मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
ध्यानम् वन्दे शम्भुमुमापत...

श्री शिवसहस्रनामस्तोत्रम् - ध्यानम् वन्दे शम्भुमुमापत...

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

ध्यानम्
वन्दे शम्भुमुमापतिं
सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं
मृगधरं वन्दे पशूनांपतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं
वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं
च वरदं वन्दे शिवं शंकरम् ॥१॥
ओं स्थिरः स्थाणुः
प्रभुर्भीमः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः
सर्वः सर्वकरो भवः ॥१॥
जटी चर्मी शिखण्डी
च सर्वाङ्गः सर्वभावनः ।
हरश्च हरिणाक्षश्च
सर्वभूतहरः प्रभुः ॥२॥
प्रवृत्तिश्च निवृत्तिश्च
नियतः शाश्वतो ध्रुवः ।
श्मशानवासी भगवान्खचरो
गोचरोऽर्दनः ॥३॥
अभिवाद्यो महाकर्मा
तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नः
सर्वलोकप्रजापतिः ॥४॥
महारूपो महाकामी
वृषरूपो महायशाः ।
महात्मा सर्वभूतात्मा
विश्वरूपो महाहनुः ॥५॥
लोकपालोऽन्तर्हितात्मा
प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव
नियमो नियमाश्रितः ॥६॥
सर्वकर्मा स्वयंभूत
आदिरादिकरो निधिः ।
सहस्राक्षो विशालाक्षस्सोमो
नक्षत्रसाधकः ॥७॥
चन्द्रस्सूर्यश्शनिः
केतुर्ग्रहो ग्रहपतिर्वरः ।
अत्रिरत्र्यानमस्कर्ता
मृगबाणार्पणोऽनघः ॥८॥
महातपा घोरतपा
अदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः
प्रमाणं परमं तपः ॥९॥
योगो योज्यो महाभीमो
महारेता महाबलः ।
सुवर्णरेतास्सर्वज्ञः
सुबीजो बीजवाहनः ॥१०॥
दशबाहुस्त्वनिमिषो
नीलकण्ठ उमापतिः ।
विश्वरूपस्स्वयंश्रेष्ठो
बलवीरोऽबलो गणः ॥११॥
गणकर्ता गणपतिर्दिग्वासाः
काम एव च ।
मन्त्रवित् परमो
मन्त्रः सर्वभावकरो हरः ॥१२॥
कमण्डलुधरो धन्वी
बाणहस्तः कपालवान् ।
अशनी शतघ्नी खड्गी
पट्टिशी चायुधी महान् ॥१३॥
स्रुवहस्तः सुरूपश्च
तेजस्तेजस्करो निधिः ।
उष्णीषी च सुवक्त्रश्च
उदग्रो विनतस्तथा ॥१४॥
दीर्घश्च हरिकेशश्च
सुतीर्थः कृष्ण एव च ।
शृगालरूपः सिद्धार्थो
मुंडस्सर्वशुभंकरः ॥१५॥
अजश्च बहुरूपश्च
गजधारी कपर्द्यपि ।
ऊर्ध्वरेता ऊर्ध्वलिंग
ऊर्ध्वशायी नभस्थलः ॥१६॥
त्रिजटी चीरवासाश्च
रुद्रः सेनापतिर्विभुः ।
अहश्चरो नक्तंचरस्तिग्ममन्युः
सुवर्चसः ॥१७॥
गजहा दैत्यहा कालो
लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च
आर्द्रचर्माम्बरावृतः ॥१८॥
कालयोगी महानादः
सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी
भूतचारी महेश्वरः ॥१९॥
बहुभूतो बहुधरः
स्वर्भानुरमितो गतिः ।
नृत्यप्रियो नित्यनर्तो
नर्तकस्सर्वलालसः ॥२०॥
घोरो महातपाः पाशो
नित्यो गिरिरुहो नभः ।
सहस्रहस्तो विनयो
व्यवसायोह्यतन्द्रितः ॥२१॥
अधर्षणो धर्षणात्मा
यज्ञहा कामनाशकः ।
दक्षयागापहारी
च सुसहो मध्यमस्तथा ॥२२॥
तेजोऽपहारी बलहा
मुदितोऽर्थोऽजितोऽवरः ।
गंभीरघोषो गंभीरो
गंभीरबलवाहनः ॥२३॥
न्यग्रोधरूपो न्यग्रोधो
वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव
महाकामो महाननः ॥२४॥
विष्वक्सेनो हरिर्यज्ञः
संयुगापीडवाहनः ।
तीक्ष्णतापश्च
हर्यश्वः सहायः कर्मकालवित् ॥२५॥
विष्णुप्रसादिको
यक्षः समुद्रो वडवामुखः ।
हुताशनसहायश्च
प्रशान्तात्मा हुताशनः ॥२६॥
उग्रतेजा महातेजा
जन्यो विजयकालवित् ।
ज्योतिषामयनं सिद्धिस्सर्वग्रह
एव च ॥२७॥
शिखी मुंडी जटी
ज्वाली मूर्तिजो मूर्धगो बली ।
वेणवी पणवी ताळी
खली कालकटंकटः ॥२८॥
नक्षत्रविग्रहमतिः
गुणबुद्धिर्लयोऽगमः ।
प्रजापतिर्विश्वबाहुर्विभागस्सर्वगोऽमुखः ॥२९॥
विमोचनस्सुसरणोहिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी
च महीचारी स्रुतस्तथा ॥३०॥
सर्वतूर्यनिनादी
च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी
गुहो माली तरंगवित् ॥३१॥
त्रिदशस्त्रिकालधृत्
कर्म सर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां
युधिशत्रुविनाशनः ॥३२॥
सांख्यप्रसादः
दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञोऽतुल्यो
यज्ञविभागवित् ॥३३॥
सर्ववासः सर्वचारी
दुर्वासा वासवोऽमरः ।
हैमो हेमकरोऽयज्ञः
सर्वधारी धरोत्तमः ॥३४॥
लोहिताक्षो महाक्षश्च
विजयाक्षो विशारदः ।
संग्रहो निग्रहः
कर्ता सर्पचीरनिवासनः ॥३५॥
मुख्योऽमुख्यश्च
देहश्च काहलिः सर्वकामदः ।
सर्वकालप्रसादश्च
सुबलो बलरूपधृत् ॥३६॥
सर्वकामवरश्चैव
सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च
निपातीह्यवशः खगः ॥३७॥
रौद्ररूपोंशुरादित्यो
बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो
मनोवेगो निशाचरः ॥३८॥
सर्ववासी श्रियावासी
उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः
सभग्नश्च सहस्रदः ॥३९॥
पक्षी च पक्षरूपश्च
अतिदीप्तो विशांपतिः ।
उन्मादो मदनः कामोह्यश्वत्थोऽर्धकरो
यशः ॥४०॥
वामदेवश्च वामश्च
प्राग्दक्षिणश्च वामनः ।
सिद्धयोगी महर्षिश्च
सिद्धार्थः सिद्धसाधकः ॥४१॥
भिक्षुश्च भिक्षुरूपश्च
विपणो मृदुरव्ययः ।
महासेनो विशाखश्च
षष्टिभागो गवांपतिः ॥४२॥
वज्रहस्तश्च विष्कंभी
चमूस्तम्भन एव च ।
वृत्तावृत्तकरस्तालो
मधुर्मधुकलोचनः ॥४३॥
वाचस्पत्यो वाजसेनो
नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी
सर्वचारी विचारवित् ॥४४॥
ईशान ईश्वरः कालो
निशाचारी पिनाकवान् ।
निमित्तस्थो निमित्तं
च नन्दिर्नन्दकरो हरिः ॥४५॥
नन्दीश्वरश्च नन्दी
च नन्दनो नन्दिवर्धनः ।
भगहारी निहन्ता
च कालो ब्रह्मा पितामहः ॥४६॥
चतुर्मुखो महालिंगश्चारुलिंगस्तथैव
च ।
लिंगाध्यक्षः सुराध्यक्षो
योगाध्यक्षो युगावहः ॥४७॥
बीजाध्यक्षो बीजकर्ता
अध्यात्मानुगतो बलः ।
इतिहासः सकल्पश्च
गौतमोऽथ निशाकरः ॥४८॥
दंभोऽह्यदम्भो
व्यदम्भो वश्यो वशकरः कलिः ।
लोककर्ता पशुपतिर्महाकर्ता
ह्यनौषधः ॥४९॥
अक्षरं परमं ब्रह्म
बलवच्छक्र एव च ।
नीतिर्ह्यनीतिः
शुद्धात्मा शुद्धो मान्यो गतागतः ॥५०॥
बहुप्रसादः सुस्वप्नो
दर्पणोऽथत्वमित्रजित् ।
वेदकारो मन्त्रकारो
विद्वान् समरमर्दनः ॥५१॥
महामेघनिवासी च
महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो
अतिधूम्रो हुतो हविः ॥५२॥
वृषणः शंकरो नित्यं
वर्चस्वी धूमकेतनः ।
नीलस्तथाऽङ्गलुब्धश्च
शोभनो निरवग्रहः ॥५३॥
स्वस्तिदः स्वस्तिभावश्च
भागी भागकरो लघुः ।
उत्संगश्च महांगश्च
महागर्भपरायणः ॥५४॥
कृष्णवर्णः सुवर्णश्च
इन्द्रियं सर्वदेहिनां ।
महापादो महाहस्तो
महाकायो महायशाः ॥५५॥
महामूर्धा महामात्रो
महानेत्रो निशालयः ।
महान्तको महाकर्णो
महोष्ठश्च महाहनुः ॥५६॥
महानासो महाकम्बुर्महाग्रीवः
श्मशानभाक् ।
महावक्षा महोरस्कोह्यन्तरात्मा
मृगालयः ॥५७॥
लम्बनो लम्बितोष्ठश्च
महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो
महाजिह्वो महामुखः ॥५८॥
महानखो महारोमा
महाकेशो महाजटः ।
प्रसन्नश्च प्रसादश्च
प्रत्ययो गिरिसाधनः ॥५९॥
स्नेहनोऽस्नेहनश्चैव
अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो
वायुवाहनः ॥६०॥
गण्डली मेरुधन्वा
च देवाधिपतिरेव च ।
अथर्वशीर्षः सामास्य
ऋक्सहस्रामितेक्षणः ॥६१॥
यजुः पादभुजो गुह्यः
प्रकाशो जंगमस्तथा ।
अमोघार्थः प्रसादश्च
अभिगम्यः सुदर्शनः ॥६२॥
उपकारः प्रियः
सर्वः कनकः कांचनच्छविः ।
नाभिर्नन्दिकरो
भावः पुष्करस्थपतिः स्थिरः ॥६३॥
द्वादशास्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च
मकरः कालपूजितः ॥६४॥
सगणो गणकारश्च
भूतवाहनसारथिः ।
भस्माशयो भस्मगोप्ता
भस्मभूतस्तरुर्गणः ॥६५॥
लोकपालस्तथाऽलोको
मदात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः
सम्पन्नः शुचिर्भूतनिषेवितः ॥६६॥
आश्रमस्थः क्रियावस्थो
विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो
ह्यम्बुजालः सुनिश्चलः ॥६७॥
कपिलः कपिश शुक्ल
आयुश्चैव परोऽपरः ।
गन्धर्वोह्यदितस्तार्क्ष्यः
सुविश्रेय सुशारदः ॥६८॥
परश्वधायुधो देवो
अनुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध
ऊर्ध्वरेता जलेशयः ॥६९॥
उग्रो वंशकरो वंशो
वंशनादो ह्यनिन्दितः ।
सर्वांगरूपो मायावी
सुहृदो ह्यनिलोऽनलः ॥७०॥
बन्धनो बन्धकर्ता
च सुबन्धनविमोचनः ।
सुयज्ञारिः सकामारिर्महादंष्ट्रो
महाऽयुधः ॥७१॥
बहुधा निन्दितः
शर्वः शंकरः शंकरोऽधनः ।
अमरेशो महादेवो
विश्वदेवः सुरारिहा ॥७२॥
अहिर्बुध्न्योऽनिलाभश्च
चेकितानो हविस्तथा ।
अजैकपाच्च कापाली
त्रिशंकुरजितः शिवः ॥७३॥
धन्वन्तरिर्धूमकेतुः
स्कंदो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च
मित्रस्त्वष्टा ध्रुवो धरः ॥७४॥
प्रभावः सर्वगो
वायुरर्यमा सविता रविः ।
उषंगुश्च विधाता
च मान्धाता भूतभावनः ॥७५॥
विभुर्वर्णविभावी
च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥७६॥
बलवांश्चोपशान्तश्च
पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी
कुरुभूतो गुणौषधः ॥७७॥
सर्वाशयो दर्भचारी
सर्वेषां प्राणिनां पतिः ।
देवदेवः सुखासक्तः
सदसत्सर्वरत्नवित् ॥७८॥
कैलासगिरिवासी
च हिमवद्गिरिसंश्रयः ।
कूलहारी कूलकर्ता
बहुविद्यो बहुप्रदः ॥७९॥
वणिजो वर्धको वृक्षो
बकुलश्चन्दनच्छदः ।
सारग्रीवो महाजत्रुरल्लोलश्च
महौषधः ॥८०॥
सिद्धार्थकारी
सिद्धार्थः छन्दो व्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः
सिंहगः सिंहवाहनः ॥८१॥
प्रभावात्मा जगत्कालस्थलो
लोकहितस्तरुः ।
सारंगो नवचक्रांगः
केतुमाली सभावनः ॥८२॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः ।
वाहिता सर्वभूतानां
निलयश्च विभुर्भवः ॥८३॥
अमोघः संयतो ह्यश्वो
भोजनः प्राणधारणः ।
धृतिमान् मतिमान्
दक्षः सत्कृतश्च युगाधिपः ॥८४॥
गोपालिर्गोपतिर्ग्रामो
गोचर्मवसनो हरिः ।
हिरण्यबाहुश्च
तथा गुहापालः प्रवेशिनां ॥८५॥
प्रकृष्टारिर्महाहर्षो
जितकामो जितेन्द्रियः ।
गान्धारश्च सुवासश्च
तपस्सक्तो रतिर्नरः ॥८६॥
महागीतो महानृत्यो
ह्यप्सरोगणसेवितः ।
महाकेतुर्महाधातुर्नैकसानुचरश्चलः ॥८७॥
आवेदनीय आदेशः
सर्वगन्धसुखावहः ।
तोरणस्तारणो वातः
परिधी पतिखेचरः ॥८८॥
संयोगो वर्धनो
वृद्धो अतिवृद्धो गुणाधिकः ।
नित्यात्मा च सहायश्च
देवासुरपतिः पतिः ॥८९॥
युक्तश्च युक्तबाहुश्च
देवोदिविसुपर्वणः ।
आषाढश्च सुषाढश्च
ध्रुवोऽथ हरिणो हरः ॥९०॥
वपुरावर्तमानेभ्यो
वसुश्रेष्ठो महापथः ।
तिरोहारी विमर्शश्च
सर्वलक्षणलक्षितः ॥९१॥
अक्षश्च रथयोगी
च सर्वयोगी महाबलः ।
समाम्नायोऽसमाम्नायस्तीर्थदेवो
महारथः ॥९२॥
निर्जीवो जीवनो
मन्त्रः शुभाक्षो बहुकर्कशः ।
रत्नप्रभूतो रत्नांगो
महार्णवनिपानवित् ॥९३॥
मूलं विशालो ह्यमृतो
व्यक्ताव्यक्तस्तपोनिधिः ।
आरोहणोऽधिरोहश्च
शीलधारी महायशाः ॥९४॥
सेवाकल्पो महाकल्पो
योगो युगकरो हरिः ।
युगरूपो महारूपो
महानागहनो वधः ॥९५॥
न्यायनिर्वपणः
पादः पण्डितो ह्यचलोपमः ।
बहुमालो महामालः
शशीहरसुलोचनः ॥९६॥
विस्तारो लवणः
कूपस्त्रियुगः सफलोदयः ।
त्रिलोचनो विषण्णांगो
मणिविद्धो जटाधरः ॥९७॥
बिन्दुर्विसर्गः
सुमुखः शरः सर्वायुधः सहः ।
निवेदनः सुखाजातः
सुगन्धारो महाधनुः ॥९८॥
गन्धपाली च भगवानुत्थानः
सर्वकर्मणां ।
मन्थानो बहुलो
वायुः सकलः सर्वलोचनः ॥९९॥
तलस्तालः करस्थली
ऊर्ध्वसंहननो महान् ।
छत्रं सुच्छत्रश्च
विख्यातो लोकः सर्वाश्रयः क्रमः ॥१००॥
मुंडो विरूपो विकृतो
दण्डी कुण्डी विकुर्वणः ।
हर्यक्षः ककुभो
वज्री शतजिह्वः सहस्रपात् ॥१०१॥
सहस्रमूर्धा देवेन्द्रः
सर्वदेवमयो गुरुः ।
सहस्रबाहुः सर्वांगः
शरण्यः सर्वलोककृत् ॥१०२॥
पवित्रं त्रिककुन्मन्त्रः
कनिष्ठः कृष्णपिंगलः ।
ब्रह्मदण्डविनिर्माता
शतघ्नी पाशशक्तिमान् ॥१०३॥
पद्मगर्भो महागर्भो
ब्रह्मगर्भो जलोद्भवः ।
गभस्तिर्ब्रह्मकृत्ब्रह्मी
ब्रह्मविद् ब्रह्मणोगतिः ॥१०४॥
अनन्तरूपो नैकात्मा
तिग्मतेजाः स्वयंभुवः ।
ऊर्ध्वगात्मापशुपतिर्वातरंहा मनोजवः ॥१०५॥
चन्दनी पद्मनालाग्रः
सुरभ्युत्तरणो नरः ।
कर्णिकारमहास्रग्वी
नीलमौलिः पिनाकधृत् ॥१०६॥
उमापतिरुमाकान्तो
जाह्नवीधृगुमाधवः ।
वरो व्राहो वरदो
वरेण्यः सुमहास्वनः ॥१०७॥
महाप्रसादो दमनः
शत्रुहा श्वेतपिंगलः ।
वीतात्मा परमात्मा
च प्रयतात्मा प्रधानधृत् ॥१०८॥
सर्वपार्श्वमुखस्त्र्यक्षो
सर्वसाधारणो वरः ।
चराचरात्मा सूक्ष्मात्मा
अमृतो गोवृषेश्वरः ॥१०९॥
साध्यर्षिर्वसुरादित्यो
विवस्वान् सविताऽमृतः ।
व्यासः सर्गः सुसंक्षेपो
विस्तरः पर्ययो नरः ॥११०॥
ऋतुः संवत्सरो
मासः पक्षः संख्यासमापनः ।
कला काष्ठा लवा
मात्रा मुहूर्ताहः क्षपाः क्षणाः ॥१११॥
विश्वक्षेत्रं
प्रजाबीजं लिंगमाद्यस्तुनिर्गमः ।
सदसद्व्यक्तमव्यक्तं
पिता माता पितामहः ॥११२॥
स्वर्गद्वारं प्रजाद्वारं
मोक्षद्वारं त्रिविष्टपं ।
निर्वाणं ह्लादनश्चैव
ब्रह्मलोकः परागतिः ॥११३॥
देवासुरविनिर्माता
देवासुरपरायणः ।
देवासुरगुरुर्देवो
देवासुरनमस्कृतः ॥११४॥
देवासुरमहामात्रो
देवासुरगणाश्रयः ।
देवासुरगणाध्यक्षो
देवासुरगणाग्रणीः ॥११५॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
देवासुरेश्वरो
विश्वो देवासुरमहेश्वरः ॥११६॥
सर्वदेवमयोऽचिन्त्यो
देवतात्माऽऽत्मसम्भवः ।
उद्भित् त्रिविक्रमो
वैद्यो विरजो नीरजोऽमरः ॥११७॥
ईड्यो हस्तीश्वरो
व्याघ्रो देवसिंहो नरर्षभः ।
विबुधोऽग्रवरः
सूक्ष्मः सर्वदेवस्तपोमयः ॥११८॥
सुयुक्तः शोभनो
वज्री प्रासानां प्रभवोऽव्ययः ।
गुहः शान्तो निजः
सर्गः पवित्रं सर्वपावनः ॥११९॥
शृंगी शृंगप्रियो
बभ्रू राजराजो निरामयः ।
अभिराम सुरगणो
विरामः सर्वसाधनः ॥१२०॥
ललाटाक्षो विश्वदेवो
हरिणो ब्रह्मवर्चसः ।
स्थावराणां पतिश्चैव
नियमेन्द्रियवर्धनः ॥१२१॥
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः
सत्यव्रतः शुचिः ।
व्रताधिपः परंब्रह्म
भक्तानां परमागतिः ॥१२२॥
विमुक्तो मुक्ततेजाश्च
श्रीमान् श्रीवर्धनो जगत् ॥१२३॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP