मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र| ध्यानम् वन्दे शम्भुमुमापत... सहस्त्रनामस्तोत्र श्रीसीतासहस्त्रनामस्तोत्रम् सुदर्शन सहस्रनाम स्तोत्रम् सुदर्शन सहस्रनामावलिः चैतन्यचन्द्रस्यसहस्रनामस्तोत्रम् ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... फलश्रुतिः श्री हयग्रीव उव... श्रीगोपालसहस्रनामस्तोत्रम् ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् सत्यज्ञानसुखस्वरू... ध्यान श्लोकाः केषांचित्प्... ओं शिवाऽथोमा रमा शक्तिरनन... ध्यानम् वन्दे शम्भुमुमापत... श्री हयग्रीव उवाच- इत्येव... ध्यानम् सत्यज्ञानसुखस्वरू... उपक्रमश्लोकाः शुक्लांबरधर... ध्यानश्लोकाः सिन्दूरारुण... ध्यानम् वन्दे शम्भुमुमापत... कुमारीसहस्रनामस्तोत्रम् श्रीकृष्णचैतन्यसहस्रनामस्तोत्रम् श्री शिव सहस्त्रनामस्तोत्रम् श्री दुर्गा सहस्रनामस्तोत्रम् दकारादि श्री राम सहस्त्रनामस्तोत्रम् श्री गायत्री सहस्त्रनामस्तोत्रम् श्री यमुना सहस्त्रनामस्तोत्रम् श्री अन्नपूर्णा सहस्त्रनामस्तोत्रम् श्री राधाकृष्ण सहस्त्रनामस्तोत्रम् श्री हनुमान सहस्त्रनामस्तोत्रम् श्री कृष्ण सहस्त्रनामस्तोत्रम् श्री सूर्य सहस्त्रनामस्तोत्रम् श्री गणपति सहस्रनामस्तोत्रम् गकारादि श्री ललितासहस्रनामस्तोत्रम् (पूर्वभागः) श्री लक्ष्मी सहस्त्रनामस्तोत्रम् श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम् श्री गोपाल सहस्त्रनामस्तोत्रम् श्री सीता सहस्त्रनामस्तोत्रम् श्री गंगा सहस्त्रनामस्तोत्रम् श्री विष्णु सहस्त्रनामस्तोत्रम् श्री राधिका सहस्त्रनामस्तोत्रम् श्री शिवसहस्रनामस्तोत्रम् - ध्यानम् वन्दे शम्भुमुमापत... हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused. Tags : sahastranamshivastotraशिवसहस्त्रनामस्तोत्र श्री शिवसहस्रनामस्तोत्रम् Translation - भाषांतर ध्यानम्वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणंवन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम्वन्दे सूर्यशशाङ्कवह्निनयनंवन्दे मुकुन्दप्रियंवन्दे भक्तजनाश्रयंच वरदं वन्दे शिवं शंकरम् ॥१॥ओं स्थिरः स्थाणुःप्रभुर्भीमः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातःसर्वः सर्वकरो भवः ॥१॥जटी चर्मी शिखण्डीच सर्वाङ्गः सर्वभावनः ।हरश्च हरिणाक्षश्चसर्वभूतहरः प्रभुः ॥२॥प्रवृत्तिश्च निवृत्तिश्चनियतः शाश्वतो ध्रुवः ।श्मशानवासी भगवान्खचरोगोचरोऽर्दनः ॥३॥अभिवाद्यो महाकर्मातपस्वी भूतभावनः ।उन्मत्तवेषः प्रच्छन्नःसर्वलोकप्रजापतिः ॥४॥महारूपो महाकामीवृषरूपो महायशाः ।महात्मा सर्वभूतात्माविश्वरूपो महाहनुः ॥५॥लोकपालोऽन्तर्हितात्माप्रसादो हयगर्दभिः ।पवित्रं च महांश्चैवनियमो नियमाश्रितः ॥६॥सर्वकर्मा स्वयंभूतआदिरादिकरो निधिः ।सहस्राक्षो विशालाक्षस्सोमोनक्षत्रसाधकः ॥७॥चन्द्रस्सूर्यश्शनिःकेतुर्ग्रहो ग्रहपतिर्वरः ।अत्रिरत्र्यानमस्कर्तामृगबाणार्पणोऽनघः ॥८॥महातपा घोरतपाअदीनो दीनसाधकः ।संवत्सरकरो मन्त्रःप्रमाणं परमं तपः ॥९॥योगो योज्यो महाभीमोमहारेता महाबलः ।सुवर्णरेतास्सर्वज्ञःसुबीजो बीजवाहनः ॥१०॥दशबाहुस्त्वनिमिषोनीलकण्ठ उमापतिः ।विश्वरूपस्स्वयंश्रेष्ठोबलवीरोऽबलो गणः ॥११॥गणकर्ता गणपतिर्दिग्वासाःकाम एव च ।मन्त्रवित् परमोमन्त्रः सर्वभावकरो हरः ॥१२॥कमण्डलुधरो धन्वीबाणहस्तः कपालवान् ।अशनी शतघ्नी खड्गीपट्टिशी चायुधी महान् ॥१३॥स्रुवहस्तः सुरूपश्चतेजस्तेजस्करो निधिः ।उष्णीषी च सुवक्त्रश्चउदग्रो विनतस्तथा ॥१४॥दीर्घश्च हरिकेशश्चसुतीर्थः कृष्ण एव च ।शृगालरूपः सिद्धार्थोमुंडस्सर्वशुभंकरः ॥१५॥अजश्च बहुरूपश्चगजधारी कपर्द्यपि ।ऊर्ध्वरेता ऊर्ध्वलिंगऊर्ध्वशायी नभस्थलः ॥१६॥त्रिजटी चीरवासाश्चरुद्रः सेनापतिर्विभुः ।अहश्चरो नक्तंचरस्तिग्ममन्युःसुवर्चसः ॥१७॥गजहा दैत्यहा कालोलोकधाता गुणाकरः ।सिंहशार्दूलरूपश्चआर्द्रचर्माम्बरावृतः ॥१८॥कालयोगी महानादःसर्वकामश्चतुष्पथः ।निशाचरः प्रेतचारीभूतचारी महेश्वरः ॥१९॥बहुभूतो बहुधरःस्वर्भानुरमितो गतिः ।नृत्यप्रियो नित्यनर्तोनर्तकस्सर्वलालसः ॥२०॥घोरो महातपाः पाशोनित्यो गिरिरुहो नभः ।सहस्रहस्तो विनयोव्यवसायोह्यतन्द्रितः ॥२१॥अधर्षणो धर्षणात्मायज्ञहा कामनाशकः ।दक्षयागापहारीच सुसहो मध्यमस्तथा ॥२२॥तेजोऽपहारी बलहामुदितोऽर्थोऽजितोऽवरः ।गंभीरघोषो गंभीरोगंभीरबलवाहनः ॥२३॥न्यग्रोधरूपो न्यग्रोधोवृक्षकर्णस्थितिर्विभुः ।सुतीक्ष्णदशनश्चैवमहाकामो महाननः ॥२४॥विष्वक्सेनो हरिर्यज्ञःसंयुगापीडवाहनः ।तीक्ष्णतापश्चहर्यश्वः सहायः कर्मकालवित् ॥२५॥विष्णुप्रसादिकोयक्षः समुद्रो वडवामुखः ।हुताशनसहायश्चप्रशान्तात्मा हुताशनः ॥२६॥उग्रतेजा महातेजाजन्यो विजयकालवित् ।ज्योतिषामयनं सिद्धिस्सर्वग्रहएव च ॥२७॥शिखी मुंडी जटीज्वाली मूर्तिजो मूर्धगो बली ।वेणवी पणवी ताळीखली कालकटंकटः ॥२८॥नक्षत्रविग्रहमतिःगुणबुद्धिर्लयोऽगमः ।प्रजापतिर्विश्वबाहुर्विभागस्सर्वगोऽमुखः ॥२९॥विमोचनस्सुसरणोहिरण्यकवचोद्भवः ।मेढ्रजो बलचारीच महीचारी स्रुतस्तथा ॥३०॥सर्वतूर्यनिनादीच सर्वातोद्यपरिग्रहः ।व्यालरूपो गुहावासीगुहो माली तरंगवित् ॥३१॥त्रिदशस्त्रिकालधृत्कर्म सर्वबन्धविमोचनः ।बन्धनस्त्वसुरेन्द्राणांयुधिशत्रुविनाशनः ॥३२॥सांख्यप्रसादःदुर्वासाः सर्वसाधुनिषेवितः ।प्रस्कन्दनो विभागज्ञोऽतुल्योयज्ञविभागवित् ॥३३॥सर्ववासः सर्वचारीदुर्वासा वासवोऽमरः ।हैमो हेमकरोऽयज्ञःसर्वधारी धरोत्तमः ॥३४॥लोहिताक्षो महाक्षश्चविजयाक्षो विशारदः ।संग्रहो निग्रहःकर्ता सर्पचीरनिवासनः ॥३५॥मुख्योऽमुख्यश्चदेहश्च काहलिः सर्वकामदः ।सर्वकालप्रसादश्चसुबलो बलरूपधृत् ॥३६॥सर्वकामवरश्चैवसर्वदः सर्वतोमुखः ।आकाशनिर्विरूपश्चनिपातीह्यवशः खगः ॥३७॥रौद्ररूपोंशुरादित्योबहुरश्मिः सुवर्चसी ।वसुवेगो महावेगोमनोवेगो निशाचरः ॥३८॥सर्ववासी श्रियावासीउपदेशकरोऽकरः ।मुनिरात्मनिरालोकःसभग्नश्च सहस्रदः ॥३९॥पक्षी च पक्षरूपश्चअतिदीप्तो विशांपतिः ।उन्मादो मदनः कामोह्यश्वत्थोऽर्धकरोयशः ॥४०॥वामदेवश्च वामश्चप्राग्दक्षिणश्च वामनः ।सिद्धयोगी महर्षिश्चसिद्धार्थः सिद्धसाधकः ॥४१॥भिक्षुश्च भिक्षुरूपश्चविपणो मृदुरव्ययः ।महासेनो विशाखश्चषष्टिभागो गवांपतिः ॥४२॥वज्रहस्तश्च विष्कंभीचमूस्तम्भन एव च ।वृत्तावृत्तकरस्तालोमधुर्मधुकलोचनः ॥४३॥वाचस्पत्यो वाजसेनोनित्यमाश्रमपूजितः ।ब्रह्मचारी लोकचारीसर्वचारी विचारवित् ॥४४॥ईशान ईश्वरः कालोनिशाचारी पिनाकवान् ।निमित्तस्थो निमित्तंच नन्दिर्नन्दकरो हरिः ॥४५॥नन्दीश्वरश्च नन्दीच नन्दनो नन्दिवर्धनः ।भगहारी निहन्ताच कालो ब्रह्मा पितामहः ॥४६॥चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च ।लिंगाध्यक्षः सुराध्यक्षोयोगाध्यक्षो युगावहः ॥४७॥बीजाध्यक्षो बीजकर्ताअध्यात्मानुगतो बलः ।इतिहासः सकल्पश्चगौतमोऽथ निशाकरः ॥४८॥दंभोऽह्यदम्भो व्यदम्भो वश्यो वशकरः कलिः ।लोककर्ता पशुपतिर्महाकर्ताह्यनौषधः ॥४९॥अक्षरं परमं ब्रह्मबलवच्छक्र एव च ।नीतिर्ह्यनीतिःशुद्धात्मा शुद्धो मान्यो गतागतः ॥५०॥बहुप्रसादः सुस्वप्नोदर्पणोऽथत्वमित्रजित् ।वेदकारो मन्त्रकारोविद्वान् समरमर्दनः ॥५१॥महामेघनिवासी चमहाघोरो वशीकरः ।अग्निज्वालो महाज्वालोअतिधूम्रो हुतो हविः ॥५२॥वृषणः शंकरो नित्यंवर्चस्वी धूमकेतनः ।नीलस्तथाऽङ्गलुब्धश्चशोभनो निरवग्रहः ॥५३॥स्वस्तिदः स्वस्तिभावश्चभागी भागकरो लघुः ।उत्संगश्च महांगश्चमहागर्भपरायणः ॥५४॥कृष्णवर्णः सुवर्णश्चइन्द्रियं सर्वदेहिनां ।महापादो महाहस्तोमहाकायो महायशाः ॥५५॥महामूर्धा महामात्रोमहानेत्रो निशालयः ।महान्तको महाकर्णोमहोष्ठश्च महाहनुः ॥५६॥महानासो महाकम्बुर्महाग्रीवःश्मशानभाक् ।महावक्षा महोरस्कोह्यन्तरात्मामृगालयः ॥५७॥लम्बनो लम्बितोष्ठश्चमहामायः पयोनिधिः ।महादन्तो महादंष्ट्रोमहाजिह्वो महामुखः ॥५८॥महानखो महारोमामहाकेशो महाजटः ।प्रसन्नश्च प्रसादश्चप्रत्ययो गिरिसाधनः ॥५९॥स्नेहनोऽस्नेहनश्चैवअजितश्च महामुनिः ।वृक्षाकारो वृक्षकेतुरनलोवायुवाहनः ॥६०॥गण्डली मेरुधन्वाच देवाधिपतिरेव च ।अथर्वशीर्षः सामास्यऋक्सहस्रामितेक्षणः ॥६१॥यजुः पादभुजो गुह्यःप्रकाशो जंगमस्तथा ।अमोघार्थः प्रसादश्चअभिगम्यः सुदर्शनः ॥६२॥उपकारः प्रियःसर्वः कनकः कांचनच्छविः ।नाभिर्नन्दिकरोभावः पुष्करस्थपतिः स्थिरः ॥६३॥द्वादशास्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।नक्तं कलिश्च कालश्चमकरः कालपूजितः ॥६४॥सगणो गणकारश्चभूतवाहनसारथिः ।भस्माशयो भस्मगोप्ताभस्मभूतस्तरुर्गणः ॥६५॥लोकपालस्तथाऽलोकोमदात्मा सर्वपूजितः ।शुक्लस्त्रिशुक्लःसम्पन्नः शुचिर्भूतनिषेवितः ॥६६॥आश्रमस्थः क्रियावस्थोविश्वकर्ममतिर्वरः ।विशालशाखस्ताम्रोष्ठोह्यम्बुजालः सुनिश्चलः ॥६७॥कपिलः कपिश शुक्लआयुश्चैव परोऽपरः ।गन्धर्वोह्यदितस्तार्क्ष्यःसुविश्रेय सुशारदः ॥६८॥परश्वधायुधो देवोअनुकारी सुबान्धवः ।तुम्बवीणो महाक्रोधऊर्ध्वरेता जलेशयः ॥६९॥उग्रो वंशकरो वंशोवंशनादो ह्यनिन्दितः ।सर्वांगरूपो मायावीसुहृदो ह्यनिलोऽनलः ॥७०॥बन्धनो बन्धकर्ताच सुबन्धनविमोचनः ।सुयज्ञारिः सकामारिर्महादंष्ट्रोमहाऽयुधः ॥७१॥बहुधा निन्दितःशर्वः शंकरः शंकरोऽधनः ।अमरेशो महादेवोविश्वदेवः सुरारिहा ॥७२॥अहिर्बुध्न्योऽनिलाभश्चचेकितानो हविस्तथा ।अजैकपाच्च कापालीत्रिशंकुरजितः शिवः ॥७३॥धन्वन्तरिर्धूमकेतुःस्कंदो वैश्रवणस्तथा ।धाता शक्रश्च विष्णुश्चमित्रस्त्वष्टा ध्रुवो धरः ॥७४॥प्रभावः सर्वगोवायुरर्यमा सविता रविः ।उषंगुश्च विधाताच मान्धाता भूतभावनः ॥७५॥विभुर्वर्णविभावीच सर्वकामगुणावहः ।पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥७६॥बलवांश्चोपशान्तश्चपुराणः पुण्यचञ्चुरी ।कुरुकर्ता कुरुवासीकुरुभूतो गुणौषधः ॥७७॥सर्वाशयो दर्भचारीसर्वेषां प्राणिनां पतिः ।देवदेवः सुखासक्तःसदसत्सर्वरत्नवित् ॥७८॥कैलासगिरिवासीच हिमवद्गिरिसंश्रयः ।कूलहारी कूलकर्ताबहुविद्यो बहुप्रदः ॥७९॥वणिजो वर्धको वृक्षोबकुलश्चन्दनच्छदः ।सारग्रीवो महाजत्रुरल्लोलश्चमहौषधः ॥८०॥सिद्धार्थकारीसिद्धार्थः छन्दो व्याकरणोत्तरः ।सिंहनादः सिंहदंष्ट्रःसिंहगः सिंहवाहनः ॥८१॥प्रभावात्मा जगत्कालस्थलोलोकहितस्तरुः ।सारंगो नवचक्रांगःकेतुमाली सभावनः ॥८२॥भूतालयो भूतपतिरहोरात्रमनिन्दितः ।वाहिता सर्वभूतानांनिलयश्च विभुर्भवः ॥८३॥अमोघः संयतो ह्यश्वोभोजनः प्राणधारणः ।धृतिमान् मतिमान्दक्षः सत्कृतश्च युगाधिपः ॥८४॥गोपालिर्गोपतिर्ग्रामोगोचर्मवसनो हरिः ।हिरण्यबाहुश्चतथा गुहापालः प्रवेशिनां ॥८५॥प्रकृष्टारिर्महाहर्षोजितकामो जितेन्द्रियः ।गान्धारश्च सुवासश्चतपस्सक्तो रतिर्नरः ॥८६॥महागीतो महानृत्योह्यप्सरोगणसेवितः ।महाकेतुर्महाधातुर्नैकसानुचरश्चलः ॥८७॥आवेदनीय आदेशःसर्वगन्धसुखावहः ।तोरणस्तारणो वातःपरिधी पतिखेचरः ॥८८॥संयोगो वर्धनोवृद्धो अतिवृद्धो गुणाधिकः ।नित्यात्मा च सहायश्चदेवासुरपतिः पतिः ॥८९॥युक्तश्च युक्तबाहुश्चदेवोदिविसुपर्वणः ।आषाढश्च सुषाढश्चध्रुवोऽथ हरिणो हरः ॥९०॥वपुरावर्तमानेभ्योवसुश्रेष्ठो महापथः ।तिरोहारी विमर्शश्चसर्वलक्षणलक्षितः ॥९१॥अक्षश्च रथयोगीच सर्वयोगी महाबलः ।समाम्नायोऽसमाम्नायस्तीर्थदेवोमहारथः ॥९२॥निर्जीवो जीवनोमन्त्रः शुभाक्षो बहुकर्कशः ।रत्नप्रभूतो रत्नांगोमहार्णवनिपानवित् ॥९३॥मूलं विशालो ह्यमृतोव्यक्ताव्यक्तस्तपोनिधिः ।आरोहणोऽधिरोहश्चशीलधारी महायशाः ॥९४॥सेवाकल्पो महाकल्पोयोगो युगकरो हरिः ।युगरूपो महारूपोमहानागहनो वधः ॥९५॥न्यायनिर्वपणःपादः पण्डितो ह्यचलोपमः ।बहुमालो महामालःशशीहरसुलोचनः ॥९६॥विस्तारो लवणःकूपस्त्रियुगः सफलोदयः ।त्रिलोचनो विषण्णांगोमणिविद्धो जटाधरः ॥९७॥बिन्दुर्विसर्गःसुमुखः शरः सर्वायुधः सहः ।निवेदनः सुखाजातःसुगन्धारो महाधनुः ॥९८॥गन्धपाली च भगवानुत्थानःसर्वकर्मणां ।मन्थानो बहुलोवायुः सकलः सर्वलोचनः ॥९९॥तलस्तालः करस्थलीऊर्ध्वसंहननो महान् ।छत्रं सुच्छत्रश्चविख्यातो लोकः सर्वाश्रयः क्रमः ॥१००॥मुंडो विरूपो विकृतोदण्डी कुण्डी विकुर्वणः ।हर्यक्षः ककुभोवज्री शतजिह्वः सहस्रपात् ॥१०१॥सहस्रमूर्धा देवेन्द्रःसर्वदेवमयो गुरुः ।सहस्रबाहुः सर्वांगःशरण्यः सर्वलोककृत् ॥१०२॥पवित्रं त्रिककुन्मन्त्रःकनिष्ठः कृष्णपिंगलः ।ब्रह्मदण्डविनिर्माताशतघ्नी पाशशक्तिमान् ॥१०३॥पद्मगर्भो महागर्भोब्रह्मगर्भो जलोद्भवः ।गभस्तिर्ब्रह्मकृत्ब्रह्मीब्रह्मविद् ब्रह्मणोगतिः ॥१०४॥अनन्तरूपो नैकात्मातिग्मतेजाः स्वयंभुवः ।ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ॥१०५॥चन्दनी पद्मनालाग्रःसुरभ्युत्तरणो नरः ।कर्णिकारमहास्रग्वीनीलमौलिः पिनाकधृत् ॥१०६॥उमापतिरुमाकान्तोजाह्नवीधृगुमाधवः ।वरो व्राहो वरदोवरेण्यः सुमहास्वनः ॥१०७॥महाप्रसादो दमनःशत्रुहा श्वेतपिंगलः ।वीतात्मा परमात्माच प्रयतात्मा प्रधानधृत् ॥१०८॥सर्वपार्श्वमुखस्त्र्यक्षोसर्वसाधारणो वरः ।चराचरात्मा सूक्ष्मात्माअमृतो गोवृषेश्वरः ॥१०९॥साध्यर्षिर्वसुरादित्योविवस्वान् सविताऽमृतः ।व्यासः सर्गः सुसंक्षेपोविस्तरः पर्ययो नरः ॥११०॥ऋतुः संवत्सरोमासः पक्षः संख्यासमापनः ।कला काष्ठा लवामात्रा मुहूर्ताहः क्षपाः क्षणाः ॥१११॥विश्वक्षेत्रंप्रजाबीजं लिंगमाद्यस्तुनिर्गमः ।सदसद्व्यक्तमव्यक्तंपिता माता पितामहः ॥११२॥स्वर्गद्वारं प्रजाद्वारंमोक्षद्वारं त्रिविष्टपं ।निर्वाणं ह्लादनश्चैवब्रह्मलोकः परागतिः ॥११३॥देवासुरविनिर्मातादेवासुरपरायणः ।देवासुरगुरुर्देवोदेवासुरनमस्कृतः ॥११४॥देवासुरमहामात्रोदेवासुरगणाश्रयः ।देवासुरगणाध्यक्षोदेवासुरगणाग्रणीः ॥११५॥देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।देवासुरेश्वरोविश्वो देवासुरमहेश्वरः ॥११६॥सर्वदेवमयोऽचिन्त्योदेवतात्माऽऽत्मसम्भवः ।उद्भित् त्रिविक्रमोवैद्यो विरजो नीरजोऽमरः ॥११७॥ईड्यो हस्तीश्वरोव्याघ्रो देवसिंहो नरर्षभः ।विबुधोऽग्रवरःसूक्ष्मः सर्वदेवस्तपोमयः ॥११८॥सुयुक्तः शोभनोवज्री प्रासानां प्रभवोऽव्ययः ।गुहः शान्तो निजःसर्गः पवित्रं सर्वपावनः ॥११९॥शृंगी शृंगप्रियोबभ्रू राजराजो निरामयः ।अभिराम सुरगणोविरामः सर्वसाधनः ॥१२०॥ललाटाक्षो विश्वदेवोहरिणो ब्रह्मवर्चसः ।स्थावराणां पतिश्चैवनियमेन्द्रियवर्धनः ॥१२१॥सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यःसत्यव्रतः शुचिः ।व्रताधिपः परंब्रह्मभक्तानां परमागतिः ॥१२२॥विमुक्तो मुक्ततेजाश्चश्रीमान् श्रीवर्धनो जगत् ॥१२३॥ N/A References : N/A Last Updated : February 14, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP