TransLiteral Foundation

प्रथमः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


भगवत्कथा आणि भगवद्भक्तीचे माहात्म्य

व्यास उवाच

इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।

प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥१॥

सुत उवाच

यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्मयतया तरवोऽभिनेदु स्तं सर्वभुतह्रुदयं मुनिमानतोऽस्मि ॥२॥

यः स्वानुभावमखिलश्रुतिसारमेक मध्यात्मदीपमतितितीर्षतां तमोऽन्धम ।

संसारिणां करुणयाऽऽहं पुराणगुह्नां तं व्याससुनुमुपयामि गुरुं मुनीनाम ॥३॥

नारायणं नमस्कत्य नरं चैव नरोत्तमम ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत ॥४॥

मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमंगलम ।

यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥५॥

स वै पुंसां परो धर्मा यतो भक्तिरधोक्षजे ।

अहैतुक्यप्रतिहता ययाऽऽत्मा सम्प्रसीदति ॥६॥

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम ॥७॥

धर्मः स्वनुष्ठित पुसां विष्वक्सेनकथासु यः ।

नोत्पादयेद्यदि रतिं श्रम एव ही केवलम ॥८॥

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायो पकल्पते ।

नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥९॥

कामस्य नेन्द्रियपीतिर्लाभो जीवेत यावता ।

जीवस्य तत्त्वजिज्ञासा नार्थो यच्श्रेह कर्मभिः ॥१०॥

वदन्ति तत्तत्त्वविदस्ततत्वं यज्ज्ञानमद्वयम ।

ब्रह्मोति परमात्मेति भगवानिति शब्दयते ॥११॥

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।

पश्यन्त्यात्मनि चात्मानं भक्त्यां श्रुत्तगृहितया ॥१२॥

अतः पुम्भिर्द्विजश्रेष्ठा वर्नाश्रमविभागशः ।

स्वनुष्ठितस्य धर्मस्य सांसिद्धिर्हरितोषणम ॥१३॥

तस्मादेकेन मनसा भगवान सात्वतां पतिः ।

श्रोतव्यः कीर्तिव्यश्च ध्येयः पुज्यश्च नित्यदा ॥१४॥

यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम ।

छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम ॥१५॥

शुश्रुषोः श्रद्दधानस्य वासुदेवकथारुचिः ।

स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात ॥१६॥

श्रृण्वतां स्वकथांकृष्णः पुण्यश्रवणकीर्तनः ।

हृद्यन्तःस्थो ह्याभद्राणि विधुनोति सुहृत्सताम ॥१७॥

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।

भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥१८॥

तदा रजस्तमोभावाः कमलोभादयश्च ये ।

चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥१९॥

एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।

भगव्त्तत्त्वविज्ञानं मुक्तसंगस्य जायतेः ॥२०॥

भिद्यते हृदयग्रन्थिश्छिन्ते सर्वसंशयाः ।

क्षीयन्ते चास्त्य कर्माणि दृष्ट एवात्मनीश्वरे ॥२१॥

अतो वै कवयो नित्यं भक्तीं परमया मुदा ।

वासुदेवे भगवति कुर्वन्य्त्यात्मप्रसादनीम ॥२२॥

सत्त्वं रजस्तम इति प्रकॄतेर्गूणास्तै र्युक्त परः पुरुष एक इहास्य धत्ते ।

स्थित्यादये हरिविरित्र्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणा स्युः । \२३॥

पार्थिवाद्दारुणो धुमस्तस्मादग्निस्त्रयीमयः ।

तमसस्तु रजस्तर्मात्सत्वं यदब्रह्मादर्शनम ॥२४॥

भेजिरे मुनयोऽथाग्रे भ्गवन्तमधोक्षजम ।

सत्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥२५॥

मुमुक्षवो घोररुपाय हित्वा भूतपतीनथ ।

नारायणकलाः शान्ता भजन्ति ह्नानसुयवः ॥२६॥

रजस्तमः प्रकृतमः समशीला भजन्ति वै ।

पितृभूतप्रजेशादिन श्रियैश्वर्यप्रजेत्सवः ॥२७॥

वासुदेवपरा वेदा वासुदेवपरा मखाः ।

वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥२८॥

वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।

वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥२९॥

स एवएदं ससर्जाग्रे भववानात्ममाययः ।

सदसद्गुपया चाअसौ गुणमय्यागुणौ विभुः ॥३०॥

तया विलसितेष्वेषु गुणेषु गुणवानिव ।

अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥३१॥

यथा ह्यावहितो वह्निर्दारुष्वेकः स्वयेनिषु ।

नानेव भाति विश्वात्मा भुतेषु च तथा पुमान ॥३२॥

असौ गुणमयै र्भावैर्भुतसुक्ष्मेन्द्रियात्मभिः ।

स्वनिर्मितेशु निर्विष्टो भुडक्तें तदगुणानु ॥३३॥

भावयत्येषु सत्वेन लोकान वै लोकभावनः ।

लीलावतारानृरतो देवतिर्यंनरादिषुः ॥३४॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयो‍ऽध्यायः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:33.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

alarm device

  • भयसूचक साधन 
  • भयसूचना साधन 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.