TransLiteral Foundation

प्रथमः स्कन्धः - अथ द्वादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


परीक्षिताचा जन्म

शौनक उवाच

अश्वत्थाम्नोपसृष्टेन ब्रह्माशीष्णोरुतेजसा ।

उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥१॥

तस्य जन्म महबुद्धेः कर्माणि च महात्मनः ।

निधनं च यथैवासीत्स प्रेत्य गतवान यथा ॥२॥

तदिदं श्रुतुमिच्छामो गदितुं यदि मन्यसे ।

ब्रुहि नह श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥३॥

सुत उवाच

अपीपलद्धर्मराजः पितृवद रंजयन प्रजाः ।

निःस्पृहः सर्वकामेभ्यः कृष्णपादाब्जसेवया ॥४॥

सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।

जम्बुर्द्वीपाधिपत्यं च यशश्च त्रिदिवं गतम ॥५॥

किं ते कमः सुरस्पार्हा मुकुन्दामनसो द्विजाः ।

अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥६॥

मातुर्गर्भगतो वीरः स तदा भृगुनन्दन ।

ददर्श पुरुषं काचिद्दह्नामनोऽस्त्रतेजसा ॥७॥

अंगुष्ठमात्रममलं स्फुरत्पुरटमौलिनम ।

अपीच्यदर्शनं श्यामं तडिद्वासमसमच्युतम ॥८॥

श्रीमद्दीर्हचतुर्बाहुं तत्पका चनकुण्डलम ।

क्षतजाक्षं गदापाणिमात्मनः सर्वतोदिशम ।

परिभ्रमन्तमुल्काभां भ्रामयन्तं गदा मुहुः ॥९॥

अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।

विधमन्तः संनिकर्षे पर्यैक्षत क इत्यसौ ॥१०॥

विधुय तदमेयात्मा भगवान्धर्मगुब विभु ।

मिषतो दशमास्यस्य तत्रैवान्तर्दधे हरिः ॥११॥

ततः सर्वगुणोदर्कें सानुकुलग्रहोदये ।

जज्ञे वंशधरः पाण्डॊर्भूयः पाण्डुरिवौजसाः ॥१२॥

तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः ।

जातकं कारयामास वाचयित्वा च मंगलमा ॥१३॥

हिरण्यं गां महीं ग्रामान हस्त्यश्वान्नुपतिर्वरान ।

प्रादात्सवन्नं विप्रेभ्यः प्रजातीर्थे स तीर्थिवित ॥१४॥

तमूचुर्बाह्मणस्तुष्टा राजांन प्रश्रयन्वितम ।

एष ह्यास्मिन प्रजातन्तौ पुरुणां पौरवर्षभः ॥१५॥

दैवेनाप्रतिद्यातेन शुक्लेन संस्थामुपेयुषि ।

रातो वोऽनुग्रहार्थाय विष्णुंना प्रभुविष्णुना ॥१६॥

तस्मान्नाम्रा विष्णुरात इति लोके बृहच्छृवाः ।

भविष्यति न संदेहो महाभागवतो महान ॥१७॥

युधिष्ठिर उवाच

अप्येष वंश्यान राजर्षीन पुण्यश्लोकान महात्मनः ।

अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥१८॥

ब्राह्मणा ऊचुः

पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।

ब्राह्मण्यः सत्यसंधश्व रामो दाशरथिर्यथा ॥१९॥

एष दाता शरण्यश्च यथा ह्रौशीनरः शिबिः ।

यशोवितनिता स्वानां दौष्यन्तिरिव यज्वनाम ॥२०॥

धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।

हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥२१॥

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।

तितिक्षुर्वसुधेवासी सहिष्णुः पितराविव ॥२२॥

पितामहसमः साम्ये प्रसादे गिरिशोपमः ॥

आश्रयः सर्वभुतांना यथा देवो रमाश्रयः ॥२३॥

सर्वसद्रुणमाहात्म्ये एष कृष्णमनुव्रतः ।

रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥२४॥

ध्रुत्या बलिरामः कृष्णे प्रह्लद इव सदगुहः ।

आहर्तैषोऽश्वमेधानां वृद्धांना पर्युपासकः ॥२५॥

राजर्षींणां जनयिता शास्त्रा चोप्तथगामिनाम ।

निग्रहीता कलेरेष भुवो धर्मस्य कारणात ॥२६॥

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात ।

प्रपत्स्यत उपश्रुत्य मुक्तसंगः पदं हरेः ॥२७॥

जिज्ञांसितात्मयाथात्म्ये मुनेर्व्याससुतादसौ ।

हित्वेदं नूपं गंगायां यास्यात्यद्धाकृतोभयम ॥२८॥

इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।

लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान गृहान ॥२९॥

स एष लोके विख्यातः परिईक्षिदिति यत्प्रभुः ।

गर्भे दृष्टमनुध्यायन परीक्षेत नरेष्विह ॥३०॥

स राजपुत्रो ववृद्धे आशु शुक्ल इवोडुपः ।

आपूयमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम ॥३१॥

यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।

राजालब्धधनो दध्यावन्यत्र करदन्डयोः ॥३२॥

तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः ।

धन प्रहीणमजहृरुदीच्यां दिशिः भुरिशः ॥३३॥

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।

वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजब्द्धरीम ॥३४॥

आहूतो भगवान राज्ञा याजयित्वा द्विजैर्नूपम ।

उवास कतिचिन्मासान सुहृदां प्रियकाम्यया ॥३५॥

ततो राज्ञाभ्यनुज्ञातः कृष्णया सह बन्धुभिः ।

ययौ द्वारवतीं ब्रह्मान सार्जुनो यदुभिर्वृत्तः ॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां प्रथमस्कन्धे नैमिषीयोपाख्याने परीक्षिज्जमाद्युत्कर्षो नाम द्वदशोऽध्यायः ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:33.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

over estimate

  • जादा अंदाज 
  • अधिक प्राक्कलनानुमान 
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.