संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

ऐक्यप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथैतद्विषयेष्वेकमेदोदितस्त्वसीति च

न गर्भश्च यमोनद्धो भद्रः पूर्वस्त्वसीति च

यवनहेष्वजूर्ध्वेषु ग्नजोर्ध्वोऽकार उच्चकः

मो वचस्स्थे दधानोऽधो अग्नेत्यकार ऐक्यतः

अभ्यावर्तिन्नभिद्रोहमधाय्यपि दधामि च

अदितिश्शर्माग्नेर्जिह्वामग्नयः पप्रयोऽरथाः

अद्यान्वस्माकमरिष्टा अश्माश्वाश्रुतिरव्यथ

अस्मत्पाशानस्मिन् यज्ञे अङ्गिरस्वदथो अदः

अस्तास्मेधत्त चादुग्धा अर्चन्त्यत्रस्थचार्यमन्

अन्तरस्याममापूपमश्यामान्नाय चाकरम्

गाहमानो जायमानो मन्यमानस्स्रिधोऽग्नयः

तपसो भामितो धावः स्पतिभ्यो हेतयः पते

आयोऽध्वर्यो क्रतोऽधश्चेन्नान्य प्रग्रह पूर्वकः

ग्रन्थान्तरेऽप्यनार्षेऽयं स्वेच्छया वर्तते त्विति

इति ऐक्यप्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP