मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र| फलश्रुतिः श्री हयग्रीव उव... सहस्त्रनामस्तोत्र श्रीसीतासहस्त्रनामस्तोत्रम् सुदर्शन सहस्रनाम स्तोत्रम् सुदर्शन सहस्रनामावलिः चैतन्यचन्द्रस्यसहस्रनामस्तोत्रम् ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... फलश्रुतिः श्री हयग्रीव उव... श्रीगोपालसहस्रनामस्तोत्रम् ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् सत्यज्ञानसुखस्वरू... ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... श्री हयग्रीव उवाच- इत्येव... ध्यानम् सत्यज्ञानसुखस्वरू... उपक्रमश्लोकाः शुक्लांबरधर... ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् वन्दे शम्भुमुमापत... कुमारीसहस्रनामस्तोत्रम् श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम् श्री शिव सहस्त्रनामस्तोत्रम् श्री दुर्गा सहस्रनामस्तोत्रम् दकारादि श्री राम सहस्त्रनामस्तोत्रम् श्री गायत्री सहस्त्रनामस्तोत्रम् श्री यमुना सहस्त्रनामस्तोत्रम् श्री अन्नपूर्णा सहस्त्रनामस्तोत्रम् श्री राधाकृष्ण सहस्त्रनामस्तोत्रम् श्री हनुमान सहस्त्रनामस्तोत्रम् श्री कृष्ण सहस्त्रनामस्तोत्रम् श्री सूर्य सहस्त्रनामस्तोत्रम् श्री गणपति सहस्रनामस्तोत्रम् गकारादि श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः) श्री लक्ष्मी सहस्त्रनामस्तोत्रम् श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम् श्री गोपाल सहस्त्रनामस्तोत्रम् श्री सीता सहस्त्रनामस्तोत्रम् श्री गंगा सहस्त्रनामस्तोत्रम् श्री विष्णु सहस्त्रनामस्तोत्रम् श्री राधिका सहस्त्रनामस्तोत्रम् श्रीललितासहस्रनामस्तोत्रम् - फलश्रुतिः श्री हयग्रीव उव... हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused. Tags : lalitasahastranamstotraललितासहस्त्रनामस्तोत्र श्रीललितासहस्रनामस्तोत्रम् Translation - भाषांतर फलश्रुतिःश्री हयग्रीव उवाच-इत्येवं नामसाहस्रं कथितं ते घटोद्भव ॥१॥रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ।अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ॥२॥सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ।सर्वापमृत्युशमनं कालमृत्युनिवारणम् ॥३॥सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ।पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ॥४॥इदं विशेषात् श्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ।जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ॥५॥प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ।पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ॥६॥विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वारहस्यनामसाहस्रं इदं पश्चात् पठेन्नरः ॥७॥जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ।तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसंभव ॥८॥गंगादिसर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ।कोटिलिंगप्रतिष्ठां च यः कुर्यादविमुक्तके ॥९॥कुरुक्षेत्रे तु यो दद्यात् कोटिवारं रविग्रहे ।कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ॥१०॥यः कोटिं हयमेधानां आहरेद् गांगरोधसि ।आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ॥११॥दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ।श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ॥१२॥तत्पुण्यं कोटिगुणितं लभेत् पुण्यमनुत्तमम् ।रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ॥१३॥रहस्यनामसाहस्रे नामैकमपि यः पठेत् ।तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ॥१४॥नित्यकर्माननुष्ठानात् निषिद्धकरणादपि ।यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ॥१५॥बहुनात्र किमुक्तेन शृणु त्वं कलशीसुत ।अत्रैकनाम्नो या शक्तिः पातकानां निवर्तनेतन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्द्दश ॥१६॥यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्स्यति ।स हि शीतनिवृत्यर्थं हिमशैलं निषेवते ॥१७॥भक्तो यः कीर्तयेन्नित्यं इदं नामसहस्रकम् ।तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥१८॥अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ॥१९॥नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे ।संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ॥२०॥नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ।कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ॥२१॥पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ।पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम् ॥२२॥सर्वे रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ।अयमायुष्करोनाम प्रयोगः कल्पचोदितः ॥२३॥ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ।तत्क्षणात्प्रशमं याति शिरस्तोदोज्वरोऽपि च ॥२४॥सर्वव्याधिनिवृत्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ।तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ॥२५॥जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ।अभिषिञ्चेत्ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ॥२६॥सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ।यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ॥२७॥वन्ध्यानां पुत्रलाभाय नामसाह्स्रमन्त्रितम् ।नवनीतं प्रदद्यात् तु पुत्रलाभो भवेद्ध्रुवम् ॥२८॥देव्याः पाशेन संबद्धां आकृष्टामङ्कुशेन च ।ध्यात्वाऽभीष्टां स्त्रियं रात्रौ पठेन्नामसहस्रकम् ॥२९॥आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता ।राजाकर्षणकामश्चेत् राजावसथदिङ्मुखः ॥३०॥त्रिरात्रं यः पठेदेतत् श्रीदेवीध्यानतत्परः ।स राजा पारवश्येन तुरंगं वा मतंगजम् ॥३१॥आरुह्यायाति निकटं दासवत् प्रणिपत्य च ।तस्मै राज्यं च कोशं च ददात्येव वशंगतः ॥३२॥रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ।तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ॥३३॥यस्त्विदं नामसाहस्रं सकृत् पठति भक्तिमान् ।तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ॥३४॥यो वाऽभिचारं कुरुते नामसाहस्रपाठके ।निवर्त्य तत्क्रियां हन्यात् तं वै प्रत्यङ्गिरा स्वयम् ॥३५॥ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ।तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ॥३६॥धनं यो हरते चोरैः नामसाहस्रजापिनः ।यत्र कुत्र स्थितं वाऽपि क्षेत्रपालो निहन्ति तम् ॥३७॥विद्यासु कुरुते वादं यो विद्वान् नामजापिना ।तस्य वाक्स्तंभनं सद्यः करोति नकुलेश्वरी ॥३८॥यो राजा कुरुते वैरं नामसाहस्रजापिना ।चतुरंगबलं तस्य दण्डिनी संहरेत् स्वयम् ॥३९॥यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ।लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ॥४०॥मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ।भारती तस्य जिह्वाग्रे रङ्गे तिष्ठति नित्यशः ॥४१॥यस्त्वेकवारं पठति पक्षमेकमतन्द्रितः ।मुह्यन्ति कामवशगाः मृगाक्ष्यस्तस्यवीक्षणात् ॥४२॥यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ।तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥४३॥यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ।अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ॥४४॥श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ।यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ॥४५॥तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ।न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥४६॥परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥४७॥देवता ललितातुल्या यथा नास्ति घटोद्भव ।रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥४८॥लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥४९॥बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसंभव ।नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ।तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ॥५०॥एभिर्नामसहस्रैस्तु श्रीचक्रं योर्चयेत्सकृत् ।पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ॥५१॥चंपकैर्जातिकुसुमैः मल्लिकाकरवीरकैः ।उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ॥५२॥अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ।तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ॥५३॥सा वेत्ति ललितादेवी स्वचक्रार्चनं फलम् ।अन्ये कथं विजानीयुः ब्रह्माद्याः स्वल्पमेधसः ॥५४॥प्रतिमासं पौर्णमास्यां एभिर्नामसहस्रकैः ।रात्रौ यश्चक्रराजस्थां अर्चयेत्परदेवताम् ॥५५॥स एव ललितारूपः तद्रूपा ललिता स्वयम् ।नतयोर्विद्यते भेदः भेदकृत्पापकृद्भवेत् ॥५६॥महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ।अर्चयेन्नामसाहस्रौः तस्य मुक्तिः करे स्थिता ॥५७॥यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ।चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ॥५८॥सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः ।पुत्रपौत्रादिसंयुक्तः भुक्त्वा भोगान् यथेप्सितान् ॥५९॥अन्ते श्रीललितादेव्याः सायूज्यमतिदुर्लभम् ।प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ॥६०॥यः सहस्रं ब्राह्मणानां एभिर्नामसहस्रकैः ।समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ॥६१॥तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ।न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ॥६२॥निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ।ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् ॥६३॥धनार्थी धनमाप्नोति यशोर्थी प्राप्नुयाद्यशः ।विद्यार्थी प्राप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ॥६४॥नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ।कीर्तनीयमिदं तस्माद् भोगमोक्षार्थिभिर्न्नरैः ॥६५॥चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ।स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ॥६६॥कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ।नामसंकीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ॥६७॥लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ।विष्णुनामसहस्राच्च शिवनामैकमुत्तमम् ।शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥६८॥देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥६९॥रहस्यनामसाहस्रं इदं शस्तं दशस्वपि ।तस्मात् संकीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥७०॥मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।विष्णुनामपराः केचित् शिवनामपराः परे ।न कश्चिदपि लोकेषु ललितानामतत्परः ॥७१॥येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ।तस्यैव भवति श्रद्धा श्रीदेवी नामकीर्तने ॥७२॥चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ।नामसाहस्रपाठश्च तथा चरमजन्मनि ॥७३॥यथैव विरला लोके श्रीविद्याचारवेदिनः ।तथैव विरला गुह्यनामसाहस्रपाठकाः ॥७४॥मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ।रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ॥७५॥अपठन् नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ।स चक्षुषा विना रूपं पश्येदेव विमूढधीः ॥७६॥रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ।स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥७७॥यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ।नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ॥७८॥तस्माद्रहस्यनामानि श्रीमातुः प्रयतं पठेत् ॥७९॥इति ते कथितं स्तोत्रं रहस्यं कुम्भसंभव ।नाविद्यावेदिने ब्रूयात् नाभक्ताय कदाचन ॥८०॥यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।पशुतुल्येशु न ब्रूयात् जनेषु स्तोत्रमुत्तमम् ॥८१॥यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ॥८२॥रहस्यनाम साहस्रं तस्मात् संगोपयेदिदम् ॥८३॥स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ।ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ॥८४॥कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ।तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥८५॥श्री सूत उवाच –इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रिललिताम्बिकाम् ।आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥८६॥॥इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादेश्रीललितासहस्रनामस्तोत्रे फलश्रुतिः नाम तृतीयोऽध्याय:॥ N/A References : N/A Last Updated : February 14, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP