मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र| सुदर्शन सहस्रनाम स्तोत्रम् सहस्त्रनामस्तोत्र श्रीसीतासहस्त्रनामस्तोत्रम् सुदर्शन सहस्रनाम स्तोत्रम् सुदर्शन सहस्रनामावलिः चैतन्यचन्द्रस्यसहस्रनामस्तोत्रम् ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... फलश्रुतिः श्री हयग्रीव उव... श्रीगोपालसहस्रनामस्तोत्रम् ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् सत्यज्ञानसुखस्वरू... ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... श्री हयग्रीव उवाच- इत्येव... ध्यानम् सत्यज्ञानसुखस्वरू... उपक्रमश्लोकाः शुक्लांबरधर... ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् वन्दे शम्भुमुमापत... कुमारीसहस्रनामस्तोत्रम् श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम् श्री शिव सहस्त्रनामस्तोत्रम् श्री दुर्गा सहस्रनामस्तोत्रम् दकारादि श्री राम सहस्त्रनामस्तोत्रम् श्री गायत्री सहस्त्रनामस्तोत्रम् श्री यमुना सहस्त्रनामस्तोत्रम् श्री अन्नपूर्णा सहस्त्रनामस्तोत्रम् श्री राधाकृष्ण सहस्त्रनामस्तोत्रम् श्री हनुमान सहस्त्रनामस्तोत्रम् श्री कृष्ण सहस्त्रनामस्तोत्रम् श्री सूर्य सहस्त्रनामस्तोत्रम् श्री गणपति सहस्रनामस्तोत्रम् गकारादि श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः) श्री लक्ष्मी सहस्त्रनामस्तोत्रम् श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम् श्री गोपाल सहस्त्रनामस्तोत्रम् श्री सीता सहस्त्रनामस्तोत्रम् श्री गंगा सहस्त्रनामस्तोत्रम् श्री विष्णु सहस्त्रनामस्तोत्रम् श्री राधिका सहस्त्रनामस्तोत्रम् सुदर्शन सहस्रनाम स्तोत्रम् हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : godgoddessदेवतादेवीमहादेवशंकरशिवसहस्त्रनामावली सुदर्शन सहस्रनाम स्तोत्रम् Translation - भाषांतर श्री गणेशाय अथनमः ॥श्री सुदर्शन परब्रह्मणे नमः ॥श्री सुदर्शन सहस्रनाम स्तोत्रम् ॥कैलास शिखरे रम्ये मुक्तामाणिक्य मण्डपे ।रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥१॥बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता ।भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥२॥पार्वती यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥३॥तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो ।एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥४॥अहिर्बुद्ध्न्य संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥५॥पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥पार्वत्युवाच लोके सौदर्शनं मन्त्रं यन्त्रंतत्तत् प्रयोगवत् ॥६॥सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् ।अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥७॥को मार्गः का कथिस्तेषाम् कार्यसिद्धिः कथं भवेत् ।एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥८॥ईश्वर उवाच अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् ।अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥९॥तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।नियमात् पठतां नॄणां चिन्तितार्थ प्रदायकम् ॥१०॥तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः ।छन्दोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥११॥श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् ।समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥१२॥शङ्खं चक्रं च चापादि ध्यानमस्य समीरितम् ॥ ध्यानं शङ्खं चक्रं च चापं परशुमसिमिशुं शूल पाशाङ्कुशाब्जम्बिभ्राणं वज्रखेटौ हल मुसल गदा कुंदमत्युग्र दंष्ट्रम् ।ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम्ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥ ॥ हरिः ॐ ॥श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।श्रीमदान्त्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥१॥श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः ।श्रीरतः श्रीविभुः सिंधुकन्यापतिः अधोक्षजः ॥२॥अच्युतश्चाम्बुजग्रीवः सहस्रारः सनातनः ।समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥३॥षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः ।चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥४॥शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः ।दैत्यारिः शारदस्कन्धः सकटाक्षः शिरीषगः ॥५॥शरपारिर्भक्तवश्यः शशाङ्को वामनोव्ययः ।वरूथीवारिजः कञ्जलोचनो वसुधादिपः ॥६॥वरेण्यो वाहनोऽनन्तः चक्रपाणिर्गदाग्रजः ।गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥७॥सहस्राक्षः चतुर्बाहुः शङ्खचक्र गदाधरः ।भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥८॥भीमार्चितो भीमसेनो भानुवंश प्रकाशकः ।प्रह्लादवरदः बाललोचनो लोकपूजितः ॥९॥उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः ।भक्तपालः पापहारी बलदो दहनध्वजः ॥१०॥करीशः कनको दाता कामपाल पुरातनः ।अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥११॥क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः ।मन्दरो मानिनीकांतो मधुहा माधवप्रियः ॥१२॥सुप्रतप्त स्वर्णरूपी बाणासुर भुजांतकृत् ।धराधरो दानवारिर्दनुजेन्द्रारि पूजितः ॥१३॥भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः ।सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥१४॥प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः ।पावको वारणाद्रीशो वैकुण्ठो विगतकल्मषः ॥१५॥वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः ।निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥१६॥नीरूपो नारदनुतो नकुलाचल वासकृत् ।नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ॥१७॥निधिनामधिपोऽनन्दो नरकार्णव तारकः ।अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥१८॥तरुणस्तनुकृत् भक्तः परमः चित्तसम्भवः ।चिन्त्यस्सत्वनिधिः साग्रस्चिदानन्दः शिवप्रियः ॥१९॥शिन्शुमारश्शतमखः शातकुम्भ निभप्रभः ।भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥२०॥सर्वारिष्ट प्रशमनो महाभय निवारकः ।बन्धुः सुबन्धुः सुप्रीतस्सन्तुष्टस्सुरसन्नुतः ॥२१॥बीजकेश्यो बको भानुः अमितार्चिर्पाम्पतिः ।सुयज्ञो ज्योतिषश्शांतो विरूपाक्षः सुरेश्वरः ॥२२॥वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः ।सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥२३॥महासुरः शिरच्छेता पाकशासन वंदितः ।शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥२४॥मण्डली मण्डलाकारः चंद्रसूर्याग्नि लोचनः ।प्रभञ्जनः तीक्ष्णधारः प्रशांतः शारदप्रियः ॥२५॥भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः ।विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥२६॥जितमन्युः जितारातिः महाक्षो भृगुपूजितः ।तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥२७॥भावज्ञो बंधुजनको दीनबंधुः पुराणवित् ।शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥२८॥नाभिचक्रो नतामित्रो नधीश करपूजितः ।दमनः कालिकः कर्मी कान्तः कालार्थनः कविः ॥ २९॥वसुंधरो वायुवेगो वराहो वरुणालयः ।कमनीयकृतिः कालः कमलासन सेवितः ।कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥३०॥धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः ।ज्वालाजिम्हः शिखामौळीः सुरकार्य प्रवर्तकः ॥३१॥कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् ।दाताऽऽनंदमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥३२ ।सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः ।वह्निध्वजो वह्निसखो वञ्जुळद्रुम मूलकः ॥३३॥दक्षहा दानकारी च नरो नारायणप्रियः ।दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ॥३४॥लोहिताक्षो महारौद्रौ मायारूपधरः खगः ।उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ॥३५॥अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः ।अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥३६॥आश्रित घौघ विध्वंसी नित्यानंद प्रदायकः ।असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥३७॥शशांक प्रणवाधारः समस्थाशी विषापहः ।तर्को वितर्को विमलो बिलको बादरायणः ॥३८॥बदिरग्नस्चक्रवाळः षट्कोणांतर्गतस्शिखीः ।दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ ३९॥प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः ।नरभेदि सिंहरूपी पुराधीशः पुरन्दरः ॥४०॥रविस्तुतो यूतपालो युतपारिस्सतांगतिः ।हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥४१॥दिवाकरो निशानाथो दिलीपार्चित विग्रहः ।धन्वंतरिस्श्यामळारिर्भक्तशोक विनाशकः ॥४२॥रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः ।विधाता सच्चिदानंदस्सर्वदुष्ट निवारकः ॥४३॥उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः ।बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥४४ ॥पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः ।पूर्णमंत्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥४५॥पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः ।पूर्णसारः पूर्णशक्तिः रङ्गसेवि रणप्रियः ॥४६॥पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः ।पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥४७॥भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः ।भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥४८॥गविष्टो गजमानीशो गमनागमन प्रियः ।ब्रह्मचारि बंधुमानी सुप्रतीकस्सुविक्रमः ॥ ४९॥शंकराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः ।महाहंसस्सुखकरो नाभाग तनयार्चितः ॥५०॥कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः ।वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥५१॥गिरीशो मानदो मान्यो नारायण करालयः ।अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ॥५२॥आयुधेशस्शतारिघ्नः शमनः शतसैनिकः ।सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥५३॥राहुविप्लोषकारी च काशीनगर दाहकः ।पीयुषांशु परंज्योतिः सम्पूर्ण क्रतुभुक् प्रभुः ॥५४॥मान्धातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः ।सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥५५॥दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः ।पुराधीशोऽसुरारातिः गोविन्द करभूषणः ॥५६॥रथरूपी रथाधीशः कालचक्र कृपानिधिः ।चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥५७॥शरणागत संत्राता वेताळारिर्महाबलः ।ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥५८॥विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः ।कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ ५९॥शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः ।वृषकायो वृषारातिः वृषभेंद्र सुपूजितः ॥६०॥विश्वम्भरो वीतिहोत्रो वीर्यो विश्वजनप्रियः ।विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥६१॥बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः ।विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥६२॥म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमण्डलमध्यगः ।दिगम्बरो वृशाद्रीशो विविधायुध रूपकः ॥६३॥सत्ववान् सत्यवागीशः सत्यधर्म परायणः ।रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥६४॥नारायणो नक्रभेदी गजेन्द्र परिमोक्षकः ।धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥६५॥गदामित्रः पृथुभुजो रसातल विभेदकः ।तमोवैरी महातेजाः महाराजो महातपाः ॥६६॥समस्तारिहरः शांत क्रूरो योगेश्वरेश्वरः ।स्थविरस्स्वर्ण वर्णाङ्गः शत्रुसैन्य विनाशकृत् ॥६७॥प्राज्ञो विश्वतनुत्राता शृतिस्मृतिमयः कृति ।व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ ६८॥महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः ।महास्फुलिंग धारार्चिः महायुद्ध कृतच्युतः ॥६९॥कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः ।चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥७०॥चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः ।विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥७१॥युगकृत् युगपालश्च युगसंधिर्युगांतकृत् ।सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥७२॥त्रिनेत्रस्त्रिजगद्वंध्यः तृणीकृत महासुरः ।त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥७३॥सर्वयंत्रमयो मंत्रस्सर्वशत्रु निबर्हणः ।सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितंकरः ॥७४॥आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः ।ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥७५॥कमनीय तनुत्राणः कुण्डली मण्डिताननः ।सुकुण्ठीकृत चण्डेशः सुसंत्रस्थ षडाननः ॥७६॥विषाधीकृत विघ्नेशो विगतानंद नंदिकः ।मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ ७७॥प्राणभिक्षा प्रदोऽनंतो लोकसाक्षी महास्वनः ।मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥७८॥अरी दृष्टोऽप्रमेयात्मा सुंदरश्शत्रुतापनः ।योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥७९॥सर्वकामप्रदोऽचिंत्यः शुभाङ्गः कुलवर्धनः ।निर्विकारोऽन्तरूपो नरनारायणप्रियः ॥८०॥मंत्र यंत्र स्वरूपात्मा परमंत्र प्रभेदकः ।भूतवेताळ विध्वंसी चण्ड कूष्माण्ड खण्डनः ॥८१॥यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः ।सकलीकृत मारीचः भैरव ग्रह भेदकः ॥८२॥चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः ।सुदुर्ग्रहो जम्भभेदी सूचीमुख निषूदनः ॥८३॥वृकोदरबलोद्धर्त्ता पुरंदर बलानुगः ।अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥८४॥महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः ।धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥८५॥विधूमज्वलनो भानुर्भानुमान् भास्वताम् पतिः ।जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥८६॥कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः ।ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥८७॥संतापनो वज्रसारस्सुमेधाऽमृत सागरः ।संतान पञ्जरो बाणताटङ्को वज्रमालिकः ॥८८॥मेखालग्निशिखो वज्र पञ्जरस्ससुराङ्कुशः ।सर्वरोग प्रशमनो गांधर्व विशिखाकृतिः ॥ ८९॥प्रमोह मण्डलो भूत ग्रह शृङ्खल कर्मकृत् ।कलावृतो महाशङ्खु धारणस्शल्य चंद्रिकः ॥९०॥छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः ।बन्धनावरणस्शल्य कृन्तनो वज्रकीलकः ॥९१॥प्रतीकबंधनो ज्वाला मण्डलस्शस्त्रधारणः ।इन्द्राक्षीमालिकः कृत्या दण्डस्चित्तप्रभेदकः ॥९२॥ग्रह वागुरिकस्सर्व बन्धनो वज्रभेदकः ।लघुसंतान संकल्पो बद्धग्रह विमोचनः ॥९३॥मौलिकाञ्चन संधाता विपक्ष मतभेदकः ।दिग्बंधन करस्सूची मुखाग्निस्चित्तपातकः ॥९४॥चोराग्नि मण्डलाकारः परकङ्काळ मर्दनः ।तांत्रीकस्शत्रुवंशघ्नो नानानिगळ मोचनः ॥९५॥समस्थलोक सारङ्गः सुमहा विषदूषणः ।सुमहा मेरुकोदण्डः सर्व वश्यकरेश्वरः ॥९६॥निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् ।संस्थम्बन करः सर्व भूतोच्चाटन तत्परः ॥९७॥अहितामय कारी च द्विषन्मारण कारकः ।एकायन गदामित्र विद्वेषण परायणः ॥९८॥सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः ।विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ ९९॥अमित्रकर्शन शांतः प्रशांतः प्रणतार्तिहा ।रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ॥१००॥रणांतकृत् रताकारः रताङ्गो रविपूजितः ।वीरहा विविधाकारः वरुणाराधितो वशीः ।सर्व शत्रु वधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥१०१॥सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः ।पुराणः पुण्डरीकाक्षः परमर्म प्रभेदकः ॥१०२॥वीरासनगतो वर्मी सर्वाधारो निरङ्कुशः ।जगत्_रक्षो जगन्मूर्तिः जगदानंद वर्धनः ॥१०३॥शारदः शकटारातिः शङ्करस्शकटाकृतिः ।विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥१०४॥महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः ।समदृङ्मोक्षदो वंध्यो विहारी वीतकल्मषः ॥१०५॥गम्भीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः ।श्रीधरः श्रीरतस्श्रांतः शत्रुघ्नस्शृतिगोचरः ॥१०६॥पुराणो विततो वीरः पवित्रस्चरणाह्वयः ।महाधीरो महावीर्यो महाबल पराक्रमः ॥१०७॥सुविग्रहो विग्रहघ्नः सुमानी मानदायकः ।मायी मायापहो मंत्री मान्यो मानविवर्धनः ॥१०८॥शत्रुसंहारकस्शूरः शुक्रारिश्शङ्करार्चितः ।सर्वाधारः परंज्योतिः प्राणः प्राणभृतच्युतः ॥१०९॥चंद्रधामाऽप्रतिद्वंदः परमात्मा सुदुर्गमः ।विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥११०॥समस्थ जगदाधारो विजेता विक्रमः क्रमः ।आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥१११॥सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः ।दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥११२॥सद्गतिस्सत्वसम्पन्नः नित्यसंकल्प कल्पकः ।वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥११३॥अंतरिक्षगतिः कल्यः कलिकालुष्य मोचनः ।सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥११४॥शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः ।दरिमुखाग्निजम्भघ्नो वीरहा वासवप्रियः ॥११५॥दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः ।भूतावासो भूतहंता भूतेशो भूतभावनः ॥११६॥भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः ।सर्वदेवमयः कांतः स्मृतिमान् सर्वपावनः ॥११७॥नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः ।रुद्राम्बरीष वरदो जितमायः पुरातनः ॥११८॥अध्यात्म निलयो भोक्ता सम्पूर्णस्सर्वकामदः ।सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥११९॥निरञ्जनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः ।सर्वजित् सम्भवो विष्णुः पूज्यो मंत्रवितक्रियः ॥१२०॥शतावर्त्तः कलानाथः कालः कालमयो हरिः ।अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥१२१॥स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः ।चण्ड्घ्नस्चण्डकिरणः चतुरस्चारणप्रियः ॥१२२॥पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः ।यज्ञात्म यज्ञसंकल्पो यज्ञकेतुर्महेश्वरः ॥१२३॥जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः ।उत्त्मोऽनुत्त्मोनङ्गस्साङ्गस्सर्वाङ्ग शोभनः ॥१२४॥कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः ।रमानंदकरो रामो रजनीशांतरस्थितः ॥१२५॥संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः ।महाभिमानी संधाता सर्वाधीशो महागुरुः ॥१२६सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः ।चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥१२७ ॥तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः ।व्यापी विश्वम्भरो व्यग्रः स्वयंज्योतिरनंतकृत् ॥१२८॥जयशीलो जयाकांक्षी जातवेदो जयप्रदः ।कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥१२९॥कुङ्कुमारुण सर्वाङ्ग कमलाक्षः कवीश्वरः ।सुविक्रमो निष्कळङ्को विश्वक्सेनो विहारकृत् ॥१३०॥कदम्बासुर विध्वंसी केतनग्रह दाहकः ।जुगुप्साग्नस्तीक्ष्णधारो वैकुण्ठ भुजवासकृत् ॥१३१॥सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः ।सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥१३२॥सर्वाभीष्ट प्रदोऽन्तो नित्यानंदो गुणाकरः ।चक्री कुंदधरः खड्गी परश्वत धरोऽग्निभृत् ॥१३३॥दृताङ्कुशो दण्डधरः शक्तिहस्थस्सुशङ्खभ्रुत् ।धन्वी दृतमहापाशो हलि मुसलभूषणः ॥१३४॥गदायुधधरो वज्री महाशूल लसत्भुजः ।समस्तायुध सम्पूर्णस्सुदर्शन महाप्रभुः ॥१३५॥ ॥ फलशृतिः ॥इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।सर्वसिद्धिकरं सर्व यंत्र मंत्रात्मकं परम् ॥१३६॥एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः ।शृणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥१३७॥दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् ।विनाशार्थमिदं देवि हरो रासाधितं मया ॥१३८॥शत्रुसंहारकमिदं सर्वदा जयवर्धनम् ।जल शैल महारण्य दुर्गमेषु महापति ॥१३९॥भयङ्करेषु शापत्सु सम्प्राप्तेषु महत्सुच ।यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥१४०॥ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिंदकः ।देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥१४१॥जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः ।तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥१४२॥सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः ।स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विंदति ॥१४३॥आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः ।शीघ्रं नश्यंति ते सर्वे पठनात्तस्य वै नृणाम् ॥१४४॥बहूनात्र किमुक्तेन जप्त्वेदं मंत्र पुष्कलम् ।यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥१४५॥ इति श्री विहगेश्वर उत्तरखण्डे उमामहेश्वरसंवादेमंत्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नामषोडश प्रकाशः ॥ N/A References : N/A Last Updated : April 08, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP