श्रीविष्णुपुराण - द्वितीय अंश - अध्याय ११

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

यदेतद्भगवानाह गणः सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥१॥

व्यापारश्चापि कथितो गन्धर्वोरगरक्षसाम् । ऋषीणां बालखिल्यानां तथैवाप्सरसां गुरो ॥२॥

यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥३॥

यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टः सूर्यादितीर्यते ॥४॥

विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः । ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥५॥

श्रीपराशर उवाच

मैत्रेय श्रूयतामेद्यद्भवान्परिपृच्छति । यथा सप्तगणेऽप्येकः प्राधान्येनाधिको रविः ॥६॥

सर्वशक्तिः परा विष्णोऋग्यजुः सामसंज्ञिता । सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या ॥७॥

सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः । ऋग्यजुः सामभूतोऽन्तः सवितुर्द्विज तिष्ठति ॥८॥

मासि मासि रविर्यो यस्तत्र तत्र हि सा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥९॥

ऋचः स्तुवन्ति पूवाह्णे मध्याह्नेऽथं यजूंषि वै । बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम् ॥१०॥

अंगमेषा त्रयी विष्णोऋग्यजुः सामसंज्ञिता । विष्णुशक्तिरवस्थानं सदादित्ये करोति सा ॥११॥

न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी । ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥१२॥

सर्गादौ ऋंड्‌मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः । रुद्रः साममयोऽन्ताय तस्मात्तस्याशुचिर्ध्वनिः ॥१३॥

एवं सा सात्विकी शक्तिर्वैष्णवी या त्रयीमयी । आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥१४॥

तया चाधिष्ठितः सोऽपि जाज्वलीति स्वरश्मिभिः । तमः समस्तजगतां नाशं नयति चाखिलम् ॥१५॥

स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः । नृयन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः ॥१६॥

वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः । बालखिल्यास्तथैवैनं परिवार्य समासते ॥१७॥

नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक् तस्य गणस्सप्तविधोऽप्ययम् ॥१८॥

स्तम्भस्थदर्पणस्येव योऽयमासन्नतां गतः । छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ॥१९॥

एव्सं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥२०॥

पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः । परिवर्तत्यहोरात्रकारणं सविता द्विज ॥२१॥

सूर्यरश्मिः सुषुम्णा यस्तर्पितस्तेन चन्द्रमाः । कृष्णपक्षेऽमरैः शश्वत्पीयते वै सुधामयः ॥२२॥

पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज । पिबन्ति पितरस्तेषां भास्कारात्तर्पण तथा ॥२३॥

आदत्ते रश्मिभिर्यन्तु क्षितिसंस्थं रसं रविः । तमुत्सृजति भूतानां पृष्ट्यर्थं सस्यवृद्धये ॥२४॥

तेन प्रीणात्यशेषाणि भूतानि भगवान्नविः । पितृदेवमनुष्यादीनेवमप्याययत्यसौ ॥२५॥

पक्षतृप्तिं तु देवानां पितृणां चैव मासिकीम् । शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥२६॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP