संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा| स्वरसन्धिप्रकरणम् व्यास शिक्षा संज्ञाप्रकरणम् प्रग्रहप्रकरणम् परिभाषाप्रकरणम् दीर्घप्रकरणम् आगमप्रकरणम् लोपप्रकरणम् वैकृतप्रकरणम् षत्वप्रकरणम् णत्वप्रकरणम् रेफप्रकरणम् विसर्जनीयसन्धिप्रकरणम् यत्वप्रकरणम् अच्सन्धिप्रकरणम् अनैक्यप्रकरणम् ऐक्यप्रकरणम् स्वरधर्मस्वरूपप्रकरणम् स्वरसन्धिप्रकरणम् हस्तस्वरविन्यासप्रकरणम् द्वित्वप्रकरणम् पूर्वागमप्रकरणम् द्वित्वनिषेधप्रकरणम् अङ्गसंहिताप्रकरणम् स्वरभक्तिप्रकरणम् स्थानकरणप्रयत्नप्रकरणम् प्लुतप्रकरणम् ओष्ठ्यप्रकरणम् कालनिर्णयप्रकरणम् उच्चारणफलप्रकरणम् स्वरसन्धिप्रकरणम् शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत स्वरसन्धिप्रकरणम् Translation - भाषांतर मध्यस्थ एकनीचोऽतिप्रयत्नो विक्रमो भवेत् उच्चसन्धिर्भवेदुच्चः स्वरितः स्वारनीचयोः नीचोर्ध्वाकारसम्मिश्र उच्च एङ् स्वरितो भवेत् अत्राभिनिहितश्चायमिति संज्ञायते बुधैः यवत्वे ह्युच्चयोर्यत्र इवर्णोकारयोरपि परतः स्वर्यते नीचः स्वरितः क्षैप्र उच्यते उच्चोत्वान्नीच उत्वे स्यात्प्रश्लिष्टस्सन्धितो यमः अखण्डे सयवो नित्यो नीचपूर्वः स्वयञ्च वा स्थितस्वारस्य चान्त्योऽणुर्नीचः स्यात्प्रवणोत्तरे स्वरद्वयस्य चैकस्मिन् कम्पसंज्ञास्ति दीर्घता क्षैप्रकम्पश्चतुर्धैवमादूदेदैद्भिरुच्यते प्रश्लिष्टो नित्य ऊदाद्भ्यामेङाभिनिहतस्स्मृतः उच्चोर्द्ध्वौ यददीव्यादि त्रिके न कञ्चनेति च उच्चकम्पौ स्थितेङ्रूपौ स्वाराः कम्पाश्च सांहिताः उच्चादुत्तरतो नीचः स्वरितं प्रतिपद्यते स्वारोऽयं प्रचयश्चैव नोदात्तस्वरितोत्तरे स्वारादुपरि नीचानां प्रचयः परिकीर्तितः यस्समानपदे स्वारस्तैरोव्यञ्जन उच्यते पादवृत्तस्तयोर्व्यक्तावन्यः प्रातिहतस्स्मृतः नित्योऽत्युच्चनीचः क्षैप्रस्तत्समो न्यूनतः परः दृढतरप्रयत्नस्स्यान्नित्ये क्षैप्रे च वा दृढः प्रश्लिष्टे चाभिनिहते मृदुता स्वल्पतान्यतः नादानुस्वारयोः पूर्वस्स्वारभागुच्चवत्स्थितः स्वर्येतेऽस्मात्परावेव नादानुस्वारकावपि भक्तिस्वारात्तदङ्गानज् घृतवदृपरे च रः आयपूर्वेऽथ चोच्चः स्याद्भक्तेर्नीचो डधू अधः स्वारश्चारण्यके भक्तेरत्र शीर्षं स्रपूर्वके स्वर्यते चादितो ह्रस्वो दीर्घमध्यं तथैव च संयुतोर्द्ध्वे तु दीर्घश्चेदन्त्यस्वारो भवेत्तदा ऋकारोत्तररेफोर्द्ध्वेऽवसाने दीर्घ एव च यो जटामात्रविद्ब्रह्मसन्धिज्ञो विष्णुरुच्यते ईश्वरस्सर्वसन्धिज्ञ इत्येवर्षिभिरीरितः इति स्वरसन्धिप्रकरणम् N/A References : N/A Last Updated : August 17, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP