श्रीविष्णुपुराण - द्वितीय अंश - अध्याय ८

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

व्याख्यातमेतद्बह्माण्डसंस्थानं तव सुव्रत । ततः प्रमाणसंस्थाने सूर्यादीनां श्रृणुष्व मे ॥१॥

योजनानां सहस्त्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥२॥

सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वै । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥३॥

त्रिनाभिमति पत्र्चारे षण्नेमिन्यक्षयात्मके । संवत्सरमये कृत्स्त्रं कालचक्रं प्रतिष्ठितम् ॥४॥

हयाश्च सप्तच्छन्दांसि तेषां नामानि मे श्रूणु । गायत्री च बृहत्युष्णिग्जगती त्रिष्टुबेव च ।

अनुष्टुप्पक्तिरित्युक्ता छन्दांसि हरयो रवेः ॥५॥

चत्वारिंशत्सहस्त्राणि द्वितीयोऽक्षो विवस्वतः । पत्र्चान्यानितु साधानि स्यन्दनस्य महामते ॥६॥

अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः । ह्रस्वोऽक्शस्तद्युगार्द्धन ध्रुवाधारो रथस्य वै ।

द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥७॥

मानसोत्तरशैलस्य पूर्वतो वासवी पुरी । दक्षिणे तु यमस्यान्या प्रतीच्या वरूणस्य च ।

उत्तरेण च सोमस्य तासां नामानि मे श्रृणु ॥८॥

वस्वौकसारा शक्रस्य याम्या संयमनी तथा । पुरी सुखा जलेशस्य सोमस्य च विभावरी ॥९॥

काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः ॥१०॥

अहोरात्रव्यवस्थानकारणं भगवान्नविः । देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥११॥

दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः । सर्वद्वीपेषु मैत्रेय निशार्द्धस्य च सम्मुखः ॥१२॥

उदयास्तमने चैव सर्वकालं तु सम्मुखे । विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च ॥१३॥

यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥१४॥

नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं ही दर्शनादर्शनं रवेः ॥१५॥

शक्रादीनां पुरे तिष्ठन स्पृशत्येष पुरत्रयम् । विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा ॥१६॥

उदितो वर्द्धमानाभिरामध्याह्नात्तपन्नविः । ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति ॥१७॥

उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ । यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः ॥१८॥

ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् । ये ये मरिचयोऽर्कस्य प्रयान्ति ब्रह्मणः सभाम् ।

ते ते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ॥१९॥

तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि । सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतो यतः ॥२०॥

प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे । विशित्यग्निमतो रात्रौ वह्रिर्दूरात्प्रकाशते ॥२१॥

वह्रेः प्रभा तथा भानुर्दिनेष्वाविशति द्विज । अतीव वह्निसंयोगादतः सूर्यः प्रकाशते ॥२२॥

तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥२३॥

दक्षिणोत्तरभूम्यर्द्धे समुत्तिष्ठति भास्करे । अहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् ॥२४॥

आताम्रा हि भवन्त्यापो दिवा नक्तप्रवेशनात् । दिनं विशति चैवाम्भो भास्करेऽस्तुमुपेयुषि ।

तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥२५॥

एवं पुष्करमध्येन यदा याति दिवाकरः । त्रिंशद्भागन्तु मेदिन्यास्तदा मौहुर्तिकी गतिः ॥२६॥

कुलालचक्रपर्यन्तो भ्रमन्नेष दिवाकरः । करोत्यहस्तथा रात्रिं विमुत्र्चन्मेदिनीं द्विज ॥२७॥

अयनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज ॥२८॥

त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥२९॥

ततो रात्रिः क्षयं याति वर्द्धतेऽनुदिनं दिनम् ॥३०॥

ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः । राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥३१॥

कुलालचक्रपर्यन्तो यथा शीघ्रं प्रवर्त्तते । दक्षिणप्रकमे सुर्यस्तथा शीघ्र प्रवर्तते ॥३२॥

अतिवेगितया कालं वायुवेगबलाच्चरन् । तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥३३॥

सूर्यो द्वादशभिः शैघ्‌यान्मुहूर्तैर्दक्षिणायने । त्रयोदशार्द्धमृक्षाणामह्रा तु चरति द्विज ।

मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥३४॥

कुलाकुलचक्रमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥३५॥

तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्छति । अष्टादशमुहूर्त यदुत्तरायणपश्चिमम् ॥३६॥

अहर्भवति तच्चापि चरते मन्दविक्रमः ॥३७॥

त्रयोदशार्द्धमह्रा तु ऋक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ॥३८॥

अतो मन्दतरं नाभ्यां चक्रं भ्रमतिं वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥३९॥

कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते । ध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ॥४०॥

उभयोः कष्ठयोर्मध्ये भ्रमतो मण्डलानि तु । दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥४१॥

मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः । शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः ॥४२॥

एकप्रमाणमेवैष मार्ग याति दिवाकरः । अहोरात्रेण यो भुक्ते समस्ता राशयो द्विज ॥४३॥

षडेव राशीन यो भुंक्ते रात्रावन्यांश्च षंड्‌दिवा ॥४४॥

राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने । तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ॥४५॥

दिनादेर्दीर्घह्रस्वत्वं तद्भोगेनैव जायते । उत्तरे प्रकमे शीघ्रा निशि मन्दा गतिर्दिवा ॥४६॥

दक्षिणे त्वयने चैव विपरीता विवस्वतः ॥४७॥

उषाः रात्रिः समाख्याताव्युष्टिश्चाप्युच्यते दिनम् । प्रोच्यते च तथा सन्ध्या उषाव्युष्टयार्यदन्तरम् ॥४८॥

सन्ध्याकाले च सम्प्रात्पे रौद्रे परमदारुणे । मन्देहा राक्षसा घोराः सुर्यमिच्छन्ति खादितुम ॥४९॥

प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् । अक्षयत्वं शरीराणां मरणं च दिने दिने ॥५०॥

ततः सूर्यस्य तैर्यद्धं भवत्यत्यन्तदारुणम् । ततो द्विजोत्तमास्तोयं संक्षिपन्ति महामुने ॥५१॥

ॐकारब्रह्मासंयुक्तं गायत्र्या चाभिमन्त्नितम् । तेन दह्यान्ति ते पापा व्रजीभूतेन वारिणा ॥५२॥

अग्निहोत्रे हूयते या समन्ता प्रथमाहुतिः । सूर्यो ज्योतिः सहस्त्राशुस्तया दीप्यति भास्करः ॥५३॥

ओंकारो भववान्विष्णुस्त्रिधामा वचसां पतिः । तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः ॥५४॥

वैष्णर्वोंऽशः परः सूर्यो योऽन्तर्जोतिरसम्प्लवम् । अभिधायक ॐकारस्तस्य तत्प्रेरकः परः ॥५५॥

तेन सम्र्प्रेरितं ज्योतिरोंकारेणाथ दीप्तिमत् । दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै ॥५६॥

तस्मान्नोल्लंघनं कार्यं सन्ध्योपासनकर्मणः । स हन्ति सूर्य सन्ध्याया नोपास्तिं कुरुते तु यः ॥५७॥

ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः । बालखिल्यादिभिश्चैव जगतः पालनोद्यतः ॥५८॥

काष्ठा निमेषा दश पत्र्च चैव त्रिंशच्च काष्ठा गणयेत्कलां च । त्रिंशत्कलश्चैव भवेन्मुहूर्त स्तैस्त्रिंशता रात्र्यहनी समेते ॥५९॥

ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम् । सन्ध्या मुहूर्तमात्रा वै ह्रासवृद्धयोः समा स्मृता ॥६०॥

रेखाप्रभृत्यथादित्ये त्रिमुहूर्तगते रवौ । प्रातः स्मृतस्ततः कालो भागश्चाहः स पत्र्चमः ॥६१॥

तस्मत्प्रातस्तनात्कालात्त्रिमुहूर्तस्तु संगवः । मध्याह्रस्त्रिमुहूर्तस्तु तस्मत्कालात्तु संगवात् ॥६२॥

तस्मान्माध्याह्निकात्क्कालादपराह्ण इति स्मृतः । त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः ॥६३॥

अपराह्णे व्यतीते तु कालः सायाह्न एव च । दशपत्र्चमुहूर्ता वै मुहूर्तास्त्रय एव च ॥६४॥

दशपत्र्चमुहूर्तं वै अहर्वैषुवतं स्मृतम् ॥६५॥

वर्द्धते ह्रसते चैवाप्ययने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ॥६६॥

शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते । तुलामेषगते भानौ समरात्रिदिनं तु तत ॥६७॥

कर्कटावस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥६८॥

त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया । तानि पत्र्चदश ब्रह्मन पक्ष इत्यभिधीयते ॥६९॥

मासः पक्षद्वयोनोक्तो द्वौ मासौ चार्कजावृतुः । ऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ॥७०॥

संवत्सरादयः पत्र्च चतुर्मासविकल्पिताः । निश्चयः सर्वकालस्य युगमित्यभिधीयते ॥७१॥

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इद्वत्सरस्तुऋतीयस्तु चतुर्थश्चानुवत्सरः ।

वत्सरः पत्र्चमश्चात्र कालोऽयं युगसंज्ञितः ॥७२॥

यः श्वेतस्योत्तरः शैलः श्रृगंवानिति विश्रुतः । त्रीणि तस्य तु श्रृंगाणि यैरणं श्रॄंगवान्स्मृतः ॥७३॥

दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा । शरद्वसन्तयोर्मध्ये तद्भानुः प्रतिपद्यते ।

मेषादौ च तुलादौ च मैत्रेय विषुवत्स्थितः ॥७४॥

तदा तुल्यमहोरात्रं करोति तिमिरापहः । दशपत्र्चमुहूर्तं वै तदेतदुभयं स्मृतम् ॥७५॥

प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी । विशाखानां चतुर्थेऽशे मुने तिष्ठत्यसंशयम ॥७६॥

विशाखानां यदा सूर्यश्चरत्यशं तृतीयकम् । तदा चन्द्रां विजानीयात्कृत्तिकाशिरसि स्थितम् ॥७७॥

तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयते । तदा दानानि देयानि देवेभ्यः प्रयतात्मभिः ॥७८॥

ब्रह्माणेभ्यः पितृभ्यश्च मुखमेतत्तु दानजम् । दत्तदानस्तु विषुवे कृतकृत्योऽभिजायते ॥७९॥

अहोरत्रार्द्धमासास्तु कलाः काष्ठाः क्षणास्तथा । पौर्णमासी तथा ज्ञेया अमावस्या तथैव च ।

सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥८०॥

तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात् ।

नभोनभस्यौ च इषस्तथोर्जस्सहः सहस्याविति दक्षिणं तत् ॥८१॥

लोकालोकश्च यश्शैलः प्रागुक्तो भवतो मया । लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ॥८२॥

सुधामा शंखपाच्चैव कर्दमस्यात्मजो द्विज । हिरण्यरोमा चैवान्यश्चतुर्थः केतुमानपि ॥८३॥

निर्द्धन्द्वा निरभिमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्योते लोकलोके चतुर्दिशम्॥८४॥

उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयानः स वै पन्था वैश्वानपरथाद्वहिः ॥८५॥

तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः । भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः ।

प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ॥८६॥

चलितं ते पुनर्बह्मा स्थापयन्ति युगे युगे । सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥८७॥

जायमानस्तु पूवे च पश्चिमानां गृहेषु वै । पश्चिमाश्चैव पूवेषां जायन्ते निधनेष्विह ॥८८॥

एवमार्तमानास्ते तिष्ठन्ति नियतव्रताः । सवितृर्दक्षिणं मार्ग श्रिता ह्याचन्द्रतारकम् ॥८९॥

नागवीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितूः पन्था देवयानश्च स स्मृतः ॥९०॥

तत्र ते वशिनः सिद्धा विमला ब्रह्माचारिणः । सन्ततिं ते जुगुप्सन्ति तस्मान्मृत्युर्जितश्च तैः ॥९१॥

अष्टाशीतिसहस्त्राणि मुनीनामूर्ध्वरेतसाम् । उदक्पन्थानमर्यम्णः स्थितान्याभूतसम्प्लवम् ॥९२॥

तेऽसम्प्रयोगाल्लोभस्य मैथुनस्य च वर्जनात । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ॥९३॥

पुनश्च कामासंयोगाच्छब्दादेर्दोषदर्शानात् । इत्येभिः कारणैः शुद्धास्तेऽमृतत्वं हि भेजिरे ॥९४॥

आभूतसम्प्लवं स्थानममृतत्वं विभव्यते । त्रैलोक्यस्थितिकालोऽयमपुनर्मारं उच्यते ॥९५॥

ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः । आभूतसम्प्लवान्तन्तु फलमुक्तं तयोर्द्विज ॥९६॥

यावन्मात्रे प्रदेशें तु मैत्रेयावस्थितो ध्रुवः । क्षयमायाति तावत्तु भूमेराभूतसम्प्लवात् ॥९७॥

ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योग्रि भासुरम् ॥९८॥

निर्धूतदोषपंकानां यतीनां संयतात्मनम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥९९॥

अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्वष्णोः परमं पदम् ॥१००॥

धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्साष्टर्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम् ॥१०१॥

यत्रोतमेतत्प्रोतं च यद्भुतं सचराचरम् । भाव्यं च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥१०२॥

दिवीव चक्षुराततं योगिनां तन्मयात्मनाम् । विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥१०३॥

यस्मिन्र्पतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः । ध्रुवे च सर्वज्योतिषि ज्योतिः ष्वम्भोमुचो द्विज ॥१०४॥

मेघेषु संगता वृष्टिर्वृष्टेः सृष्टेश्च पोषणम् । आप्यायनं च सर्वषां देवादीनां महामुने ॥१०५॥

ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः । वृष्टे कारणतां यान्ति भूतानां स्थितये पुनः ॥१०६॥

एवमेतप्तदं विष्णोस्तृतीयममलात्मकम् । आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥१०७॥

ततः प्रभवति ब्रह्मन्सर्वपापहरा सरित‌ । गंगा देवांगनांगनामनुलेपनपित्र्जरा ॥१०८॥

वामपादाम्बुजांगुष्ठनखस्त्रोतोविनिर्गताम् । विष्णोर्बिभत्ति यां भक्त्या शिरसाहर्निशं ध्रुवः ॥१०९॥

ततः मप्तर्षयो यस्याः प्राणायामपरायणाः । तिष्ठन्ति वीचिमालाभिरुह्यामानजटा जले ॥११०॥

वार्योघैः सन्ततैर्यस्याः प्लावितं शशिमण्डलम् । भूयोऽधिकतरां कान्तिं वहत्येतदुह क्षये ॥१११॥

मेरुपृष्ठे पतत्युच्चैर्निष्क्रान्ता शशिमण्डलात् । जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥११२॥

सीता चालकनन्दा च चक्षुर्भद्रा च संस्थिता । एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ॥११३॥

भेदं चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् । दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् ॥११४॥

शम्भोर्जटाकलापत्र्च विनिष्क्रान्तास्थिशर्कराः । प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ॥११५॥

स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ॥११६॥

दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धायान्वितैः । समाशतं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥११७॥

यस्यामिष्टवा महायज्ञैर्यज्ञेशं पुरुषोत्तमम् । द्विज भूपाः परां सिद्धिमवापुर्दिवि चेह च ॥११८॥

स्नानाद्विधुतपापाश्च यज्जलैर्यतयस्तथा । केशवासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ॥११९॥

श्रुताऽभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता । या पावयति भूतानि कीर्तिता च दिने दिने ॥१२०॥

गंगा गंगेति यैर्नाम योजनानां शतेष्वति । स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥१२१॥

यतः सा पावनायालं त्रयाणां जगतामपि । समुद्भूता परं तत्तु तृतीयं भगवत्पदम् ॥१२२॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे अष्टोमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP