TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीकृष्णांचे द्वारकेला गमन

शौनक उवाच

हत्वा स्वारिक्थस्पृध आततायिनो

युधिष्ठिरो धर्मभृतां वरिष्ठः ।

सहानुजैः प्रत्यवरुद्धभोजनः

कथ प्रवृत्त किमकारषीत्ततः ॥१॥

सुत उवाच

वंशं कुरोर्वंशदवाग्निनिर्हृतं सरोहयित्वा भवभावनो हरिः ।

निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभुन ह ॥२॥

निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रम ।

शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः ॥३॥

कामं ववर्ष पर्जन्यः सर्वकामदुधा मही ।

सिषिचुः स्म व्रजान गावः पयसोधस्वतीर्मुदा ॥४॥

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।

फलन्त्योषधयः सर्वा काममन्वृतु तस्य वै ॥५॥

नाधयो व्याधयः क्लेशा दैवभूतात्महेवः ।

अजातशत्रावभवन जन्तूनां राज्ञि कर्हिचित ॥६॥

उषित्वा हास्तिनपुरे मासान कतिपयान हरिः ।

सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥७॥

आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम ।

आरुरोहं रथं कैश्चित्पारिष्वक्तोऽभिवादितः ॥८॥

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।

गान्धारी धृतराष्ट्रश्च युयुत्सुगौतमो यमो ॥९॥

वृकोदहश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।

न सेहिरे विमुह्यान्तो विरहं शार्गधन्वनः ॥१०॥

सत्संगन्मुक्तदुः संगो हातुं नोत्सुहते बुधः ।

कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम ॥११॥

तस्मिन्न्यस्तधियः पार्थाः सहेरन विरहं कथम ।

दर्शनस्पर्शसंलापशयनासनभोजनैः ॥१२॥

सर्वे तेऽनिमिषैरक्षैस्तम्नुद्रुतचेतसः ।

वीक्षन्त स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥१३॥

न्यरुन्धन्नुद्रलद्वाष्पमौत्कण्ठ्याद्दीवकीसुते ।

निर्यात्यगारान्नोऽभद्रामिति स्याद्धान्धवस्त्रियः ॥१४॥

मृदंगशखभेर्यश्च वीणापणवगोमुखाः ।

धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥१५॥

प्रासादशिखरारुढाः कुरुनार्थो दिदृक्षया ।

ववृषुः कुसुमैः कृष्णं प्रेमव्रीडस्मितेक्षणाः ॥१६॥

सितातपत्र जग्राह मुक्तादामविभुषितम ।

रत्‍नदण्डं गुडाकेशः प्रिय प्रियतमस्य ह ॥१७॥

उद्धवः सात्यकिश्चैव व्यजने परमाद्द्भते ।

विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥१८॥

अश्रुयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।

नानुरुपानुरुपाश्च निर्गुणस्य गुणात्मनः ॥१९॥

अन्योन्यमासीत्संजल्प उत्तमश्लोकचेतसाम ।

कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥२०॥

स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि ।

अग्रे गुणोभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु ॥२१॥

स एव भूर्यो निजवीर्यचोदितां स्वजीवमायां प्रकृति सिसृक्षतीम ।

अनामरुपात्मनि रुपनामनी विधित्समानोऽनुसार शास्त्रकृत ॥२२॥

स वा अयं यत्पदमत्र सुरयो जितेन्द्रिया निर्जितमातरिश्व्चनः ।

पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥२३॥

स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्नोषु च गुह्नावदिभिः ।

य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥२४॥

यदा ह्राधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल ।

धत्ते भगं सत्यम्रुत दयां यशो भवाय रुपाणि दधद्युगे युगे ॥२५॥

अहो अलं श्लाघ्यतमं यदोः कुलम अहो अलं पुण्यतमं मधोर्वनम ।

यदेष पुंसामृषभः श्रियः पतिः स्वजन्मना चडक्रमणेन चांचति ॥२६॥

अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः ।

पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपर्तिं स्म यत्प्रजाः ॥२७॥

नुनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्रास्य गृहितपाणिभिः ।

पिबन्ति याः सख्यधरामृतं मुहु र्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः ॥२८॥

या वीर्यशुक्लेन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान हि शुष्मिणः ।

प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्त्रशः ॥२९॥

एताः परं स्त्रीत्वमतास्तपेशलं निरस्तशौचं बत साधु कुर्वते ।

यांसा गृहात्पुष्करलोचनः पति र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन ॥३०॥

एवंविधा गदन्तीनां स गिरः पुरयोषिताम ।

निरिक्षणेनाभिनन्दन सस्मितेन ययौ हरिः ॥३१॥

अजातशत्रुः पृतनां गोपीनाथ मधुद्विषः ।

परेभ्यः शकंइतः स्नेहात्प्रायुंक्त चतुरंगिणीम ॥३२॥

अथ दुरागातान शौरिः कौरवान विरहातुरान ।

संनिवर्त्यं दृढं स्निग्धान प्रयात्स्वनगरीं प्रियैः ॥३३॥

कुरुजांगलपा त्र्चालान शुरसेनान सयामुनान ।

ब्रह्मावर्त कुरुक्षेत्रं मत्स्यान सारस्वतानथ ॥३४॥

मरुधन्वमतिक्रम्य सौवीराभीरयो परान ।

आनर्तान भार्गवोपागाच्छ्रान्तवाहो मनाग्विभुः ॥३५॥

तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।

सायं भेजे दिशं पश्चाद्रविष्ठो गां गतस्तदा ॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धै नैमिषीयोपाख्याने श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:33.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stalk

  • पु. Bot., Zool. वृंत 
  • दांडा, देठ, वृंत 
  • देठ, दांडा, दंड, वृंत 
  • फूल, पान, फळ इत्यादी अवयवांचा खोड अथवा शाखा यांचेशी संबंध जोडणारा आधारभूत भाग. शैवले, कवक, शेवाळी इत्यादी वनस्पतींतही असा आधारभूत भाग आढळतो. 
More meanings
RANDOM WORD

Did you know?

'डांबिस' हा शब्द मराठी कि कुठल्या भाषेतून आलाय ? त्याचा अर्थ किंवा उगम कोणता?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.