संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - करवीरादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


चतुर्धा करवीरोऽथ धत्तूरत्रितयं तथा ।
कोविदारोऽब्धिरर्कः स्यान्नमेरुः किंशुकस्तथा ॥१०.१
पुन्नागस्तिलकोऽगस्त्यः पाटल्यौ च द्विधा स्मृते ।
अशोकश्चम्पको धन्वी केतकी द्विविधा तथा ॥१०.२
सिन्दूरी च तथा जाती मुद्गरः शतपत्रिका ।
मल्लिका च चतुर्धा स्याद्वासन्ती नवमल्लिका ॥१०.३
अतिमुक्तो द्विधा यूथी कुब्जको मुचकुन्दकः ।
करुणी माधवी चाथ गणिकारी च कुन्दकः ॥१०.४
बककेविकबन्धूकास्त्रिसन्धिश्च जपा तथा ।
प्रोक्ता भ्रमरमारी च तरुण्यम्लानकस्तथा ॥१०.५
किङ्किरातोऽथ बालाख्यो झिण्टिका चोष्ट्रकाण्डिका ।
तगरं दमनद्वन्द्वं तुलसी मरुवो द्विधा ॥१०.६
अर्जकश्च चतुर्गङ्गा पत्री पाची च बालकः ।
बर्बरो मञ्चिकापत्रः प्रोक्ता चारामशीतला ॥१०.७
अथ कमलपुण्डरीकाह्वयकोकनदानि पद्मिनी चैव ।
पद्माक्षं च मृणालं तत्कन्दः केसरश्च तथा ॥१०.८
उत्पलकुमुदकुवलयं उत्पलिनी चाङ्कवसुमित्या ।
उत्तंसनाम्नि वर्गे द्रव्याण्यत्रोपदिश्यन्ते ॥१०.९
करवीरो महावीरो हयमारोऽश्वमारकः ।
हयघ्नः प्रतिहासश्च शतकुन्दोऽश्वरोधकः ॥१०.१०
हयारिर्वीरकः कुन्दः शकुन्दः श्वेतपुष्पकः ।
अश्वान्तकस्तथाश्वघ्नो नखराह्वोऽश्वनाशकः ॥१०.११
स्थलादिकुमुदः प्रोक्तो दिव्यपुष्पो हरप्रियः ।
गौरीपुष्पः सिद्धपुष्पो द्विकराह्वः प्रकीर्त्तितः ॥१०.१२
करवीरः कटुस्तीक्ष्णः कुष्ठकण्डूतिनाशनः ।
व्रणार्तिविषविस्फोटशमनोऽश्वमतिप्रदः ॥१०.१३
रक्तकरवीरकोऽन्यो रक्तप्रसवो गणेशकुसुमश्च ।
चण्डीकुसुमः क्रूरो भूतद्रावी रविप्रियो मुनिभिः ॥१०.१४
रक्तस्तु करवीरः स्यात्कटुस्तीक्ष्णो विशोधकः ।
त्वग्दोषव्रणकण्डूतिकुष्ठहारी विषापहः ॥१०.१५
पीतकरवीरकोऽन्यः पीतप्रसवः सुगन्धिकुसुमश्च ।
कृष्णस्तु कृष्णकुसुमश्चतुर्विधोऽयं गुणे तुल्यः ॥१०.१६
धत्तूरः कितवो धूर्त्त उन्मत्तः कनकाह्वयः ।
शठो मातुलकः श्यामो मदनः शिवशेखरः ॥१०.१७
खर्जूघ्नः काहलापुष्पः खलः कण्टफलस्तथा ।
मोहनः कलभोन्मत्तः शैवः सप्तदशाह्वयः ॥१०.१८
धत्तूरः कटुरुष्णश्च कान्तिकारी व्रणार्तिनुत् ।
त्वग्दोषखर्जूकण्डूतिज्वरहारी भ्रमप्रदः ॥१०.१९
कृष्णधत्तूरकः सिद्धः कनकः सचिवः शिवः ।
कृष्णपुष्पो विषारातिः क्रूरधूर्तश्च कीर्तितः ॥१०.२०
राजधत्तूरकश्चान्यो राजधूर्तो महाशठः ।
निस्त्रैणिपुष्पको भ्रान्तो राजस्वर्णः षडाह्वयः ॥१०.२१
सितनीलकृष्णलोहितपीतप्रसवाश्च सन्ति धत्तूराः ।
सामान्यगुणोपेतास्तेषु गुणाढ्यस्तु कृष्णकुसुमः स्यात् ॥१०.२२
कोविदारः काञ्चनारः कुद्दालः कनकारकः ।
कान्तपुष्पश्च करकः कान्तारो यमलच्छदः ॥१०.२३
पीतपुष्पः सुवर्णारो गिरिजः काञ्चनारकः ।
युग्मपत्रो महापुष्पः स्याच्चतुर्दशधाभिधः ॥१०.२४
कोविदारः कषायः स्यात्संग्राही व्रणरोपणः ।
दीपनः कफवातघ्नो मूत्रकृच्छ्रनिबर्हणः ॥१०.२५
अर्कः क्षीरदलः पुच्छी प्रतापः क्षीरकाण्डकः ।
विक्षीरो भास्करः क्षीरी खर्जूघ्नः शिवपुष्पकः ॥१०.२६
भञ्जनः क्षीरपर्णी स्यात्सविता च विकीरणः ।
सूर्याह्वश्च सदापुष्पो रविरास्फोटकस्तथा ।
तूलफलः शुकफलो विंशतिश्च समाह्वयः ॥१०.२७
अर्कस्तु कटुरुष्णश्च वातजिद्दीपनीयकः ।
शोफव्रणहरः कण्डूकुष्ठक्रिमिविनाशनः ॥१०.२८
शुक्लार्कस्तपनः श्वेतः प्रतापश्च सितार्ककः ।
सुपुष्पः शङ्करादिः स्यादत्यर्को वृत्तमल्लिका ॥१०.२९
श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः ।
मूत्रकृच्छ्रास्रशोफार्तिव्रणदोषविनाशनः ॥१०.३०
राजार्को वसुकोऽलर्को मन्दारो गणरूपकः ।
काष्ठीलश्च सदापुष्पो ज्ञेयोऽत्र सप्तसंमितः ॥१०.३१
राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः ।
वातकुष्ठव्रणान्हन्ति शोफकण्डूविसर्पनुत् ॥१०.३२
श्वेतमन्दारकस्त्वन्यः पृथ्वी कुरवकः स्मृतः ।
दीर्घपुष्पः सितालर्को दीर्घात्यर्कः रसाह्वयः ॥१०.३३
श्वेतमन्दारकोऽत्युष्णस्तिक्तो मलविशोधनः ।
मूत्रकृच्छ्रव्रणान्हन्ति क्रिमीनत्यन्तदारुणान् ॥१०.३४
नमेरुः सुरपुन्नागः सुरेष्टः सुरपर्णिका ।
सुरतुङ्गश्च पञ्चाह्वः पुन्नागगुणसंयुतः ॥१०.३५
पलाशः किंशुकः पर्णो वातपोथोऽथ याज्ञिकः ।
त्रिपर्णो वक्रपुष्पश्च पूतद्रुर्ब्रह्मवृक्षकः ।
ब्रह्मोपनेता काष्ठद्रुः पर्यायैकादश स्मृताः ॥१०.३६
पलाशस्तु कषायोष्णः क्रिमिदोषविनाशनः ।
तद्बीजं पामकण्डूतिदद्रुत्वग्दोषनाशकृत् ॥१०.३७
तस्य पुष्पं च सोष्णं च कण्डूकुष्ठार्त्तिनाशनं ।
रक्तः पीतः सितो नीलः कुसुमैस्तु विभज्यते ॥१०.३८
किंशुकैर्गुणसाम्येऽपि सितो विज्ञानदः स्मृतः ॥१०.३९
पुन्नागः पुरुषस्तुङ्गः पुन्नामा पाटलः पुमान् ।
रक्तपुष्पो रक्तरेणुररुणोऽयं नवाह्वयः ॥१०.४०
पुन्नागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् ।
भूतविद्रावणश्चैव देवतानां प्रसादनः ॥१०.४१
तिलको विशेषकः स्यान्मुखमण्डनकश्च पुण्ड्रकः पुण्ड्रः ।
स्थिरपुष्पः छिन्नरुहो दग्धरुहो रेचकश्च मृतजीवी ॥१०.४२
तरुणीकटाक्षकामो वासन्तः सुन्दरोऽभीष्टः ।
भालविभूषणसंज्ञो विज्ञेयः पञ्चदशनामा ॥१०.४३
तिलको मधुरः स्निग्धो वातपित्तकफापहः ।
बलपुष्टिकरो हृद्यो लघुर्मेदोविवर्धनः ॥१०.४४
तिलकत्वक्कषायोष्णा पुंस्त्वघ्नी दन्तदोषनुत् ।
क्रिमिशोफव्रणान्हन्ति रक्तदोषविनाशनी ॥१०.४५
अगस्त्यः शीघ्रपुष्पः स्यातगस्तिस्तु मुनिद्रुमः ।
व्रणारिर्दीर्घफलको वक्रपुष्पः सुरप्रियः ॥१०.४६
सितपीतनीललोहितकुसुमविशेषाच्चतुर्विधोऽगस्तिः ।
मधुरशिशिरस्त्रिदोषश्रमकासविनाशनश्च भूतघ्नः ॥१०.४७
अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहं ।
बलासकासवैवर्ण्यभूतघ्नं च बलापहं ॥१०.४८
पाटली ताम्रपुष्पी च कुम्भिका रक्तपुष्पिका ।
वसन्तदूती चामोघा स्थाली च विटवल्लभा ।
स्थिरगन्धाम्बुवासी च कालवृन्तीन्दुभूह्वया ॥१०.४९
पाटली तु रसे तिक्ता कटूष्णा कफवातजित् ।
शोफाध्मानवमिश्वासशमनी सन्निपातनुत् ॥१०.५०
सितपाटलिका चान्या सितकुम्भी फलेरुहा ।
सिता मोघा कुबेराक्षी सिताह्वा काष्ठपाटला ।
पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥१०.५१
सितपाटलिका तिक्ता गुरूष्णा वातदोषजित् ।
वमिहिक्काकफघ्नी च श्रमशोषापहारिका ॥१०.५२
अशोकः शोकनाशः स्याद्विशोको वञ्जुलद्रुमः ।
मधुपुष्पोऽपशोकश्च कङ्केलिः केलिकस्तथा ॥१०.५३
रक्तपल्लवकश्चित्रो विचित्रः कर्णपूरकः ।
सुभगः स्मराधिवासो दोषहारी प्रपल्लवः ॥१०.५४
रागी तरुर्हेमपुष्पो रामावामङ्घ्रिघातकः ।
पिण्डीपुष्पो नटश्चैव पल्लवद्रुर्द्विविंशतिः ॥१०.५५
अशोकः शिशिरो हृद्यः पित्तदाहश्रमापहः ।
गुल्मशूलोदराध्माननाशनः क्रिमिकारकः ॥१०.५६
चम्पकः स्वर्णपुष्पश्च चाम्पेयः शीतलच्छदः ।
सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ॥१०.५७
सुरभिर्दीपपुष्पश्च स्थिरगन्धोऽतिगन्धकः ।
स्थिरपुष्पो हेमपुष्पः पीतपुष्पस्तथापरः ।
हेमाह्वः सुकुमारस्तु वनदीपोऽष्टभूह्वयः ॥१०.५८
तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ॥१०.५९
चम्पकः कटुकस्तिक्तः शिशिरो दाहनाशनः ।
कुष्ठकण्डूव्रणहरो गुणाढ्यो राजचम्पकः ॥१०.६०
क्षुद्रादिचम्पकस्त्वन्यः स ज्ञेयो नागचम्पकः ।
फणिचम्पकनागाह्वश्चम्पको वनजः शराः ॥१०.६१
वनचम्पकः कटूष्णो वातकफध्वंसनो वर्ण्यः ।
चक्षुष्यो व्रणरोपी वह्निस्तम्भं करोति योगगुणात् ॥१०.६२
बकुलस्तु सीधुगन्धः स्त्रीमुखमधुदोहलश्च मधुपुष्पः ।
सुरभिर्भ्रमरानन्दः स्थिरकुसुमः केसरश्च शारदिकः ॥१०.६३
करकः सीधुसंज्ञस्तु विशारदो गूढपुष्पको धन्वी ।
मदनो मद्यामोदश्चिरपुष्पश्चेति सप्तदशसंज्ञः ॥१०.६४
बकुलः शीतलो हृद्यो विषदोषविनाशनः ।
मधुरश्च कषायश्च मदाढ्यो हर्यदायकः ॥१०.६५
बकुलकुसुमं च रुच्यं क्षीराढ्यं सुरभि शीतलं मधुरं ।
स्निग्धकषायं कथितं मलसंग्रहकारकं चैव ॥१०.६६
केतकी तीक्ष्णपुष्पा च विफला धूलिपुष्पिका ।
मेध्या कण्टदला चैव शिवद्विष्टा नृपप्रिया ॥१०.६७
क्रकचा दीर्घपत्रा च स्थिरगन्धा तु पांशुला ।
गन्धपुष्पेन्दुकलिका दलपुष्पा त्रिपञ्चधा ॥१०.६८
स्वर्णादिकेतकी त्वन्या ज्ञेया सा हेमकेतकी ।
कनकप्रसवा पुष्पी हैमी छिन्नरुहा तथा ।
विष्टरुहा स्वर्णपुष्पी कामखड्गदला च सा ॥१०.६९
केतकीकुसुमं वर्ण्यं केशदौर्गन्ध्यनाशनं ।
हेमाभं मदनोन्मादवर्द्धनं सौख्यकारि च ॥१०.७०
तस्याः स्तनोऽतिशिशिरः कटुः पित्तकफापहः ।
रसायनकरो बल्यो देहदार्ढ्यकरः परः ॥१०.७१
सिन्दूरी वीरपुष्पश्च तृणपुष्पी करच्छदः ।
सिन्दूरपुष्पी शोणादिपुष्पी षडाह्वयः स्मृतः ॥१०.७२
सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् ।
शिरऽर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥१०.७३
जाती सुरभिगन्धा स्यात्सुमना तु सुरप्रिया ।
चेतकी सुकुमारा तु सन्ध्यापुष्पी मनोहरा ॥१०.७४
राजपुत्री मनोज्ञा च मालती तैलभाविनी ।
जनेष्टा हृद्यगन्धा च नामान्यस्याश्चतुर्दश ।
मालती शीततिक्ता स्यात्कफघ्नी मुखपाकनुत् ।
कुद्मलं नेत्ररोगघ्नं व्रणविस्फोटकुष्ठनुत् ॥१०.७५
मुद्गरो गन्धसारस्तु सप्तपत्रश्च कर्दमी ।
वृत्तपुष्पोऽतिगन्धश्च गन्धराजो विटप्रियः ।
गेयप्रियो जनेष्टश्च मृगेष्टो रुद्रसम्मितः ॥१०.७६
मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः ।
मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥१०.७७
शतपत्री तु सुमना सुशीता शिववल्लभा ।
सौम्यगन्धा शतदला सुवृत्ता शतपत्रिका ॥१०.७८
शतपत्री हिमा तिक्ता कषाया कुष्ठनाशनी ।
मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ॥१०.७९
मल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका ।
शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता ।
मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः ॥१०.८०
मल्लिका कटुतिक्ता स्याच्चक्षुष्या मुखपाकनुत् ।
कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ॥१०.८१
वल्लिका मोदिनी चान्या वटपत्रा कुमारिका ।
सुगन्धाढ्या वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥१०.८२
नेत्ररोगापहन्त्री स्यात्कटूष्णा वृत्तमल्लिका ।
व्रणघ्नी गन्धबहला दारयत्यास्यजान्गदान् ॥१०.८३
वार्षिका त्रिपुटा त्र्यस्रा सुरूपा सुलभा प्रिया ।
श्रीवल्ली षट्पदानन्दा मुक्तबन्धा नवाभिधा ॥१०.८४
वार्षिका शिशिरा हृद्या सुगन्धिः पित्तनाशनी ।
कफवातविषस्फोटक्रिमिदोषामनाशनी ॥१०.८५
सा दीर्घवर्त्तुलपुष्पविशेषादनेकनिर्देशा ।
मृगमदवासा त्वन्या कस्तूरीमल्लिका ज्ञेया ॥१०.८६
प्रातर्विकस्वरैका सायोद्भिदुरापि मल्लिका कापि ।
वनमल्लिका नु सा स्यादास्फोता किन्तु समगुणोपेता ॥१०.८७
वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः ।
शीतसहा मधुबहला वसन्तदूती च वसुनाम्नी ॥१०.८८
वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी ।
धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥१०.८९
नवमल्लिकातिमोदा ग्रैष्मी ग्रीष्मोद्भवा च सा ।
सप्तला सुकुमारा च सुरभी सूचिमल्लिका ।
सुगन्धा शिखरिणी स्यान्नेवाली चेन्दुभूह्वया ॥१०.९०
नवमल्लिकातिशैत्या सुरभिः सर्वरोगहृत् ॥१०.९१
सैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिदुक्तान्या ।
मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ॥१०.९२
अतिमुक्तः कषायः स्याच्छिशिरः श्रमनाशनः ।
पित्तदाहज्वरोन्मादहिक्काच्छर्दिनिवारणः ॥१०.९३
यूथिका गणिकाम्बष्ठा मागधी बालपुष्पिका ।
मोदनी बहुगन्धा च भृङ्गानन्दा गजाह्वया ॥१०.९४
अन्या यूथी सुवर्णाह्वा सुगन्धा हेमयूथिका ।
युवतीष्टा व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥१०.९५
हरिणी पीतयूथी च पोतिका कनकप्रभा ।
मनोहरा च गन्धाढ्या प्रोक्ता त्रयोदशाह्वया ॥१०.९६
यूथिकायुगलं स्वादु शिशिरं शर्करार्तिनुत् ।
पित्तदाहतृषाहारि नानात्वग्दोषनाशनं ॥१०.९७
सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः ।
तिक्तहिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः ॥१०.९८
सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता ।
सुरूपं तु सुगन्धाढ्यं स्वर्णयूथ्या विशेषतः ॥१०.९९
कुब्जको भद्रतरुणो वृत्तपुष्पोऽतिकेसरः ।
महासहः कण्टकाढ्यः खर्वोऽलिकुलसङ्कुलः ॥१०.१००
कुब्जकः सुरभिः शीतो रक्तपित्तकफापहः ।
पुष्पं तु शीतलं वर्ण्यं दाहघ्नं वातपित्तजित् ॥१०.१०१
मुचकुन्दो बहुपत्रः सुदलो हरिवल्लभः सुपुष्पश्च ।
अर्घ्यार्हो लक्ष्मणको रक्तप्रसवश्च वसुनामा ॥१०.१०२
मुचकुन्दः कटुतिक्तः कफकासविनाशनश्च कण्ठदोषहरः ।
त्वग्दोषशोफशमनो व्रणपामाविनाशनश्चैव ॥१०.१०३
करुणी ग्रीष्मपुष्पी स्याद्रक्तपुष्पी च वारुणी ।
राजप्रिया राजपुष्पी सूक्ष्मा च ब्रह्मचारिणी ॥१०.१०४
करुणी कटुतिक्तोष्णा कफमारुतनाशिनी ।
आध्मानविषविच्छर्दिजत्रूर्ध्वश्वासहारिणी ॥१०.१०५
माधवी चन्द्रवल्ली च सुगन्धा भ्रमरोत्सवा ।
भृङ्गप्रिया भद्रलता भूमिमण्डपभूषणी ॥१०.१०६
माधवी कटुका तिक्ता कषाया मदगन्धिका ।
पित्तकासव्रणान्हन्ति दाहशोषविनाशिनी ॥१०.१०७
गणिकारी काञ्चनिका काञ्चनपुष्पी वसन्तदूती च ।
गन्धकुसुमातिमोदा वासन्ती मदमादिनी चैव ॥१०.१०८
गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा ।
कामक्रीडाडम्बरशम्बरहरचापलप्रसरा ॥१०.१०९
कुन्दस्तु मकरन्दश्च महामोदो मनोहरः ।
मुक्तापुष्पः सदापुष्पस्तारपुष्पोऽट्टहासकः ॥१०.११०
दमनो वनहासश्च मनोज्ञो रुद्रसम्मितः ॥१०.१११
कुन्दोऽतिमधुरः शीतः कषायः कैश्यभावनः ।
कफपित्तहरश्चैव सरो दीपनपाचनः ॥१०.११२
बकः पाशुपतः शैवः शिवपिण्डश्च सुव्रतः ।
वसुकश्च शिवाङ्कश्च शिवेष्टः क्रमपूरकः ।
शिवमल्ली शिवाह्लादः शाम्भवो रविसम्मितः ॥१०.११३
बकोऽतिशिशिरस्तिक्तो मधुरो मधुगन्धकः ।
पित्तदाहकफश्वासश्रमहारी च दीपनः ॥१०.११४
केविका कविका केवा भृङ्गारिर्नृपवल्लभा ।
भृङ्गमारी महागन्धा राजकन्यालिमोहिनी ॥१०.११५
केविका मधुरा शीता दाहपित्तश्रमापहा ।
वातश्लेष्मरुजां हन्त्री पित्तच्छर्दिविनाशिनी ॥१०.११६
बन्धूको बन्धुजीवः स्यादोष्ठपुष्पोऽर्कवल्लभः ।
मध्यन्दिनो रक्तपुष्पो रागपुष्पो हरिप्रियः ॥१०.११७
असितसितपीतलोहितपुष्पविशेषाच्चतुर्विधो बन्धूकः ।
ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥१०.११८
त्रिसन्धिः सान्ध्यकुसुमा सन्धिवल्ली सदाफला ।
त्रिसन्ध्यकुसुमा कान्ता सुकुमारा च सन्धिजा ॥१०.११९
त्रिसन्धिस्त्रिविधा ज्ञेया रक्ता चान्या सितासिता ।
कफकासहरा रुच्या त्वग्दोषशमनी परा ॥१०.१२०
जपाख्या ओड्रकाख्या च रक्तपुष्पी जवा च सा ।
अर्कप्रिया रक्तपुष्पी प्रातिका हरिवल्लभा ॥१०.१२१
जपा तु कटुरुष्णा स्यादिन्द्रलुप्तकनाशकृत् ।
विच्छर्दिजन्तुजननी सूर्याराधनसाधनी ॥१०.१२२
भ्रमरारिर्भृङ्गमारी भृङ्गारिर्मांसपुष्पिका ।
कुष्ठारिर्भ्रमरी चैव ज्ञेया यष्टिलता मुनिः ॥१०.१२३
तिक्ता भ्रमरमारी स्याद्वातश्लेष्मज्वरापहा ।
शोफकण्डूतिकुष्ठघ्नी व्रणदोषास्थिदोषनुत् ॥१०.१२४
तरुणी सहा कुमारी गन्धाढ्या चारुकेसरा भृङ्गेष्टा ।
रामतरुणी तु सुदला बहुपत्रा भृङ्गवल्लभा च दशाह्वा ॥१०.१२५
तरुणी शिशिरा स्निग्धा पित्तदाहज्वरापहा ।
मधुरा मुखपाकघ्नी तृष्णाविच्छर्दिवारिणी ॥१०.१२६
महती तु राजतरुणी महासहा वर्ण्यपुष्पकोऽम्लानः ।
अमिलातकः सुपुष्पः सुवर्णपुष्पश्च सप्ताह्वः ॥१०.१२७
विज्ञेया राजतरुणी कषाया कफकारिणी ।
चक्षुष्या हर्षदा हृद्या सुरभिः सुरवल्लभा ॥१०.१२८
अथ रक्ताम्लानः स्याद्रक्तसहाख्यः स चापरिम्लानः ।
रक्तामलान्तकोऽपि च रक्तप्रसवश्च कुरवकश्चैव ॥१०.१२९
रामालिङ्गनकामो रागप्रसवो मधूत्सवः प्रसवः ।
सुभगो भ्रमरानन्दः स्यादित्ययं पक्षचन्द्रमितः ॥१०.१३०
उष्णः कटुः कुरवको वातामयशोफनाशनो ज्वरनुत् ।
आध्मानशूलकासश्वासार्तिप्रशमनो वर्ण्यः ॥१०.१३१
पीतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः ।
पीतकुरवः सुपीतः स पीतकुसुमश्च सप्तसंज्ञकः स्यात् ॥१०.१३२
किङ्किरातः कषायोष्णस्तिक्तश्च कफवातजित् ।
दीपनः शोफकण्डूतिरक्तत्वग्दोषनाशनः ॥१०.१३३
नीलपुष्पा तु सा दासी नीलाम्लानस्तु छादनः ।
बाला चार्त्तगला चैव नीलपुष्पा च षड्विधा ॥१०.१३४
आर्त्तगला कटुस्तिक्ता कफमारुतशूलनुत् ।
कण्डूकुष्ठव्रणान्हन्ति शोफत्वग्दोषनाशनी ॥१०.१३५
कण्टकरण्टो झिण्टी सा वन्यसहचरी तु सा पीता ।
शोणी कुरवकनाम्नी कण्टकिनी शोणझिण्टिका चैव ॥१०.१३६
सान्या तु नीलझिण्टी नीलकुरण्टश्च नीलकुसुमा च ।
बाणो बाणा दासी कण्टार्त्तगला च सप्तसंज्ञा स्यात् ॥१०.१३७
झिण्टिकाः कटुकास्तिक्ता दन्तामयशान्तिदाश्च शूलघ्नाः ।
वातकफशोफकासत्वग्दोषविनाशकारिण्यः ॥१०.१३८
उष्ट्रकाण्डी रक्तपुष्पी ज्ञेया करभकाण्डिका ।
रक्ता लोहितपुष्पी च वर्णपुष्पी षडाह्वया ॥१०.१३९
उष्ट्रकाण्डी तु तिक्तोष्णा रुच्या हृद्रोगहारिणी ।
तद्बीजं मधुरं शीतं वृष्यं सन्तर्पणं स्मृतं ॥१०.१४०
तगरं कुटिलं वक्रं विनम्रं कुञ्चितं नतं ।
शठं च नहुषाख्यं च दद्रुहस्तं च बर्हणं ॥१०.१४१
पिण्डीतगरकं चैव पार्थिवं राजहर्षणं ।
कालानुसारकं क्षत्रं दीनं जिह्मं मुनीन्दुधा ॥१०.१४२
तगरं शीतलं तिक्तं दृष्टिदोषविनाशनं ।
विषार्तिशमनं पथ्यं भूतोन्मादभयापहं ॥१०.१४३
अथ दमनकस्तु दमनो दान्तो गन्धोत्कटो मुनिर्जटिलः ।
दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश्च ॥१०.१४४
तापसपत्रः पत्री पवित्रको देवशेखरश्चैव ।
कुलपत्रश्च विनीतस्तपस्विपत्रश्च सप्तधात्रीकः ॥१०.१४५
दमनः शीतलतिक्तः कषायकटुकश्च कुष्ठदोषहरः ।
द्वन्द्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ॥१०.१४६
अन्यश्च वन्यदमनो वनादिनामा च दमनपर्यायः ।
वीर्यस्तम्भनकारी बलदायी चामदोषहारी च ॥१०.१४७
तुलसी सुभगा तीव्रा पावनी विष्णुवल्लभा ।
सुरेज्या सुरसा ज्ञेया कायस्था सुरदुन्दुभी ॥१०.१४८
सुरभिर्बहुपत्री च मञ्जरी सा हरिप्रिया ।
अपेतराक्षसी श्यामा गौरी त्रिदशमञ्जरी ।
भूतघ्नी पूतपत्री च ज्ञेया चैकोनविंशतिः ॥१०.१४९
तुलसी कटुतिक्तोष्णा सुरभिः श्लेष्मवातजित् ।
जन्तुभूतक्रिमिहरा रुचिकृद्वातशान्तिकृत् ॥१०.१५०
कृष्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिताह्वया ।
कासवातक्रिमिवमिभूतापहारिणी पूता ॥१०.१५१
मरुवः खरपत्रस्तु गन्धपत्रः फणिञ्झकः ।
बहुवीर्यः शीतलकः सुराह्वश्च समीरणः ॥१०.१५२
जम्बीरः प्रस्थकुसुमो ज्ञेयो मरुवकस्तथा ।
आजन्मसुरभिपत्रो मरीचश्च त्रयोदश ॥१०.१५३
द्विधा मरुवकः प्रोक्तः श्वेतश्चैव सितेतरः ।
श्वेतो भेषजकार्ये स्यादपरः शिवपूजने ॥१०.१५४
मरुवः कटुतिक्तोष्णः कृमिकुष्ठविनाशनः ।
विड्बन्धाध्मानशूलघ्नो मान्द्यत्वग्दोषनाशनः ॥१०.१५५
अर्जकः क्षुद्रतुलसी क्षुद्रपर्णो मुखार्जकः ।
उग्रगन्धश्च जम्बीरः कुठेरश्च कठिञ्जरः ॥१०.१५६
सितार्जकस्तु वैकुण्ठो वटपत्रः कुठेरकः ।
जम्बीरो गन्धबहुलः सुमुखः कटुपत्रकः ॥१०.१५७
कृष्णार्जकः कालमालो मालूकः कृष्णमालुकः ।
स्यात्कृष्णमल्लिका प्रोक्ता गरघ्नो वनबर्बरः ॥१०.१५८
त्रयोऽर्जकाः कटूष्णाः स्युः कफवातामयापहाः ।
नेत्रामयहरा रुच्याः सुखप्रसवकारकाः ॥१०.१५९
वनबर्बरिकान्या तु सुगन्धिः सुप्रसन्नकः ।
दोषोत्क्लेशी विषघ्नश्च सुमुखः सूक्ष्मपत्रकः ।
निद्रालुः शोफहारी च सुवक्त्रश्च दशाह्वयः ॥१०.१६०
वनबर्बरिका चोष्णा सुगन्धा कटुका च सा ।
पिशाचवान्तिभूतघ्नी घ्राणसन्तर्पणी परा ॥१०.१६१
गङ्गापत्री तु पत्री स्यात्सुगन्धा गन्धपत्रिका ।
गङ्गापत्री कटूष्णा च वातजिद्व्रणरोपणी ॥१०.१६२
पाची मरकतपत्री हरितलता हरितपत्रिका पत्री ।
सुरभिर्मल्लारिष्टा गारुत्मतपत्रिका चैव ॥१०.१६३
पाची कटुतिक्तोष्णा सकषाया वातदोषहन्त्री च ।
ग्रहभूतविकारकारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥१०.१६४
बालकं वारिपर्यायैरुक्तं ह्रीवेरकं तथा ।
केश्यं वज्रं उदीच्यं च पिङ्गं च ललनाप्रियं ।
बालं च कुन्तलोशीरं कचामोदं शशीन्दुधा ॥१०.१६५
बालकं शीतलं तिक्तं पित्तवान्तितृषापहं ।
ज्वरकुष्ठातिसारघ्नं केश्यं श्वित्रव्रणापनुत् ॥१०.१६६
बर्बरः सुमुखश्चैव गरघ्नः कृष्णबर्बरः ।
सुकन्दनो गन्धपत्रः पूतगन्धः सुरार्हकः ॥१०.१६७
बर्बरः कटुकोष्णश्च सुगन्धिर्वान्तिनाशनः ।
विसर्पविषविध्वंसी त्वग्दोषशमनस्तथा ॥१०.१६८
सुरपर्णं देवपर्णं वीरपर्णं सुगन्धिकं ।
मञ्चिपत्रं सूक्ष्मपत्रं देवार्हं गन्धपत्रकं ॥१०.१६९
कटूष्णं सुरपर्णं च क्रिमिश्वासबलासजित् ।
दीपनं कफवातघ्नं वर्ण्यं बालहितं तथा ॥१०.१७०
आरामशीतला नन्दा शीतला सा सुनन्दिनी ।
रामा चैव महानन्दा गन्धाढ्यारामशीतला ॥१०.१७१
आरामशीतला तिक्ता शीतला पित्तहारिणी ।
दाहशोषप्रशमनी विस्फोटव्रणरोपणी ॥१०.१७२
पाथोजं कमलं नभं च नलिनाम्भोजाम्बुजन्माम्बुजं श्रीपद्माम्बुरुहाब्जपद्मजलजान्यम्भोरुहं सारसं ।
पङ्केजं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वार्जं तामरसं कुशेशयकजे कञ्जारविन्दे तथा ॥१०.१७३
शतपत्रं बिसकुसुमं सहस्रपत्रं महोत्पलं वारिरुहं ।
सरसिजसलिलजपङ्केरुहराजीवानि वेदवह्निमितानि ॥१०.१७४
कमलं शीतलं स्वादु रक्तपित्तश्रमार्तिनुत् ।
सुगन्धि भ्रान्तिसंतापशान्तिदं तर्पणं परं ॥१०.१७५
पुण्डरीकं श्वेतपत्रं सिताब्जं श्वेतवारिजं ।
हरिनेत्रं शरत्पद्मं शारदं शम्भुवल्लभं ॥१०.१७६
पुण्डरीकं हिमं तिक्तं मधुरं पित्तनाशनं ।
दाहास्रश्रमदोषघ्नं पिपासादोषनाशनं ॥१०.१७७
कोकनदं अरुणकमलं रक्ताम्भोजं च शोणपद्मं च ।
रक्तोत्पलं अरविन्दं रविप्रियं रक्तवारिजं वसवः ॥१०.१७८
कोकनदं कटुतिक्तं मधुरं शिशिरं च रक्तदोषहरं ।
पित्तकफवातशमनं सन्तर्पणकारणं वृष्यं ॥१०.१७९
उत्पलं नीलकमलं नीलाब्जं नीलपङ्कजं ।
नीलपद्मं च बाणाह्वं नीलादिकमलाभिधं ॥१०.१८०
नीलाब्जं शीतलं स्वादु सुगन्धि पित्तनाशकृत् ।
रुच्यं रसायने श्रेष्ठं केश्यं च देहदार्ढ्यदं ॥१०.१८१
ईषत्श्वेतं पद्मं नलिनं च तदुक्तं ईषदारक्तं ।
उत्पलं ईषन्नीलं त्रिविधं इतीदं भवेत्कमलं ॥१०.१८२
उत्पलादिरयं दाहरक्तपित्तप्रसादनः ।
पिपासादाहहृद्रोगच्छर्दिमूर्छाहरो गणः ॥१०.१८३
पद्मिनी नलिनी प्रोक्ता कूटपिन्यब्जिनी तथा ।
इत्थं तत्पद्मपर्यायनाम्नी ज्ञेया प्रयोगतः ॥१०.१८४
पद्मिनी मधुरा तिक्ता कषाया शिशिरा परा ।
पित्तकृमिशोषवान्तिभ्रान्तिसंतापशान्तिकृत् ॥१०.१८५
पद्मबीजं तु पद्माक्षं गालोड्यं कन्दली च सा ।
भेडा क्रौञ्चादनी क्रौञ्चा श्यामा स्यात्पद्मकर्कटी ॥१०.१८६
पद्मबीजं कटु स्वादु पित्तच्छर्दिहरं परं ।
दाहास्रदोषशमनं पाचनं रुचिकारकं ॥१०.१८७
मृणालं पद्मनालं च मृणाली च मृणालिनी ।
बिसं च पद्मतन्तुश्च बिसिनी नलिनीरुहं ॥१०.१८८
मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् ।
मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परं ॥१०.१८९
पद्मकन्दस्तु शालूकं पद्ममूलं कटाह्वयं ।
शालीनं च जलालूकं स्यादित्येवं षडाह्वयं ॥१०.१९०
शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहं ।
कषायं कासपित्तघ्नं तृष्णादाहनिवारणं ॥१०.१९१
किञ्जल्कं मकरन्दं च केसरं पद्मकेसरं ।
किञ्जं पीतं परागं च तुङ्गं चाम्पेयकं नव ॥१०.१९२
किञ्जल्कं मधुरं रूक्षं कटु चास्यव्रणापहं ।
पित्तघ्नं शिशिरं रुच्यं तृष्णादाहनिवारणं ॥१०.१९३
अनूष्णं चोत्पलं चैव रात्रिपुष्पं जलाह्वयं ।
हिमाब्जं शीतजलजं निशाफुल्लं च सप्तधा ॥१०.१९४
उत्पलं शिशिरं स्वादु पित्तरक्तार्तिदोषनुत् ।
दाहश्रमवमिभ्रान्तिक्रिमिज्वरहरं परं ॥१०.१९५
धवलोत्पलं तु कुमुदं कह्लारं कैरवं च शीतलकं ।
शशिकान्तं इन्दुकमलं चन्द्राब्जं चन्द्रिकाम्बुजं च नव ॥१०.१९६
कुमुदं शीतलं स्वादु पाके तिक्तं कफापहं ।
रक्तदोषहरं दाहश्रमपित्तप्रशान्तिकृत् ॥१०.१९७
नीलोत्पलं उत्पलकं कुवलयं इन्दीवरं च कन्दोत्थं ।
सौगन्धिकं सुगन्धं कुड्मलकं चासितोत्पलं नवधा ॥१०.१९८
नीलोत्पलं अतिस्वादु शीतं सुरभि सौख्यकृत् ।
पाके तु तिक्तं अत्यन्तं रक्तपित्तापहारकं ॥१०.१९९
उत्पलिनी कैरविणी कुमुद्वती कुमुदिनी च चन्द्रेष्टा ।
कुवलयिनीन्दीवरिणी नीलोत्पलिनी च विज्ञेया ॥१०.२००
उत्पलिनी हिमतिक्ता रक्तामयहारिणी च पित्तघ्नी ।
तापकफकासतृष्णाश्रमवमिशमनी च विज्ञेया ॥१०.२०१
पुष्पद्रवः पुष्पसारः पुष्पस्वेदश्च पुष्पजः ।
पुष्पनिर्यासकश्चैव पुष्पाम्बुजः षडाह्वयः ॥१०.२०२
पुष्पद्रवः सुरभिशीतकषायगौल्यो दाहश्रमातिवमिमोहमुखामयघ्नः ।
तृष्णार्तिपित्तकफदोषहरः सरश्च सन्तर्पणश्चिरं अरोचकहारकश्च ॥१०.२०३
जाती भाति मृदुर्मनोज्ञमधुरामोदा मुहूर्तद्वयं द्वैगुण्येन च मल्लिका मदकरी गन्धाधिका यूथिका ।
एकाहं नवमालिका मदकरं चाह्नां त्रयं चम्पकं तीव्रामोदं अथाष्टवासरमितामोदान्विता केतकी ॥१०.२०४
इत्थं नानाप्रथितसुमनःपत्रपद्माभिधानसंस्थानोक्तिप्रगुणिततया तद्गुणाख्याप्रवीणं ।
वाचोयुक्तिस्थिरपरिमलं वर्गं एनं पठित्वा नित्यामोदैर्मुखसरसिजं वासयत्वाशु वैद्यः ॥१०.२०५
स्थैर्ये शैलशिलोपमान्यपि शनैरासाद्य तद्भावनां भेद्यत्वं यमिनां मनांस्यपि ययुः पुष्पाशुगस्याशुगैः ।
तेषां भूषयतां सुरादिकशिरः पत्रप्रसूनात्मनां वर्गोऽयं वसतिर्मता सुमनसां उत्तंसवर्गाख्यया ॥१०.२०६
लोकान्स्पर्शनयोगतः प्रसृमराण्यामोदयन्त्यञ्जसा प्रोत्फुल्लानि च यद्यशांसि विशदान्युत्तंसयन्ते दिशः ।
तस्यायं दशमः कृतौ स्थितिं अगाद्वर्गो नृसिंहेशितुः सूरीन्दोः करवीरकादिरभिधासम्भारचूडामणौ ॥१०.२०७

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP