मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र| श्री हनुमान सहस्त्रनामस्तोत्रम् सहस्त्रनामस्तोत्र श्रीसीतासहस्त्रनामस्तोत्रम् सुदर्शन सहस्रनाम स्तोत्रम् सुदर्शन सहस्रनामावलिः चैतन्यचन्द्रस्यसहस्रनामस्तोत्रम् ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... फलश्रुतिः श्री हयग्रीव उव... श्रीगोपालसहस्रनामस्तोत्रम् ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् सत्यज्ञानसुखस्वरू... ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... श्री हयग्रीव उवाच- इत्येव... ध्यानम् सत्यज्ञानसुखस्वरू... उपक्रमश्लोकाः शुक्लांबरधर... ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् वन्दे शम्भुमुमापत... कुमारीसहस्रनामस्तोत्रम् श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम् श्री शिव सहस्त्रनामस्तोत्रम् श्री दुर्गा सहस्रनामस्तोत्रम् दकारादि श्री राम सहस्त्रनामस्तोत्रम् श्री गायत्री सहस्त्रनामस्तोत्रम् श्री यमुना सहस्त्रनामस्तोत्रम् श्री अन्नपूर्णा सहस्त्रनामस्तोत्रम् श्री राधाकृष्ण सहस्त्रनामस्तोत्रम् श्री हनुमान सहस्त्रनामस्तोत्रम् श्री कृष्ण सहस्त्रनामस्तोत्रम् श्री सूर्य सहस्त्रनामस्तोत्रम् श्री गणपति सहस्रनामस्तोत्रम् गकारादि श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः) श्री लक्ष्मी सहस्त्रनामस्तोत्रम् श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम् श्री गोपाल सहस्त्रनामस्तोत्रम् श्री सीता सहस्त्रनामस्तोत्रम् श्री गंगा सहस्त्रनामस्तोत्रम् श्री विष्णु सहस्त्रनामस्तोत्रम् श्री राधिका सहस्त्रनामस्तोत्रम् श्री हनुमान सहस्त्रनामस्तोत्रम् हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused. Tags : devidevtahanumanmarutisahastranamstotraमारुतीसहस्त्रनामस्तोत्रहनुमान श्री हनुमान सहस्त्रनामस्तोत्रम् Translation - भाषांतर श्री हनुमंत सहस्त्रनामस्तोत्रम् ध्यानम् अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥* स्तोत्रम् श्रीरामचन्द्र उवाच हनुमाञ्श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः । अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥१॥ धनदो निर्गुणोऽकायो वीरो निधिपतिर्मुनिः । पिङ्गक्षो वरदो वाग्मी सीताशोकविनाशनः ॥२॥ शिवः सर्वः परोऽव्यक्तो व्यक्ताव्यक्तो रसाधनः । पिङ्गकेशः पिङ्गरोमा श्रुतिगम्य सनातनः ॥३॥ अनादिर्भवान देवो विश्वहेतुर्निरामयः । आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥४॥ भर्गो रामो रामभक्तः कल्याणप्रकृतिः स्थिरः । विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥५॥ विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः । वि्श्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥६॥ प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वनेचरः । बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्राजः ॥७॥ अञ्जनासूनुरव्यग्रो ग्रामख्यातो धराधरः । भूर्भुवःस्वर्महर्लोको जनलोकस्तपोऽव्ययः ॥८॥ सत्यमोङ्कारगम्यश्च प्रववो व्यापकोऽमलः । शिवधर्मप्रतिष्ठाता रामेष्टः फाल्गुनप्रियः ॥९॥ गोष्पदीकृतवारीशः पूर्णकामो धरापतिः । रक्षोघ्नोः पुण्डरीकाक्षः शरणागतवत्सलः ॥१०॥ जानकीप्राणदाता च रक्षःप्राणापहारकः । पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥११॥ देवोद्यानविहारी च देवताभयभञ्जनः । भक्तोदयो भक्तलब्धो भक्तपालनतत्परः ॥१२॥ द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः । अक्षघ्नो रामदूतश्च शाकिनीजीवहारकः ॥१३॥ बुबुकारहतारातिर्गर्वपर्वतमर्दनः । हेतुस्त्वहेतुः प्रांशुश्च विश्वभर्ता जगद्गुरुः ॥१४॥ जगन्नेता जगन्नाथो जगदीशो जनेश्वरः । जगद्धितो हरिः श्रोशो गरुडस्मयभञ्जनः ॥१५॥ पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितविक्रमः । ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥१६॥ सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः । कल्पस्थायी चिरञ्जीवी तपनश्च सदाशिवः ॥१७॥ सन्नातिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः । कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीपदः शिवः ॥१८॥ भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः । उदधिक्रमणो देवः संसारभयनाशनः ॥१९॥ वार्धिबन्धनकृद विश्वजेता विश्वप्रतिष्ठितः । लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जकः ॥२०॥ भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः । श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जकः ॥२१॥ कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वपावनः । विश्वभोक्ताथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ॥२२॥ ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः । समीरतनुजो वीरो वीरतारी जयप्रदः ॥२३॥ जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः । पुण्यकीर्तिः पुण्यगतिर्जगत्पावनपावनः ॥२४॥ देवेशो जितमारोऽथ रामभक्तिविधायकः । ध्याता ध्येयो लयः साक्षी चेता चैतन्यविग्रहः ॥२५॥ ज्ञानदः प्राणदः प्राणो जगत्प्राण समीरणः । विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ॥२६॥ सिद्धः सिद्धश्रयः कालो महोक्षः कालजान्तकः । लङ्केशनिधनस्थायी लड्कादाहक ईश्र्वरः ॥२७॥ चन्द्रसूर्यग्निनेत्रश्च कालाग्निः प्रलयान्तकः । कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ॥२८॥ सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः । लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ॥२९॥ रामध्येयो हृषीकेशी विष्णुभक्त जटी बली । देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ॥३०॥ नगरग्रामपालश्च शुद्धो बुद्धो निरत्रपः । निरञ्जनो निर्विकल्पो गुणातीतो भयंकरः ॥३१॥ हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः । जानकीधनशोकोत्थतापहर्ता परात्परः ॥३२॥ वाड्मयः सदसद्रूपः कारणं प्रकृतेः परः । भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ॥३३॥ पुच्छबद्धयातुधानो यातुधानरिपुप्रियः । छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ॥३४॥ प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः । सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः ॥३५॥ भक्तानुकम्पी विश्वेशः पुरुहूतः पुरंदरः । क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः ॥३६॥ अग्निर्विभावसुर्भास्वान् यमो निऋतिरेव च । वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः ॥३७॥ रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः । राहुः केतुर्मरुद्धोता दाता हर्ता समीरजः ॥३८॥ मशकीकृतदेवारिदैत्यारिर्मधुसूदनः । कामः कपिः कामपालः कपिलो विश्वजीवन ॥३९॥ भागीरथीपदाम्भोजः सेतुबन्धविशारदः । स्वाहा स्वधा हविः कव्यं हव्यवाहप्रकाशकः ॥४०॥ स्वप्रकाशो महावीरो लघुरूर्जितविक्रमः । उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥४१॥ जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः । विपाप्मा निष्कलङ्कोऽथ महान् महादहंकृतिः ॥४२॥ खं वायुः पृथिवी चापो वह्निर्दिक्पाल एव च । क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः ॥४३॥ हिरण्मयः पुराणश्च खेचरो भूचरोऽमरः । हिरण्मयगर्भः सूत्रात्मा राजराजो विशांपतिः ॥४४॥ वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारगः । प्रतिग्रामस्थितिः सद्यःस्फूर्तिदाता गुणाकरः ॥४५॥ नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः । चिन्तामणिर्गुणनिधिः प्रजाधारो ह्यनुत्तमः ॥४६॥ पुण्यश्लोकः पुरारातिर्ज्योतिष्माञ्शर्वरीपतिः । किलकिलारावसंत्रस्तभूतप्रेतपिशाचकः ॥४७॥ ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् । अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥४८॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः । नादरूपः परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥४९॥ एकोऽनेको जनः शुक्लः स्वयंज्योतिरनाकुलः । ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसस्तमः ॥५०॥ तमोहर्ता निरलम्बो निराकारी गुणाकरः । गुणाश्रयो गुणमयो बृहत्कर्मा बृहद्यशाः ॥५१॥ बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥५२॥ बृहज्जानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः । बृहद्रतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः ॥५३॥ बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः । बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥५४॥ देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः । सप्तपातालगामी च मलयाचलसंश्रयः ॥५५॥ उत्तराशास्थितः श्रीदो दिव्यौषधिवशः खगः । शाखामृगः कपीन्द्रोऽथ पुराणश्रुतिचञ्चुरः ॥५६॥ चतुरब्राह्मणो योगी योगगम्यः परावरः । अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥५७॥ अपराजितो जितारातिः सदानन्दो दयायुतः । गोपालो गोपतिर्गोप्ता कलिकालपराशनः ॥५८॥ मनोवेगी सदायोगी संसारभयनाशनः । तत्त्वदाताथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥५९॥ शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः । प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥६०॥ मायाभर्जितरक्षश्च मायानिर्मितविष्टपः । मायाश्रयश्च निर्लेपो मायानिर्वर्तकः सुखम् ॥६१॥ सुखी सुखप्रदो नागो महेशकृतसंस्तवः । महेश्वरः सत्यसंधः शरभः कलिपावनः ॥६२॥ सहस्त्रकन्धरबलविध्वंसनविचक्षणः । सहस्त्रबाहुः सहजो द्विबाहुर्द्विभुजोऽमरः ॥६३॥ चतुर्भुजो दशभुजो हयग्रीवः खगाननः । कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः ॥६४॥ भीषणो भावगो वन्घो वराहो वायुरूपधृक् । लक्ष्मणप्राणदाता च पराजितदशाननः ॥६५॥ पारिजातनिवासी च वटर्वचनकोविदः । सुरसास्यविनिर्मुक्तः सिंहिकाप्राणहारकः ॥६६॥ लङ्कालङ्कारविध्वंसी वृषदंशकरूपधृक् । रात्रिसंचारकुशलो रात्रिंचरगृहग्निदः ॥६७॥ किङ्करान्तकरो जम्बुमालिहन्तोगुरूपधृक् । आकाशचारी हरिगो मेघनादरणोत्सुकः ॥६८॥ मेघगम्भीरनिनदो महारावनकुलात्नकः । कालनेमिप्रानहारी मकरीशापमोक्षदः ॥६९॥ रसो रसज्ञः सम्मानो रूपं चक्षुः श्रुतिर्वचः । घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानगः ॥७०॥ नेतिनेतीतिगम्यश्च वैकुण्ठभजनप्रियः । गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥७१॥ भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बरोऽमलः । विश्वक्षेत्रो विश्वबीजो विश्वनेत्रश्च विश्वपः ॥७२॥ याजको यजमानश्च पावकः पितरस्तथा । श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता स्वरः ॥७३॥ राजेन्द्रो भूपती रुण्डमाली संसारसारथिः । नित्यसम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥७४॥ गणपः केशवो भ्राता पिता माता च मारुतिः । सहस्त्रमूर्द्धानेकास्यः सहस्त्राक्षः सहस्त्रपात् ॥७५॥ कामजित् कामदहनः कामः कामफलप्रदः । मुद्रापहारी रक्षाघ्नः क्षितिभारहरो बलः ॥७६॥ नखदंष्ट्रायुधो विष्णुर्भक्ताभयवरप्रदः । दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥७७॥ महानिधिर्महाभागो महाभर्गो महर्द्धिदः । महाकारो महायोगी महातेजा महाद्युतिः ॥७८॥ महासनो महानादो महामन्त्रो महामतिः । महागमो महोदारो महादेवात्मको विभुः ॥७९॥ रौद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः । अम्भोधिलङ्घनः सिंहः सत्यधर्मप्रमोदनः ॥८०॥ जितामित्रो जयः सोमो विजयो वायुनन्दनः । जीवदाता सहस्त्रांशुर्मुकुन्दो भूरिदक्षिणः ॥८१॥ सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणावन्दितः ॥८२॥ सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥८३॥ सप्तस्वर्लोकमुकुटः सप्तहोता स्वराश्रयः । सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥८४॥ सप्तसामोपगीतश्च सप्तपातालसंश्रयः । मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥८५॥ सर्वरक्षाकारो गर्भदोषहा पुत्रपौत्रदः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥८६॥ पराभिचारशमनो दुःखहा बन्धमोक्षदः । नवद्वारपुराधारो नवद्वारनिकेतनः ॥८७॥ नरनारायणस्तुत्यो नवनाथमहेश्वरः । मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥८८॥ बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः । दुष्टग्रहनिहन्ता च पिशाचग्रहघातकः ॥८९॥ बालग्रहविनाशी च धर्मनेता कृपाकरः । उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥९०॥ शतमन्युनुतः स्तुत्यः स्तुतिः स्तोता महाबलः । समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥९१॥ रक्षोऽग्निदाहो ब्रह्मेशः श्रीधरो भक्तवत्सलः । मेघनादो मेघरूपो मेघवृष्टिनिवारकः ॥९२॥ मेघजीवनहेतुश्चु मेघश्यामः परात्मकः । समीरतनयो योद्धा नृत्यविद्याविशारदः ॥९३॥ अमोघोऽमोघदृष्टीश्च इष्टदोऽरिष्टनाशनः । अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥९४॥ अर्थिवन्द्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः । संकर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥९५॥ अचलोद्धारको नित्यः सेतुकृद् रामसारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निराश्रयः ॥९६॥ वाराहो नारसिंहश्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥९७॥ नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः । कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः ॥९८॥ जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः । सुग्रीवादिस्तुतो दान्तः सर्वकार्मा प्लवङ्गमः ॥९९॥ नखदारितरक्षाश्च नखयुद्धविशारदः । कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥१००॥ स्वर्णवर्णो बलाढ्यश्च पुरुजेताघनाशनः । कैवल्यरूपः कैवल्यो गरुडः पन्नगोरगः ॥१०१॥ किलकिलरावहतारातिर्गर्वपर्वतभेदनः । वज्राङ्गो वज्रदंष्ट्रश्च भक्तवज्रनिवारकः ॥१०२॥ नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥१०३॥ शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः । स्वस्तिमान् स्वस्तिदो दुःखशातनः पवनात्मजः ॥१०४॥ पावनः पवनः कान्तो भक्तागःसहनो बली । मेघनादरिपुर्मेघनादसंहतराक्षसः ॥१०५॥ क्षरोऽक्षरी विनीतात्मा वानरेशः सतां गतिः । श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥१०६॥ अस्थूलस्त्वनणुर्भर्गो दिव्यः संसृतिनाशनः । अध्यात्माविद्यासारश्च ह्याध्यात्मदुशलः सुधीः ॥१०७॥ अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः । सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥१०८॥ अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भवः शुभः । भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥१०९॥ मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः । कान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥११०॥ कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः । लम्बौष्ठः कुण्डली चित्रमाली योगविंदा वरः ॥१११॥ विपश्चित्कविरानन्दविग्रहोऽनल्पशासनः । फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥११२॥ योगविद् योगकर्ता च योगयोनिर्दिगम्बरः । अकारादिहकारान्तवर्णनिर्मितविग्रहः ॥११३॥ उलूखलमुखः सिद्धसंस्तुतः प्रमथेश्वरः । श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥११४॥ सुशर्मामितशर्मा च नारायणपरायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥११५॥ हरिरुद्रानुसेकोऽथ कम्पनो भूमिकम्पनः । गुणप्रवाहः सूत्रात्मा वीतरागस्तुतिप्रियः ॥११६॥ नागकन्याभध्वंसी रुक्मवर्णः कपालभृत् । अनाकुलो भवोपायोऽनपायो वेदपारगः ॥११७॥ अक्षरः पुरुषो लोकनाथ ऋक्षप्रभुर्दृढः । अष्टाङ्गयोगफलभुक् सत्यसंधः पुरुष्टुतः ॥११८॥ श्मशानस्थाननिलयः प्रेतविद्रावनक्षमः । पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥११९॥ योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः । ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥१२०॥ अप्रपञ्चः सदाचारः शूरसेनाविदारकः । वृद्धः प्रमोद आनन्दः सप्तद्वीपपतिन्धरः ॥१२१॥ नवद्वारपुराधारः प्रत्यग्रः सामगायकः । षट्चक्रधाम स्वर्लोकाभयकृन्मानदो मदः ॥१२२॥ सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः । अष्टमूर्तिर्नयोपेतो विरूपः सुरसुन्दरः ॥१२३॥ धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः । नन्दिप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः ॥१२४॥ लौहाङ्गः सर्वविद्धन्वी खण्डलः शर्व ईश्वरः । फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥१२५॥ धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोऽर्थदः । पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥१२६॥ त्रिमार्गवसतिर्भीमः सर्वदुःखनिबर्हणः । ऊर्जस्वान् निष्कलः शूली मौलिर्गर्जन्निशाचारः ॥१२७॥ रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषणः । वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥१२८॥ जयोऽजयपरीवारः सहस्त्रवदनः कपिः । शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जकः ॥१२९॥ सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः । शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥१३०॥ चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा । सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥१३१॥ स्मृतिबीजं सुरेशानः संसारभयनाशनः । उत्तमः श्रीपरीवारः श्रितो रुद्रश्च कामधुक् ॥१३२॥ ॥ इति मन्त्रमहार्णवे पूर्वखण्डे नवमतरङ्गे श्रीरामकृतं श्रीहनुमत्सहस्त्रनामस्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : September 19, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP