मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र| श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः) सहस्त्रनामस्तोत्र श्रीसीतासहस्त्रनामस्तोत्रम् सुदर्शन सहस्रनाम स्तोत्रम् सुदर्शन सहस्रनामावलिः चैतन्यचन्द्रस्यसहस्रनामस्तोत्रम् ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... फलश्रुतिः श्री हयग्रीव उव... श्रीगोपालसहस्रनामस्तोत्रम् ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् सत्यज्ञानसुखस्वरू... ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... श्री हयग्रीव उवाच- इत्येव... ध्यानम् सत्यज्ञानसुखस्वरू... उपक्रमश्लोकाः शुक्लांबरधर... ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् वन्दे शम्भुमुमापत... कुमारीसहस्रनामस्तोत्रम् श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम् श्री शिव सहस्त्रनामस्तोत्रम् श्री दुर्गा सहस्रनामस्तोत्रम् दकारादि श्री राम सहस्त्रनामस्तोत्रम् श्री गायत्री सहस्त्रनामस्तोत्रम् श्री यमुना सहस्त्रनामस्तोत्रम् श्री अन्नपूर्णा सहस्त्रनामस्तोत्रम् श्री राधाकृष्ण सहस्त्रनामस्तोत्रम् श्री हनुमान सहस्त्रनामस्तोत्रम् श्री कृष्ण सहस्त्रनामस्तोत्रम् श्री सूर्य सहस्त्रनामस्तोत्रम् श्री गणपति सहस्रनामस्तोत्रम् गकारादि श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः) श्री लक्ष्मी सहस्त्रनामस्तोत्रम् श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम् श्री गोपाल सहस्त्रनामस्तोत्रम् श्री सीता सहस्त्रनामस्तोत्रम् श्री गंगा सहस्त्रनामस्तोत्रम् श्री विष्णु सहस्त्रनामस्तोत्रम् श्री राधिका सहस्त्रनामस्तोत्रम् श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः) हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused. Tags : devidevtalalitasahastranamstotraललितासहस्त्रनामस्तोत्र श्रीललितासहस्रनामस्तोत्रम् (पूर्वभागः) Translation - भाषांतर अगस्त्य उवाच-अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥१॥पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् ।भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥२॥वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।श्रीमत् पञ्चदशाक्षर्या महिमा वर्णितस्तथा ॥३॥षोढान्यासादयो न्यासा न्यासखण्डेसमीरिताः ॥४॥अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।महायागक्रमश्चैव पूजाखण्डे प्रकीर्तिताः ॥५॥पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।होमखण्डे त्वया प्रोक्ता होमद्रव्यविधिक्रमः ॥६॥चक्रराजस्य विद्यायाः श्रीदेव्यादेशिकात्मनोः ।रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥७॥मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।न तु श्रीललितदेव्याः प्रोक्तं नामसहस्रकम् ॥८॥तत्र मे संशयो जातो हयग्रीव दयनिधे ।किं वा त्वया विस्मृतं तत् ज्ञात्वा वा समुपेक्षितम् ॥९॥मम वा योग्यता नास्ति श्रोतुं नामसहस्रकं ।किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥१०॥सूत उवाच-इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।प्रहृष्टो वचनं प्राह तापसं कुम्भसंभव् ॥११॥श्री हयग्रीव उवाचलोपामुद्रापतेऽगस्त्य! सावधानमनाः शृणु ।नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥१२॥रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा ।पुनश्च पृच्छते भक्त्या तस्मात् तत्ते वदाम्यहम् ।ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ॥१३॥भवता न प्रदेयं स्यादभक्ताय कदाचन ।न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥१४॥श्रीमातृभक्तियुक्तायश्रीविद्याराजवेदिने ।उपासकाय शुद्धाय देयं नामसहस्रकम् ॥१५॥यानि नामसहस्राणि सद्यःसिद्धिप्रदानि वै ॥१६॥तन्त्रेषु ललितादेव्याः तेषु मुख्यमिदं मुने ।श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥१७॥पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।श्रीविद्योपासकानां च यथा देवो वरः शिवः ॥१८॥तथा नामसहस्रेषु वरमेतत् प्रकीर्तितम् ॥१९ ॥यथाऽस्य पठनाद्देवी प्रीयते ललितांबिका ।अन्यनामसहस्रस्य पठनान्न प्रीयते तथा ।श्रमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥२०॥बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललितांबिकां ।पद्मैर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः ॥२१॥सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी ।चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥२२॥जपान्ते कीर्तयेन्नित्यं इदं नामसहस्रकं ।जपपूजाद्यशक्तश्चेत् पठेन्नामसहस्रकम् ॥२३॥सांगार्चेन सांगजपे यत्फलं तदवाप्नुयात् ।उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥२४॥इदं नामसहस्त्रं तु कीर्तयेन्नित्यकर्मवत् ।चक्ररजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥२५॥भक्तस्य कृत्यमेतावत् अन्यदभ्युदयं विदुः ।भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥२६॥तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव ।पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥२७॥वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् ।वाग्देवता वशिन्याद्या शृणुध्वं वचनं मम ॥२८॥भवत्योमत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥२९॥मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥३०॥कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।येन भक्तैस्तुताया मे सद्यः प्रीतिः परा भवेत् ॥३१॥श्री हयग्रीव उवाचइत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललितांबया ।रहस्यैर्नामभिर्दिव्यैः चक्रुः स्तोत्रमनुत्तमम् ॥३२॥रहस्यनामसाहस्रं इति तद्विश्रुतं परं ।ततः कदाचित्सदसि स्थिता सिंहासनेऽम्बिका ॥३३॥स्वसेवावसरं प्रादात् सर्वेषां कुम्भसंभव ।सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥३४॥लक्ष्मीनारायणानां च कोटयः समुपागताः ।गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥३५॥मन्त्रिणीदण्डिनीमुख्याः सेवार्थं या समागताः ।शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥३६॥दिव्यौघा दानवौघाश्च सिद्धौघाश्च समागताः ।तत्र श्री ललितादेवी सर्वेषां दर्शनं ददौ ॥३७॥तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥३८॥उत्थाय वशिनीमुख्याः बद्धाञ्जलिपुटास्तदा ।अस्तुवन् नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥३९॥श्रुत्वा स्तवं प्रसन्नाऽभूत् ललिता परमेश्वरी ।सर्वे ते विस्मयं जग्मुः ये तत्र सदसि स्थिताः ॥४०॥ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥४१॥अङ्कितं नामभिर्दिव्यैः मम प्रीतिविधायकैः ॥४२॥तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवर्धये ।प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ॥४३ ॥इदं नामसहस्रं मे यो भक्तः पठते सकृत् ।स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ॥४४॥श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीं ।पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ॥४५॥मामर्चयतु वा मा वा विद्यां जपतु वा न वा ।कीर्तयेन्नामसाहस्रं इदं मत्प्रीतये सदा ॥४६॥मत्प्रीत्या सकलान् कामान् लभते नात्र संशयः ।तस्मान्नामसहस्रं मे कीर्तयध्वं सदाऽऽदरात् ॥४७ ॥श्री हयग्रीव उवाचइति श्री ललितेशानी शास्ति देवान् सहानुगान् ॥४८॥तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराःशक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥४९॥पठन्ति भक्त्या सततं ललितापरितुष्टये ।तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥५०॥आवश्यकत्वे हेतुस्तेमया प्रोक्तो मुनीश्वर ।इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥५१॥॥इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादेश्रीललितासहस्रनामपुर्वभागो नाम प्रथमोऽध्याय: ॥ N/A References : N/A Last Updated : February 08, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP