संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा|

यत्वप्रकरणम्

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.



ग्रहे हिरण्यवर्णीये पृष्ठये याज्योख्ययोरपि

नित्याचिनो यमात्पूर्वमीदूत्पूर्वोऽन्त एति रम्

सोमान्यपूर्वन्दुर्यांस्तु मर्त्यान् पोषान्वशानरान्

मधुमानविमान् गोमानमित्रानमृतान्महान्

सो अस्मान् हविष्मान् कक्षीवानिडावांश्च बाणवान्

चिकित्वान् हिपयस्वांश्च विदत्रानुदयान् हि यम्

इन्द्रोमाचोढ्वमीडेन्यान् अप्येत्वकुर्वतादुहत्

अधरान्त्सर्त्वगन्माकरग्रेऽलञ्चादितिः परः

नार्चान् पतङ्गान् यजीयान् समानांश्च तथा यमान्

रश्मीन् हि श्रपयांश्चात्र पदञ्चेदुदथा परः

उक्तौ विधिनिषेधौ च यत्वरत्वे स्वरे परे

विलोमेऽप्येव तौ ज्ञेयौ प्रकृतौ नैव नो हलि

अयवावेदोदायावावैत्वमौत्वं स्वरेऽनति

तत्तस्मादयुतादुत्वात्स्वकालाद्वः पदात्परः

यमिवर्णोऽसवर्णे वमुन्नश्येती मिथुन्यचि

यकारोऽवर्णपूर्वोऽचि ह्यादेशो यदि लुप्यते

न प्लुते प्रग्रहे सन्धिविधिर्यत्वे तु लुप्तके

रोष्मभावात्तु नात्पूर्वं लुप्तान्माच्च तदुत्तरात्

नकाराद्याकृतेर्लुप्तादनुस्वारागमो भवेत्

अनुस्वारो यजुष्येवमध्यायेऽपि यदा भवेत्

तदा गकारसंयुक्तो न शान्तिश्शासरूपरः

इति यत्व प्रकरणम्

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP