संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|व्यास शिक्षा| प्रग्रहप्रकरणम् व्यास शिक्षा संज्ञाप्रकरणम् प्रग्रहप्रकरणम् परिभाषाप्रकरणम् दीर्घप्रकरणम् आगमप्रकरणम् लोपप्रकरणम् वैकृतप्रकरणम् षत्वप्रकरणम् णत्वप्रकरणम् रेफप्रकरणम् विसर्जनीयसन्धिप्रकरणम् यत्वप्रकरणम् अच्सन्धिप्रकरणम् अनैक्यप्रकरणम् ऐक्यप्रकरणम् स्वरधर्मस्वरूपप्रकरणम् स्वरसन्धिप्रकरणम् हस्तस्वरविन्यासप्रकरणम् द्वित्वप्रकरणम् पूर्वागमप्रकरणम् द्वित्वनिषेधप्रकरणम् अङ्गसंहिताप्रकरणम् स्वरभक्तिप्रकरणम् स्थानकरणप्रयत्नप्रकरणम् प्लुतप्रकरणम् ओष्ठ्यप्रकरणम् कालनिर्णयप्रकरणम् उच्चारणफलप्रकरणम् प्रग्रहप्रकरणम् शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत प्रग्रहप्रकरणम् Translation - भाषांतर अथ प्रग्रह एवान्त उच्यतेऽवग्रहो न चेत् ऊकारः स्थित ओकारोऽप्यकारव्यञ्जनोत्तरः स म ह द थ पित्पूर्वो नित्योऽथेदेत् पतीश्रुतिः कार्ष्णी धी चक्षुषी मुष्टी देवता फल्गुनी अमी अहनी श्रपणी हूती सुम्निनी सामनी हरी कल्पयन्ती तपसी नाभ्यैक्षव्यापृषती हुरी रिष्यन्ती वाससी दर्वीं नः पृथिवी व्यचस्वती जन्मनी वैष्णवी द्यावापृथिवी आहुती कृतौ रोदसी चोत्तरः पान्यपरो न्वती च ची प्र यत् न ह्यन्योर्द्ध्वौ समीची ग्नी घ्नी चक्रे पोर्द्ध्व आन्मही ऊर्द्ध्वे शाखे धृते शृङ्गे एने मेध्ये च देवते पार्श्वे एवोत्तरे अक्ते तृण्णे तृद्ये कनीनिके शिप्रे रथन्तरे शस्त्रेऽहोरात्रे चोत्तमे उभे सामे सदोहविर्द्धाने वजेऽधिषवणे शिवे विषुरस्य विरूपे च दृढे ध्वंसदने हुले ॥अर्पिते रैवते पूर्ते भागधे च धृतव्रते अच्छिद्रेऽनृते प्रत्ते अस्मे त्वे इत्यनिङ्ग्यगम् एते वैसं हि तन्वेव यज्ञष्टक् पत्परो द्वयोः द्वे परश्चैकव्यवेतः कृष्णा वीड्द्वार्यदा चराव् स्थः परः पूर्वतो वापि ईदेकारोऽन्त एव च बहुस्वरस्य ते थे च आकारैकारपूर्वकः॥ ॥पूर्णे ब्रह्मजेमे आपस्सजूः क्रूरं तथैषु च एव रसेन गर्भञ्च उपोत्तर इमे तथा ते तूपाहर्नमो गर्भं वायुर्मापैनमभ्यधः ते अस्याचर्क्छन्दस्वोर्वी येऽप्र यङ् क्रान्तरासु च सोमाय स्वेति चैतस्मिन्वरी इत्याद्ययं परः इरावती प्रभृत्यैव दाधारान्तस्तथैव च कुर्यादिष्टिष्वग्निं गानूद्भवतोऽवान्तराकरोत् आस्तां गमयतोऽब्रूतां स्तभ्नीतां बिभृतस्त च वाचयत्यप्युभाभ्याञ्च ताभ्यामेव तनू यदा प्रवर्तपर आषष्ठात्सदा प्रग्रहकार्यभाक् नातेऽवेऽन्हे धत्तेर्याते ग्रामी ज्ञे वर्चसी थुनी लोके रुन्धे मासे नित्यं पस्थे नीचस्त उर्वशी प्रग्रहेङ्ग्योपसर्गान्त इति स्यादप्यसांहिते पुनस्त्विङ्ग्यं क्रमे चादिर्विरामस्थं द्विधैक्यतः नोपसर्गोऽवसानस्थो निहतश्च द्वयोरधः अवानस्त्रिषु मध्यस्थोऽवग्रहो न क्रमे तु च इति प्रग्रहप्रकरणम् N/A References : N/A Last Updated : August 17, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP