श्रीविष्णुपुराण - द्वितीय अंश - अध्याय ७

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

कथितं भूतलं ब्रह्मन्ममैत्रदखिलं त्वया । भुवर्लोकादिकाँल्लोकात्र्च्छ्रोतुमिच्छाम्यहं मुने ॥१॥

तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । समाचक्ष्व महाभाग तन्महां परिपृच्छते ॥२॥

श्रीपराशर उवाच

रविचन्द्रमसोर्यावन्मयुखैरवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥३॥

यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात । नभस्तावत्प्रमाणं वै व्यासमण्डलतो द्विज ॥४॥

भुमेर्योजनलक्षे तु सौरं मैत्रेय मण्डलम् । लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥५॥

पूर्ण शतसहस्त्रे तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृस्त्रमुपरिष्टात्प्रकाशते ॥६॥

द्वे लक्षे चोत्तरे ब्रह्मन बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥७॥

अंगारकोऽपिशुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ॥८॥

शौरर्बृहस्पतेश्चोर्ध्व द्विलक्षे समवस्थितः । सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तम ॥९॥

ऋशिभ्यस्तु सहस्त्राणां शतादूर्ध्व व्यवस्थितः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥१०॥

त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने । इज्याफलस्य भुरेषा इज्या चात्र प्रतिष्ठिता ॥११॥

ध्रुवादूर्ध्व महर्लोको यत्र ते कल्पवासिनः । एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥१२॥

द्वे कोटी तु जनो लोको यत्रे ते ब्रह्मणः सुताः । सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥१३॥

चतुर्गुणोत्तरे चोर्ध्व जनलोकात्तपः स्थितम् । वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥१४॥

षंगुणेन तपोलोकात्सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मालोकी हि स स्मृतः ॥१५॥

पादगम्यन्तु यत्कित्र्चिदूस्त्वस्ति पृथिविमयम् । स भूर्लोकः समाख्यातो विस्तरोऽस्य मयोदितः ॥१६॥

भूमिसूर्यान्तरं यच्च सिद्धदिमुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ॥१७॥

ध्रुवसूर्यान्तरं यच्च निर्युतानि चतुर्दश । स्वर्लोकः सोऽपि गदितो लोकसंश्तानचिन्तकैः ॥१८॥

त्रैलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥१९॥

कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पान्ते योऽत्यन्तं न विनश्यति ॥२०॥

एते सप्त्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥२१॥

एतदण्डकटाहेन तिर्यक चोर्ध्वमधस्तथा । कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥२२॥

दशोत्तरेण पयसा मैत्रेयाण्डं च तद्वतम् । सर्वोऽम्बुपरिधानोऽसौ वह्निन वेष्टितो बहिः ॥२३॥

वह्निश्च वायुना वायुमैत्रेय नभसा वृतः । भूतादिना नभः सोऽपि महता परिवेष्टितः ।

दशोत्तराण्यशेषाणि मैत्रेयैतानि सप्त वै ॥२४॥

महान्तं च समवृत्यं प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ॥२५॥

तदनन्तमसंख्यातप्रमाणं चापि वै यतः । हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥२६॥

अण्डाणा तु सहस्त्राणां सहस्त्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥२७॥

दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः ॥२८॥

प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे वृत्तौ संश्रयधर्मिणौ ॥२९॥

तयोः सैव पृथग्भावकारणं संश्रयस्य च । क्षोभकारणभुता च सर्गकाले महामते ॥३०॥

यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम् ॥३१॥

यथा च पादपो मूळस्कन्धशाखादिसंयुतः । आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥३२॥

प्रभवन्ति ततस्तेभ्यः सम्भवन्त्यपरे द्गुमाः । तेऽपि तल्लक्षणद्रव्यकारणानुगता मुने ॥३३॥

एवमव्याकृतात्पूर्व जायन्ते महदादयः । विशेषान्तास्ततस्तेभ्यः सम्भवन्त्यसुरादयः ।

तेभ्यश्च पुत्रास्तेषां च पुत्राणामपते सुताः ॥३४॥

बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । भूतानां भूतसर्गेन नैवास्त्यपचयस्तथा ॥३५॥

सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः । तथैवपरिणामेन विश्वस्य भगवान्हरिः ॥३६॥

व्रीहिबीजे यथा मुलं नालं पत्रांकुरौ तथा । काण्डं कोषस्तु पुष्पं च क्षीरं तद्वच्च तण्डुलाः ॥३७॥

तषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । प्ररोहहेतुसामग्रीमासाद्य मुनिसत्तम ॥३८॥

तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः । विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥३९॥

स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । जगच्च यो यत्र चेदं यस्मिश्च लयमेष्यति ॥४०॥

तद्बह्म तत्परं धाम सदसप्तरमं पदम् । यस्य सर्वमभेदेन यतश्चैतच्चराचरम् ॥४१॥

स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः । तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥४२॥

कर्ता क्रियाणां स च इज्यते क्रतुः स एव तत्कर्मफलं च तस्य । स्त्रुगादि यत्साधनमप्यशेषं हरेर्न कित्र्चिद्‌व्यतिरिक्तमस्ति ॥४३॥

इति श्रीविष्णूपुराणे द्वितीयेंऽशें सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP