ग्रहणी च सा ॥५.१४०
अपरा नागरमुस्ता नागरोत्था नागरादिघनसंज्ञा ।
चक्राङ्का नादेयी चूडाला पिण्डमुस्ता च ॥५.१४१
शिशिरा च वृषध्वाङ्क्षी कच्छरुहा चारुकेसरोच्चटा ।
सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥५.१४२
तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् ।
पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥५.१४३
यष्टीमधुर्मधुयष्टी मधुवल्ली मधुस्रवा ।
मधुकं मधुका यष्टी यष्ट्याह्वं वसुसंमितं ॥५.१४४
मधुरं यष्टिमधुकं किंचित्तिक्तं च शीतलं ।
चक्षुष्यं पित्तहृद्रुच्यं शोषतृष्णाव्रणापहं ॥५.१४५
अन्यत्क्लीतनं उक्तं क्लीतनकं क्लीतनीयकं मधुकं ।
मधुवल्ली च मधूली मधुरलता मधुरसातिरसा ॥५.१४६
शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता ।
सामान्येन मतेयं एकादशसंज्ञा बहुज्ञधिया ॥५.१४७
क्लीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहं ।
शीतलं गुरु चक्षुष्यं अस्रपित्तापहं परं ॥५.१४८
भार्ङ्गी गर्दभिशाकश्च फञ्जी चाङ्गारवल्लरी ।
वर्षा ब्राह्मणयष्टिश्च बर्बरो भृङ्गजा च सा ॥५.१४९
पद्मा यष्टिश्च भारङ्गी वातारिः कासजित्परं ।
सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ॥५.१५०
भार्ङ्गी तु कटुतिक्तोष्णा कासश्वासविनाशनी ।
शोफव्रणक्रिमिघ्नी च दाहज्वरनिवारिणी ॥५.१५१
मूलं पुष्करमूलं च पुष्करं पद्मपत्रकं ।
पद्मं पुष्करजं बीजं पौष्करं पुष्कराह्वयं ॥५.१५२
काश्मीरं ब्रह्मतीर्थं च श्वासारिर्मूलपुष्करं ।
ज्ञेयं पञ्चदशाह्वं च पुष्कराद्ये जटाशिफे ॥५.१५३
पुष्करं कटुतिक्तोष्णं कफवातज्वरापहं ।
श्वासारोचककासघ्नं शोफघ्नं पाण्डुनाशनं ॥५.१५४
शृङ्गी कुलीरशृङ्गी स्यात्घोषा च वनमूर्धजा ।
चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥५.१५५
कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका ।
चक्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥५.१५६
तिक्ता कर्कटशृङ्गी तु गुरुरुष्णानिलापहा ।
हिक्कातीसारकासघ्नी श्वासपित्तास्रनाशनी ॥५.१५७
दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा ।
भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद्वक्रदन्ता विशल्या ॥५.१५८
मधुपुष्पैरण्डफला भद्राण्येरण्डपत्रिका ।
उदुम्बरदला चैव तरुणी चाणुरेवती ।
विशोधनी च कुम्भी च ज्ञेया चाग्निकराह्वया ॥५.१५९
दन्ती कटूष्णा शूलामत्वग्दोषशमनी च सा ।
अर्शोव्रणाश्मरीशल्यशोधनी दीपनी परा ॥५.१६०
अन्या दन्ती केशरुहा विषभद्रा जयावहा ।
आवर्तकी वराङ्गी च जयाह्वा भद्रदन्तिका ॥५.१६१
अन्या दन्ती कटूष्णा च रेचनी क्रिमिहा परा ।
शूलकुष्ठामदोषघ्नी त्वगामयविनाशनी ॥५.१६२
रेचको जयपालश्च सारकस्तित्तिरीफलं ।
दन्तीबीजं मलद्रावि ज्ञेयं स्याद्बीजरेचनी ॥५.१६३
कुम्भीबीजं कुम्भिनीबीजसंज्ञं घण्टाबीजं दन्तिनीबीजं उक्तं ।
बीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्वाख्यं तन्निकुम्भ्याश्च बीजं ॥५.१६४
जैपालः कटुरुष्णश्च क्रिमिहारी विरेचनः ।
दीपनः कफवातघ्नो जठरामयशोधनः ॥५.१६५
उक्ता त्रिवृन्मालविका मसूरा श्यामार्धचन्द्रा विदला सुषेणी ।
कालिन्दिका सैव तु कालमेषी काली त्रिवेलावनिचन्द्रसंज्ञा ॥५.१६६
त्रिवृत्तिक्ता कटूष्णा च क्रिमिश्लेष्मोदरार्तिजित् ।
कुष्ठकण्डूव्रणान्हन्ति प्रशस्ता च विरेचने ॥५.१६७
रक्तान्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका ।
कुलवर्णा मसूरी चाप्यमृता काकनासिका ॥५.१६८
रक्ता त्रिवृद्रसे तिक्ता कटूष्णा रेचनी च सा ।
ग्रहणीमलविष्टम्भहारिणी हितकारिणी ॥५.१६९
त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनं ।
शकलं सैंहलं वन्यं सुरसं रामवल्लभं ॥५.१७०
उत्कटं बहुगन्धं च विज्जुलं च वनप्रियं ।
लाटपर्णं गन्धवल्कं वरं शीतं ग्रहक्षिती ॥५.१७१
त्वचं तु कटुकं शीतं कफकासविनाशनं ।
शुक्रामशमनं चैव कण्ठशुद्धिकरं लघु ॥५.१७२
पत्रं तमालपत्रं च पत्रकं छदनं दलं ।
पलाशं अंशुकं वासस्तापसं सुकुमारकं ॥५.१७३
वस्त्रं तमालकं रामं गोपनं वसनं तथा ।
तमालं सुरभिगन्धं ज्ञेयं सप्तदशाह्वयं ॥५.१७४
पत्रकं लघु तिक्तोष्णं कफवातविषापहं ।
वस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनं ॥५.१७५
किञ्जल्कं कनकाह्वं च केसरं नागकेशरं ।
चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ॥५.१७६
सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरं ।
फणिपुन्नागयोगादि केसरं पञ्चभूह्वयं ॥५.१७७
नागकेशरं अल्पोष्णं लघु तिक्तं कफापहं ।
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहं ॥५.१७८
तवक्षीरं पयःक्षीरं यवजं गवयोद्भवं ।
अन्यद्गोधूमजं चान्यत्पिष्टिकातण्डुलोद्भवं ॥५.१७९
अन्यच्च तालसम्भूतं तालक्षीरादिनामकं ।
वनगोक्षीरजं श्रेष्ठं अभावेऽन्यदुदीरितं ॥५.१८०
तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् ।
क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥५.१८१
तालीसपत्रं तालीशं पत्राख्यं च शुकोदरं ।
धात्रीपत्त्रं चार्कवेधं करिपत्रं घनच्छदं ॥५.१८२
नीलं नीलाम्बरं तालं तालीपत्रं तलाह्वयं ।
तालीसपत्रकस्येति नामान्याहुस्त्रयोदश ॥५.१८३
तालीसपत्रं तिक्तोष्णं मधुरं कफवातनुत् ।
कासहिक्काक्षयश्वासच्छर्दिदोषविनाशकृत् ॥५.१८४
स्याद्वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥५.१८५
त्वक्सारा कर्मरी श्वेतावंशकर्पूररोचने ।
तुङ्गा रोचनिका पिङ्गा नवेन्दुर्वंशशर्करा ॥५.१८६
स्याद्वंशरोचना रूक्षा कषाया मधुरा हिमा ।
रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥५.१८७
तवक्षीरे यवक्षीरे क्षीरे जातं गुणोत्तरं ।
वंशक्षीरीसमं प्रोक्तं तदभावेऽन्यवस्तुजं ॥५.१८८
गवयक्षीरजं क्षीरं सुस्निग्धं शीतलं लघु ।
सुगन्धि द्रावकं शुभ्रं अन्यत्स्वल्पगुणं स्मृतं ॥५.१८९
मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लिका ।
समङ्गा विकसा पद्मा रोहिणी कालमेषिका ॥५.१९०
भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा ।
मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥५.१९१
क्षेत्रिणी चैव रागाढ्या भण्डीरी कालभाण्डिका ।
अरुणा ज्वरहन्त्री च छद्मा नागकुमारिका ॥५.१९२
भाण्डीरलतिका चैव रागाङ्गी वस्त्रभूषणा ।
त्रिंशाह्वया तथा प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥५.१९३
मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस्तथा ।
व्रणमेहज्वरश्लेष्मविषनेत्रामयापहा ॥५.१९४
चोलश्च योजनी कौञ्जी सिंहिली च चतुर्विधा ।
मञ्जिष्ठा चैव सा प्रोक्ता विलोमे चोत्तमोत्तमा ॥५.१९५
हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा ।
हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥५.१९६
हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी ।
पिङ्गला वर्णदा चैव मङ्गल्या मङ्गला च सा ॥५.१९७
लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया ।
श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥५.१९८
हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् ।
मेहकण्डूव्रणान्हन्ति देहवर्णविधायिनी ॥५.१९९
अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका ।
कालेयकं पीतदारु स्थिररागा च कामिनी ॥५.२००
कटङ्कटेरी पर्जन्या पीता दारुनिशा स्मृता ।
कालीयकं कामवती दारुपीता पचम्पचा ।
स्यात्कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ॥५.२०१
तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् ।
कण्डूविसर्पत्वग्दोषविषकर्णाक्षिदोषहा ॥५.२०२
लाक्षा खदिरका रक्ता रङ्गमाता पलङ्कषा ।
जतु च क्रिमिजा चैव द्रुमव्याधिरलक्तकः ॥५.२०३
पलाशी मुद्रणी दीप्तिर्जन्तुका गन्धमादनी ।
नीला द्रवरसा चैव पित्तारिर्मुनिभूह्वया ॥५.२०४
लाक्षा तिक्तकषाया स्यात्श्लेष्मपित्तार्तिदोषनुत् ।
विषरक्तप्रशमनी विषमज्वरनाशनी ॥५.२०५
अलक्तको जन्तुरसो रागो निर्भर्त्सनस्तथा ।
जननी जन्तुकारी च संधर्षा चक्रमर्दिनी ॥५.२०६
अलक्तकः सुतिक्तोष्णः कफवातामयापहः ।
कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥५.२०७
लोध्रो रोध्रो भिल्लतरुश्चिल्लकः काण्डकीलकः ।
तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोध्रकः ॥५.२०८
तिल्वकः काण्डहीनश्च शावरो हेमपुष्पकः ।
भिल्ली शावरकश्चैव ज्ञेयः पञ्चदशाह्वयः ॥५.२०९
क्रमुकः पट्टिकारोध्रो वल्करोध्रो बृहद्दलः ।
जीर्णबुध्नो बृहद्वल्को जीर्णपत्रोऽक्षिभेषजः ॥५.२१०
शावरः श्वेतरोध्रश्च मार्जनो बहलत्वचः ।
पट्टी लाक्षाप्रसादश्च वल्कलो बाणभूह्वयः ॥५.२११
लोध्रद्वयं कषायं स्यात्शीतं वातकफास्रनुत् ।
चक्षुष्यं विषहृत्तत्र विशिष्टो वल्करोध्रकः ॥५.२१२
धातकी वह्निपुष्पी च ताम्रपुष्पी च धावनी ।
अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥५.२१३
कुमुदा सीधुपुष्पी च कुञ्जरा मद्यवासिनी ।
गुच्छसङ्घादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी ।
तीव्रज्वाला वह्निशिखा मद्यपुष्पीन्द्रसम्मिता ॥५.२१४
धातकी कटुरुष्णा च मदकृद्विषनाशनी ।
प्रवाहिकातिसारघ्नी विसर्पव्रणनाशिनी ॥५.२१५
समुद्रनाम प्रथमं पश्चात्फलं उदाहरेत् ।
समुद्रफलं इत्यादि नाम वाच्यं भिषग्वरैः ॥५.२१६
फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि ।
त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविरोधकारि ॥५.२१७
निर्विषापविषा चैव विविषा विषहा परा ।
विषहन्त्री विषाभावा ह्यविषा विषवैरिणी ॥५.२१८
निर्विषा तु कटुः शीता कफवातास्रदोषनुत् ।
अनेकविषदोषघ्नी व्रणसंरोपणी च सा ॥५.२१९
विषं आहेयं अमृतं गरलं दारदं गरं ।
कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकं ॥५.२२०
नीलं च गरदं क्ष्वेडो घोरं हालाहलं हरं ।
मरं हलाहलं शृङ्गी भूगरं चैकविंशतिः ॥५.२२१
अमृतं स्यात्वत्सनाभो विषं उग्रं महौषधं ।
गरलं मरणं नागं स्तोककं प्राणहारकं ।
गरलं स्थावरादि स्यात्प्रोक्तं चैकादशाह्वयं ॥५.२२२
वत्सनाभोऽतिमधुरः सोष्णो वातकफापहः ।
कण्ठरुक्संनिपातघ्नः पित्तसंतापकारकः ॥५.२२३
स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गकौ ।
नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥५.२२४
विषस्याष्टादशभिदाश्चतुर्वर्गाश्च यत्पृथक् ।
तदत्र नोक्तं अस्माभिर्ग्रन्थगौरवभीरुभिः ॥५.२२५
शटी शठी पलाशश्च षड्ग्रन्था सुव्रता वधूः ।
सुगन्धमूला गन्धाली शटिका च पलाशिका ॥५.२२६
सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका ।
सौम्या हिमोद्भवा गन्धवधूर्नागेन्दुसम्मिता ॥५.२२७
शटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च ।
कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोक्ता ॥५.२२८
अन्या तु गन्धपत्त्रा स्यात्स्थूलास्या तिक्तकन्दका ।
वनजा शटिका वन्या स्तवक्षीर्येकपत्त्रिका ॥५.२२९
गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्त्रिका ।
दीर्घपत्त्रा गन्धनिशा शरभूह्वा सुपाकिनी ॥५.२३०
गन्धपत्त्रा कटुः स्वादुस्तीक्ष्णोष्णा कफवातजित् ।
कासच्छर्दिज्वरान्हन्ति पित्तकोपं करोति च ॥५.२३१
समुद्रफेनं फेनश्च वार्धिफेनं पयोधिजं ।
सुफेनं अब्धिहिण्डीरं सामुद्रं सप्तनामकं ॥५.२३२
समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् ।
कफकण्ठामयघ्नं च रुचिकृत्कर्णरोगहृत् ॥५.२३३
अफेनं खस्खसरसो निफेनं चाहिफेनकं ।
अफेनं संनिपातघ्नं वृष्यं बल्यं च मोहदं ॥५.२३४
चतुर्विधं अफेनं स्यात्जारणं मारणं तथा ।
धारणं सारणं चैव क्रमाद्वक्ष्ये तु लक्षणं ॥५.२३५
श्वेतं च जारणं प्रोक्तं कृष्णवर्णं च मारणं ।
धारणं पीतवर्णं तु कर्बुरं सारणं तथा ॥५.२३६
जारणं जारयेदन्नं मारणं मृत्युदायकं ।
धारणं च वयःस्तम्भं सारणं मलसारणं ॥५.२३७
टङ्गणष्टङ्कणक्षारो रङ्गः क्षारो रसाधिकः ।
लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥५.२३८
वर्तुलः कनकक्षारो मलिनो धातुवल्लभः ।
त्रयोदशाह्वयश्चायं कथितस्तु भिषग्वरैः ॥५.२३९
कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः ।
स्थावरादिविषघ्नश्च कासश्वासापहारकः ॥५.२४०
द्वितीयं टङ्गणं श्वेतं श्वेतकं श्वेतटङ्गणं ।
लोहशुद्धिकरं सिन्धुमालतीतीरसम्भवं ।
शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधं ॥५.२४१
सुश्वेतं टङ्कणं स्निग्धं टूष्णं कफवातनुत् ।
आमक्षयापहृच्छ्वासविषकासमलापहं ॥५.२४२
साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः ।
कुरुण्डः कर्बुरफलः सकुरुण्डश्च सप्तधा ॥५.२४३
साकुरुण्डः कषायश्च रुचिकृद्दीपनः परः ।
श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥५.२४४
हिमावली च हृद्धात्री कुष्ठघ्नो गारकुष्ठकः ।
अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो मुनिसंज्ञकः ॥५.२४५
हिमावली सरा तिक्ता प्लीहगुल्मोदरापहा ।
क्रिमिकुष्ठगुदात्युग्रखर्जूकण्डूतिहारिणी ॥५.२४६
हस्तिमदो गजमदो गजदानं मदस्तथा ।
कुम्भिमदो दन्तिमदो दानं द्वीपिमदोऽष्टधा ॥५.२४७
स्निग्धो हस्तिमदस्तिक्तः केश्योऽपस्मारनाशनः ।
विषहृत्कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥५.२४८
स्वर्जिक्षारः स्वर्जिकश्च क्षारस्वर्जी सुखार्जिकः ।
सुवर्चिकः सुवर्ची च सुखवर्चा मुनिह्वयः ॥५.२४९
स्वर्जिकः कटुरुष्णश्च तीक्ष्णो वातकफार्तिनुत् ।
गुल्माध्मानक्रिमीन्हन्ति व्रणजाठरदोषनुत् ॥५.२५०
लवणारं लवणोत्थं लवणासुरजं च लवणभेदश्च ।
जलजं लवणक्षारं लवणं च क्षारलवणं च ॥५.२५१
लोणारक्षारं अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदं ।
क्षारं लवणं ईषच्च वातगुल्मादिदोषनुत् ॥५.२५२
वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकं ।
सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ॥५.२५३
वज्रकं क्षारं अत्युष्णं तीक्ष्णं क्षारं च रेचनं ।
गुल्मोदरातिविष्टम्भशूलप्रशमनं सरं ॥५.२५४
यवक्षारः स्मृतः पाक्यो यवजो यवसूचकः ।
यवशूको यवाह्वश्च यवापत्यं यवाग्रजः ॥५.२५५
यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् ।
आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः ॥५.२५६
सर्वक्षारो बहुक्षारः समूहक्षारकस्तथा ।
स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥५.२५७
सर्वक्षारो ह्यतिक्षारश्चक्षुष्यो वस्तिशोधनः ।
गुदावर्तक्रिमिघ्नश्च मलवस्त्रविशोधनः ॥५.२५८
मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पञ्चनामकं ।
मायाफलं वातहरं कटूष्णकं शैथिल्यसंकोचककेशकार्ष्णयदं ॥५.२५९
इत्थं नानाद्रव्यसम्भारनामग्रामव्याख्यातद्गुणाख्यानपूर्वं ।
वर्गं वीर्यध्वस्तरोगोपसर्गं बुद्ध्वा वैद्यो विश्ववन्द्यत्वं ईयात् ॥५.२६०
साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात्स्वौजःपात्रविचारणाय विपणेर्मध्यं समध्यासते ।
तेषां आश्रयभूमिरेष भणितः पण्यौषधीनां बुधैर्वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥५.२६१
यः सौम्येन सदाशयेन कलयन्दिव्यागमानां जनैर्दुर्ग्राहं महिमानं आशु नुदते स्वं जग्मुषां दुर्गतीः ।
वर्गः पिप्पलिकादिरेष नृहरेस्तस्येह शस्यात्मनो ।
नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठां अगात् ॥५.२६२

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.3270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तुरबुरणे

  • अ.क्रि. कुरकुरणे ; तक्रार करणे . [ ध्व . ] 
  • अ.क्रि. ( को . ) टवटवीत दिसणे ; नव्या , दाट पानांनी आच्छादित होणे ; ( झाडांस ) नवी पालवी फुटूं लागणे . [ तुरा - तुरंबी ] 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site