श्रीविष्णुपुराण - द्वितीय अंश - अध्याय ५

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

विस्तार एष कथितः पृथिव्या भवतो मया । सत्पातिस्तु सहस्त्राणि द्विजोच्छ्रयोऽपि कथ्यते ॥१॥

दशसाहस्त्रमेकैकं पातालं मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत ।

महाख्यं सुतलं चाग्र्‌लं चाग्र्‌यं पातालं चापि सप्तमम् ॥२॥

शुक्लकृष्णारूणाः पीताः शर्कराः शैलकात्र्जनाः । भूमयो यत्र मैत्रेय वारप्रासमण्डिताः ॥३॥

तेष दानवदैतेय यक्षाश्च शतशस्तथा । निवसन्ति महानागजातयश्च महामुने ॥४॥

स्वर्लोकादपि रम्याणि पातालानीति नारदः । प्राह स्वर्गसदां मध्ये पातालाभ्यागतो दिवि ॥५॥

आह्लादकारिणः शुभ्र मणयो यत्र सुप्रभाः । नागाभरणभूषादु पातालं केन तत्समम् ॥६॥

दैत्यदानवक्न्याभिरितश्चैतश्च शोभिते । पाताले कास्य न प्रीतिर्विमुक्तस्यापि जायते ॥७॥

दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् । शशेरश्मिर्न शीताय निशि द्योताय केवलम् ॥८॥

भक्ष्यभोज्यमहापानमुदिपैर्पि भोगिभिः । यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः ॥९॥

वनानि नद्यो रम्याणि संरासि कमलाकराः । पुंस्कोकिलाभिलाश्च मनोज्ञान्यम्बराणि च ॥१०॥

भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम् । वीणावेणुमृदंगानाम स्वनास्तुर्यानि च द्विज ॥११॥

एतान्यन्यानि चोदारभाग्यभोग्यानि दानवैः । दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ॥१२॥

पातालानामधश्चास्ते विष्णोर्या तामसी तनुः । शेषाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः ॥१३॥

योऽनन्तः पठ्यते सिद्धैर्दैवो देवर्षिपूजितः । स सहस्त्रशिरा व्यक्तस्वस्थिकामलभूषणः ॥१४॥

फणामणिसहस्त्रेणा यः स विद्योतयान्दिशः । सर्वान्करोति निर्वीर्यान हिताय जगतोऽसुरान ॥१५॥

मदाघूर्नितनेत्रोऽसौ यः सदैवैककुण्डलः । किरीटि स्त्रग्धरो भाति साग्निः श्वेत इवाचलः ॥१६॥

नीलवसा मदोत्सिक्तः श्वेतहारोपशोभितः । साभ्रगंगाप्रवाहोऽसौ कैलासाद्रिरिवापरः ॥१७॥

लांगलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम् । उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया ॥१८॥

कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥१९॥

स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम् । आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ॥२०॥

तस्य वीर्य प्रभावश्च स्वरूपं रूपमेव च । न हि विर्णयितुं शक्यं ज्ञातु च त्रिदशैरपि ॥२१॥

यस्यैषा सकला पृथ्वी फणामणिशिखारूणा । आस्ते कुसुममालेव कस्तुद्वीर्य वदिष्यति ॥२२॥

यदा विजुम्भतेऽनन्तो मदाघृर्णितलोचनः । तदा चलाते भूर्षा साब्धितोया सकानना ॥२३॥

गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमव्ययः ॥२४॥

यस्य नागवधूहस्तैर्लेपिअं हरिचन्दनम् । मुहुः श्वासानिलापस्तं याति दिक्षूदवासताम् ॥२५॥

यमाराध्य पुराणार्षिर्गर्गों ज्योतींषि तत्त्वतः । ज्ञातवान्सकलं चैव निमित्तपठितं फलम् ॥२६॥

तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥२७॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे पत्र्चमो‍ऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP