संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

दीर्घप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथादावन्त आर्षे तु ह्रस्वो दीर्घं भजेद्धलि

सदेङ्ग्ये तु व्यानोदानशब्दयोस्तु सुबन्तयोः

लोक एवेष्ट चाद्याश्वात्तस्य देवा यते युवम्

वयुना हृदयाश्वा विद्वर्षाह्वामुत्तरस्तथा

चित्रर्तावयवातत्वद्रविणप्रस्थभङ्गुर

पुष्पष्णियर्णकशक्तिश्वदेव्यविषुचेन्द्रिय

वीर्याश्ववद्वन्वानूर्ध्वो वनान्योर्ध्वेषु चेन्द्रचेत्

सत्राज्युक्थायुमत्सुम्ना यन् सुगोपरथीतम

स्वाधियं धी रुहं राज्यं परो दीर्घाधियः परः

शीक शुद्ध च मेघाघ वसु शत्रु च योत्तरः

विश्वाराड्वसुमित्रापि साह हा पुषवत्परः

परी णसमधी वासं प्रावणेभिस्सहोत्तरः

रात्र्योषध्याहुति श्रोणि चिति व्याहृति पृष्टि चेत्

स्वाहाकृति शच्यृक्साम हनुह्रादुनि भोत्तरः

चर्षणी धृत्पारीण् पूती गाभीवृत्सह सूयव

त्विषि वाशिम्यनूब्याज्रात् काश्विभूदाववग्रहः

ऋक्ष्वथा तेस्वयं धत्तं सपत्नान्नो रयिं भव

देवानां शतसोमस्य जीवो यूयं पितॄन् परः

अधा ते च यथा ह्यूर्द्ध्वस्तिष्ठादेवशरीर चेत्

अच्छा वोचो जिगा नक्षि पितर्देवान्नियुद्वद

चकृमा सुजुषध्वं कद्वयं दैव्येऽत्र पूष्ण ते

सृजा ररा दृतिं वृष्टिं सं रक्षा माकिराज च

भवा तोकाय नस्त्वं पा वाज्यत्रा ते नियुन्नरः

ससादा पिद्यजी मुञ्चा विस्वस्त शिक्षनस्सखि

क्षामा रेभिरु घा स्यालात्सत्यं मृडा जरित्र नः

धारया रयिं वसूनि मय्यवता हवे वचः

विद्मा ते तं हि बोधा सनोऽद्या देवान् हुवे च वृण्

भरता वस् बृहज्जातवर्धया त्वं रयिं परः

सचस्व नुद वर्धावा नोऽत्तधामाह ना ह दे

युक्ष्व स्वेन जनिष्वा हि मधूर्ध्वस्सिञ्चथोक्षत

घुष्याश्वस्य वि पाथा दिवारिथामुञ्चता यज

पिबा चरा सोम हिष्ठाम् वर्तयर्ष यथा पु चेत्

जनयथा च दीयार ऋध्यामा ते हरा नि चेत्

तत्रा रथं जयता नरू कुत्राचिद्य तरा मृधः

याता हिर पृणस्वा घृते भरा दद्ध्यपा वृधि

वोचता मेऽनदता हद्येना सहस् चृता बचेत्

भजा त्वं जनया दैव्यं दक्षिणेना वसून्यपि

रुहेमा स्व स्तरीमाजु भवता मृड धर्ष मान्

बिभृता स्वीरयथा मरु भरेमा मनीष चेत्

हन्तना तं जगामा परस्याश्चेत्तपता सुवृक्

जुहुता विश्व तरता रजांसि शृणुता हवम्

पारया नव्यस्सादया यज्ञञ्चेत्कृणुता बृहत्

क्रयी पोश्मसी ग यदी भू कृधी स्वस् श्रुधी हवम्

मोष्वा तु नू रणे मक्षू दे थू करूशु बल् सु नु

इति व्यञ्जनपरदीर्घप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP