संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

द्वित्वनिषेधप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथैतस्य प्रसक्तस्य प्रतिषेधस्तु कथ्यते

ईदैत्पूर्वो यकारश्च विसर्गो रेफ एव च

प्रथमोर्द्ध्वेऽच्परे चोष्मा वकारस्स्पर्श उत्तरे

ऊष्मस्पर्शपरस्थे तु लकारश्च तथैव हि

वर्गीयानुत्तमोर्द्ध्वे हल् सवर्णोत्तर एव वा

यवहेषु परस्थेषु नकारश्चान्तगस्त्विति

नस्यान्तगस्य दीर्घात्तु यवहे हे च हल् परे

परैरेभिर्हि तस्यैव न स्यात्संयुतता तथा

स्वरायुक्तस्य वर्णस्य वाचकं नाम कथ्यते

वर्णक्रमोक्तिकाले तु नान्यसंज्ञां समुच्चरेत्

सर्ववर्णान्वदन्त्येवं ज्ञातौ द्वित्वागमौ न तु

ततोऽफलं फलं प्रोक्तं द्वित्वाद्युच्चारणाद्बुधैः

इति द्वित्वनिषेधप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP