श्रीविष्णुपुराण - द्वितीय अंश - अध्याय १

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

भगवन्सम्यगाख्यातं ममैतदखिलं त्वया । जगतः सर्गसम्बन्धि यत्पृष्टोऽसि गुरो मया ॥१॥

योऽयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया । तत्राहं श्रोतुमिच्छामि भूयोऽपि मुनिसत्तम ॥२॥

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ । तयोरुत्तनपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥३॥

प्रियव्रतस्य्त नैवोक्ता भवता द्विज सन्ततिः । तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥४॥

प्रह्लाद

कर्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः । सम्राट् कुक्षिश्च तत्कन्ये दशपुत्रास्तथाऽपरे ॥५॥

महाप्रज्ञा महावीर्या विनीता दयिता पितुः । प्रियव्रसुताः ख्यातास्तेषां नामानि मे श्रृणु ॥६॥

आग्नीध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा । मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥७॥

ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतोऽभवत् । प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥८॥

मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्याय मनो दधुः ॥९॥

निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने । चक्रुः क्रियां यथान्यायमफलाकांक्षिणो हि ते ॥१०॥

प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम । सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥११॥

जम्बूद्वीपं महाभाग साग्नीध्राय ददौ पिता । मेधातिथेस्तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥१२॥

शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्प्रभुः ॥१३॥

द्युतिमन्तं च राजानं क्रोत्र्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ।

पुष्कराधिपतिं चक्रे सवनं चपि स प्रभुः ॥१४॥

जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥१५॥

तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव । नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ॥१६॥

रम्यो हिरण्यान्षष्ठश्च करुर्भद्रश्व एव च । केतुमालस्तथैवान्यः साधुचेष्टोऽभवन्नृपः ॥१७॥

जम्बूद्वीपविभागांश्च तेषां विप्र निशामय । पिता दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥१८॥

हेमकुटं तथा वर्ष्फ़ं ददौ किम्पुरुषाय सः । तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥१९॥

इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः । नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥२०॥

श्वेतं तदुत्तरं वर्ष पित्रा दत्तं हिरण्वते ॥२१॥

यदुत्तरं श्रृंगवतो वर्ष तत्कुरवे ददौ । मेरोः पूर्वण यद्वर्ष भद्राश्वाय प्रदत्तवान् ॥२२॥

गन्धमादनवर्षं तु केतुमालाय दत्तवान् । इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥२३॥

वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः । शालग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥२४॥

यानि किम्पुरुषादिनि वर्षाण्यष्टौ महामुने । तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ॥२५॥

विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥२६॥

हिमाह्वयं तु वै वर्ष नाभेरासीन्महात्मनः । तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥२७॥

ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः । कृत्वां राज्यं स्वधर्मेण तथेष्टा विविधान्मखान् ॥२८॥

अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । तपसे स महाभागः पुलहस्याश्रमं ययौ ॥२९॥

वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस्तेपे यथान्यायमियाज स महीपतिः ॥३०॥

तपसा कर्षितोऽत्यर्थ कृशो धमनिसन्ततः । नग्नो वीटां मुखे कृत्वां वीराध्वानं ततो गतः ॥३१॥

ततश्च भारतं वर्षमेतल्लोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥३२॥

सुमतिर्भरतस्याभूत्पुत्रः परमधार्मिकः । कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखः पिता ॥३३॥

पुत्रसंक्रामितश्रीस्तु भरतः स महीपतिः । योगाभ्यासरतः प्राणात्र्शालग्रामेऽत्यजन्मुने ॥३४॥

अजायत च विप्रोऽसौ योगिनां प्रवरे कुले । मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥३५॥

सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजयत । परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥३६॥

प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः । भवस्तस्मादथो द्गीथः प्रस्तवस्तत्सुतो विभुः ॥३७॥

पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः । नरो गयस्य तनयस्तत्पत्रोऽभूद्विराट् ततः ॥३८॥

तस्य पुत्रो महावीर्या धीमांस्तस्मादजायत । महान्तस्तत्सुतश्चान्मनस्युस्तस्य चात्मजः ॥३९॥

त्वष्टा त्वष्टूश्च विरजो रजस्तस्याप्यभूत्सुतः । शतजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ॥४०॥

विष्वग्ज्योतिः प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः । तैरिदं भारतं वर्ष नवभेदमलंकृतम् ॥४१॥

तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा । कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥४२॥

एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत् । वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥४३॥

इति श्रीविष्णुपुराणे द्वितीये‍ऽशें प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP