TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमः स्कन्धः - अथ चतूर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


अपशकुन पाहून महाराज युधिष्ठिरांना शंका येणे आणि अर्जुनाचे द्वारकेहुन परत येणे.

सुत उवाच

सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।

ज्ञातूं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम ॥१॥

व्यतीताः कतिचिन्मासास्तदा नायत्ततोऽर्जुनाः ।

ददर्श घोररूपाणि निमित्तानि कुरुद्वहः ॥२॥

कालस्य च गतिं रौद्रां विपर्यस्तर्तूधर्मिणः ।

पापेयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम ॥३॥

जिह्याप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम ।

पितृमातृसुहृदभ्रातृदम्पतीनां च कल्कनम ॥४॥

निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम ।

लोभाद्यधर्मप्रकृतिं दृष्टोवाचानुजं नॄपः ॥५॥

युधिष्ठिर उवाच

सम्प्रेषितो द्वारकायां जिष्णूर्बन्धुदिदृक्षया ।

ज्ञातूंच पुण्यश्‍लोकस्य कृष्णस्य च विचेष्टितम ॥६॥

गताः सप्ताधुना मासा भीमासेन तवानुजः ।

नायाति कस्य वा हेतोर्नाहं वेदेदमत्र्जसा ॥७॥

अपि देवर्षिणा‍ऽ‍ऽदिष्टःस कालोऽयमुपस्थितः ।

यदाऽऽत्मनोऽगंमाक्रीडं भगवानुत्सिसृक्षति ॥८॥

यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।

आसन सपत्‍नविजयो लोकाश्च यदनुग्रहात ॥९॥

पश्योत्पातान्नरव्याघ्र दिव्यान भौमान सदैहिकान ।

दारुणान शंसनोऽदुराद्भयं नो बुद्धिमोहनम ॥१०॥

ऊर्वक्षिबाहवो महां स्फूरन्त्यगं पुनः पुनः ।

वेपथूश्चापि हृदये आराद्दस्यन्ति विप्रियम ॥११॥

शिवैषोद्यन्तमाइद्त्यमभिरौत्यनलानना ।

मामंग सारमेयोऽयमभिरेभत्यभीरुवत ॥१२॥

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।

वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥१३॥

मृत्युदूतः कपोतोऽप्यमुलूकः कम्पयन मनः ।

प्रत्युकुलश्च कुह्वानैरनिद्रो शून्यामिच्छतः ॥१४॥

धुर्मा दिशः परिधयः काम्पते भू सहाद्रिभिः ।

निर्घातश्च महांस्तात सांक च स्तनयित्नुभिः ॥१५॥

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।

असृग वर्षन्ति जलदा बीभत्समिव सर्वतः ॥१६॥

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।

ससंकुलैर्भुतगणैर्ज्वलिते इव रोदसी ॥१७॥

नद्यो नादाश्च क्षुभिताः सरांसी च मनांसि च ।

न ज्वलत्याग्निराज्येन कालोऽयं किं विधास्याति ॥१८॥

न पिबन्ति स्तनं वत्सा न दुहान्ति च मातरः ।

रुदन्त्यश्रुमुखा गावो न हृष्यन्त्युषभा व्रजे ॥१९॥

दैवतानि रुद्रन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।

इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः ।

भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥२०॥

मन्य एतैर्महोत्पातैर्नुनं भगवतः पदैः ।

अनन्यपुरुषश्रीभर्हिना भूर्हतसौभगा ॥२१॥

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।

राज्ञः प्रत्यागमद्‍ब्रह्मन यदुपुर्याः कपिध्वजः ॥२२॥

तं पादयो र्निपतितमयथापूर्वमातूरम ।

अधोवदनमब्बिन्दून सृजन्तं नयनाब्जयोः ॥२३॥

विलोक्योद्विग्रहृदयो विच्छायमनुजं नृपः ।

पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम ॥२४॥

युधिष्ठिअ उवाच

कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।

मधुभोजनदशार्हार्हसात्वतान्धकवृष्णयः ॥२५॥

शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः ।

मातूलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः ॥२६॥

सप्त स्वसारस्तत्पन्यो मातूलान्यः सहात्मजाः ।

आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम ॥२७॥

कच्चिद्राजाऽऽहुको जीवत्यसत्पुत्रोस्य चानुजः ।

हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥२८॥

आसते कुशलं कच्चिद्ये च शत्रुजिदादयः ।

कच्चिदस्ते सुखं रामो भगवान सात्वतां प्रभुः ॥२९॥

प्रद्युमः सर्ववृष्णांनी सुखमास्ते महारथः ।

गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥३०॥

तथैवानुचराः शौरेः श्रुतदेवोद्धवदयः ।

अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादय ॥३१॥

तथैवानुचराः शौरः श्रुतदेवोद्धवादयः ।

सुनन्दनन्दशीर्षण्यां ये चान्ये सात्वतर्षभाः ॥३२॥

अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः ।

अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः ॥३३॥

भगवानपि गोविन्दो ब्रह्माण्यो भक्तवत्सलः ।

कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृदवृतः ॥३४॥

मंगलाय च लोकांना क्षेमायं च भवाय च ।

आस्त्रे यदुकुलाम्भोधावद्योऽनन्तसखः पुमान ॥३५॥

यद्धाहुदण्डगुप्तायां स्वपुर्या यदवोऽर्चिताः ।

क्रीडन्ति परमानन्दं महापौरुषिका इव ॥३६॥

यत्पादशुश्रुषणमुखकर्मणा सत्यादयो दृयष्टसहस्त्रयोषितः ।

निर्जित्यं संख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुइधवल्लभोचिताः ॥३७॥

यद्धाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्याकुतोभया मुहुः ।

अधिक्रमन्त्यड घ्रिभिराहृतां बलात सभां सुधर्मा सुरसत्तमोचिताम ॥३८॥

कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।

अलब्धमानोऽवज्ञातः किम व तात चिरोषितः ॥३९॥

कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमंगलैः ।

न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम ॥४०॥

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियमं ।

शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥४१॥

कच्चित्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम ।

पराजितो वाथ भवान्नोत्तमैर्नासमैः पथि ॥४२॥

अपि स्वित्पर्यभुड्‌क्थास्त्वं सम्भोज्यान वृद्धबालकान ।

जुगुप्सितं कर्म किंचित्कृतवान्न यदक्षमम ॥४३॥

कच्चित प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।

शुन्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक ॥४४॥

इति श्रीमद्भागवते महपुराणे पारमंहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरवितर्को नाम चतूर्दशोऽध्यायः ॥१४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:33.7700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गृहीत धरणे

  • ना. आहे असे मानणे , गृहीतकृत्य , परिकल्पना , परिकल्पनात्मक , मनात धरणे , समजून चालणे . 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मुलांचे किंवा मुलींचे कान कां टोचतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site