संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

पूर्वागमप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


व्यञ्जनं यन्निमित्तेन द्विवर्णमिति वर्णितम्

द्वितीयतुर्ययोस्तेन भवेत्पूर्वागमस्त्विह

धामाननूपसर्गाश्च भूते थ एष आति च

परमैभ्यः पराः पूर्वञ्छखि भुजा इयुस्तथा

समाने स्वरयोर्मध्ये लक्ष्याद्द्वित्वं हलः क्वचित्

द्वितीयस्य चतुर्थस्य तथा पूर्वागमस्स्मृतः

काठके तु पृणच्छिद्रञ्छकारः पूर्वमाप्नुयात्

शात्तैत्तिरीयके नस्य ज्ञो भवेत्काठके न चेत्

हकारान्योष्मणः स्पर्श उत्तरे सकृदेव हि

तन्मध्ये प्रथमः स्यात्तत्स्पर्शसस्थान आगमः

ङकारादेव चानन्त्यात्तपरे धपरे सति

ककारश्च गकारश्चेत्यागमस्स्याद्यथाक्रमम्

यत्रोष्माविकृते स्पर्शादुत्तमोर्ध्वेत्वनुत्तमात्

आनुपूर्व्याद्यमानेतान्वर्णयन्त्यागमान् बुधाः

ऊष्मोत्तरे द्वितीयः स्यादादेशः प्रथमस्य तु

ह्रस्वाद्द्विरूपवन्नादो यद्येनं सकृदुच्चरेत्

इति पूर्वागमप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP