प्रथमः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

एवं कृष्णसखः कृष्णो भ्रात्र राज्ञाऽऽविकल्पितः ।

नानाशंकास्पदं रूपं कृष्णविश्लेषकर्षितः ॥१॥

शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः ।

विभुं तमेवानुध्यायन्नाशक्रोत्प्रतिभाषितूम ॥२॥

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः ।

परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥३॥

सख्य मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन ।

नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥४॥

अर्जुन उवाच

वचिंतोऽहं महाराज हरिणा बन्धुरुपिणा ।

येन मेऽपहृतं तेजो देवविस्मापनं महत ॥५॥

यस्य क्षणवियोगेन लोको ह्राप्रियदर्शनः ।

उक्थेन रहितो ह्योष मृतकः प्रोच्यते यथा ॥६॥

यत्संश्रयाद द्रुपदगेहमुपागतानां राज्ञा स्वयंवरमुखे स्मरदुर्मदानाम ।
तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुष्याधिगता च कृष्णा ॥७॥

यत्संनिधावहमु खाण्डवमग्नयेऽदामिन्द्र च सामरगणं तरसा विजित्य ।

लब्धा सभ मयकृताद्भुतशिल्पमाया दिग्भोऽहरन्नृपतयो बलिमध्वरे ते ॥८॥

यत्तेजसा नृपशिरोऽडघ्रिमहन्मखार्थे आर्योऽनुजस्तव गजायुतसत्ववीर्यः ।

तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन बलिमध्वरे ते ॥९॥

पत्‍न्यास्तवधिमखक्लृप्तमहाभिषेकश्‍लाघिष्ठन्चारुकाबरं कितवैः सभायाम ।

स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः ॥१०॥

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद दुर्वाससोऽरिविहतादयुताग्रभुग यः ।

शाकान्नशिशःटमुपयुज्य यतास्त्रिलोकीं तृप्ताममंस्त सलिले विनिमंग्नसंघः ॥११॥

यत्तेजसाथ भगवान युधि शुलपाणि र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे ।

अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम ॥१२॥

तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः ।

सेन्द्रा श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्र ॥१३॥

यद्वान्धवः कुरुबलाब्धिमनन्तपार मेको रथेन ततरेऽहमतार्यसत्त्वम ।

प्रत्याहृतं बहु धनं च मयो परेषां तेजास्पदं मणीमयं च हृतं शिरोभ्यः ॥१४॥

यो भीष्मकर्णगुरुशल्यमूष्वदभ्र रजन्यवर्यरथमण्डलमन्डितासु ।

अग्रेचरो मम विभो रथयूथपाना मायुर्मनांसि च दृशा सह ओज आर्च्छत ॥१५॥

यद्दोष्षु मा प्राणीहितं गुरुभिष्मकर्ण नप्तृत्रिगर्तशलसैन्धवबाह्निकाद्येः ।

अस्त्राण्यमोघमाहिमानि निरुपिताने नो पस्पृशुर्नृहरिदासमिवासुराणि ॥१६॥

सौत्ये वृतः कुमतिनाऽऽत्मदं ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः ।

मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन यदनुभावनिरस्तचिस्ताः । \१७॥

नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।

संजल्पितानि नरदेव हृदिस्पृशानि स्मर्तूर्लुठन्ति हृदयं मम माधवस्य ॥१८॥

शय्यासनाटनविकथनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः ।

सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे ॥१९॥

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयने शुन्य ।

अध्वन्युरुक्रमपरिग्रहमंग रक्षन गोपैरसाद्भिबलेव विनिर्जितोऽस्मि ॥२०॥

तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नॄपतयो यत आनमन्ति ।

सर्व क्षणेन तदभुदसदीशरिक्तं भस्मन हुतं कुहकाराद्भमोवोत्पमुष्याम ॥२१॥

राजंस्त्वयाभिषुष्टांना सुहृदां न सुहृत्पुरेः ।

विप्रशपविमुढांना निघ्नतां मुष्टिभिर्मिथः ॥२२॥

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम ।

अजानतामिव्यान्योन्य चतूः पंचावशेषिताः ॥२३॥

प्रायेणैतद भगवत ईश्वरस्य विचेष्टितम ।

मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥२४॥

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः ।

दुर्बलान्बालिनो राजन्महान्तो बलिनो मिथः ॥२५॥

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान विभुः ।

यदुन यदुभिरन्योन्यं भुभारान संजहार ह ॥२६॥

देशकालार्थयुक्तानि हृत्तापोपशमानि च ।

हरन्ति स्मरताश्चित्तं गोविन्दाभिहितानि मे ॥२७॥

सूत उवाच

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम ।

सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥२८॥

वासुदेवांगघ्यनुध्यानपरिबृंहितरंहसा ।

भक्त्या निर्मथिताशेषकषायाधिषणोऽर्जुनः ॥२९॥

गीतं भगवता ज्ञान यत तत संग्राममुर्धनि ।

कालकर्मतमोरुद्धं पुनरध्यगमद विभुः ॥३०॥

विशोको ब्रह्मासम्पत्या संछिन्नद्वैतसंशयः ।

लीनप्रकृतिनैर्गुण्यादलिंगत्वादसम्भवः ॥३१॥

निशम्य भगवन्मार्ग संस्थां यदुकुलस्य च ।

स्वःपथाय मतिं चक्रे निभॄतात्मा युधिष्ठिरः ॥३२॥

पृथाप्यनुश्रुत्य धनत्र्ज्ययोदितं नाश यदुनां भगवद्गतिं च ताम ।

एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपराम संसृतेः ॥३३॥

ययाहरदृ भुवो भारं तां तनुं विजहावजः ।

कण्टकं कण्टकेनेव द्वयं चापीशितूः समम ॥३४॥

यथा मत्स्यादिरुपाणि धत्ते जाह्याद यथा नटः ।

भूभरः क्षपितो येन जहौ तच्च कलेवरम ॥३५॥

यदा मुकुन्दो भगवानिमां महीं जहौ स्ततन्वा श्रवणीयसत्कथः ।

तदाहरेवाप्रतिबुद्धचेतसा मधर्महेतूः कलिरन्ववर्तत ॥३६॥

युधिष्ठिरस्तत्पर्सर्पणं बुधः पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि ।

विभग्य लोभानृतजिह्नाहिंसना द्यधर्मचक्रं गमनाय पर्यधात ॥३७॥

स्वराट पौत्रं विनयिनमात्मनः सुसमं गुणैः ।

तोयनीव्याः पतिं भूमेरभ्यषिचंद गजाहृये ॥३८॥

मथूरायां तथा वज्रं शुरसेनपतिं ततः ।

प्राजापत्यां निरुप्योष्टिमग्नीनपिबदीश्वरः ॥३९॥

विसृज्य तत्र तत सर्व दुकुनलवलयादिकम ।

निर्ममो निरहंकारः संछिन्नाशेषबन्धनः ॥४०॥

वाचं जुहाव मनसि तत्प्राण इतरे च तम ।

मृत्यावपानं सोत्सर्गं तं पंचत्वे ह्याजोहवीत ॥४१॥

त्रेत्वे हुत्वाथ पंचत्वं तच्चेकत्वेऽजुहोन्मुनिः ।

सर्वमात्मन्यजुहवीद ब्रह्मण्यात्मानमव्यये ॥४२॥

चीरवासा निराहारो बद्धवड मुक्तमूर्धजः ।

दर्शयन्नात्मनो रुपं जडोन्मत्तपिशाचवत ॥४३॥

अनपेक्षमाणो निरगादश्रृण्वन्बधिरो यथा ।

उदीचीं प्रविवेशांशं गतपुर्वा महात्मभिः ।

हृदि ब्रह्मा परं ध्यायान्नवर्तेत यतो गतः ॥४४॥

सर्व तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः ।

कलिनाधर्ममित्रेण दृष्टा स्पृष्टाः प्रजा भुवि ॥४५॥

ते साधुकृतसर्वार्था ज्ञात्वऽऽत्यन्तिकमातमनः ।

मनसा धारयामासुर्वैकुठचरणाम्बुजम ॥४६॥

तद्धनोद्रिक्यया भक्त्या विशुद्धधिषणाः परे ।

तस्मिन नारायणपदे एकान्तमतयो गतिम ॥४७॥

अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।

विहुतकल्मषास्थाने विरजेनात्मनैव हि ॥४८॥

विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान ।

कृष्णावेशेन तच्चितः पितृभिः स्वक्षयं ययौ ॥४९॥

द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम ।

वासुदेवे भगवति ह्योकान्तमतिराप तम ॥५०॥

यः श्रद्धयैतद भगवत्प्रियाणां पाण्डोः सुतानामिती सम्प्रयाणम ।

श्रुणोत्यलं स्वत्ययनं पवित्रं लब्ध्या हरौ भक्तिमुपैति सिद्धिम ॥५१॥

इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे पाण्डवस्वर्गाहणं नाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP