TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - क्षीरादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


क्षीरादिवर्ग
क्षीरं पीयूषं ऊधस्यं दुग्धं स्तन्यं पयोऽमृतं ॥१५.१
क्षीरजं दधि तद्रूप्यं विरलं मस्तु तज्जलं ॥१५.२
दधिजं नवनीतं स्यात्सारो हैयंगवीनकं ॥१५.३
घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजं ।
अमृतं चाभिघारश्च होम्यं आयुश्च तैजसं ॥१५.४
म्रक्षणं स्नेहनं स्नेहः स्निग्धता म्रक्ष एव च ।
अभ्यङ्गोऽभ्यञ्जनं चैव चोपडश्च घृतादिकः ॥१५.५
तक्रं गोरसजं घोलं कालशेयविलोडितं ।
दण्डाहतमरिष्टोऽम्लं उदश्विन्मथितं द्रवः ॥१५.६
तक्रं त्रिभागदधिसंयुतमम्बु धीरैरुक्तं दधिद्विगुणवारियुतं तु मस्तु ।
दध्यम्भसी यदि समे तदुदश्विदाहुस्तत्केवलं तु मथितं मुनयो वदन्ति ॥१५.७
गोमूत्रं गोजलं गोम्भो गोनिष्यन्दश्च गोद्रवः ।
गोमयं गोपुरीषं स्याद्गोविष्ठा गोमलं च तत् ॥१५.८
गोमहिषीछागलाविकगजतुरगखरोष्ट्रमानुषस्त्रीणां ।
क्षीरादिकगुणदोषौ वक्ष्ये क्रमतो यथायोगं ॥१५.९
गव्यं क्षीरं पथ्यं अत्यन्तरुच्यं स्वादु स्निग्धं पित्तवातामयघ्नं ।
कान्तिप्रज्ञाबुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥१५.१०
गौल्यं तु महिषीक्षीरं विपाके शीतलं गुरु ।
बलपुष्टिप्रदं वृष्यं पित्तदाहास्रनाशनं ॥१५.११
अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् ।
नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः ॥१५.१२
सूक्ष्माजदुग्धेति च संवदार्हं गोदुग्धवीर्यात्त्वधिकं गुणे च ।
सुक्षीणदेहेषु च पथ्यं उक्तं स्थूलाजदुग्धं किल किंचिदूनं ॥१५.१३
आविकं तु पयः स्निग्धं कफपित्तहरं परं ।
स्थौल्यमेहहरं पथ्यं लोमशं गुरु वृद्धिदं ॥१५.१४
मधुरं हस्तिनीक्षीरं वृष्यं गुरु कषायकं ।
स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनं ॥१५.१५
अश्वीक्षीरं तु रूक्षाम्लं लवणं दीपनं लघु ।
देहस्थैर्यकरं बल्यं गौरवकान्तिकृत्परं ॥१५.१६
बलकृद्गर्दभीक्षीरं वातश्वासहरं परं ।
मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्मृतं ॥१५.१७
उष्ट्रीक्षीरं कुष्ठशोफापहं तत्पित्तार्शोघ्नं तत्कफाटोपहारि ।
आनाहार्तिजन्तुगुल्मोदराख्यं श्वासोल्लासं नाशयत्याशु पीतं ॥१५.१८
मधुरं मानुषीक्षीरं कषायं च हिमं लघु ।
चक्षुष्यं दीपनं पथ्यं पाचनं रोचनं च तत् ॥१५.१९
क्षीरं कासश्वासकोपाय सर्वं गुर्वामं स्यात्प्रायशो दोषदायि ।
तच्चेत्तप्तं वर्तितं पथ्यमुक्तं नारीक्षीरं त्वामं एवामयघ्नं ॥१५.२०
उक्तं गव्यादिकं दुग्धं धारोष्णममृतोपमं ।
सर्वामयहरं पथ्यं चिरसंस्थं तु दोषदं ॥१५.२१
केऽप्याविकं पथ्यतमं शृतोष्णं क्षीरं त्वजानां शृतशीतमाहुः ।
दोहान्तशीतं महिषीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तं ॥१५.२२
वृष्यं बृंहणं अग्निवर्धनकरं पूर्वाह्णपीतं पयो मध्याह्ने बलदायकं कफहरं कृच्छ्रस्य विच्छेदकं ।
बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं वार्द्धके रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्वदा ॥१५.२३
क्षीरं मुहूर्तत्रितयोषितं यदतप्तं एतद्विकृतिं प्रयाति ।
उष्णं तु दोषं कुरुते तदूर्ध्वं विषोपमं स्यादुषितं दशानां ॥१५.२४
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमं ।
तदेव तरुणे पीतं विषवद्धन्ति मानुषं ॥१५.२५
चतुर्थभागं सलिलं निधाय यत्नाद्यदावर्तितं उत्तमं तत् ।
सर्वामयघ्नं बलपुष्टिकारि वीर्यप्रदं क्षीरं अतिप्रशस्तं ॥१५.२६
गव्यं पूर्वाह्णकाले स्यादपराह्णे तु माहिषं ।
क्षीरं सशर्करं पथ्यं यद्वा सात्म्ये च सर्वदा ॥१५.२७
पित्तघ्नं शृतशीतलं कफहरं पक्वं तदुष्णं भवेच्छीतं यत्तु न पाचितं तदखिलं विष्टम्भदोषप्रदं ।
धारोष्णं त्वमृतं पयः श्रमहरं निद्राकरं कान्तिदं वृष्यं बृंहणं अग्निवर्धनं अतिस्वादु त्रिदोषापहं ॥१५.२८
क्षीरं न युञ्जीत कदाप्यतप्तं तप्तं न चैतल्लवणेन सार्धं ।
पिष्टान्नसंधानकमाषमुद्गकोशातकीकन्दफलादिकैश्च ॥१५.२९
मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः ।
शाकजाम्बवरसैस्तु सेवितं मारयत्यबुधं आशु सर्पवत् ॥१५.३०
स्निग्धं शीतं गुरु क्षीरं सर्वकालं न सेवयेत् ।
दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च ॥१५.३१
नित्यं तीव्राग्निना सेव्यं सुपक्वं माहिषं पयः ।
पुष्णन्ति धातवः सर्वे बलपुष्टिविवर्धनं ॥१५.३२
क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानां ।
रूक्षञ्च पित्तदाहं करोति रक्तामयं कुरुते ॥१५.३३
मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानां ।
लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानां ॥१५.३४
गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानां ।
मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानां ॥१५.३५
तासां मासत्रयादूर्द्ध्वं गुर्विणीनाञ्च यत्पयः ।
तद्दाहि लवणं क्षीरं मधुरं पित्तदोषकृत् ॥१५.३६
गवादीनां वर्णभेदाद्गुणा दुग्धादिके पृथक् ।
कैश्चिदुक्तो विशेषाच्च विशेषो देशभेदतः ॥१५.३७
देशेषु देशेषु च तेषु तेषु तृणाम्बुनी यादृशदोषयुक्ते ।
तत्सेवनादेव गवादिकानां गुणादि दुग्धादिषु तादृशं मतं ॥१५.३८
शीतं स्निग्धं गुरुर्गौल्यं वृष्यं पित्तापहं परं ।
ज्ञेया चैवाभिधा तस्य कीलाटं तु पयःच्छदः ॥१५.३९
दधि गव्यं अतिपवित्रं शीतं स्निग्धं च दीपनं बलकृत् ।
मधुरमरोचकहारि ग्राहि च वातामयघ्नं च ॥१५.४०
माहिषं मधुरं स्निग्धं श्लेष्मकृद्रक्तपित्तजित् ।
बलास्रवर्धनं वृष्यं श्रमघ्नं शोधनं दधि ॥१५.४१
दध्याजं कफवातघ्नं लघूष्णं नेत्रदोषनुत् ।
दुर्नामश्वासकासघ्नं रुच्यं दीपनपाचनं ॥१५.४२
आविकं दधि सुस्निग्धं कफपित्तकरं गुरु ।
वाते च रक्तवाते च पथ्यं शोफव्रणापहं ॥१५.४३
हस्तिनीदधि कषायलघूष्णं पक्तिशूलशमनं रुचिप्रदं ।
दीप्तिदं खलु बलासगदघ्नं वीर्यवर्धनबलप्रदं उक्तं ॥१५.४४
अश्वीदधि स्यान्मधुरं कषायं कफार्तिमूर्छामयहारि रूक्षं ।
वाताल्पदं दीपनकारि नेत्रदोषापहं तत्कथितं पृथिव्यां ॥१५.४५
गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनं ।
मधुराम्लरसं रुच्यं वातदोषविनाशनं ॥१५.४६
औष्ट्रं अर्शांसि कुष्ठानि क्रिमिशूलोदराणि च ।
निहन्ति कटुकं स्वादु किंचिदम्लरसं दधि ॥१५.४७
विपाके मधुरं बल्यं अम्लं संतर्पणं गुरु ।
चक्षुष्यं ग्रहदोषघ्नं दधि स्त्रीस्तन्यसम्भवं ॥१५.४८
दध्यम्लं गुरु वातदोषशमनं संग्राहि मूत्रावहं बल्यं शोफकरं च रुच्यशमनं वह्नेश्च शान्तिप्रदं ।
कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तोद्रेककरं करोति सततं शुक्रस्य वृद्धिं परां ॥१५.४९
दधि मधुरमीषदम्लं मधुराम्लं वा हितं न चात्युष्णं ।
यावद्यावन्मधुरं दोषहरं तावदुक्तं इदं ॥१५.५०
लवणमरिचसर्पिःशर्करामुद्गधात्रीकुसुमरसविहीनं नैतदश्नन्ति नित्यं ।
न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे पित्तदोषेऽपि नाद्यात् ॥१५.५१
त्रिकटुकयुतमेतद्राजिकाचूर्णमिश्रं कफहरं अनिलघ्नं वह्निसंधुक्षणं च ।
तुहिनशिशिरकाले सेवितं चातिपथ्यं रचयति तनुदार्ढ्यं कान्तिमत्त्वं च नॄणां ॥१५.५२
उष्णाम्लं रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं भुक्तिच्छेदकरं तृषोदरगदप्लीहार्शसां नाशनं ।
स्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥१५.५३
उक्तं श्लेष्मसमीरहारि मथितं तत्श्लेष्मपित्तापहं रुच्यं प्राहुरुदश्विदाख्यं अधिकं तक्रं त्रिदोषापहं ।
मन्दाग्नावरुचौ विदाहविषमश्वासार्तिकासादिषु श्रेष्ठं पथ्यतमं वदन्ति सुधियस्तक्रत्रयं ह्युत्तमं ॥१५.५४
तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिश्रमहरं क्लमहारि मस्तु ।
बल्यप्रदं पवननाशं उदश्विदाख्यं शस्तं कफश्रममरुद्वमनेषु घोलं ॥१५.५५
अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः ।
यथा सुराणां अमृतं हिताय तथा नराणां इह तक्रमाहुः ॥१५.५६
आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कामलेषु ।
प्रमेहगुल्मोदरवातशूले नित्यं पिबेत्तक्रं अरोचके च ॥१५.५७
शीतकालेऽग्निमान्द्ये च कफे पाण्ड्वामयेषु च ।
मार्गोपरोधे कुष्ठादिव्याधौ तक्रं प्रशस्यते ॥१५.५८
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितं ।
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥१५.५९
यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरे ।
संनिपातोदरे तक्रं त्रिकटुक्षारसैन्धवं ॥१५.६०
तक्रं दद्यान्नो क्षते नोष्णकाले नो दौर्बल्ये नो तृषामूर्छिते च ।
नैव भ्रान्तौ नैव पित्तास्रदोषे नैतद्दद्यात्सूतिकायां विशेषात् ॥१५.६१
तक्रं स्नेहान्वितं तुन्दनिद्राजाड्यप्रदं गुरु ।
अर्धावशिष्टं सामान्यं निःशेषं लघु पथ्यदं ॥१५.६२
शीतं वर्णबलावहं सुमधुरं वृष्यं च संग्राहकं वातघ्नं कफहारकं रुचिकरं सर्वाङ्गशूलापहं ।
कासघ्नं श्रमनाशनं सुखकरं कान्तिप्रदं पुष्टिदं चक्षुष्यं नवनीतं उद्धृतनवं गोः सर्वदोषापहं ॥१५.६३
गव्यं च माहिषं चापि नवनीतं नवोद्भवं ।
शस्यते बालवृद्धानां बलकृत्पुष्टिवर्धनं ॥१५.६४
माहिषं नवनीतं तु कषायं मधुरं रसे ।
शीतं वृष्यप्रदं ग्राहि पित्तघ्नं तु बलप्रदं ॥१५.६५
लघ्वाजं तु मधुरं कषायं च त्रिदोषनुत् ।
चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥१५.६६
नवनीतं नवोत्थं तु छागजं क्षयकासजित् ।
बल्यं नेत्रामयघ्नं च कफघ्नं दीपनं परं ॥१५.६७
आविकं नवनीतं तु विपाके तु हिमं लघु ।
योनिशूले कफे वाते दुर्नाम्नि च हितं सदा ॥१५.६८
ऐडकं नवनीतं तु कषायं शीतलं लघु ।
मेधाहृद्गुरु पुष्ट्यं च स्थौल्यं मन्दाग्निदीपनं ॥१५.६९
हस्तिनीनवनीतं तु कषायं शीतलं लघु ।
तिक्तं विष्टम्भि जन्तुघ्नं हन्ति पित्तकफक्रिमीन् ॥१५.७०
अश्वीयं नवनीतं स्यात्कषायं कफवातजित् ।
चक्षुष्यं कटुकं चोष्णं ईषद्वातापहारकं ॥१५.७१
गर्दभीनवनीतं तु कषायं कफवातनुत् ।
बल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥१५.७२
औष्ट्रं तु नवनीतं स्याद्विपाके लघु शीतलं ।
व्रणक्रिमिकफास्रघ्नं वातघ्नं विषनाशनं ॥१५.७३
नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतं ।
चक्षुष्यं सर्वरोगघ्नं दीपनं विषनाशनं ॥१५.७४
शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यं च वातापहं कासघ्नं क्रिमिनाशनं कफकरं संग्राहि शूलापहं ।
बल्यं पुष्टिकरं तृषार्तिशमनं संतापविच्छेदनं चक्षुष्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥१५.७५
एकाहाद्युषितं प्रोक्तमुत्तरोत्तरगन्धदं ।
अहृद्यं सर्वरोगाढ्यं दधिजं तद्घृतं स्मृतं ॥१५.७६
धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृत्वातश्लेष्महरं श्रमोपशमनं पित्तापहं हृद्यदं ।
वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुःस्थैर्यदं गव्यं हव्यतमं घृतं बहुगुणं भोग्यं भवेद्भाग्यतः ॥१५.७७
सर्पिर्माहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृत्वातश्लेष्मनिबर्हणं बलकरं वर्णप्रदाने क्षमं ।
दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं चक्षुष्यं नवगव्यतः परमिदं हृद्यं मनोहारि च ॥१५.७८
आजमाज्यं तु चक्षुष्यं दीपनं बलवर्धनं ।
कासश्वासकफान्तकं राजयक्ष्मसु शस्यते ॥१५.७९
पाके लघ्वाविकं सर्पिर्नवं पित्तप्रकोपणं ।
योनिदोषे कफे वाते शोफे कम्पे च तद्धितं ॥१५.८०
ऐडकं घृतं अतीव गौरवाद्वर्ज्यमिव सुकुमारदेहिनां ।
बुद्धिपाटवकरं बलावहं सेवितं च कुरुते नृणां वपुः ॥१५.८१
निहन्ति हस्तिनीसर्पिः कफपित्तविषक्रिमीन् ।
कषायं लघु विष्टम्भि तिक्तं चाग्निकरं परं ॥१५.८२
अश्वीसर्पिस्तु कटुकं मधुरं च कषायकं ।
ईषद्दीपनदं मूर्छाहारि वाताल्पदं गुरु ॥१५.८३
घृतं गार्दभिकं बल्यं दीपनं मूत्रदोषनुत् ।
पाके लघूष्णवीर्यं च कषायं कफनाशनं ॥१५.८४
घृतं औष्ट्रं तु मधुरं विपाके कटुशीतलं ।
कुष्ठक्रिमिहरं वातकफगुल्मोदरापहं ॥१५.८५
नारीसर्पिस्तु चक्षुष्यं पथ्यं सर्वामयापहं ।
मन्दाग्निदीपनं रुच्यं पाके लघु विषापहं ॥१५.८६
मदापस्मारमूर्छादिशिरःकर्णाक्षिजा रुजः ।
सर्पिः पुराणं जयति व्रणशोधनरोपणं ॥१५.८७
आयुर्वृद्धिं वपुषि दृढतां सौकुमार्यं च कान्तिं बुद्धिं धत्ते स्मृतिबलकरं शीतविध्वंसनं च ।
पथ्यं बाल्ये वयसि तरुणे वार्द्धके चातिबल्यं नान्यत्किंचिज्जगति गुणदं सर्पिषः पथ्यमस्ति ॥१५.८८
काञ्जिकं काञ्जिका वीरं कुल्माषाभिभवं तथा ।
अवन्तिसोमं धान्याम्लं आरनालोऽम्लसारकः ॥१५.८९
काञ्जिकं वातशोफघ्नं पित्तघ्नं ज्वरनाशनं ।
दाहमूर्छाश्रमघ्नं च शूलाध्मानविबन्धनुत् ॥१५.९०
काञ्जिकं काञ्जितैलं च पलितं वातकारकं ।
दाहकं गात्रशैथिल्यं मर्दनान्न च भक्षणात् ॥१५.९१
चुक्रं सहस्रवेधं च रसाम्लं चुक्रवेधकं ।
शाखाम्लभेदनं चैवं अम्लसारं च चुक्रिका ॥१५.९२
चुक्रं तिक्ताम्लकं स्वादु कफपित्तविनाशनं ।
नासिकागददुर्गन्धशिरोरोगहरं परं ॥१५.९३
सौवीरकं सुवीराम्लं ज्ञेयं गोधूमसम्भवं ।
यवाम्लजं यवोत्थं च तुषोत्थं च तुषोदकं ॥१५.९४
सौवीरकं चाम्लरसं केश्यं मस्तकदोषजित् ।
जराशैथिल्यहरणं बलसंतर्पणं परं ॥१५.९५
तण्डुलोत्थं तण्डुलाम्बु कषायं मधुरं लघु ।
संग्राहि विषविच्छर्दितृड्दाहव्रणनाशकृत् ।
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् ॥१५.९६
अन्नोदजः शिवरसस्त्र्यहात्पर्युषिते रसे ।
दीपनो मधुराम्लस्तु दाहजिल्लघुतर्पणः ॥१५.९७
गोमूत्रं कटुतिक्तोष्णं कफवातहरं लघु ।
पित्तकृद्दीपनं मेध्यं त्वग्दोषघ्नं मतिप्रदं ॥१५.९८
माहिषं मूत्रं आनाहशोफगुल्माक्षिदोषनुत् ।
कटूष्णं कुष्ठकण्डूतिशूलोदररुजापहं ॥१५.९९
अजामूत्रं कटूष्णं च रूक्षं नाडीविषार्तिजित् ।
प्लीहोदरकफश्वासगुल्मशोफहरं लघु ॥१५.१००
आविकं तिक्तकटुकं मूत्रं उष्णं च कुष्ठजित् ।
दुर्नामोदरशूलास्रशोफमेहविषापहं ॥१५.१०१
हस्तिमूत्रं तु तिक्तोष्णं लवणं वातभूतनुत् ।
तिक्तं कषायं शूलघ्नं हिक्काश्वासहरं परं ॥१५.१०२
अश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं च विषदोषजित् ।
वातप्रकोपशमनं पित्तकारि प्रदीपनं ॥१५.१०३
खरमूत्रं कटूष्णं च क्षारं तीक्ष्णं कफापहं ।
महावातापहं भूतकम्पोन्मादहरं परं ॥१५.१०४
औष्ट्रकं कटु तिक्तोष्णं लवणं पित्तकोपनं ।
बल्यं जठररोगघ्नं वातदोषविनाशनं ॥१५.१०५
मानुषं मूत्रमामघ्नं क्रिमिव्रणविषार्तिनुत् ।
तिक्तोष्णं लवणं रूक्षं भूतत्वग्दोषवातजित् ॥१५.१०६
शूलगुल्मोदरानाहवातविच्छर्दनादिषु ।
मूत्रप्रयोगसाध्येषु गोमूत्रं कल्पयेद्बुधः ॥१५.१०७
तैलं यत्तिलसर्षपोदितकुसुम्भोत्थातसीधान्यजं यच्चैरण्डकरञ्जकेङ्गुदीफलैर्निम्बाक्षशिग्र्वस्थिभिः ।
ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचिञ्चाभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात्कथ्यते ॥१५.१०८
तिलतैलं अलंकरोति केशं मधुरं तिक्तकषायं उष्णतीक्ष्णं ।
बलकृत्कफवातजन्तुखर्जूव्रणकण्डूतिहरं च कान्तिदायि ॥१५.१०९
सर्षपतैलं तिक्तं कटुकोष्णं वातकफविकारघ्नं ।
पित्तास्रदोषदं क्रिमिकुष्ठघ्नं तिलजवच्च चक्षुष्यं ॥१५.११०
कुसुम्भतैलं क्रिमिहारि तेजोबलावहं यक्ष्ममलापहं च ।
त्रिदोषकृत्पुष्टिबलक्षयं च करोति कण्डूं च करोति दृष्टेः ॥१५.१११
मधुरं त्वतसीतैलं पिच्छिलं चानिलापहं ।
मदगन्धि कषायं च कफकासापहारकं ॥१५.११२
गोधूमयावनालव्रीहियवाद्यखिलधान्यजं तैलं ।
वातकफपित्तशमनं कण्डूकुष्ठादिहारि चक्षुष्यं ॥१५.११३
एरण्डतैलं कृमिदोषनाशनं वातामयघ्नं सकलाङ्गशूलहृत् ।
कुष्ठापहं स्वादु रसायनोत्तमं पित्तप्रकोपं कुरुतेऽतिदीपनं ॥१५.११४
करञ्जतैलं नयनार्तिनाशनं वातामयध्वंसनं उष्णतीक्ष्णकं ।
कुष्ठार्तिकण्डूतिविचर्चिकापहं लेपेन नानाविधचर्मदोषनुत् ॥१५.११५
स्निग्धं स्यादिङ्गुदीतैलं मधुरं पित्तनाशनं ।
शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनं ॥१५.११६
निम्बतैलं तु नात्युष्णं क्रिमिकुष्ठकफापहं ॥१५.११७
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहं ॥१५.११८
शिग्रुतैलं कटूष्णं च वातजित्कफनाशनं ।
त्वग्दोषव्रणकण्डूतिशोफहारि च पिच्छिलं ॥१५.११९
कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनं ।
पित्तसंतापनं मेधाप्रज्ञाबुद्धिविवर्धनं ॥१५.१२०
शीतं हरीतकीतैलं कषायं मधुरं कटु ।
सर्वव्याधिहरं पथ्यं नानात्वग्दोषनाशनं ॥१५.१२१
तीक्ष्णं तु राजिकातैलं ज्ञेयं वातादिदोषनुत् ।
शिशिरं कटु पुंस्त्वघ्नं केश्यं त्वग्दोषनाशनं ॥१५.१२२
सरं कोशाम्रजं तैलं क्रिमिकुष्ठव्रणापहं ।
तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनं ॥१५.१२३
यच्च चिञ्चीभवं तैलं कटु पाके विलेखनं ।
कफवातहरं रुच्यं कषायं नातिशीतलं ॥१५.१२४
कर्पूरतैलहिमतैलसितांशुतैलशीताभ्रतैलतुहिनांशुसुधांशुतैलं ।
कर्पूरतैलं कटुकोष्णकफामहारि वातामयघ्नरददार्ढ्यदपित्तहारि ॥१५.१२५
त्रपुसैर्वारुकचारककुष्माण्डप्रभृतिबीजजं च यत्तैलं ।
तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरं ॥१५.१२६
तैलं न सेवयेद्धीमान्यस्य कस्य च यद्भवेत् ।
विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत् ॥१५.१२७
विषस्य तैलस्य न किंचिदन्तरं मृतस्य सुप्तस्य न किंचिदन्तरं ।
तृणस्य दासस्य न किंचिदन्तरं मूर्खस्य काष्ठस्य न किंचिदन्तरं ॥१५.१२८
इत्थं गवादिकपयःप्रभृतिप्रपञ्चप्रस्ताववर्णिततिलादिकतैलजातं ।
वर्गं निसर्गललितोज्ज्वलशब्दसर्गं बुद्ध्वा भिषक्पतिरशङ्कतया भिषज्येत् ॥१५.१२९
पातारं आत्मनः किल यान्ति प्रत्युपचिकीर्षया यानि ।
तेषां एव निवासः परिकथितः पेयवर्ग इति कृतिभिः ॥१५.१३०
पायं पायं मधुरविमलां शीतलां यस्य कीर्तिस्रोतोधारां जहति सुजना दुर्जनासंगदौस्थ्यं ।
वर्गस्तस्य व्रजति नृहरेर्नामनिर्माणनाम्नश्चूडारत्ने खलु तिथिमितः क्षीरकादिः समाप्तिं ॥१५.१३१

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:30.8730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

truly

  • खरोखर 
  • रास्तपणाने 
RANDOM WORD

Did you know?

How I do save the text on my computer?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site